Comparison of verbs from VCP and SKD dictionaries.

March 03 2020

Match 0001: vcp=अंश, skd=अंश

vcp

k1=अंश, L=4
अंश¦ विभाजने अद० चु० उभ० । अंशयति ते आंशिशत् त ।
अङ्कापयतीतिवत् आपुकि अंशापयतीत्येके । अच् अंशः
उ--अंशुः णिनि अंशी क्त अंशितः ।


skd

k1=अंश, L=5
अंश¦, त् क विभाजने । अंशकरणे । इति कविकल्प-
द्रुमः । तालव्योपधः । विभाजन इति भाज त् क तु
पृथक्कृत्यां इत्यस्य रूपं । अंशयति अंशापयति
धनं वणिक् । इति दुर्गादासकृतधातुदीपिका ॥


Match 0002: vcp=अंस, skd=अंस

vcp

k1=अंस, L=24
अंस¦ विभाजने अद० चु० उभ० अंसयति ते आंसिसत् त ।
आपुकि अंसापयतीत्येके । वि + विश्लेषकरणे प्रच्यावने च
“व्यंसयामास तत् सैन्यमिति” भारतम् । अच् अंसः ।


skd

k1=अंस, L=21
अंस¦, त् क विभाजने । अंशकरणे । इति कवि-
कल्पद्रुमः ॥ दन्त्योपधः । विभाजन इति भाज
त् क तु पृथक्कृत्यां इत्यस्य रूपं । अंसयति
अंसापयति धनं वणिक् । इति दुर्गादासः ॥


Match 0003: vcp=अक, skd=अक

vcp

k1=अक, L=41
अक¦ वक्रगतौ भ्वा० प० घटादि । अकति आकीत् । अकयति ।


skd

k1=अक, L=32
अक¦, म वक्रगतौ । कुटिलगमने । इति कविकल्प-
द्रुमः ॥ म अकयति अकति सर्पः । इति दुर्गा-
दासः ॥


k1=अक, L=33
अक¦, इ क लक्ष्मणि । इति कविकल्पद्रुमः । लक्ष्म
चिह्नयुक्तकरणं । इ क अङ्कयति वस्त्रं रजकः ।
नोपधपाठेऽपि ञेर्नित्यत्वाद्धसुङ्नलोपोऽनावित्य-
स्याप्राप्तौ यगादौ अङ्क्यते इत्यादौ सिद्धे इदित्
पाठश्चरादेर्ञेरनित्यत्वज्ञापनार्थः । तेन अङ्कतीत्यपि
स्यात् । तथाच वोपदेवः ।
“सिद्धे नित्यणिजन्तत्वान्नित्यनुन्त्वे कितामिदित् ।
निजनित्यत्वबोधार्थं न दृष्टोऽनुम्बिधिःक्वचिदिति” ॥
अस्यार्थः । कितां कानुबन्धानां नित्यणिजन्तत्वा-
न्नित्यञ्यंन्तत्वान्नित्यनुन्त्वे नित्यनकारवत्त्वे सिद्धे
इदित् इदनुबन्धकरणं णिचो ञेरनित्यत्वबोधार्थं ।
किन्तु अनुम्बिधिर्नकाराभावः क्वचिदपि न दृष्टः ।
इति दुर्गादासः ॥


k1=अक, L=34
अक¦, इ ङ गत्यां । लक्ष्मणि । इति कविकल्पद्रुमः ॥
इ अङ्क्यते । ङ अङ्कते पुण्यतीर्थेषु वृषयुग्मान्यश-
ङ्कितः । इति हलायुधः ॥ इति दुर्गादासः ॥


Match 0004: vcp=अक्ष, skd=अक्ष

vcp

k1=अक्ष, L=113
अक्ष¦ व्याप्तौ संहतौ च भ्वा० प० वेट् । अक्षति अक्ष्णोति
आक्षीत् आष्टाम् आक्षिष्टाम् आनक्षे । क्त अष्टः क्तिन्
अष्टिः शतृ अक्ष्णुवन् इ अक्षि--कनिन् अक्ष ।


skd

k1=अक्ष, L=103
अक्ष¦, न ऊ व्याप्तौ । संहतौ । इति कविकल्पद्रुमः ।
न अक्ष्णोति धनं लोकः । व्याप्नोति राशीकरोति
वा इत्यर्थः । ऊ आक्षिष्टां । आष्टां । इति
दुर्गादासः ।


k1=अक्ष, L=104
अक्ष¦, ऊ व्याप्तौ । संहतौ । इति कविकल्पद्रुमः ।
अक्षति धनं लोकः । व्याप्नोति राशीकरोति वा
इत्यर्थः । ऊ आक्षिष्टां । आष्टां । इति दुर्गादासः ॥


Match 0005: vcp=अग, skd=अग

vcp

k1=अग, L=210
अग¦ वक्रगतौ भ्वादि० पर० घटादि । अगति आगीत् । अगयति ।


skd

k1=अग, L=180
अग¦, म वक्रगतौ । कुटिलगमने । इति कवि-
कल्पद्रुमः ॥ म अगयति अगति सर्पः । इति
दुर्गादासः ॥


k1=अग, L=181
अग¦, इ गतौ । इति कविकल्पद्रुमः ॥ गत्यां इ
अङ्ग्यते । इति दुर्गादासः ॥


Match 0006: vcp=अघ, skd=अघ

vcp

k1=अघ, L=437
अघ¦ पापकरणे अदन्तचुरा० उभय० अक० । अघयति--ते ।
आजिघत् त । अच्--अघम् अघः ।


skd

k1=अघ, L=313
अघ¦ इ ङ् गतौ (अघि गतौ कर्म्मणि लट् ते इदितो
नुम् धातोरिति पाणिनिसूत्रेण नुम् अङ्घ्यते ।
कर्त्तरि लट् ते अङ्घते) । निन्दायां । आरम्भे ।
जवे । इति कविकल्पद्रुमः ॥ जवो वेगगतिः । इ
अङ्घ्यते । ङ अङ्घते वायुर्वेगेन गच्छतीत्यर्थः ।
जवे एव कैश्चित् पठ्यते । इति दुर्गादासः ॥


k1=अघ, L=314
अघ¦ त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ तत्-
कृतिः पापकृर्तिः । अघयति व्याधः । कर्म्मणो-
ऽर्थमध्यपाठादकर्म्मकोऽयं । तथा च, --
“धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेरविवक्षातः कर्म्मणोऽकर्म्मिका क्रिया” ॥
इति गोयीचन्द्रः ॥ धात्वर्थेन सह कर्म्मण उप-
सङ्ग्रहादित्यर्थः । क्रमेणोदाहरणानि । नदी
वहति क्षरतीत्यर्थः । अघयति व्याधः । भवति
घटः । आहते जनः । इति दुर्गादासः ॥


Match 0007: vcp=अङ्क, skd=अङ्क

vcp

k1=अङ्क, L=462
अङ्क(न्क)¦ संख्याकरणे चिह्रयुक्तकरणे अदन्तचुरादि० उभ०
सक० सेट् । अङ्कय--ति ते आञ्चिक--त्--त । अङ्का-
पयति ते इति केचित् । “प्रेयांसमाङ्कयदसौ न विधौ
कलङ्क” इत्युद्भटः । “पुक् चेत्यङ्कापयत्यपीति” काम-
धेनुः । अच् अङ्कः । क्त अङ्कितः ल्युट् अङ्कनम्
असुन् अङ्कः ।


skd

k1=अङ्क, L=325
अङ्क¦ त् क पदे । लक्ष्मणि । इति कविकल्पद्रुमः ॥
कण्ठ्यवर्गाद्योपधः । पदं सङ्ख्यासंस्थानं । लक्ष्म
चिह्नयुक्तक्रिया । तथा च, --
“अर्थक्रियैव धातूनां कर्तृव्यापारलक्ष्मणा ।
आत्मनिष्ठं क्रियार्थत्वं धात्वर्थेष्वक्रियात्मसु” ॥
इति वोपदेवः ॥
“अङ्कयत्यरिसैन्यानि युधि पृष्ठेषु शायकैः” ।
इति हलायुधः ॥ अङ्कयति अङ्कापयति । इति
दुर्गादासः ॥


Match 0008: vcp=अङ्ग, skd=अङ्ग

vcp

k1=अङ्ग, L=499
अङ्ग¦ चिह्नयुक्तकरणे अदन्तचुरादि उभय० सकर्म्मकः सेट् ।
अङ्गय--ति ते आञ्जिग--त् त । मतान्तरे अङ्गापयति ते ।


skd

k1=अङ्ग, L=348
अङ्ग¦, त् क पदे । (अङ्गयति चेष्टयति अङ्ग + णिच्
अच् ।) लक्ष्मणि । इति कविकल्पद्रुमः ॥ कण्ठ्य-
वर्गतृतीयोपधः । पदं सङ्ख्यासंस्थानं । लक्ष्म
चिह्नयुक्तक्रिया । तथा च ।
अर्थक्रियैव धातूनां कर्तृव्यापारलक्ष्मणा ।
आत्मनिष्ठं क्रियार्थत्वं धात्वर्थेष्वक्रियात्मसु ॥
इति बोपदेवः । अङ्गयति अङ्गापयति, इति
दुर्गादासः ॥


Match 0009: vcp=अच, skd=अच

vcp

k1=अच, L=604
अच¦ अविस्पष्टकथने गतौ च उभय० भ्वादि० सक० सेट् क्त्वा
वेट् । अचति ते । आचीत् आचिष्ट । क्त अक्तः क्त्वा
अचित्वा--अक्त्वा “स्वाहायज्ञमित्यङ्गुली अचते” इति
कात्या० । “अचतेसङ्कोचयति” इति वेददीपः ।


k1=अच, L=605
अच(अन्चु)¦ गतौ पूजायाञ्च प० सक० सेट् । तत्र अच
इदित् ञोदिच्च (अन्चु) अव्यक्तशब्दे च । अञ्चति आञ्चीत्
अन्चु--गतौ अच्यात् पूजायामञ्च्यात् । क्त अक्तः
पूजायामुभयोः अञ्चितः अचि--वर्त्तमाने क्त अञ्चितः ।
अन्चु--क्त्वा अञ्चित्वा--अक्त्वा अचि--अञ्चित्वा । “अयमञ्चति
पञ्चशरानुचर” इति सा० टी० । प्र + प्रकर्षे पूर्ब्बदिक्-
कालवृत्तौ च प्राञ्चति प्राङ्(पूर्ब्बकालः) प्राची (पूर्ब्बा दिक्)
परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, वहिर्भावे च
[Page0082-b+ 38]
पराञ्चति (परागच्छति) पराङ् (वाह्यः) । अप +
अपसरणे अपाञ्चति । सम् + सुन्दरगमने, यथोचित-
गमने च समञ्चति सम्यङ् । अनु + पश्चाद्गतौ । अन्व-
ञ्चति अन्वङ् । उद् + ऊर्द्ध्वगमने, उत्तरदिग्वृत्तौ च
उदञ्चति (उद्गच्छति) “उदञ्चद्रोमाञ्चमिति” उदङ् देशः
उदीची (उत्तरा दिक्) । परि + समन्ताद्गतौ । पर्य्यञ्चति ।
प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्त्तित्वे च प्रत्यञ्चति
(प्रतीपं गच्छति) । प्रत्यङ्, प्रतीची (पश्चिमा दिक्) । आत्मनि
व्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषय-
व्यापकत्वात् प्रत्यक्त्वम् । नि + न्यूनीभावे न्यञ्चति न्यङ्
न्यग्भावः न्यक्कारः । अव + अधोगतौ, दक्षिणदिग्वृत्तौ
च । अवाञ्चति अवाङ् (अघोमुखः) अवाची (दक्षिणा दिक्)
यथा च उत्तरदक्षिणयोः ऊर्द्धाघोभावस्तया अवाक्शब्दे
वक्ष्यते ।


k1=अच, L=606
अच¦ गतौ पूजायाम् इदित् उभ० सक० सेठ् क्त्वा वेट् ।
अञ्चति ते आञ्चीत् आञ्चिष्ट । क्त्वा अङ्क्त्वा--अञ्चित्वा ।
उपसर्गात् अन्चुवत् । “न्यञ्चते प्रत्यहं मोहो यस्मान्न्यञ्चन्ति
चारय” इति कविर० ।


skd

k1=अच, L=432
अच¦ इ पूजायां । इति कविकल्पद्रुमः ॥ इ अ-
ञ्चते । अञ्चु गतिपूजनयोरिति पूजार्थो यः स
एवायं । इदित् पाठः पूजायां नलोपाभावात् ।
उदनुबन्धाभावश्च क्षुधवसपजार्थाञ्चेत्यादिना क्त्वा-
प्रत्ययस्य निष्ठायाश्च नित्येम्बिधानात् । इति दुर्गा-
दासः ॥


k1=अच, L=433
अच¦ इ ञ गतौ । म्लिष्टोक्तौ । इति कविकल्प-
द्रुमः ॥ इ अञ्च्यते । ञ अञ्चति अञ्चते । इति
दुर्गादासः ॥


k1=अच, L=434
अच¦ उ ञ गतौ म्लिष्टोक्तौ । इति कविकल्प-
द्रुमः ॥ अचति अचते । उ अचित्वा (उदितो
वा इतीडभावपक्षे) अक्त्वा । म्लिष्टोक्तिरव्यक्त-
शब्दः । इति दुर्गादासः ॥


Match 0010: vcp=अज, skd=अज

vcp

k1=अज, L=664
अज¦ षतौ क्षेपणे च भ्वादि० पर० सक० सेट् । अजति ।
अवैषीत्--आजीत् । तृच् अजिता--वेता । घञ् ।
आजः । “अजन्ति वह्निं सदनान्यच्छ” इति वेदः ।


k1=अज, L=665
अज¦ दीप्तौ इदित् चुरादि० उभय० सेट् अक० । अञ्जयति
ते । आञ्जिजत् त ।


skd

k1=अज, L=460
अज¦ क्षेपे । गतौ । इति कविकल्पद्रुमः ॥ अजति ।
इति दुर्गादासः ॥


k1=अज, L=461
अज¦ इक भासि (अजि दीप्तौ चुरा इदित्वान्नुम् ।)
इति कविकल्पद्रुमः ॥ इक अञ्जयति । भासि
दोप्तौ । इति दुर्गादासः ॥


Match 0011: vcp=अट्ट, skd=अट्ट

vcp

k1=अट्ट, L=791
अट्ट¦ अतिक्रमे बधे च भ्वादि० आत्म० सक० सेट् । अट्टते ।
आट्टिष्ट । दोपधोऽयं तेन अट्टिटिषते आट्टिटत् । क्विपि
अत् । टोपधस्य तु आटिट्टिषते अटिट्टत् क्विप् अट् ।


k1=अट्ट, L=792
अट्ट¦ अनादरे चुरादि० उभय० सक० सेट् । अट्टयति ते!
आटिट्टत् ।


skd

k1=अट्ट, L=565
अट्ट¦ ङ अतिक्रमे । वधे । इति कविकल्पद्रुमः ॥
मूर्द्ध्वन्यवर्गाद्योपधः । ङ अटिट्टिषते दन्त्यवर्गा-
द्योपधः । ङ अतिट्टिषते । दन्त्यवर्गतृतीयो-
पधः । ङ अट्टितिषते खलं राजा । इति
दुर्गादासः ॥


Match 0012: vcp=अठ, skd=अठ

vcp

k1=अठ, L=804
अठ¦ गतौ भ्वादि० पर० सक० सेट् । अठति । आठीत् ।


k1=अठ, L=805
अठ¦ गतौ इदित् आ० भ्वादि० सक० सेट् । अण्ठते ।
आण्ठिष्ट ।


skd

k1=अठ, L=578
अठ¦ इ ङ गतौ इति कविकल्पद्रुमः ॥ इ (कर्म्मणि)
अण्ठ्यते ङ अण्ठते । इति दुर्गादासः ॥


k1=अठ, L=579
अठ¦ गते । इति कविकल्पद्रुमः ॥ अठति । इति
दुर्गादासः ॥


Match 0013: vcp=अड, skd=अड

vcp

k1=अड, L=806
अड¦ अद्यमे भ्वादि० पर० सक० सेट् । अडति आडीत् ।


k1=अड, L=807
अड¦ व्याप्तौ स्वादि० पर० अक० सेट् । येद एवास्य प्रयोगः ।
अड्णोति । आडीत् ।


skd

k1=अड, L=580
अड¦ र न व्याप्तौ (स्वादिं सेट् ।) इति कविकल्प-
[Page1-024-c+ 52]
द्रुमः ॥ र वैदिकः । न अड्नोति । इति दुर्गा-
दासः ॥


k1=अड, L=581
अड¦ उद्यमे । (भ्वादिं सेट् परं ।) इति कविकल्प-
द्रुमः ॥ अडति लोकः सुखाय । इति दुर्गादासः ॥


Match 0014: vcp=अण, skd=अण

vcp

k1=अण, L=809
अण¦ शब्दे भ्वादि० पर० अक० सेट् । अणति । आणीत् ।


k1=अण, L=810
अण¦ जीवने दिवा० आत्म० अक० सेट् । अण्यते आणिष्ट ।


skd

k1=अण, L=583
अण¦ रवे । इति कविकल्पद्रुमः ॥ अणति । रवः
शब्दः । इति दुर्गादासः ॥


k1=अण, L=584
अण¦ य ङ जीवने । प्राणने । इति कविकल्पद्रुमः ॥
य ङ अण्यते जनो दुःखेन जीवतीत्यर्थः । इति
दुर्गादासः ॥


Match 0015: vcp=अत, skd=अत

vcp

k1=अत, L=834
अत¦ वन्धने इदित् भ्वा० पर० सक० सेट् । अन्तति । आन्तीत्
“समन्तति कपोत इव गतधिमिति” वेदः ।


k1=अत, L=835
अत¦ बन्धने भ्वादि० पर० सक० सेट् । अतति । आतीत् ।


skd

k1=अत, L=607
अत¦, इ बन्धने (इदित्वात् नुम् भ्वादिं सेट् परं)
इति कविकल्पद्रुमः ॥ अतीति बन्धे । शेषो दीर्घा-
दिरित्यन्यः । अतएव अन्त्यते ईन्त्यते । स्वमते तु
अन्त्यते इन्त्यते । छन्दोऽनुरोधादुभयत्र इकारः ॥
इति दुर्गादासः ॥


k1=अत, L=608
अत¦ ई बन्धने । इति कविकल्पद्रुमः ॥


k1=अत, L=609
अत¦ सातत्यगते । इति कविकल्पद्रुमः ॥ सातत्यगतं
नैरन्तर्य्येण भ्रमणं प्रापणञ्च । अतति वायुः ।
अतति सूर्य्यो गगनं प्राप्नोतीत्यर्थः । इति दुर्गा-
दासः ।


Match 0016: vcp=अद, skd=अद

vcp

k1=अद, L=1112
अद¦ बन्धने भ्वा० पर० इदित् सक० सेट् । अन्दति आन्दीत् ।


k1=अद, L=1113
अद¦ भक्षणे च अदा० पर० सक० अनिट् । अत्ति अव-
सत् जघास अत्ता अत्स्यति । सनि जिघत्सति । क्त--ओदनार्थे
अन्नम् अन्यत्र जग्धम् घञ् घसः--आदः क्तिन् जग्धिः ।
“योऽन्नमत्ति यतस्तत” इति स्मृतिः । “अत्ता चराचर-
ग्रहणादिति” शा० सू० । “किमदन्ति भृङ्गा” इति ।


skd

k1=अद, L=751
अद¦ इ बन्धे । (भ्वादि परस्मैपदी सेट् इदित्) इति
कविकल्पद्रुमः ॥ इ अन्द्यते । इति दुर्गादासः ॥


k1=अद, L=752
अद¦ ल औ भक्षणे (अनिट् परस्मेपदी अदादि ।)
इति कविकल्पद्रुमः ॥ ल अत्ति । औ अत्ता ।
गणकृतमनित्यमिति न्यायात् शपःस्थितौ अद-
तीत्यपीति वररुचिः । इति दुर्गादासः ॥


Match 0017: vcp=अन, skd=अन

vcp

k1=अन, L=1455
अन¦ जीवने अदा० पर० अक० सेट् । अनिति आनीत् । घञ्
आनः, अच्नः, ल्युट् अननम् । आनयति अनिनिषति ।
क्विप् अत् “सर्वं खल्विदं ब्रह्म तज्जलानिति विश्वे च-
नेदना ऋ० ४३०, ३, अना प्राणेनेति भा० छा० उप०
“यद्येष आकाश आनन्दो न स्यात् कोह्येवान्यात्?
कः प्राण्यात्? इति श्रुतिः “प्राणिवस्तव मानार्थमिति”
भट्टिः । प्राद्युपसर्गतोविशेषगत्यर्थता । प्र + प्राग्गतौ, प्राणः
अप + अधोगतौ अपानः, उद् + उर्द्ध्वगतौ उदानः, वि +
आ + विष्वग्गतौ व्यानः, सम् + समन्ताद्गतौ समानः । “यद्वै
प्राणिति स प्राणः यदपानिति सोऽपानः” इति श्रुतिः ।
जीवनं च प्राणधारणं तेन धात्वर्थगृहीतकर्मकत्वादकर्मकः
यस्य संयोगात् देहनिर्म्माणमित्युक्तमधिष्ठानशब्दे । उप-
सर्गनिमित्तात् हलन्तत्वेऽप्यस्य णत्वं प्राण् ।


k1=अन, L=1456
अन¦ जीवने दिवा० आत्म० अक० सेट् । अन्यते आनिष्ट ।


skd

k1=अन, L=926
अन¦ घ लु प्राणने । जीवने । इति कविकल्पद्रुमः ॥
घ लु अनिति लोको जीवति इत्यर्थः । इति दुर्गा-
दासः ॥


k1=अन, L=927
अन¦ ङ य प्राणने । जीवने । इति कविकल्पद्रुमः ॥
य ङ अन्यते । इति दुर्गादासः ॥


Match 0018: vcp=अन्ज, skd=अन्ज

vcp

k1=अन्ज, L=2186
अन्ज¦ गतौ कान्तौ म्रक्षणे व्यक्तौ च रुधा० वर्त्तमाने क्त
ऊदित् वेट् पर० । अनक्ति । सिचि परस्मैपदे नित्यमिट् ।
आञ्जीत्--आनञ्ज । अञ्जिता--अङ्क्ता । अञ्जिष्यति--ङ्क्ष्यति ।
क्त अक्तः । क्तिन् अक्तिः । क्त्वा--अक्त्वा अञ्जित्वा । वि + प्रका-
शने । व्यनक्ति व्यज्यते “व्यनक्ति कालत्रितयेऽपि योग्यता-
मिति” माघः । घञ् व्यङ्गः । ण्यत् व्यङ्ग्यः । “सव्यङ्ग्य-
मुत्तमं काव्यमिति” । णिच् । व्यञ्जयति ल्युट् । व्यञ्ज-
[Page0195-a+ 38]
नम् । “अन्यार्थधीकृत् व्यापृतिरञ्जनम्” का० प्र० ।
कर्त्तरि ल्यु । व्यञ्जना एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधा-
श्रयेति” सा० द० ।


skd

k1=अन्ज, L=1217
अन्ज¦ उ ध ञि व्यक्तौ । गतौ । म्रक्षणे । इति कवि-
कल्पद्रुमः ॥ उ अञ्जिष्यति अङ्क्ष्यति । ध अनक्ति ।
ञि अक्तोस्ति । व्यक्तिः स्फुटीकरणं ।
“शरीरभाजां भवदीयदर्शनं
व्यनक्ति कालत्रितयेऽपि योग्यतां” ।
इति माघः ॥ अनक्ति गात्रं तैलेन जनः । इति
दुर्गादासः ॥


Match 0019: vcp=अब, skd=अब

vcp

k1=अब, L=3136
अब¦ शब्दे इदित् भ्वादि० आत्म० सक० सेट् । अम्बते
[Page0269-a+ 38]
आम्बिष्ट अम्बा अम्बाला अम्बिका अम्बरम् अम्बष्ठः ।


skd

k1=अब, L=1597
अब¦ इ ङ शब्दे । इति कविकल्पद्रुमः ॥ इ अम्ब्यते ।
ङ अम्बते अम्बांपुत्त्रः । इति चतुर्भुजः दुर्गादासश्च ॥


Match 0020: vcp=अभ्र, skd=अभ्र

vcp

k1=अभ्र, L=3722
अभ्र¦ अतौ भ्वादि० पर० सक० सेट् । अभ्रति आभ्रीत् आनभ्र
अभ्रम् “तेष्वसौ दन्दशूकारिर्वनेष्वानभ्र निर्भयः” भट्टिः ।


skd

k1=अभ्र, L=1803
अभ्र¦ गत्यां । इति कविकल्पद्रुमः ॥ ओष्ठवर्गचतु-
[Page1-080-b+ 52]
र्थोपधः । अभ्रति । इति दुर्गोदासः ।


Match 0021: vcp=अर्घ, skd=अर्घ

vcp

k1=अर्घ, L=4368
अर्घ¦ मूल्ये भ्वादि० पर० सक० सेट् । अर्घति आर्घीत् ।
आनर्घ । अर्घः । अर्घ्यः ।


skd

k1=अर्घ, L=2179
अर्घ¦, मूल्ये, (भ्वादि -- परं -- सकं सेट् ।) इति
कविकल्पद्रुमः ॥ अर्घति गां गोपः । इति दुर्गा-
दासः । (“परीक्षका यत्र न सन्ति देशे नार्घन्ति
रत्नानि समुद्रजानि” । इति पञ्चतन्त्रे ।)


Match 0022: vcp=अर्च, skd=अर्च्च *

vcp

k1=अर्च, L=4372
अर्च¦ पूजायाम् उभ० भ्वादि० सक० सेट् । अर्चति ते आर्चीत्
आर्च्चिष्ट । आनर्च--र्चे “पितॄश्चैवाष्टकास्वर्च्चेत्” मनुः ।
“एवं हि सर्वभूतानि ब्राह्मणोनित्यमर्चति” मनुः ।
“रत्नपुष्पोपहारेण छायामानर्च पादयोः” रघुः
“वृन्दिष्ठमार्च्चीद्वसुधाधिपानाम्” “समीहे मर्त्तुमानर्चे
तेन वाचाऽखिलं बलम्” । “आर्च्चीत् द्विजातीन् पर-
मार्थविन्दान्” “प्रानर्च्चुरर्च्यं जगदर्चनीयम्” “विप्रानर्चं-
स्तथा स्तुवन्” इति च भट्टिः अर्चिः अर्चकः अर्चितः
अर्चितवान् अर्चितुम् अर्चित्वा ।


k1=अर्च, L=4373
अर्च¦ पूजायां चुरा० उभ० सक० सेट् । अर्चयति ते आर्चि-
चत् त । अर्चयामास । “दूरस्थमार्चयेदेनम् मनुः ।
“स्वर्गौकसामर्चितमर्चयित्वा” कुमा० ।


skd

k1=अर्च्च, L=2184
अर्च्च¦, क, पूजे । (चुरादि -- सक -- सेट् ।) इति
कविकल्पद्रुमः ॥ क अर्च्चयति । गोवर्द्धनस्त्विम-
मात्मनेपदिनं मत्वा विभ्राजसे मकरकेतनमर्च्च-
यन्तीत्यादि स्खलितमित्याह । इति दुर्गादासः ॥


k1=अर्च्च, L=2185
अर्च्च¦, ञ, पूजे । (भ्वादि -- सक -- सेट् ।) इति कवि-
कल्पद्रुमः ॥ ञ अर्च्चति अर्च्चते । इति दुर्गादासः ॥


Match 0023: vcp=अर्ज्ज, skd=अर्ज्ज

vcp

k1=अर्ज्ज, L=4389
अर्ज्ज¦ संस्कारे चुरा० उभ० सक० सेट् । अर्ज्जयति ते आर्जि-
जत् त । “अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्ज्जयेत्”
स्मृतिः “परस्वान्यर्जयन्नारीरन्यदीयाः परामृशन्”
भट्टिः । अर्ज्जयितुम् अर्ज्जयित्वा ।


skd

k1=अर्ज्ज, L=2195
अर्ज्ज¦, अर्ज्जने । (भ्वादि -- परं -- सकं सेट् ।) इति
कविकल्पद्रुमः ॥ अर्ज्जनमलब्धस्य लाभः । यश-
श्चार्ज्जति यः स्थिरमिति हलायुधः । इति
दुर्गादासः ॥


k1=अर्ज्ज, L=2196
अर्ज्ज¦, क संस्कारे (चुरादि -- उभं -- सकं -- सेट् ।)
इति कविकल्पद्रुमः ॥ क अर्ज्जयति किमपि
लोकः संस्करोतीत्यर्थः । प्रतियत्ने प्राञ्चः । अर्ज्ज
यति धनं परिजनः । इति रमानाथः । इति
दुर्गादासः ॥


Match 0024: vcp=अर्थ, skd=अर्थ

vcp

k1=अर्थ, L=4412
अर्थ¦ याचने अद० चु० आत्म० द्विक० सेट् । अर्थयते आर्त्तिथत ।
अर्थयामास । अर्थकः अर्थी अर्थितः अर्थ्यः अर्थनीयः अर्थ-
यितुम् अर्थनम् अर्थना । अर्थयित्वा अर्थयिता
“सुराः सपभ्यर्य्ययितार एते” कुमा० । “अवकाशं किलो-
[Page0367-a+ 38]
दन्यान् रामायाभ्यर्थितो ददौ” रघुः “अग्लोपित्वं स्थानिवत्त्वं
चादन्तस्य प्रयोजनम् यत्र त्वेते न विद्येते तत्राग्लोपविक-
ल्पनम् । तद्बलादन्त्यदीर्घश्च पुक् चेत्यङ्कापयत्यपि” कामधेनूक्तेः
पुक्--दीर्घश्च अर्थापयते । सम् + समर्थने सममर्थयते सम-
र्थनञ्च प्रमाणेन व्यवस्थापनम् । कु पीडने कदादेशः कदर्थयते ।
अभि + आभिमुख्येन प्रार्थने अभ्यर्थनीयः । “अभ्यर्थनाभङ्ग-
भयेन साधुः” कुमा० । प्रति + प्रतिकूलाचरणे प्रत्यर्थी ।
“प्रत्यर्थीभूतामपि तां समाधेः” कुमा० ।


skd

k1=अर्थ, L=2217
अर्थ¦ त् क ङ याचने । इति कविकल्पद्रुमः ॥ ङ
अर्थयते अर्थापयते । प्रार्थयत्यल्पमूल्यानीत्यादौ
प्रार्थनं प्रार्थः पश्चात् प्रार्थं करोति इति ञौ
परस्मैपदं । इति दुर्गादासः ॥


Match 0025: vcp=अर्द्द, skd=अर्द *

vcp

k1=अर्द्द, L=4467
अर्द्द¦ पीडने भ्वादि० उभ० सक० सेट् । अर्द्दति ते आर्द्दीत्
आर्द्दिष्ट । “रक्षःसहस्राणि चतुर्द्दशार्दीत्” रघुः । आनर्द्द
अर्द्दकः अर्द्दी अर्द्दित्वा अर्द्दितः । अति--अतिपीडने ।
अत्यर्द्दितः अभि + आभिमुखेन पीडने । “अभेश्वाविदूर्य्ये”
पा० उक्तेः सामीप्ये च अभ्यर्ण्णः समीपवर्त्ती “कालोभ्यर्ण्ण
जलागमः” सा० द० । अन्यत्र अभ्यद्दितः । निस् + निर्
[Page0373-b+ 38]
+ वा--भृशपीडने । “सोऽस्यायं पराङेव प्राणो निरर्दति”
शत० व्रा० । वि + विशेषेण पीडने “तद् या ऊर्म्मी व्यर्द्दतः
पशौ वा पुरुषे वा” शत० व्रा० । सम् + समर्ण्णः नि +
न्यर्ण्णः वि + व्यर्ण्णः ।


k1=अर्द्द, L=4469
अर्द्द¦ बधे चुरा० उभय० सक० सेट् । अर्द्दयति ते आर्द्दि-
दत् त । “येनार्द्दिदत् दैत्यपुरं पिनाकी” भट्टिः ।
“अव्यर्ण्णो गिरिकूटाभानभ्यर्ण्णानार्द्दिदत् द्रुतम्” भट्टिः ।
सम् + सम्यक्पीडने “यन्तारमस्य सहसा त्रिभिर्वाणैः समा-
र्द्दयत्” भा० व० प० प्रति + प्रतिरूपपीडने यस्य यत्कर्त्तृकं
पीडनं तेनैव पुनस्तस्य पीडने “प्रत्यर्द्धयत संक्रुद्धो राघवः
पुनराहवे” रामा० ।


skd

k1=अर्द, L=2233
अर्द¦ यातनागतियाचनेषु । (गतौ, सकं पीडायां अकं
भ्वादि परं सेट् ।) इति कविकल्पद्रुमः ॥ यातना
ताडनं । अर्द्दति पुत्रं पिता । “शरद्घनं नार्द्दति
चातकोऽपि” । न याचतीत्यर्थः । इति दुर्गादासः ॥


k1=अर्द, L=2234
अर्द¦ ञ बधे । (चुरां-उभं-सकं-सेट् ।) इति कविकल्प-
द्रुमः ॥ ञ अर्द्दति अर्द्दते । “रक्षःसहस्राणि चतुर्द्द-
शार्द्दीत्” । अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥


k1=अर्द, L=2235
अर्द¦ क बधे । इति कविकल्पद्रुमः ॥ क अर्द्दयति ।
अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥


Match 0026: vcp=अर्ब, skd=अर्ब्ब *

vcp

k1=अर्ब, L=4545
अर्ब(र्व)¦ हिंसने भ्वादि० पर० सक० सेट् । अर्ब(र्व)ति
आर्बी(र्वी)त् आन(र्ब)र्ब ।


skd

k1=अर्ब्ब, L=2269
अर्ब्ब¦, हिंसे । (भ्वादि-परं-सकं-सेट् ।) गतौ । इति
कविकल्पद्रुमः ॥ अर्ब्बति । इति दुर्गादासः ॥


Match 0027: vcp=अर्ह, skd=अर्ह

vcp

k1=अर्ह, L=4578
अर्ह¦ योग्यत्वे भ्वा० पर० अक० सेट् । अर्हति आर्हीत् आनर्ह
लोके, वेदे तु आनर्हे । प्राप्तियोग्यतार्थे गतौ च सक० ।
अर्ही अर्हितः अर्हितुम् अर्हित्वा अर्हणम् अर्हन्
“द्वित्राण्यहान्यर्हसि सोढु मर्हन्!” रघुः । “गुरोर्गुरौ सन्नि-
हिते गुरुवन्मानमर्हति” मनुः । “दण्डमर्हति माषकम्
मनुः । स तस्माल्लब्धुमर्हति” स्मृतिः “तथापि त्वं महा-
बाहो नैनं शोचितुमर्हसि” गीता । क्वचिदस्यात्मनेपदि-
त्वम् व्यत्ययेन । “मलिलं नार्हसे प्राज्ञ! दातुमेषां हि
लौकिकम्” “रावणो नार्हते पूजाम्” इति च रामायणम् ।


k1=अर्ह, L=4579
अर्ह¦ पूजने चुरा० उभ० सक० सेट् । अर्हयति ते आर्जिहत् त ।
“राजार्जिहत्तं मधुपर्कपाणिः” भट्टिः । अर्हयामास ।
अर्हणा अर्हयन् अर्हयितुम् अर्हयित्वा । “स्रग्विणं तल्प-
मामीनमर्हयेत् प्रथमं गवा” मनुः । पूजनं च स्तुतिनति-
प्रभृतिभिः सस्माननम् । अभि + आभिमुख्येन सम्मानने ।
“अभ्यर्हितञ्च” का० वार्त्ति० ।


skd

k1=अर्ह, L=2294
अर्ह¦ योग्यत्वे । (भ्वादिं-परं-सकं-सेट् ।) पूजने ।
इति कविकल्पद्रुमः ॥ अर्हति विप्रो वेदं पठितुं ।
सकर्म्मकोऽपि ।
“यज्ञदानतपांस्यस्य कलां नार्हन्ति षोडशीं” ।
इति दुर्गादासः ॥
(“अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति” ।
इति मनुः ।
“द्वित्राण्यहान्यर्हसि सोढुमर्हन्” ।
इति रघुवंशे ।
“गुरोर्गुरौ सन्निहिते गुरुवन्मानमर्हति” ।
इति मनुः ।)


k1=अर्ह, L=2295
अर्ह¦ क पूजने । (चुरां-उभं-सकं-सेट् ।) इति
कविकल्पद्रुमः ॥ क अर्हयति । इति दुर्गादासः ॥
(“राजार्ज्जिहत्तं मधुपर्कपाणिः” । इति । भट्टि-
काव्ये ।)


Match 0028: vcp=अष, skd=अष

vcp

k1=अष, L=5610
अष¦ दीप्तौ अक० गतौ, ग्रहणे च सक० भ्वा० उभ० सेट् ।
अषति ते आषीत् आषिष्ट ।


skd

k1=अष, L=2872
अष¦ ञ् (भ्वादिं-उभं-सकं-सेट् ।) दीप्तौ । ग्रहणे ।
गतौ । इति कविकल्पद्रुमः ॥ ञ् अषति अषते ।
इति दुर्गादासः ॥


Match 0029: vcp=अस, skd=अस

vcp

k1=अस, L=5694
अस¦ दीप्तौ अक० ग्रहणे गतौ च सक० भ्वादि० उभ० सेट् । असति ते
आसीत् आसिष्ट । “लावण्य उत्पाद्य इवास यत्नः” कुमा० ।


k1=अस, L=5695
अस¦ विद्यमानतायाम् अदा० अक० पर० सेट् । अस्ति स्तः
सन्ति असि स्थःस्थ अम्मि स्वः स्मः । स्यात् स्युः । अस्तु
स्ताम् सन्तु एधि--असानि । आसीत् । अस्य असार्व्वधातुके
भ्वादेशः । तेन भूधातुवद्रूपम् । विद्यमानता च काल
संबन्धधारणं तदुक्तं हरिणा “आत्मानमात्मना बिभ्रदस्ती-
व्यवदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्म्मकः”
“अस्त्युत्तरस्यां दिशि देवतात्मा” कुमा० यच्चावहासार्थम
सत्कृतोऽसि गीता” “प्रपन्नोऽत्मि स्वैरं रतिरसमहानन्दनिर-
ताम्” श्यामास्तवः । “स्याद्वा संख्यावतोऽर्थस्य समुदायो-
ऽभिधायकः” फणिभा० “स्यातामसित्रे मित्रे च सहज
[Page0527-a+ 38]
प्राकृतावपि” माघः कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो
वराः” मनुः “दिनेदिने त्वं तनुरेधि रेऽधिकम्” नैष० “आसी-
दिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः । “नत्वेवाहं जातु
नासमिति” गीता । सन् सन्तौ सन्तः । “सदेव सोम्येदमग्र
आसीत्” छा० उ० “योऽन्यथा सन्तमात्मानमन्यथा प्रति-
पद्यते” मनुः । “नासतोविद्यततेऽभावोनाभावो विद्यते सतः”
गीता स्त्रियां ङीप् “सती सती योगविसृष्टदेहा” कुमा०
“सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी हरिः वि +
अति + व्यतिहारे परस्परमेकरूपेण स्थितौ “अन्यो
व्यतिस्ते तु ममापि धर्म्मः” भट्टिः ।


k1=अस, L=5696
अस¦ क्षेपे दिवा० पर० सक० सेट् । अस्यति अस्येत् अस्यतु
आस्यत् आस्थत् आस । असिता--अस्ता असिष्यति ।
अस्यत् अस्यमानः अस्तः । असितुम्--अस्तुम् । असित्वा-
अस्त्वा अभ्यस्य, निरस्य “आरे अस्मद्दैव्यं हेलो अस्यतु” ।
ऋ० १, ११४, ४, “दस्यवे हेतिमस्यार्य्यम्” ऋ० १, १०३, ३,
अति--अतिदूरक्षेपणे “बहुभिश्चैकमत्यस्यन्नेकेन च बहून्
जनान्” भा० अत्यस्तः पा० । वि + अति । वैपरीत्येन स्थापने
“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” मनुः “व्यत्या-
सश्छलयोगतः” स्मृतिः अधि--आरोपे आरोपश्च अतस्मिन्
तद्बुद्धिःअन्योपरिस्थापनञ्च आद्यार्थे “अप्रत्यक्षेऽपि ह्याकाशे
बालास्तलमलिनताद्यध्यस्यन्ति” “आह कोऽयमध्यासोनाम”
उच्यते स्मृतिरूपः परत्रपूर्ब्बदृष्टावभासः” शा० भा० । अनु-
पश्चात् सह वा क्षेपणे अन्वस्तः । “मुञ्जमेखला वल्कलेनान्वस्ता
भवति” शत० ब्रा० । अप--दूरीकरणे “गतिरपास्तसंस्था
मतिः” मालतीमा० “किमित्यपास्याभरणानि यौवने” कुमा० ।
अभि--अभ्यावृत्तौ, “अभ्यस्यन्ति तटाघातं निर्जितैरावता
गजाः” कुमा० “अभ्यासेन तु कोन्तेय! वैराग्येण च
गृह्यते” गीता । “शैशवेऽभ्यस्तविद्यानाम्” रघुः ।
अव--अवक्षेपे “तामवास्यतो गच्छति च सृजम्” शत० ब्रा०
समन्तात्क्षेपे “तामवास्यत्यागच्छति मुदम्” शत० ब्रा०
उद्--ऊर्द्धोत्क्षेपणे “पुच्छमुदस्यति” सि० कौ० । परि + उद्
भिन्नतया बोघने । “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्र-
धानता । पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्” मीमां०
यथा श्राद्धादौ पर्य्युदस्तकालोरात्र्यादिः “अमावास्यायां
पितृभ्योदद्यात्” “रात्रौ श्राद्धं न कुर्वीते” त्युभयोरेकवाक्य-
तया रात्रीतरामावस्यायां श्राद्धं कुर्व्वीतेति हि बोधः तत्र
रात्रिः पर्य्युदस्ता एवमन्यत्रापि । परितःक्षेपणे च “अन्त्याः
सर्वे पर्य्युदस्ता मृषिष्ठिरनिवेशने” भा० स० प० । वि +
[Page0527-b+ 38]
उद्--निवारणे । “चीराणीव व्युदस्तानि रेजुस्तत्र महा-
वने” “रामा० त्वन्तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्यच” ।
भा० स० प० । उप--समीपस्थापने “तस्याधस्त स्तद्बहिरु-
पास्यति चमसेषु” कात्या० १०, ५, नि--अर्पणे “न मद्विधे
न्यस्यति भारमग्र्यम्” । निक्षेपरूपेणार्पणे च “न्यासीकृता
स्थानभिदास्मरेण” कुमा० “राज्यं न्यासमिवाभुनक्” रघुः ।
उच्चारणपूर्ब्बकं तत्र तत्र स्थाने अर्पणीतया ध्याने च ।
“आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् । अङ्कुलि-
व्यापकन्यासौ हृदादिन्यास एव च” तन्त्रम् ।
उप + नि + वाचारम्भणे “उपन्यासस्तु वाङ्मुखम्”
अमरः । प्रथमब्रयोगे च “भूतमप्यनुपन्यस्तं पूर्ब्बंमावेदितं
न चेत् । हीयते व्यवहारेण” स्मृतिः “स तु तत्र विशेष
दुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः” किरा० सम् + नि त्यागे
“व्रीडादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः”
कुमा० विहितकर्म्मणां विधानेन त्यागे च “दशलक्षणकं
धर्म्ममनुतिष्ठन् समाहितः । वेदान्तं विधिवच्छुत्वा सन्यस्ये-
दनृणो द्विजः” मनुः । “न हि संन्यसनादेव सिद्धिं
समधिगच्छति” “मयि संन्यस्य कर्म्माणि” गीता ।
निस्--निर्--निष्ठीवने दूरीकरणे च । निरस्यति “निष्ठीवति
ष्ठिवु निरसने” पा० धातुपा० “निरस्तः परावसुः तृणनि-
रसने भवदेवः “निरस्तगाम्भीर्य्यमपास्तधैर्य्यम्” माघः “निरास
भृङ्गं कुपितेव पद्मिनी” भट्टिः “क्वणदलिकुलनूपुरा
निरासे” किरा० । त्वरितोच्चारणे च “निरस्तं त्वरितो-
दितम्” अमरः ।
परा + निराकारणे “एतेन खण्डनकारमतमपि परास्तम्” चिन्ता०
परि + परावर्त्तनेन स्थापने “मुखेन पर्य्यस्तविलोचनेन” कुमा० ।
“पर्य्यस्यन्निह निचयः सहस्रसंख्याम्” किरा० । अर्पणे
च “ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य” कुमा० । वि--परि--वैप-
रीत्ये, परिवर्त्तने भ्रान्तिज्ञाने च “इतरथा पात्रे वि-
पर्य्यस्येते” शत० ब्रा० । “संशयविपर्य्यासनिवारणेनेति”
चिन्ता० “विपर्य्यासितदर्शनैः” बौद्धका० ।
प्र + प्रक्षेपे “अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्”
मनुः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” गीता ।
अनु + प्र + आनुलोम्येन अनुगततया एकरूपेण निवेशने अनुप्रासः
प्रति + प्रतिरूपक्षेपणे । “तद्यथाऽहिनिर्लयणी वल्मीके मृता प्र-
त्यस्ता शयीत” शत० ब्रा० ।
वि + विशेषरूपेण सम्यगवबोधनाय निवेशने व्यासः विग्रहवाक्यम्
तस्य समस्तवाक्यार्थस्य विशेषेणावबोधहेतुतया निवेशनात्
[Page0528-a+ 38]
तथात्वम् विभागे “विव्याम वेदान् यस्मात् स तस्मात्
व्यास इति स्मृतः” भा० आ० प० । पारावारेतिव्यस्तं समस्तं
विपरीतञ्च” सि० कौ० । व्यस्तः “व्यस्तरात्रिन्दिवस्य ते”
कुमा० पृथक्करणे एवैकशः प्रयीगे व्यस्तः “व्यस्तसम-
स्तमहाव्याहृतिहोमे” भवदेव । निवारणे च “व्यस्यन्नु-
दन्यां शिशिरैः पयोभिः” भट्टिः । विक्षेपे “व्यस्तास्तारा-
गणाइव” भा० ।
वि + नि + अर्पणे । “विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली
विन्यस्ता” सि० मु० “विभागविन्यस्तमहार्घरत्नम्” भट्टिः ।
सम् + संक्षेपे “समासेन निबोधत” पुरा० समस्या । संक्षिप्यन्यसने
यथा पीतम् अम्बरमिति समुदायस्य पीताम्बर इति
संक्षेपेण प्रयोगः समासः । “सर्व्वोऽप्येकदेशोऽह्ना सह सम-
स्यते” वार्त्ति० । “समस्यमानपदार्थातिरिक्तपदार्थबोध-
कत्वं बहुव्रीहित्वमिति सारमञ्जरी । “ससासः षडिबधोब्धैः”
हरिः साकल्ये च समस्तम् “ज्ञानमस्ति समस्तस्य देवीमा०
“व्यस्तसमस्त महाव्याहृति होमे विनि०” भवदे०
संयोजने च समस्य सम्पादयत गुणैरिमाम्” किरा० ।


skd

k1=अस, L=2906
अस¦ इ र् य उ क्षेपे । (दिवां-परं-सकं-सेट् ।) इति
कविकल्पद्रुमः ॥ य अस्यति । उ असित्वा अस्त्वा ।
इर् आस्थत् आसीत् । अस्यमानं महागदा
इति भट्टौ ताच्छील्ये शतुः शानः । इति दुर्गा-
दासः ॥
(“तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः” ।
इति रघुवंशे । (अति) अतिक्रमे । पराभवे ।
“बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान्” ।
इति रामायणे । (वि + अति) उत्ताने ।
“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” ।
इति मनुः । (अप) टूरनिक्षेपे ।
चीरानपास्यज्जनकस्य कन्या
नेयं प्रतिज्ञा मम दत्तपूर्ब्बा” ।
इति रामायणे । (अभि) अभ्यासे ।
“अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः” ।
इति कुमारे । (नि) निक्षेपे । “न मद्विधो न्यस्यति
भारमुग्रम्” । इति भट्टौ । (उप + नि) प्रस्तावे ।
“स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म
यः” । इति किराते । (सं + उप + नि) प्रमा-
णादिना दृढीकरणे ।
“त्वया च मया समुपन्यस्तेष्वपि मन्त्रेष्ववज्ञानं
वाक्पारूष्यञ्च कृतम्” । इति हितोपदेशे । (प्रति
+ नि) स्थापने ।
“तथैवायुधजालानि भ्रातृभ्यां कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्म्म कठिनं च यत्” ॥
इति रामायणे । (निर्) दूरीकरणे । पराभवे ।
“यशांसि सर्व्वेषुभृतां निरास्थत्” ।
“तानर्द्दिददखादीच्च निरास्थच्च तलाहतान्” ॥
इति च भट्टौ । (परि) विस्तृतौ । “पर्य्यस्यन्निह
निचयः सहस्रसंख्यां” । किराते ॥ “ताम्रोष्ठ-
पर्य्यस्तरुचः स्मितस्य” । इति कुमारे ॥ पातने च ।
“दासौघटमपां पूर्णं पर्य्यस्येत् प्रेतवत् सदा” ।
इति मानवे ॥ (सम्) संयोगे । एकत्र संश्लेषे ।
यथा, --
“सर्व्वोऽप्यवयवोऽह्ना समस्यते ।”
“अव्ययं समर्थेन सह समस्यते ॥”
इति च पाणिनिः ॥ इत्यादिः ॥


Match 0030: vcp=अह, skd=अह

vcp

k1=अह, L=6090
अह¦ गतौ आत्म० भ्वा० सक० इदित् सेट् । अंहते आंहिष्ट ।
आनंहे “आनंहिरेऽद्रिं प्रति चित्रकूटम्” “आंहि-
षातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः” भट्टिः । रि अंह्रिः पादः
असुन् अंहः पापम् । इन् बा० नलुक् । अहिःसर्पः
केदारश्च । “एवा त इन्द्रोचथमहेम” ऋ० २, १९, ७, वेदे तु
बा० नलुक् । लटः पञ्चानां लिटः पञ्चकादेशे ब्रुवश्चाहादेशः
आह आहतुः आहुः आत्थ आहथुः “इत्याह
भगवान् मनुः” इत्यादौ तु चादिगणपठितं विभक्ति
प्रतिरूपमाहेति ।


k1=अह, L=6091
अह¦ दीप्तौ चुरा० इदित् उभ० अक० सेट् । अंहयति ते आञ्जिहत् त ।


k1=अह, L=6092
अह¦ व्याप्तौ स्वा० प० सक० सेट् । अह्नोति । आहीत् आह ।


skd

k1=अह, L=3093
अह¦ इ क भासे । (उभं-चुरां-अकं-सेट् ।) दीप्ति-
रिति यावत् । इति कविकल्पद्रुमः ॥ इ क अंह-
यति । भासो दीप्तिः । इति दुर्गादासः ॥


k1=अह, L=3094
अह¦ इ ङ गतौ । (भ्वादिं-आत्मं-सकं-सेट् ।) इति
कविकल्पद्रुमः ॥ इ अंह्यते । ङ अंहते । इति
दुर्गादासः ॥


Match 0031: vcp=आछ, skd=आछ

vcp

k1=आछ, L=6502
आछ¦ आयामे (दींर्घविस्तारे) इदित् भ्वादि० पर० सक०
सेट् । आञ्छति आञ्छीत् । आनाञ्छ--आञ्छ
आञ्छिता । कर्मणि आञ्छ्यते । णिच् आञ्छयति ते आञ्चि-
छत्--त । सन् आञ्चिच्छिषति । क्विप् आन् आञ्छौ । च्छ्वो-
रिति सूत्रे अतुकोऽपि ग्रहणमिति आन् आंशौ इत्येके ।
“आञ्छितः आञ्छित्वा “आञ्चेदतिक्षिप्तम्” । “चक्रयोगे-
नाञ्छेदूर्व्वस्थिनिर्गतम्” इति च सुश्रु० ।


skd

k1=आछ, L=3301
आछ¦, इ, आयामे । (भ्वादिं-परं-सकं-सेट् ।) इति
कविकल्पद्रुमः ॥ इत्यादौ द्वित्वाभावः प्रकृति-
भ्रमनिरासार्थः । इ आञ्छ्यते । आयामो दीर्घो-
करणं । आञ्छति कटं शिल्पी । इति । दुर्गादासः ॥


Match 0032: vcp=आन्दोल, skd=आन्दोल

vcp

k1=आन्दोल, L=7014
आन्दोल¦ दोलने मुहुश्चालने अद० चुरा० उभयु० सक० सेट् ।
आन्दोलयति ते आन्दुदोलत् त । क्त आन्दोलितः ।


skd

k1=आन्दोल, L=3499
आन्दोल¦ त् क् दोलने । (अदन्तचुरा ०-उभ ०-अक ०
सेट् ।) इति कविकल्पद्रुमः ॥ आन्दुदोलत् । इति
दुर्गादासः ॥


Match 0033: vcp=आप, skd=आप

vcp

k1=आप, L=7029
आप¦ प्राप्तौ वा चुरा० उभ० पक्षे स्वादि० प० सक० अनिट् ।
आपयति ते आपिपत् त । पक्षे आप्नोति आप्नुतः
आप्नुवन्ति आप्नुयात् आप्नोतु आप्नोत् आप्नुवम् । आपत्
आप आपथुः आपुः आपिथ । आप्ता आप्यात् आप्स्यति
आप्स्यत् । आप्तव्यः आप्यम् आपनीयम् आप्ता
आप्तः आप्तिः आत्वा अवाप्य । क्विप् ह्रखः आपः अपः
अद्भिः । असुन् आपः । शतृ आप्नुवन् ताच्छील्ये चानश्
आप्नुवानः । “अयशोमहदाप्नोति” “इहाग्र्यां कीर्त्ति-
माप्नोति” मनुः । “नत्वेवाधौ सोपकारे कौषीदीं वृद्धिमा-
प्नुयात्” या० स्मृतिः “पुत्रमेवंगुणोपेतं चक्रवर्त्तिन-
माप्नुहि” शकु० “येन श्रेयोहऽमाप्नुयाम्” गीता “स दुष्पा-
पयशाः प्रापत्” रघुः । “शतं क्रतूनामपविघ्नमाप सः”
रघुः । “यदिदं सर्वं मृलुनाप्तम्” श्रुतिः “नानवाप्तमवाप्तव्यं
वर्त्त एव च कर्म्मणि” गीता । कर्म्मणि आप्यते आपि ।
प्रेरणे णिच् । आपयति ते आपिपत् त । सन् ईप्सति
ईप्सितः ।
प्र + प्रकर्षेणाप्तौ प्राप्नोति प्राप्तः प्राप्तिः “अप्राप्तस्य च याप्राप्तिःसंयोगः स उदाहृतः” भाषा० ।
सम् + संपूर्ण्णतायां समाप्तः समाप्तिः समापनम् ।
अव + प्राप्तौ, “अनवाप्तमवाप्तव्यम्” गीता “तपः किलेदं तदवाप्ति साधनं” कुमा० ।
परि + प्रचुरत्वे समर्थत्वे समुदितत्वे पर्य्याप्तः पर्य्याप्तिः ।
“सहि धर्मः सुपर्य्याप्तः सर्वस्य पदवेदने” गीताभा० ।
[Page0740-b+ 38]
“अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्य्याप्त
त्विदमेतेषां बलं भीमाभिरक्षितम्” गीता ।
अनु + प्रा--पश्चात्प्राप्तौ “नदीं गङ्गामनुप्राप्ताः” भा० आ० प० ।
वि + विशेषेण आप्तौ व्याप्तिः व्याप्तः, व्याम्यः व्यापकः व्याप-
नम् “व्याप्तस्य पक्षधर्मत्वधीःपरामर्श उच्यते” । “व्याप्तिः
साध्यवदन्यस्तिन्नसम्बन्ध उदाहृतः” भाषा० । “अस्यात्मनेप-
दित्वमपि स्वाराज्यं प्राप्स्यते भवान्” इति दुर्गादासः ।


skd

k1=आप, L=3505
आप¦ ऌ न औ कि ष्यापने । (चुरा० पक्षे भ्वादि०-
स्वादि० वा-उभ०-पर०-सक०-सेट् ।) इति कवि-
कल्पद्रुमः ॥ ऌ आपत् । न आप्नोति कीर्त्ति-
र्ब्रह्माण्डं । औ आप्ता । कि आपयति आपति ।
स्वराज्यं प्राप्स्यते भवान् । इति गणकृतानित्य-
त्वात् । इति दुर्गादासः ॥ (पालने ।
“स्वे स्वेऽन्तरे सर्व्वमिदमुत्पाद्यापुश्चराचरम्” ।
इति मनुः । (अभि) अभिलाषे ।
“नान्यदत्तमभीप्सामि स्थानमम्ब ! स्वकर्म्मणा ।
इच्छामि तदहं स्थानं यन्न प्राप पिता मम” ॥
इति विष्णुपुराणम् । (प्रति + अव) प्रतिग्रहणे ।
“तां प्रत्यवापुरविलम्बितमुत्तरन्तो
धौताङ्गलग्ननवनीलपयोजपत्रैः” । इति ।
शिशुपालबधे । (प्र) उपगमने ।
“ते च प्रापुरुदन्तन्तं बुबुधे चादिपूरुषः” ।
इति रघुवंशे १० । ६ । इत्यादि ।)


Match 0034: vcp=आस, skd=आस

vcp

k1=आस, L=7853
आस¦ उपवेशनेअदादि० आ० अक० सेट् । आस्ते आस्ताम्
आसते आसीत आस्ताम् आस्स्व आद्ध्वम् आस्त आसत
आसिष्ट आसांबभूव आसामास आसाञ्चक्रे आसिता
आसिष्यते । आसीनः आसितम् आसितवान् आसितुम्
आसिता आस्तिः आसः आसनम् आसना “य आस्ते मनसा
स्मरन्” गीता “दिवि देवास आसते” ऋ० १, २०, २ ।
“आसीतामरणात् क्षान्ता” नासीत गुरुणा सार्द्धं शिला-
फलकनौषु च” इति च मनुः । “सुखितमास्स्व ततः शरदां
शतम्” सा० द० । “निबद्ध्वमाध्वं पिबतात्त शेध्वम्” भट्टिः ।
“जगन्ति यस्यां सविकाशमासत” माघः । “आसिष्ट नैकत्र
शुचा व्यरंसीत्” भट्टिः भावे आस्यते “आस्यतामिति
चोक्तः सन्नासीताभिमुखं गुरोः” मनुः । “इच्छामि नित्य-
मेवाहं त्वया पुत्र । सहासितुम्” भा० व० । अ० “जन-
कोह वैदेह आसाञ्चक्रे” शत० व्रा० १४, ६, १, १ ।
तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः” भट्टिः “कैलास-
शिखरासीनम्” तन्त्रम् “आसीनानां सुरभितशिलं नाभि-
गन्धैर्मृगाणाम्” मेघदू० । “आसितं भाषितं चैव मतं
यच्चाप्यनुष्ठितम्” रामा० । “जृम्भासितादिकृत” सा० द० ।
अधि + अध्यारोहणे सक० । गगनमध्यमध्यास्ते दिवाकरः
काद० “छायामध्यास्य सैनिकाः “ययौ मृगाध्यासित-
शाद्वलानि” इति च रघुः । जम्बूविटपमध्यास्ते
परभृता” विक्रमो० । “आचख्यौ दिवमध्यास्स्व
[Page0878-b+ 38]
शासनात् परमेष्ठिनः” रघुः । अत्राधारस्य कर्म्मता ।
अनु + पश्चादुपवेशनेन सेवने सक० । “अन्वासितमरुन्धत्या
स्वाहयेव हविर्भुजम्” रघुः । “वृतः सखायमन्वास्ते
सदैव धनदं नृपः” भा० स० १० अ० ।
अभि + आभिमुख्येन स्थितौ नैकट्ये च अक० अभ्यासः अ-
भ्यासोयत्ते कपूययोनिमापद्येरन्” छा० उ० ।
उद् + औदास्ये प्रकृतकर्म्मण उपरमे अक० “विधाय वैरं सामर्षे
नरोऽरौ य उदासते” माघः । “उदासीनवदासीनः” गीता
उप + सेवने सक० । “नोपास्ते यश्च पश्चिमाम्” मनुः ।
“उपास्येते हरिहरौ लकारोदृश्यते यतः” वाक्यप० ।
“वायुवच्चानुगच्छन्ति तथा दीनानुपासते” मनुः । “ऋतवस्त-
मुपासते” कुमा० ।
परि + उप + उपासनस्य प्रकर्षार्थे “यथैव क्षुधिता बाला मातरं
पर्य्युपासते” “पितामहं च के तस्यां सभायां पर्य्युपासते”
भा० स० १ अ० । (एनम्) “भुजङ्गाःपर्य्युपासते” कुमा० ।
सम् + उप + सम्यगुपासने सक० । “समुपास्यत पुत्रभोग्यया” रघुः
परि + परितः स्थितौ अक० सम्यक् सेवने सक० । तामेतद्देवाश्च
पर्य्यासते ये चेमे ब्राह्मणाः” शत० ब्रा० ।
सम् + सम्यक् स्थितौ उपवेशने च । “भोगिभोगसमासीनम्”
“पश्चिमां तु समासीनः” मनुः ।


skd

k1=आस, L=3912
आस¦, ञि ङ ल उपवेशने । (अदा ०-आत्म ० अक ०-
सेट् ।) इति कविकल्पद्रुमः ॥ विद्यमानतायां ।
इति तट्टीका ॥
(“आसने भगवानास्तां सहैभिर्मुनिपुङ्गवैः” ।
इति रामायणे १ काण्डे) ञि आसितोऽस्ति । ल ङ
आस्ते सिंहासने नृपः । विद्यमानतायामप्ययं ।
आकाशमास्ते । इति दुर्गादासः ॥ (सम् + अधि)
सम्यगुपवेशने । व्याप्तौ । यथा रघुवंशे, १३ । ५२ ।
“वीरासनैर्ध्यानजुषागृषीणा-
ममी समध्यासितवेदिमध्याः” ।
(अनु) पश्चादुपवेशने । यथा रघौ, २ । २४ ।
“तामन्तिकन्यस्तबलिप्रदीपा-
मन्वास्य गोप्ता गृहिणीसहायः” । इति ।
उपासनायां । यथा रामायणे, --
“ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्” ।
इति ।
(अभि) अभ्यासे । (उत्) उपेक्षायां । यथा माघे ।
२ । ४२ ।
“विधाय वैरं सामर्षे नरोऽरौ य उदासते” ।
इति ।
(उप) समीपोववेशने । यथा मनुः, ४ । १५४ ।
“कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात्” ।
इति ।
बद्धाञ्जलिश्च गुरुसमीपमासीत इति तट्टीका ॥
उपासनायां । यथा, --
“मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते” ।
इति गीतायां १२ । २ । सेवने । यथा, --
“उपासते ये गृहस्था ! परपाकमबुद्धयः” ।
इति मनुः ३ । १०४ । परपाकमुपासते सेवन्ते इति
तट्टीका । (निर्) निरासे । अपसारणे । (प्रति
+ सम्) प्रतिद्वन्द्वितयावस्थाने । “कोऽन्यः प्रति-
समासेत कालान्तकयमादृते” । इति भारतम् ।
इत्यादि ।)


Match 0035: vcp=इ, skd=इ

vcp

k1=इ, L=8054
इ¦ गतौ भ्बादि० पर० सक० अनिट् । अयति ऐषीत् इयाय
इयतुः इयुः इययिथ इयेथ । अयन् इतः इतिः अय-
नम् । आयः इत्वा । “उदयति स्म तदद्भुतमालिभिः”
नैष० “अयमुदयति मुद्राभञ्जनः पद्मिनीनाम्” उद्भटः ।
“उदयति विततोर्द्धरश्मिरज्वौ” माघः । अयञ्च धातः
[Page0909-a+ 38]
कटी गतौ इत्यत्र इ ई इति प्रश्लेषात् लब्धः सि० कौ०


skd

k1=इ, L=4015
इ¦, गतौ । (भ्वादिं-इलपक्षे अदां-परं-सकं-अनिट् ।)
अयति । ल एति । पृथक्पाठसामर्थ्यात् पूर्ब्बो
न लित् । शेषस्तु इन गताविति प्रसिद्धः । यिनो-
ऽच्यणावित्यादिषु ग्रहणमस्यैव । इति दुर्गादासः ॥
(उत् ।) उदये । समुन्नतौ । यथा, --
“उदयति यदि भानुः पश्चिमे दिग्विभागे” इति ।
(अभि + उत् ।) अभ्युदये । समुन्नतौ । सर्व्वेः गत्यर्था
ज्ञानार्थाः प्राप्त्यर्थाश्च इत्यनेन प्राप्त्यर्थेऽप्यस्य बहुलः
प्रयोगः । यथा, -- मनुः ।
“ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्” ।
“अयमेति मन्दं मन्दं कावेरीवारिपावनः पवनः” ।
इति साहित्यदर्पणम् । (अति) अतिक्रमे । परा-
भवे । यथा, हितोपदेशे । १ ।
“अतीत्य हि गुणान् सर्व्वान् स्वभावो मूर्द्धि वर्त्तते” ।
“ततः परं जनस्थानं क्रोशत्रयमतीत्य वै” ।
इति रामायणे । (अनु) अनुकरणम् ।
“धानुरादेशमन्वेति तद्यथा हि तदर्पणः ।
नात्माधीनो मनुष्योऽयं कालं भजति कञ्चन” ॥
इति महाभारते । (अप) अपगमने । पलायने ।
[Page1-201-c+ 52]
“प्रत्यादेशव्यलीकमपैतु ते” । इति शाकुन्तले ।
(सम् + आ) सम्मिलने । “देवाश्चैतान् सभत्यो-
चूर्न्याय्यं वः शिशुरुक्तवान्” । इति मनुः । २ ।
१५२ । इत्यादयो ज्ञेयाः ।)


k1=इ, L=4016
इ¦, ल, स्मृत्यां । (अदां-परं-सकं-अनिट् ।) अधि-
पूर्ब्बोऽयं । अधिग्रहणं अन्यपूर्ब्बस्य । केवलस्य च
प्रयोगनिरासार्थं । एवं सर्व्वत्र । ल अध्येति तव
लक्ष्मणः । इक स्मरणे इति प्रसिद्धोऽयं । इन्व-
दिक इत्यत्रास्यैव ग्रहणम् । इति दुर्गादासः ॥


k1=इ, L=4017
इ¦ ङ ल अध्ययने । (अदा०-आ० -सक० -अनिट् ।)
अधिपूर्ब्बोऽयं । अध्ययनमर्थतः शब्दतश्च गुरुतो
ग्रहणं । ङ ल वेदमधीते विप्रः । इति दुर्गादासः ॥
(“यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः”
इति मनुः । २ । १३७ ।)


Match 0036: vcp=इख, skd=इख

vcp

k1=इख, L=8097
इख¦ गतौ भ्वादि० पर० सक० सेट् । इखति ऐखीत् ।
इयेख ईखतुः । एखिता एखेष्यति ऐखिष्यत् ।


k1=इख, L=8098
इख¦ गतौ इदित् भ्वादि० पर० सक० सेट् । इङ्खति ऐङ्खीत् ।
इङ्खाम्--बभूव--आस--चकार । इङ्खिष्यति । इङ्क्षिता
ऐङ्खिष्यत् । प्रेङ्खन् प्रेङ्खितम् प्रेङ्खणम् ।


skd

k1=इख, L=4054
इख¦, गतौ । (भ्वादिं-परं-सकं-सेट् ।) इति कवि-
कल्पद्रुमः ॥ तृतीयस्वरादिः । एखति । इति
दुर्गादासः ॥


k1=इख, L=4055
इख¦, इ, गतौ । (भ्वादिं-परं-सकं-सेट्-इदित् ।) इति
कविकल्पद्रुमः ॥ तृतीयस्वरादिः । इ, इङ्खते । इति
दुर्गादासः ॥


Match 0037: vcp=इग, skd=इग

vcp

k1=इग, L=8099
इग¦ गतौ इदित् भ्वादि० पर० सक० सेट् । इङ्गति ऐङ्गीत् ।
इखिवत् । इङ्गितम् । “त्वया सृष्टमिदं विश्वं यच्चेङ्गं
यच्च नेङ्गति” भा० व० ४२ अ० । तस्यात्मनेपदित्वमपि
“योऽवतिष्ठति नेङ्गते” यथा दीपोनिपातस्थो नेङ्गते
सोपमा स्मृता” गीता । अत्र स्पन्दनमात्रपरतायाम-
ऽकर्म्मकत्वम् । णिच्--इङ्गयति चालयतीति प्रेरय-
तीति वार्थः । उद्--प्रेरणे “शुनमष्ट्रामुदिङ्गय” ऋ० ४,
५७५७, । सम् + सम्यक् चालने । “पुष्करिणीं समिङ्गयति
सर्व्वतः” ॠ० ४, ७, ७,


skd

k1=इग, L=4056
इग¦, इ, गतौ । (भ्वादिं-परं-सकं-सेट्, इदित् ।) इति
कविकल्पद्रुमः ॥ तृतीयस्वरादिः । इ, इङ्गति
इङ्गितं । इति दुर्गादासः ॥ (यदुक्तं भारते ।
“त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति” ।


Match 0038: vcp=इट, skd=इट

vcp

k1=इट, L=8121
इट¦ गतौ भ्वादि० पर० सक० सेट् । एटति ऐटीत् । इयेठ ईटतुः
“त्वं त्यमिटतो रथमिन्द्रप्रावः सुतावतः” ऋ० १०, १७१, १ ।


skd

k1=इट, L=4074
इट¦ गत्यां । (भ्वादिं-परं-सकं-सेट् ।) इति कवि-
कल्पद्रुमः ॥ एटति । इति दुर्गादासः ॥


Match 0039: vcp=इद, skd=इद

vcp

k1=इद, L=8164
इद¦ ऐश्वर्य्ये इदित् भ्वा० पर० अक० सेट् । इन्दति ऐन्दीत्
इन्दाम्--बभूव आस चकार । इन्द्रः ।


skd

k1=इद, L=4100
इद¦, इ, परमैश्वर्य्ये । (इदित् भ्वादि-परं-सकं-सेट् ।)
इति कविकल्पद्रुमः ॥ इ इन्दते इन्दति इन्द्रः ।
इति दुगर्दासः ॥


Match 0040: vcp=इन्ध, skd=इन्ध

vcp

k1=इन्ध, L=8335
इन्ध¦ दोप्तौ रुधा० आ० अक० सेट् निष्ठायामनिढ् । वर्त्त-
मानेचाऽतोनिष्ठा । इन्धे, इन्धाते, इन्धते, “यं त्वां जनास
इन्धते ऋ० ८, ४, ३ इन्धीत, इन्धाम् । इन्त् स्य इन्ध्वम् ।
ऐन्ध ऐन्धिष्ट इन्धाम्--बभूव । आस चक्रे इन्धिष्यते ऐन्धि-
ष्यत । इन्धितव्यम् । इन्धिता इन्धनम् । इद्धोवर्त्तते ।
क्विप् समित् इन्धानः “अग्निमिन्धानो मनसा वियम् सचेत
मर्त्यः” ऋ० । भावे इध्यते ऐन्धि । “परो यदिध्यते दिवि
छा० उ० तु पदगणव्यत्यासः ।


skd

k1=इन्ध, L=4194
इन्ध¦ ई ध ङ ञि द्युतौ । इति कविकल्पद्रुमः ॥
(रुधां-आत्मं-अकं-सेट् ।) ह्रस्वादिः । ई ञि इन्धो-
ऽस्ति । ङ ध इन्धे । इति दुर्गादासः ॥


Match 0041: vcp=इल, skd=इल

vcp

k1=इल, L=8388
इल¦ शयने अक० गतौ क्षेपे च सक० तुदा० पर० सेट् । इलअति ।
ऐलीतियेलं ईलतुः इलितः इलः ।


k1=इल, L=8389
इल¦ क्षेपणे चुरा० उभ० सक० सेट् । एलयति ते ऐलिलत् त ।
ऐलयीत् ऐलिष्ट “कथं बातमेलयति कथं न रमते मनः”
अथ० १०, ७, ३१ । “आसां देवतानां यांयां कामयते
सा भूत्वेलयति” शत० ब्रा० १०, ३, ८, ८ ।


skd

k1=इल, L=4224
इल¦, श शये, गतौ । क्षेपे । इति कविकल्पद्रुमः ॥
(तुदां -परं -सकं -शयने, अकं -सेट् ।) श इलति ।
शयः शयनं । इति दुर्गादासः ॥


k1=इल, L=4225
इल¦, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरां -उभं-
सकं -सेट् ।) ह्रस्वादिः । क एलयति । इति दुर्गा-
दासः ॥


Match 0042: vcp=इव, skd=इव

vcp

k1=इव, L=8400
इव¦ व्याप्तौ प्रीणने च इदित् भ्वा० पर० सक० सेट् । इन्वति ऐन्वीत् । इन्वकाः ।


skd

k1=इव, L=4237
इव¦, इ, व्याप्तौ । (इदित् -भ्वादिं -- परं -सकं -सेट् ।)
प्रीणने । इति कविकल्पद्रुमः ॥ ह्रस्वादिः । इ
इन्व्यते । दन्त्यबकारपरत्वान्नानुस्वारः । प्रीणनं
कैश्चिन्न मन्यते । इति दुर्गादासः ॥


Match 0043: vcp=इष, skd=इष

vcp

k1=इष, L=8403
इष¦ गतौ सर्पणे च दिवा० पर० सक० सेट् । १ इष्यति, ऐष्यत् ।
ऐषीत् इषितः एषित्वा । “इष्यन् वाचमुपवक्तेव होतः”
ऋ० ९, ६४, ९ । “योऽभिवात इषितः प्रवाति” अथ०
१०, ८, ३५ । “स तत्कृषीषितस्तूयमग्ने” अथ० ६, ३५,
५ । “हिन्वानो वाचमिष्यसि” ऋ० ९, ६४, ९ । इच्छा-
[Page0986-a+ 38]
यामपि “अप इष्य होतरित्थप इच्छ होतरित्यैवेतदाह”
शत० ब्रा० ३, ९, ३, १५ । गतौ तुदादिरपि इषति निरु० ।
अनु + अन्वेषणे गवेषणे “अन्विष्यन्तस्ततःसीताम्” रामा०
“यावदेनामन्वेष्यामि” शकु० । “न रत्नमन्विष्यति मृग्यते
हि तत्” कुमा० । “तस्यान्विष्यन् वेतसगूढं प्रभवं सः”
रघुः । स्वार्थे णिच् । तत्रैव “राममन्वेषयामि” सा० द० ।
प्र + प्रेरणे । “अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्”
भा० व० १६ अ० । “गत्वा प्रैषीच्चरावणम्” भट्टिः “अ-
ध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति” आश्व० गृ० । “शौनः
शेफं च प्रेष्यति” कात्या० १३, ६, १ “अग्नीषोमाभ्यां छागस्य
वपायै मेदसे प्रेष्य” शत० ब्रा० ३, ८, २, २७ । घञ्
प्रैष्यः । ण्यत् प्रैषः । स्वार्थेणिच् । प्रेषयति प्रेषयामास ।
“स च मां प्रेषयामास” रामा० ।
परि + सत्कारपूर्व्वकनियोजने पर्य्येष्यति स्वार्थे णिच् पर्य्येषितः पर्य्येषणा ।


k1=इष, L=8404
इष¦ वाञ्छायाम् तुदा० पर० सक० सेट् वेट् क्त्वः । १ इच्छति,
“इच्छामि संबर्द्धितमाज्ञयाते” कुमा० । इच्छेत् “यदीच्छे-
द्विपुलान् भोगान्” मल० त० पु० । “राजान्तेवासि-
याज्येभ्यः सीदन्नोच्छेद्धनं क्षुधा” या० स्मृ० । ऐच्छत्
ऐषीत् “ऐषीः पुनर्जन्मजयाय यत्त्वम्” भट्टिः इयेष “इयेष
सा कर्त्तुमबन्ध्यमात्मनः” कुमा० ईषतुः । इच्छन् “किमच्छन्
कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुतिः ।
एषिता--ऐष्टा एषित्वा--इष्ट्वा । भावे श इच्छा “आत्मजन्या भवे-
दिच्छा” न्यायका० । इष्टः “इष्टोऽसि मे सखा चेति” गीता ।
कर्मणि इष्यते “त्रिरात्राच्छुद्धिष्यते” स्मृतिः । एष्टव्यः एषि-
तव्यः । “एष्टव्या बहवः पुत्रायद्येकोऽपि गयां व्रजेत्” पु० ।
अनु + अन्वेषणे । “तं खलन्त इवान्वीषुः” शत० ब्रा० । “हन्त
तमात्मानमन्विच्छामो यमन्वेष्टा” छा० उ० । “अनु-
पदसन्वेष्टा” पा० “वयं तत्त्वान्वेषात् मधुकर! हतस्त्वं
खलु कृती” शकु०
प्रति + प्रतिग्रहे प्रतीच्छति (प्रतिगृह्णाति) । “ततः
प्रतीच्छ प्रहरेति वादिनी” नैष० “स्नुषां प्रतीच्छ
मे कन्याम्” प्राप्तौ च “बुद्धौ शरणमन्विच्छ” गीता ।
स्वार्थे णिच् वेदे० नि० गुणाभावः । इषयति “इच्छंस्तदा-
स्तरायेष मदन्त इपयेम ज्योतिः” ऋ० १, १८५, ९ । “इषयेम
इच्छाम” भा० ।
परि + अन्वेषणे च परीच्छति (अन्विष्यति) “भगवन्तं वा अह-
मेभिरार्त्विज्यैः पर्य्यैषिषम्” छा० उ० ।
अभि + मस्मगिच्छायाम् अभोष्टम् ।


k1=इष, L=8405
इष¦ ओभोक्ष्ण्ये क्र्यादि० पौनःपुन्ये पर० अक० सेट्
इष्णाति इष्णातु इषाण । “इष्णन्निषाणामुं महेषाण
सर्व्वलोकं मैषाण” यजु० ३१, २२, अ० । ऐष्णात्
ऐषीत् । एषितः एषित्वा । प्रेरणे च । “भिनद्गिरिं
शबसा वज्रमिष्णन्” ऋ० ४, १७, ३ । इष्णन् प्रेरयन्”
भा० । इच्छार्थेऽपि “पूर्वीरिषश्चरति मध्व इष्णन्” ऋ०
१, १८१, ६ । “मध्वः मधुनः इष्णन् इच्छन” भा० । आभी-
क्ष्ण्यञ्च क्रियापौनःपुन्यम् । क्रिया च धात्वर्थविशेषः स
च वाञ्छागत्यादिरेव तस्यैवाभीक्ष्ण्यद्योतनेऽस्य साधुत्वम्


k1=इष, L=8406
इष¦ गतौ भ्वा० उभ० सक० सेट् । एषति ते । ऐषीत् ऐषिषट
अनु--अनुसरणे । अन्वेषति । “अन्वेषन्तोवनं राजन्”
“देशमन्यं दुराचारमन्वैषन् वानरास्तथा” रामा० ।


skd

k1=इष, L=4240
इष¦ य सर्पणे । गतौ । इति कविकल्पद्रुमः ॥ (दिवां-
परं-सकं-सेट् ।) ह्रस्वादिः । य इष्यति । सर्पणं
गतिः । इति दुर्गादासः ॥


k1=इष, L=4241
इष¦ उ श वाञ्छे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-अकं-सेट् । उ एषित्वा इष्ट्वा । वेमसह-
लुभेत्यादिसूत्रेणैवेष्टसिद्धेऽप्यस्योदनुबन्धस्तत्सूत्रे इ
षगाभीक्ष्ये इष्य सर्पणे इत्येतयोरप्राप्तये विशे-
षणार्थः । न च पिबादिग्रहणवत्तत्र इच्छ इति
ग्रहणेनैवेष्टसिद्धिरिति वाच्यं लाघवाभावे प्राचीन-
मतस्यैव न्याय्यत्वात् । श इच्छती इच्छन्ती । अस्यैव
इच्छादेशः । इच्छति धनं लोकः । इति दुर्गादासः ॥


k1=इष, L=4242
इष¦ ग आमीक्ष्ण्ये । पौनःपुन्येन करणे । इति कवि-
कल्पद्रुमः ॥ (क्र्यादिं-परं-अकं-सेट् ।) ग इष्णाति
पण्डितः । पुण्यं पुनःपुनः करोतीत्येर्थः । इति
दुर्गादासः ॥


Match 0044: vcp=ई, skd=ई

vcp

k1=ई, L=8486
ई¦ कान्तौ (इच्छायाम्) गतौ व्याप्तौ क्षेपे भोजने सक० गर्भ-
ग्रहणे अक० अदादि अनिट् पर० । एति ईतः
इयन्ति । ऐत् । ऐषीत् । इयाय इयतुः । एता एष्यति
ऐष्यत् । “ईतः । अस्यात्मनेपदित्वमपि “न हि तरणि-
रुदीते” दिक्पराधीनवृत्तिः” कविक० टी० दुर्गा० ।


k1=ई, L=8487
ई¦ याचने द्विक्र० आत्मने० अदादि अनिट् निरु० ।
ईते इयीत ईताम् । ऐत । ऐष्ट । इये । “आ वोदेवास
ईमहे वामं प्रत्यध्वरे” यजु० ४, ५ । “अजस्रं घर्ममी-
महे” यजु० २६, ६ ।


k1=ई, L=8488
ई¦ गतौ दिवा० सक० अनिट् आत्म० । ईयते ऐष्ट । ईतः
“पद्मैरन्वीतबधूमुखद्युतः” माघः । ईङ्--गतौ मल्लि० ।


skd

k1=ई, L=4274
ई¦, ल, कान्तौ । गतौ । व्याप्तौ । क्षेपे । प्रजने ।
खादने । इति कविकल्पद्रुमः ॥ (अदां-परं-सकं-
अकं च-अनिट् ।) कान्तिरिच्छा । प्रजनो गर्भ
ग्रहणं इत्यर्थः । ल एति गौः गर्भं गृह्णाति इत्यर्थः ।
“न हि तरणिरुदीते दिक् पराधीनवृत्तिः” ।
[Page1-215-c+ 52]
इति गणकृता नित्यत्वादात्मनेपद । धातुरयं कै-
श्चिन्न मन्यते । इति दुर्गादासः ॥


k1=ई, L=4275
ई¦, ङ य, गतौ । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-
सकं -अनिट् ।) ङ य ईयते । इति दुर्गादासः ॥


Match 0045: vcp=ईक्ष, skd=ईक्ष

vcp

k1=ईक्ष, L=8489
ईक्ष¦ दर्शने पर्य्यालोचने च भ्वा० आत्म० सक० सेट् ।
ईक्षते ईक्षीत ईक्षताम् ऐक्षत ऐक्षिष्ट ईक्षाम्--बभूव आ-
स--चक्रे--ईक्षिता ईक्षिषीष्ट ईक्षिष्यते ऐक्षिष्यत । ईक्षितव्यः
ईक्षणीयः ईक्ष्यः ईक्षिता ईक्षितः ईक्षित्वा वीक्ष्य । ईक्ष-
णम् ईक्षा । ईक्षमाणः । कर्म्मणि ईक्ष्यते ईक्ष्यमाणः ।
धातुनिर्देशे इक्षतिः ईक्षिः । “न धर्मवृद्धेषु वयः समी-
क्ष्यते” न कामवृत्तिर्वचनीयमीक्षते” कुमा० । “तदैक्षत
बहु स्यां प्रजायेय” श्रुतिः । “स प्रजापतिरीक्षां चक्रे”
श्रुतिः “सर्वभूतस्थमात्मानं सर्व्वभूतानि चात्मनि । ईक्षते
योगयुक्तात्मा” गीता । “कथमीक्षामहे सर्वे, दुर्य्योधन!
तवेप्सितम्” भा० व० २९८ श्लो० । “ऐक्षिष्ट पुंभिः प्रचि-
नान् स गोष्ठान्” भट्टिः वेदे पदव्यात्यासोऽपि “कश्चिद्धीरः
प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो० । पृ-
[Page1006-b+ 38]
ष्टेनशुफाशुभालोचने च तद्योगे शुभाशुभसंबन्धिनि चतुर्थी ।
“राधीक्ष्योर्यस्य विप्रश्नः” पा० । “यदीयः विविधः प्रश्नः
क्रियते तस्मिन् चतुर्थीत्यर्थः । “कृष्णाय ईक्षते गर्गःपृष्टो
गर्गः शुभाशुभं पर्त्यालोचयतीत्यर्थः” सि० कौ० । “ईक्षतेर्ना-
शब्दम्” शा० सू० । “कारणे ईक्षितृत्वश्रवणात्” भा० ।
अधि + विवेचने अधीक्षते “कुहकचकितोलोकः सत्येऽप्यपाय
मधीक्षते” हितो० ।
अनु + अनुचिन्तने । “तामन्वीक्षत इयं वै वल्मीकवपेयम्”
शत० ब्रा० ६, ३, ३, ५ । “अन्वीक्षमाणीरामस्तु विषण्णं
भ्रान्तचेतनम्” रामा० ।
अप + आकाङ्क्षायामनुरोधे अवधिनियमे च । “अपेक्षते
प्रत्ययमुत्तमं त्वाम्” कुमा० “अपेक्षन्ते न च स्नेहं न पात्रं
न दशान्तरम् । परोपकारनिरतामणिदीपा इवोत्तमाः”
उद्भटः । “किमपेक्ष्य फलम् पयोधरान् ध्वनतः प्रार्थयते
मृगाधिपः” किरा० । “द्वित्वादयः परार्द्धान्ता अपेक्षा-
बुद्धिजामताः” “अपेक्षाबुद्धिनाशाच्च तेषां नाशः प्रकीर्तितः”
भाषा० “शब्दोव्यञ्जकत्वेऽर्थान्तरमपेक्षते” सा० द० ।
“सापेक्षत्वेऽप्रि गमकत्वात् समासः” पा० भा० “सा प्रक्रिया
या कथमित्यपेक्षा” मीमा० । “नदीशः परिपूर्णोऽपि
मित्रोदयमपेक्षते” चन्द्रा० ।
वि + अप + विशेषेणापेक्षयाम् । “न व्यपैक्षत समुन्सुकाः प्रजाः”
रघु० । “व्यपेक्षमाणौ सहसीतयागतौ” रामा० “सभर्थः
पदविधिः” पा० भा० व्यपेक्षाऽव्यपेक्षापक्षद्वयमुपन्य-
स्तम् । तत्र व्यपेक्षापक्षोमतान्तरेण उपन्यस्तः स च
युक्तिविरुद्धत्वात् कैयटविररणादौ दूषितः “वाक्यवत्
सा व्यपेक्षाऽपि वृत्तावपि न हीयते” भर्तृ० । सा च शब्द-
बोधिपयोगिन्याकाङ्क्षारूपा आकाङ्क्ताशब्दे विवृतिः ।
अव + चाक्षुषदर्शने । “योत्स्यमानानवेक्षेऽहं य एतेऽत्र समा-
गताः” गीता । “अवेक्षमाणोमहतीं मुहुर्मुहुः” माघः
सम्यक्पर्य्यालोचने च । “यदवोचदवेक्ष्य सुन्दरी” किरा० ।
अनु + अव + पर्य्यालोचने अनुसन्धाने च “सूक्ष्मतां चान्ववेक्षेत
योगेन परमात्मनः” मनुः ।
अभि + अव + भोजनार्थेक्षणे । “यजमानस्य पशूनभ्यवेक्षते” शत०
ब्रा० ११, १, ५, ११, “अभ्यवेक्षते अभ्यवहर्तुं पश्यति” भा० ।
परि + अव + समन्ताद्दर्शने । “ततो वाचस्पतिर्जज्ञे तं मनः
पर्य्यवेक्षते भा० आश्व० २१ अ० ।
प्रति + अव + प्रतीत्य पर्य्यालोचनया दर्शने । “अथेमां प्रत्यवेक्ष-
माणो जपति” शत० ब्रा० ५, ३, ४, २० ।
[Page1007-a+ 38]
सम् + अव + सम्यग्दर्शने । “नृपोपमोऽयं समवेक्षते सभाम्”
भा० वि० २१८ श्लो० । “यदि दृष्टं बलं सर्व्वं वयञ्च समवे-
क्षिताः” भा० आ० २५ अ० । सम्यक्पर्य्यालोचने च “सर्वं
तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः ।
आ + सम्यग्दर्शने । “स्मयन्निवैक्ष्य पाञ्चालोम्” भा० स० २३८०१
उद् + ऊर्द्ध्वदर्शने । “सहस्ररश्मिना साक्षात् सप्रणामसुदी-
क्षिताः” कुमा० । अपेक्षायाञ्च “त्रीणि वर्षाण्युदीक्षेत
कुमार्य्यृतुमती सती” मनुः ।
उप + हेयत्वज्ञानेन परित्यागे “उपेक्षया स्वत्वहानिः” दाय-
भा० टी० “ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्” भा०
व० ११ अ० प्रतिचिकीर्षाभावे “उपेक्षते यः श्लथवन्धिनी-
र्जटाः” कुमा० “नीपपेक्षेत क्षणमपि राजा साहसिकं
नरम्” मनुः अपर्य्यालोचने अनुसन्धानाभावे च “गूढेन
चरता तत्त्वमुपेक्षितमिदं मया” रामा० ।
सम् + उप + सम्यगुपेक्षायाम् । “शत्रुपक्षं समाधातु योमो-
हात् समुपेक्षते” भा० स० १०६० श्लो० ।
निस् + निर् + निःशेषेण दर्शने निश्चयार्थं दर्शने च । “यावदेता-
न्निरीक्षेऽहं योद्धुकामानवस्थितान्” गीता ।
परि + तत्त्वानुसन्धाने प्रमाणाद्युपन्यासेन वस्तुतत्त्वावधारणे च
“परीक्ष्य लोकान् कर्म्मचितान्” श्रुतिः । न्यायसूत्रवृत्त्यादौ
प्रमाणप्रेमेयादि परीक्षा बहुशो दर्शिता । सम्यक्विवेचने
च । “नैता रूपपं रीक्षन्ते नासां बयसि संस्थितिः । सुरूपं
वा विरूपं वा पुमानित्ये व भुञ्जते” मनुः । लक्षणादिम-
त्त्वेन ज्ञाने च अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः ।
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये” भा० आश्व० ३०
२७ श्लो० । “यत्नात् परीक्षितः पुं स्त्वे” या० स्मृ० । “सर्व्वस्य
हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः” हितो० भक्तिमत्त्वा-
दिना ज्ञाने च । “मायां मयोद्भाव्य परीक्षितोऽसि” रघुः ।
विवादे सत्यत्वासत्यत्वादिसंशयनिरासाय स्वपक्षप्रामाण्य-
व्यवस्थापनाय शपथकरणे तुलापरीक्षादि । परीक्षा-
शब्दे विवृतिः ।
प्र + प्रकर्षेण दर्शने “प्रेक्षन्ते सर्व्वभूतानि वहुशः पर्व्वसन्धिषु”
भा० व० ११ ६५७ । “यत् किञ्चिद्दर्शवर्षाणि सन्निधौ प्रेक्षते
धनी” भा० व० मनुः । “उदायुधानापततस्तान् दृप्तान् प्रेक्ष्य
राघवः” रघुः । “पुनः प्रेक्ष्य च शूलिनम्” कुमा० ।
अभि + प्र + आभिमुख्येन दर्शने । “प्राचीं दिशमभिप्रेक्ष्य महर्षि
रिदमब्रवीत्” भा० व० १६३ अ० । “दह्यमानमभिप्रेक्ष्य
स्त्रियस्ताः संप्रदद्रुवुः” भा० व० ८८ अ० ।
[Page1007-b+ 38]
उत् + प्र + उत्प्रेक्षायां किञ्चिर्द्धर्म्मसाधर्म्येणान्यस्यान्यरूपता
कल्पने उद्भावने च । “उत्पेक्षामोवयं तावन्मतिमन्तं
विभीषणम्” रामा० । “तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतां-
स्तांश्च दिन सान्” अमरुश० । “भवेत् सम्भावनोत्प्रेक्षा प्रकृ-
तस्य परात्मना” सा० द० । “अलङ्कारशब्दे ३९५ पृष्ठे विवृतिः ।
सम् + प्र + सम्यग्दर्शने । “संप्रेक्ष्य नासिकाग्रं स्वा” गीता
“योगक्षेमं च संप्रेक्ष्य बणिजोदापयेत् करम्” मनुः ।
अभि + सम् + प्र + आभिमुख्येन सम्यग्दर्शने । “अभिसंप्रेक्ष्य भ-
र्त्तारं क्रुद्धा वचनमब्रवीत्” भा० आदि० प० ३० ११ ।
प्रति + अनुरोधे अपेक्षायां पूजने च । “प्रतीक्ष्यं तत् प्रतीक्ष्यायै
पितृस्वस्रे प्रतिश्रुतम्” माघः “प्रथमं संस्थिता भार्य्या
पतिं प्रेत्य प्रतीक्षते” भा० आ० ३० ३३ । नाभिनन्देत
मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत”
मनुः । “संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः” मनुः ।
सम् + प्रति + सम्यक्प्रतीक्षायाम् “मुहूर्त्तं संप्रतीक्षस्व” भा०
आ० २९० ३ । “एकवेणीधरा हि त्वां नगरी संप्रती-
क्षते” रामा० ।
वि + विशेषेण दर्शने । “वीक्षन्ते त्वां विस्मिताश्चैव सर्वे” गोता ।
“सीमाज्ञाने नृणां वीक्ष्य नित्य लोके विपर्य्ययम्” मनुः ।
“जडीकृतस्त्र्यम्बकवीक्षणेन” रघुः ।
अनु + वि + सन्ततवीक्षणे पश्चाद्वीक्षणे च । “तस्माद्दिशोऽनु-
वीक्षमाणोजपति” शत० ब्रा० ५, २, १, २५ ।
अभि + वि + आभिमुख्येन वीक्षणे । “नचैनं भुवि शक्नोति कश्चिद-
प्यभिवीक्षितुम्” मनुः ।
उद् + वि + ऊर्द्धवीक्षणे । “उद्वीक्षंमाणा भर्त्तारं मुखेन परिशुष्यता”
रामा० “पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत” भा०
अनु० २ अ० “उद्वीक्षितं प्रकृबिभिर्भरतानुगाभिः” रघुः ।
सम् + उद् + वि + समन्तादुद्वीक्षणे “निषेदुर्भूमिपाः सर्ते समुद्-
द्वीक्ष्य परस्परम्” रामा० ।
प्रति + वि + प्रतिदर्शने यत्कर्तृकं स्वदर्शनं तस्य स्वेन दर्शने ।
“ततः सराजा प्रतिवीक्ष्य ताः स्त्रियः” रामा० ।
सम् + वि + सम्यग्वीक्षणे ।
सम् + सम्यग्दर्शने पर्य्याम्रोच्य दर्शने । “पुरस्तादेव प्रतीचे स-
मीक्षमाणायानुब्रुयात्” शत० ब्रा० ११, ५, ४, १४ ।
“समीक्ष्य वसुधां चरेत्” मनुः । “अग्रहस्तसुमुक्तेन
शीकरेण स नागराट् । समैक्षत गुडाकेशम्” मा०
आश्व० २२३१ श्लो० । “तान् समीक्ष्य स कौन्तेसः सर्व्वान्
वन्धूनवस्थितान्” गीता “उचितमेवैसमीक्ष्यकमतान्मा-
[Page1008-a+ 38]
रिणः” हितो० “समीक्ष्य कुलधर्म्मांश्च स्वधर्म्मं प्रति-
पादयेत्” मनुः ।
प्र + सम् + प्रकर्षेण सम्यगीक्षणे । “सह सर्व्वाः समुत्पन्नाः
प्रसमीक्ष्यापदोभृशम्” मनुः “कुलं ख्यातिञ्च वृत्तं च
बुद्ध्या तु प्रसमीक्ष्य च” भा० आ० ४३७४ श्लो० ।


skd

k1=ईक्ष, L=4280
ईक्ष¦ ङ दर्शने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं-
सकं-सेट् ।) दर्शनमिह चाक्षुषज्ञानं प्रणिधानञ्च ।
ङ ईक्षते चन्द्रं लोकः । “न कामवृत्तिर्व्वचनीय-
मीक्षते” । इति कालिदासः ॥ “निरीक्षिष्यामि
यान्मुनीन् इति गणकृतानित्यत्वात्” इति रमानाथः ॥
“वस्तुतस्तु निरीक्ष्यते निरीक्षः पचादित्वादन् ततो
निरीक्ष इवाचरतीतिक्वौ साध्यं” इति दुर्गादासः ॥


Match 0046: vcp=ईख, skd=ईख

vcp

k1=ईख, L=8495
ईख¦ गतौ इदित् भ्वा० पर० सक० सेट् । ईङ्खति ऐङ्खीत् । ईङ्खाम्
बभूव आस चकार । ईङ्खिता ईङ्खिष्यति ऐङ्खिष्यत् । ईङ्खितः
“सन्त्रासमवितः शक्रः प्रैङ्खच्च क्षुभिता क्षितिः” भट्टिः “भुज्युं
समुद्र आ रजसः पार ईङ्खितम्” १०, १४३, ५ ।
णिचि ईङ्खयति । “यईङ्खयन्ति पर्वतात्तिरः समुद्रमर्णवम्”
ऋ० १, १९, ७ । “इङ्खयन्तोरपस्युव इन्द्रं जातमुपासते” ऋ०
१०, १५, ३, १ । “इङ्खयन् परिजना पबिद्धया रघुः ।


skd

k1=ईख, L=4279
ईख¦, इ गतौ । इति कविकल्पद्रुमः ॥ (इदित्-भ्वादिं-
परं-सकं-सेट् ।) दीर्घादिः । इ ईङ्खते । इति
दुर्गादासः ॥ (ईख गतौ । ईखति इति केचित् ।)


Match 0047: vcp=ईज, skd=ईज

vcp

k1=ईज, L=8497
ईज¦ गतौ निन्दायाञ्च म्वा० आत्म० सक० सेट् । ईजते ऐजत
ऐजिष्ट ईजाम्--बभूव आस चक्रे । ईजिता ईजिष्यते
ऐजिष्यत ।


k1=ईज, L=8498
ईज¦ गतौ निन्दने च इदित् भ्वा० आत्म० सक० सेट् । ईञ्जते
ऐञ्जिष्ठ । ईञ्जाम्--बमूव आस चक्रे! ईञ्जितम् । अयम्
अपाणिनीयः कविकल्पद्रुमे तु पठितः ।


skd

k1=ईज, L=4283
ईज¦, इ, कुत्से । गतौ । इति कविकल्पद्रुमः ॥
(भ्वादिं -आत्मं -सकं -सेट् -इदित् ।) इ ईञ्जते ।
कुत्सः कैश्चिन्न मन्यते । इति दुर्गादासः ॥


k1=ईज, L=4284
ईज¦, ङ, कुत्से । गतौ । इति कविकल्पद्रुमः ॥
(न्वादिं -आत्मं -सकं -सेट् ।) दीर्घादिः । ङ
ईञ्जते इजते । कुत्सः कैश्चिन्न मन्यते । इति
दुर्गादासः ॥


Match 0048: vcp=ईड, skd=ईड

vcp

k1=ईड, L=8500
ईड¦ स्तुतौ अदा० आत्म० सक० सेट् । ईड्वे ईडिषे ईडिध्वं
ऐडिष्ट ईडाम्--बभूव आस चक्रे । ईडिता ईडिष्यते ऐडि-
ष्यत । ईद्ध्यः ईडितः ईडनम् ईडा । “अग्निमीडे पुरौ-
हितम्” ऋ० १, १, १ । डकारं लकारतया बह्वृचाः
पठन्ति । “अज्मध्यस्थडकारञ्च लकारं बह्वृचा जगुः ।
अज्मध्यस्थढकारञ्च ल्हकारं तु यथाक्रममिति” ऋ० भा०
वाक्योक्तेः । वङ्गदेशसम्प्रदायस्तु तयोः अज्मध्यस्थयोः
डढकारतया पाठः इति भेदः । यास्कस्तु “ईडिरध्येषणक-
र्म्मा पूजाकर्मा चेत्याह “गन्धर्वाः सुरसङ्घाश्च बहवश्च मह-
र्षयः । अन्तरीक्षं गतं देवं गीर्भिरग्र्यामिरीडिरे” रामा०
“नेडिषे यदि काकुत्स्थम्” भट्टिः “ईडानो देवा इष्टानाम्”
ऋ० १०, ६६, १४ । “भवन्तमीड्यं भवतः पितेव” ।
“शालीनतामव्रजदीद्ध्यमानः” इति च रघुः । “अग्निः
पूर्व्वेभिरृषिभिरीड्योनूतनैरुत” ऋ० १, १, २ । णिचि
ईडयति ते ऐडिडत् त ।


skd

k1=ईड, L=4285
ईड¦, क, स्तुतौ । इति कविकल्पद्रुमः ॥ (चूरां-परं-
सकं-सेट् ।) क ईडयति । इति दुर्गादासः ॥


k1=ईड, L=4286
ईड¦, ङ ल, स्तुतौ । इति कविकल्पद्रुमः ॥ (अदां-
आत्मं -सकं -सेट् ।) ल ङ ईट्टे । इति दुर्गादासः ॥
(यथा, रामायणे । ३ य काण्डे ।
“गन्धर्ब्बाः सुरसंघाश्च बहवश्च महर्षयः ।
अन्तरीक्षगतं देवं गीर्भिरग्र्याभिरीडिरे” ॥)


Match 0049: vcp=ईर, skd=ईर

vcp

k1=ईर, L=8515
ईर¦ गतौ प्रेरणे च चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।
ईरयति ते--ईरति ऐरिरत्--त--ऐरीत् । ईरयाम्--ईराम्
वा बभूव आस चकार । ईरयिता । ईरिता ईरयिष्यति-
ईरिष्पति । ईरणम् । ईरितः इरयन्--इरन् । ईरः ईर्य्य-
[Page1009-b+ 38]
माणः । “आपः समुद्रमैरयन्” ऋ० ८, ६, १३ । “अंशो-
रूर्म्मिमीरय” ऋ० ९, ७९, १४ । “यदस्य शुष्ममैरयन्”
ऋ० २, १७, ३ “ऐरिरच्च महाक्रमम्” भट्टिः कथने च ।
“अथ वाचमीरयति” शत० ब्रा० “ब्रह्मा रथन्तरं साम
ईरयति भवान्तिके भा० आनु० १४ अ० । विरोध-
वाक्यञ्च यथेर्य्यमाणम्” भा० व० १३३ अ० । “दमयन्त्या
यथेरितम्” भा० व० २७४३ । “हितं न गृह्णन्ति सुहृद्भि-
रीरितम्” रामा० “इतीरिता पत्ररथेन तेन”
इतीरयित्वा विरचय्य वाङ्मयम्” नैष० ।
उद् उत्क्षेपणे । “उदीरयामासुःसलीलमक्षान्” रघुः ।
उच्चारणे कथने च “यदशोकोऽऽयमुदीरिष्यति” रघुः ।
“उदीरयामासुरिवोन्मदानाम्” रघुः ।
अभि + उद् + आभिमुख्येनोच्चारिते । “आस्तीकस्तिष्ठस्तिष्ठेति
वाचस्तिस्रोऽभ्युदैरयन्” मा० अ० २१७१ ।
सम् + उद् + सम्यगुच्चारे समुत्तीलिते च । पांशवोऽपि कुम-
क्षेत्रे वायुना समुदीरिताः” भा० व० ५०७० ।
प्र + प्रेरणे । प्रेरयति । “समीरणः प्रेरयिता भवेति” कुमा० ।
“अपः प्रेरय सागरस्य बुध्नात्” अ० १०, ८९, ४ । “किमुद्दिश्य
काश्यपेन मत्सकाशमृषयः प्रेरिताः स्युः” शकु० “या-
त्रायै प्रेरयामास तं शक्तेः प्रथमं शरत्” रघुः ।
सम् + सम्यक्प्रेरणे समुगुच्चारणे सम्यग्गतौ च “समीरणः ।
“समीरयाञ्चकाराथ राक्षसस्य कपिः शिलाम्” भट्टिः ।
“ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः” भा०
व० १२१८ अ० ।


skd

k1=ईर, L=4294
ईर¦, कि गतौ । प्रेरणे । इति कविकल्पद्रुमः । (वा,
चुरां-परं -सकं -सेट् ।) नुदि । कि ईरयति ईरति ।
नुदि प्रेरणे । इति दुर्गादासः ॥


k1=ईर, L=4295
ईर¦, ङ ल, कम्पे । गतौ । इति कविकल्पद्रुमः ॥
(अदां-आत्मं -सकं कम्पार्थे, अकं -सेट् ।) दीर्घादिः ।
ङ ल ईर्त्ते लता वायुना । इति दुर्गादासः ॥


Match 0050: vcp=ईर्क्ष्य, skd=ईर्क्ष्य

vcp

k1=ईर्क्ष्य, L=8521
ईर्क्ष्य¦ ईर्ष्यायां परवृद्ध्यहिष्णुतायाम् भ्वा० पर० सक०
सेट् । ईर्क्ष्यते ऐर्क्ष्यीत् । ईर्क्ष्याम् बभूव आस चकार ।
ईर्क्ष्यिता ईर्क्ष्यात् ईर्क्षिष्यति ऐर्क्षिष्यत् । ईर्क्ष्या ।


skd

k1=ईर्क्ष्य, L=4299
ईर्क्ष्य¦, ईर्षे । (भ्वादिं-परं-अकं -सेट् ।) पराभ्युदयासहि-
ष्णुतायामिति यावत् । इति कविकल्पद्रुमः ॥
दीर्घादिः । रेफयुक्तः । ईर्षा परादोषासहि-
ष्णुत्वमिति केचित् । ईर्क्ष्यति खलः साधवे ।
षद्वयान्त इत्येके । इति दुर्गादासः ॥


Match 0051: vcp=ईर्ष्य, skd=ईर्ष्य

vcp

k1=ईर्ष्य, L=8528
ईर्ष्य¦ परगुणासहने भ्वा० पर० अक० सेट् । ईर्ष्यति ऐर्ष्यीत् ।
ईर्ष्याम्--वभूव आस चकार । ईर्ष्यिता ईर्ष्यिष्यति ऐर्ष्यि-
ष्यत् । णिचि ईर्ष्ययति ते त ऐर्ष्यत् ऐर्षिष्यत् त । सनि
ईर्ष्यिपिषति । ईर्ष्या ईर्ष्यितः । “पत्युर्वार्द्धकमीर्ष्यितं प्रसवनं
[Page1010-b+ 38]
नाशस्य हेतुः स्त्रियाः” हितो । ईर्ष्यितव्यम् । “तस्माद्भि-
क्षुषु दाराणां क्रमणेषु नेर्ष्यितव्यमिति” प्रबो० ।


skd

k1=ईर्ष्य, L=4305
ईर्ष्य¦, ईर्षे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं-अकं-
सेट् ।) दीर्घादिः । रेफयुक्तः । ईर्ष इति ईर्ष्यस्य
घञि हसाल्लोप इति यलोपे सिद्धम् । ईर्षा परा-
भ्युदयासहिष्णुत्वम् । परदोषासहिष्णुत्वमिति के-
चित् । ईर्ष्यति खलः साधवे । यद्वयान्तः इत्येके ।
इति दुर्गादासः ॥


Match 0052: vcp=ईश्, skd=ईश *

vcp

k1=ईश्, L=8538
ईश्¦ ऐश्वर्य्ये अदा० आत्म० सक० सेट् । १ ईष्टे, ईशिषे ईशिध्वे
ऐशिष्ट । ईशाम्--बभूव आस चक्रे । ईशिता ईशिषोष्ट
ईशिष्यते ऐशिष्यत । ईशनम् ईशिता । ईशितः । ईशा ।
ईशित्वा । “धनानामीशते यज्ञाः” । “यदीशिषे त्वं न मयि-
स्थिते च” भट्टिः । “पुरुषोवै पशूनामैन्द्रस्तस्मात् पशूना-
मीष्टे” शत० ब्रा० ४, ५, ५, ७ । एतद्योगे कर्म्मणः सम्ब-
न्धत्वविवक्षायां षष्ठी । वेदे तु क्वचित् णिचि न आमु ।
“सहस्र एषां पितरश्च नेशिरे” ऋ० १०, ५६, ७ । ता-
च्छील्ये चानश् ईशानः ।


skd

k1=ईश, L=4312
ईश¦, ङ, ल, ऐश्वर्य्ये । इति कविकल्पद्रुमः ॥ (अदां-
आत्मं अकं-सेट् ।) दीर्घादिः । ऐश्वर्य्यमीश्वरीभावो-
ऽधीनीकरणञ्च । ङ ल ईष्टे धनी । मायानामी-
शिषेण च । अत्र कर्म्मणिषष्ठी । इति दुर्गादासः ॥


Match 0053: vcp=ईष, skd=ईष

vcp

k1=ईष, L=8558
ईष¦ उञ्छे (उद्धृतशस्यक्षेत्रात्, कणश आदाने) तु० प० सक०
सेट् । ईषति ऐषीत् । ईषाम् बभूव आस चकार ।
ईषिता ईष्यात् ईषिष्यति ऐषिप्यत् “विश्वस्मादीषतो यज-
मानस्य परिधिः” तैत्ति० ।


k1=ईष, L=8559
ईष¦ दाने ईक्षणे, सर्पणे हिंसने च भ्वादि० आत्म० सक० सेट् ।
ईषते । ऐषिष्ट ईषास्व बभूव आस चक्रे । ईषिता
ईषिषीष्ट ईष्यते ऐषिष्यत । ईषत् ईषा “शूरस्येव त्वेष-
थादीषतेवयः” ऋ० १, १४१, ८ । “अस्मादहं तन्विषा-
दीषमाणः” ऋ० १, १७१ ४७ ।


skd

k1=ईष, L=4329
ईष¦ उ उञ्छे । इति कविकल्पद्रुमः ॥ (तुदां -परं -सकं-
सेट् ।) उञ्छ उद्धृतशस्यशेषापहरणं । ईषति
धान्यं दीनः । इति दुर्गादासः ॥


k1=ईष, L=4330
ईष¦ ङ दाने । (भ्वादिं -आत्मं -सकं -सेट् ।) ईक्ष ।
हिंसने । सर्पणे । इति कविकल्पद्रुमः ॥ दीर्घादिः ।
ङ ईषते । ईक्षो दर्शनं । इति दुर्गादासः ॥


Match 0054: vcp=ईह, skd=ईह

vcp

k1=ईह, L=8571
ईह¦ चेष्टने भ्वादि० आत्म० अक० सेट् । ईहते ऐहिष्ट ऐहिढ्वम्
ऐहिध्वम् । ईहाम्--बभूव आस चक्रे ईहिता ईहिषीष्ट
ईहिष्यते ऐहिष्यत । ईहनम् ईहा ईहमानः ईहितः
“शक्तस्यानीहमानस्य किञ्चिद्दत्त्वा पृथक् क्रिया” स्मृतिः ।
“ऐहिष्ट तं कारयितुं कृतात्मा” भट्टिः । प्रियाणि
वाञ्चन्त्यसुभिः समीहितुम् । “हन्तुं क्रोधवशादीहाञ्च-
क्राते तौ परस्परम्” इति च किरा० । अस्य इच्छापूर्ब्ब-
कचेष्टापरत्वे सक० “नेहेतार्थान् प्रसङ्गेन” मनुः । “तस्या
राधनमीहते” गोता ।


skd

k1=ईह, L=4343
ईह¦ ङ चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं-
अकं-सेट् ।) दीर्घादिरकर्म्मकः । ङ ।
“ऐहिष्ट तं कारयितुं कृतात्मा
क्रतुं नृपः पुत्त्रफलं मुनीन्द्रम्” ।
इति भट्टिः । १ । ११ ॥
सकर्म्मकोऽपि । “भ्रामं भ्रमादपि नेहते” । इति
जयदेवः ॥ “सर्व्वः स्वार्थं समीहते” इति माघः ।
२ । ६५ ॥ इति दुर्गादासः ॥


Match 0055: vcp=उ, skd=उ

vcp

k1=उ, L=8576
उ-¦ शब्दे भ्वादि० अक० आ० अनिट् । अवते औष्ट । उवे ओता
ओषीष्ट ओष्यते औष्यत । अवनम् उतः । “उवे अम्ब
सुलाभिके यथेवाङ्ग भविष्यति” ऋ० १०, ८६, ७ ।


skd

k1=उ, L=4348
उ¦, ङ, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं
अकं-अनिट् ।) ङ अवते गौः । इति दुर्गादासः ॥


Match 0056: vcp=उख, skd=उख

vcp

k1=उख, L=8605
उख¦ गतौ भ्वादि० पर० सक० सेट् । ओखति औखीत् उवोख
ऊखतुः ओखिता उख्यात् ओखिष्यति औखिष्यत् उखा ।


k1=उख, L=8606
उख¦ गतौ इदित् भ्वादि० पर० सक० सेट् । उङ्खति औङ्खीत् ।
उङ्खाम्--बभूव आस चकार । उङ्खिता उङ्ख्यात् उङ्खि-
ष्यति औङ्खिष्यत् ।


skd

k1=उख, L=4362
उख¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वादि -परं -सकं-
सेट् ।) पञ्चमस्वरी ॥ ओखति । इति दुर्गादासः ॥


k1=उख, L=4363
उख¦, इ, गतौ । इति कविकल्पद्रुमः ॥ (इदित् -भ्वादि
परं -सकं -सेट् ।) पञ्चमस्वरी । इ उङ्खति । इति
दुर्गादासः ॥


Match 0057: vcp=उच, skd=उच

vcp

k1=उच, L=8633
उच¦ समवाये दि० पर० सक० सेट् । उच्यति इरित् औचत्,-
औचीत् उवोच ओचिता उच्यात् ओचिष्यति औचिष्यत्
उचितः उग्रः । “उवोचिथ हि मघवन् देष्णम्” ऋ०
७, ३७, ३ । उचतिः सेबाकर्मेति माधवः “अभि वा एष
एतानुच्यति” तैत्ति० । “नियो गृभं पौरुषेयी-
मुवोच” ऋ० ७, ४, ३ । “तत्र सेदिन्युच्यतु सर्वाश्च यातु-
धान्यः” अथ० २, १४, ३ ।


skd

k1=उच, L=4384
उच¦, इ र य समवायने । मिश्रणे । इति कवि-
कल्पद्रुमः ॥ (दिवां -परं -सकं -सेट् ।) ह्रस्वादिः । इ र
औचत् औचित् । अस्मात् पुरुषादित्वात् नित्यं ङ
इत्यन्ये । य उच्यते केशः स्नानात् । इति दुर्गादासः ॥


Match 0058: vcp=उछ, skd=उच्छ *

vcp

k1=उछ, L=8703
उछ¦ उञ्छे (कणशआदाने) तुदा० इदित् पर० सक० सेट् ।
उञ्छति औञ्छीत् । उञ्छाम्--बभूव आस चकार । उ-
ञ्छिता उञ्छ्यत् उञ्छिष्यति औञ्छिष्यत् । उञ्छः उञ्छ-
नम् उञ्छितः । प्र + मार्जने प्रोञ्छनं (पोछा) प्रोञ्छितः ।


k1=उछ, L=8704
उछ¦ बन्धे समापने च विरासे पा० तुदा० पर० सक० सेट् ।
उच्छति औच्छीत् उच्छाम् बभूव आस--चकार । उच्छिता
उच्छ्यात् उच्छिष्यति औच्छिष्यत् । णिच् उच्छयति ते
औतिच्छत् औचिच्छत् त । सनि उतिच्छिषति उचि-
च्छिषति । ईदित् तेन निष्ठाया नेट् । उष्टः ।


skd

k1=उच्छ, L=4406
उच्छ¦, इ श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदां-
इदित् -परं -सकं -सेट् ।) ह्रस्वादिः । इ उञ्छति । श
उञ्छती उञ्छन्ती । उञ्छ उद्धृतशस्यस्य शेषाप-
हरणम् । (यथा, हलायुधः ।
“सुलभं शस्यमुञ्छन्ति यद्देशे ब्रतिनो द्विजाः” ।
उञ्छः स्फोटनमित्येके । इति दुर्गादासः ॥


k1=उच्छ, L=4407
उच्छ¦, ई श बन्धे । समापने अतिक्रमे । वर्जने । इति
कविकल्पद्रुमः । (तुदां-परं-सकं-सेट् ।) ई उष्टः ।
श उच्छती उच्छन्ती । चत्वारोऽर्थाः । समापने ।
(अक्त०) उच्छति रात्रिः । “भरण्यां व्युष्टायामुषसि
जनयासास तनयम्” । व्युष्टायां समाप्तायामित्यर्थः ।
इति दुर्गादासः ॥


Match 0059: vcp=उज्झ, skd=उज्झ

vcp

k1=उज्झ, L=8722
उज्झ¦ त्यागे तुदा० पर० सक० सेट् । उज्झति “औज्झीत्
[Page1070-b+ 38]
उञ्झाम्--बभूव आस चकार । उज्झिता जज्झ्यात् उ-
ज्झिष्यति औज्झिष्यत् । उज्झितः । त्वमङ्ग यस्याः पति-
रुज्झितक्रमः” नैष० । “अद्यापि नोज्झति हरः
किल कालकूटम्” चौरपञ्चाशिका । “प्राणानौज्झीच्च
खड्गेन छिन्नस्तेनैव मूर्द्धनि” भट्टिः । “सपदि-
विगतनिद्रस्तल्पमुज्झाञ्चकार” । “अविरतोज्झितवारिविपा-
ण्डुभिः” “परस्पराक्षिसादृश्यमदूरोज्झितवर्त्ममु मृगद्व-
न्द्वेषु” सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्”
“उदये मदवाच्यमुज्झता” इति च रघुः । अतः “भिद्योद्ध्यौ
नदे” पा० नि० क्यप् नदे कर्त्तरि झस्य धत्वग् । “उदक-
मुज्झति उद्ध्योनद”ः सि० कौ० ।
प्र + प्रकर्षेण त्यागे । “स्वगृहिणी प्रेयस्यपि प्रोज्झिता” प्र० बो० ।
“लिखितमपि ललाटे प्रोज्झितुं कः समर्थः” हितो० ।
सम् + सम्यक्त्यागे ।


skd

k1=उज्झ, L=4431
उज्झ¦ श त्यागे । इति कविकल्पद्रुमः ॥ (तुदां -परं-
सकं -सेट् ।) जोपध इत्येके । उजिज्झिषति ।
औजिज्झत् । श उज्झती उज्झन्ती । इति
दुर्गादासः ॥ अन्यत् उद्झधातौ द्रष्टव्यम् ॥


Match 0060: vcp=उठ, skd=उठ

vcp

k1=उठ, L=8729
उठ¦ गतौ भ्वा० पर० सक० सेट् । ओठति ओठीत् । उवोठ ऊठतुः
ओठिता उठ्यात् ओठिष्यति औठिष्यत् ।


skd

k1=उठ, L=4441
उठ¦ उपघाते । (भ्वादिं-परं-सकं-सेट् ।) इति कवि-
कल्पद्रुमः ॥ ह्रस्वादिः । ओठति खलः साधुम् ।
इति दुर्गादासः ॥


Match 0061: vcp=उड, skd=उड

vcp

k1=उड, L=8730
उड¦ संहतौ सौत्र० पर० अक० सेट् । ओडति औडीत् ।
उवोड ऊडतुः । ओडिता उड्यात् ओडिष्यति औडि-
ष्यत् । उडु


skd

k1=उड, L=4442
उड¦ संहतौ । (परं-अकं-सेट् ।) सौत्रधातुरयम् । इति
कविकल्पद्रुमः ॥ उडुपः । इति दुर्गादासः ॥


Match 0062: vcp=उदप, skd=उदप

vcp

k1=उदप, L=9095
उदप¦ आघाते सौत्रः पर० सक० सेट् । उदपति । औदपीत् औदापीत् ।


skd

k1=उदप, L=4642
उदप¦ आघाते । सौत्रधातुरयम् । इति कविकल्प-
द्रुमः ॥ (परं-सकं-सेट् ।) पञ्चमस्वरादिः । उदञ्चः ।
इति दुर्गादासः ॥ पानुबन्ध उदधातुरयं भ्रम-
वशात् उदपेति लिखितः ॥


Match 0063: vcp=उध्रस, skd=उध्रस

vcp

k1=उध्रस, L=9353
उध्रस¦ उञ्छे क्य्रा० पर० अक० सेट् । उध्रस्नाति औध्रासीत्
[Page1188-a+ 38]
उध्रसाम्--बभूव आस चकार ।


k1=उध्रस, L=9354
उध्रस¦ उत्क्षेपे उञ्छे च (कणशआदाने) चु० सक० सेट् । उध्रसयति ते । औदिध्रसत् त


skd

k1=उध्रस, L=4811
उध्रस¦ ग उञ्छे । इति कविकल्पद्रुमः ॥ (क्रादिं-परं-
सकं-सेट् ।) एतस्यादौ पञ्चमस्वरः । मध्ये केवल-
धकारस्याधो रेफः । क्र्यादावुध्रस उञ्छ इत्यय-
मुदिच्चौरादिकः पट्यते तस्य ध्रासयतीति रूपं
अपरं ध्रस्नाति । येषां ध्रसेः उत्पूर्ब्बस्य गणद्वयेऽपि
पठनं तेषां मते श्नाविधावुध्रस्नाति निगद्यते णिचि
कृतेऽप्युध्रासयत्यन्यतः । अत्र उत्पूर्ब्बस्येति तु उत्
उकारः नतूपसर्गः । ग उध्रस्नाति शस्यं दीनः ।
इति दुर्गादासः ॥


k1=उध्रस, L=4812
उध्रस¦ क उत्क्षेपे । उञ्छे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) क उध्रासयति धूलिं वायुः ।
इति दुर्गादासः ॥


Match 0064: vcp=उन्द, skd=उन्द

vcp

k1=उन्द, L=9355
उन्द¦ क्लेदने रुधा० पर० सक० सेट् । उनत्ति उन्तः उन्दन्ति उ-
न्द्यात् उनत्तु । औनत् औन्ताम् औन्दन् औनः--औ-
नत् । औन्दीत् । उन्दाम्--बभूव आस चकार । उन्दिता
उन्दिष्यति औन्दिष्यत् । उन्दन् उन्दनम् उत्तिः उन्नः-
उत्तः । “घृतप्रुषा मनसा हव्यमुन्दन्” ऋ० २, ३, २ ।
“यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयोजायन्ते” शत०
७, ५, २, ३ । भ्वादित्वमपि । “शिरस्त्रिरुन्दति अदितिः
केशान् वपत्याप उन्दन्तु वर्चसः इति” आश्व० गृ० १, १७,
७ । णिच् उन्दयति--ते औन्दिदत्--त सन् उन्दिदिषति ।


skd

k1=उन्द, L=4813
उन्द¦, ई ध क्लेदे । इति कविकल्पद्रुमः ॥ (रुधां-परं-
सकं-सेट् ।) ह्रस्वादिः । क्लेद आर्द्रभावः । ध
उनत्ति वस्त्रं पयसा । ई उन्नः उत्तः । उन्दिदिषति ।
इति दुर्गादासः ॥


Match 0065: vcp=उब्ज, skd=उब्ज

vcp

k1=उब्ज, L=10001
उब्ज¦ आर्जवे तुदा० पर० अक० सेट् । उब्जति औब्जीत् ।
णिचि उब्जयति ते औब्जिजत् त । “इन्द्राग्नीरक्ष उब्ज-
तम्” ऋ० १, २१, ५ । “उब्जन्तु तं सुभ्वः पर्व्वतासः”
६, ५ २, १ । घञ् नि० वस्य दः समुद्गः अभ्युद्गः । नि + उब्ज
(उलटान) उत्तानस्यावतानकरणे न्युब्जति उत्तानं
वस्तु अवतानं करोतीत्यर्थः ।


skd

k1=उब्ज, L=5103
उब्ज¦, श आर्ज्जवे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
अकं-सेट् ।) ह्रस्वादिः । ओष्ठ्यबकारोपधः ।
तेन र्व्यनच्तयीति दीर्घो न स्यात् । स्यादौ नवद्र
इति उब्जिजिषति । ऊर्णौर्ज्जोर्दीर्घपाठसामर्थ्यात्
स्वरादेर्न दीर्घ इति केचित् । दन्त्यवकारत्वान्न
उब्जतीत्यत्र दीर्घ इत्यप्येके । श उब्जती उब्जन्ती ।
आर्ज्जवमवक्रीभावः । उब्जति साधुरवक्रः स्यादि-
त्यर्थः । इति दुर्गादासः ॥ (यथा, ऋग्वेदे । ६ । ५
२ । १ ॥ “उब्जन्तु तं सुभ्वः पर्व्वतासो निहियता
मतियाजस्य यष्ट” ॥)


Match 0066: vcp=उभ, skd=उभ

vcp

k1=उभ, L=10003
उभ(म्भ)¦ पूर्त्तौ तुदा० प० सक० सेट् । उभति औभीत् ।
उवोभ । उम्भति उम्भीत् अयं मुचादिरिति कविकल्प
तन्मते औम्भत्” मोपधत्वात् नोपधालोपः उम्भाम् बभूव
आस चकार । वेदे गणव्यत्ययः उनप्ति उम्राति “दृढा-
न्यौम्नादुशमानओजः” ऋ० ४, १९, ४ । “दृध्रमुब्धं
गा ये मानम् परिबन्तमद्रिम्” ऋ० ४, १, १५ । “सर्व्वमर्म्मसु
काकुत्स्थमौम्भत्तीक्ष्मैः शिलीमुखैः” भट्टिः । पा० मते
लुङि रूपम् । अन्यमते लुङि रूपम् ।


skd

k1=उभ, L=5104
उभ¦, श पूर्त्तौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) ह्रस्वादिः । श उभति कुम्भं जलेन
लोकः । उवोभ । इति दुर्गादासः ॥


Match 0067: vcp=उर, skd=उर

vcp

k1=उर, L=10027
उर¦ गतौ सौ० पर० सक० सेट् । ओरति औरीत् उवोर ऊरतुः


skd

k1=उर, L=5122
उर¦, गतौ । सौत्रधातुरयम् । इति कविकल्पद्रुमः ।
(परं-सकं-सेट् ।) पञ्चमस्वरादिः । उरसः । इति
दुर्गादासः ॥


Match 0068: vcp=उर्व, skd=उर्व्व *

vcp

k1=उर्व, L=10086
उ(ऊ)र्व¦ हिंसायां भ्वा० पर० सक० सेट् । उ(ऊ)र्वति और्वीत् ।
क्विपि वलोपे ऊः उरौ दीर्वादित्वे ऊरौ इति भेदः ।


skd

k1=उर्व्व, L=5163
उर्व्व¦, ई, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वादिं-
परं-सकं-सेट् ।) ह्रस्वादिः । र्व्यनच्तयीति दीर्घे
ऊर्व्वति । क्विपि राच्छ्वोर्लेप इति वलीपे ऊः उरौ
उरः । एवं सर्व्वत्र । ई ऊर्णः । इति दुर्गादासः ॥


Match 0069: vcp=उल, skd=उल

vcp

k1=उल, L=10103
उल¦ दाहे (सौत्रः) पर० सक० सेट् । ओलति औलीत्


skd

k1=उल, L=5171
उल¦ दाहे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥
(परं-सकं-सेट् ।) उल्का । उलपम् । इति दुर्गा-
दासः ॥


Match 0070: vcp=उष, skd=उष

vcp

k1=उष, L=10161
उष¦ दाहे बधे च भ्वा० पर० सक० सेट् । ओषति औषीत् औषाम्
बभूव आस चकार उवोष ओषित्वा । णोषितः--उषितः ।
उष्मा । कर्म्मणि उष्यते ओषामासे ऊषे “ओषामासे मत्सरो
त्पातवाताश्लिष्यद्दन्तक्ष्मारुहाम्” माघः । “हिरण्यमायु-
रन्नञ्च भूर्गौश्चाप्योषतस्तनुम्” मनुः । “दण्डेनैव तमप्योषेत्
स्वकाद्धर्म्माद्धि विच्युतम्” मनुः ओषाञ्चकार कामाग्नि-
र्दशवक्त्रमहर्निशम्” भट्टिः “चिचेत रामस्तत्कृच्छ्रमोषाञ्चक्रे
शुचेश्वरः” भट्टिः तस्य “मूत्रप्रतीघातादुष्यते चूष्यते दह्यते
पच्यते इव” सुश्रुतः ।


k1=उष, L=10162
उष¦ दाहे बधे च भ्वा० पर० सेट् उदित् सक० सेट् ।
ओषति औषीत् ओषाम् बमूव--आस--चकार उवोष ।
उदित्त्वात् ओषित्वा उष्ट्वा वेट् । क्त । उष्टः । ओषणः ।
अभि + सर्व्वतो दाहे । “योऽभ्युष्टमिश्र इव” शत० ब्रा०
११, २, ७, २३ । अभित ओषणं अभ्युष्ट सर्व्वतोदाहः तेन-
भिश्र इव” भा० ।
अव + अधःसन्तापनेन दाहे । अवोषः अधोभागे दग्धो अन्नभेदः अपूपादि० ।
उद् + आधिक्येन दाहे । “मा मोदोषिष्टम् मा मा हिंसिष्ट-
म्” शत० ब्रा० १, ५, १, २५ । “युवां मामुत्कृष्टमाधि-
क्येन वा उदोषिष्टं दाहं काष्टम्” भा० ।
उप + सामीप्येन दाहे । “अग्निना वा कक्षमुपोषेत्” आश्व०
गृ० २, ४, ९ । तमग्निभिः समुपोषेत्तदेनम्” शत० ब्रा०
१२, ५, १, १३ । उपवासे च उपोषणम् ।
प्रति + प्रतिदाहे । “स त्वमग्ने प्रतीकेन प्रत्योषः यातुधान्यः”
ऋ० १०, ११८, ८ । प्रत्येकदाहे च “प्रत्युष्टं रक्षः प्रत्युष्टा
अरातयः” यजु० १, ७, “प्रत्युष्टं प्रत्येकं दग्धम्” वेददी० ।


skd

k1=उष, L=5211
उष¦ उ बधे, दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं-
परं-सकं-सेट् ।) ह्रस्वादिः । उ ओषित्वा उष्ट्वा ।
ओषति । क्त्वावेट्त्वान्नेमडीश्वीत्यादिना इमो
निषेधे निष्ठायां उष्टः । दहि भस्मीकरणे । इति
द्बुर्गादासः ॥


k1=उष, L=5212
उष¦ बधे । दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं-
सकं-सेट् ।) ओषति । उषितः । दहि भस्मी-
करणे । इति दुर्गादासः ॥ (यथा, मनुः । ९ । २७३ ।
“यश्चापि धर्म्मसमयात् प्रच्युती धर्म्मजीवनः ।
दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्” ॥)


Match 0071: vcp=उह, skd=उह

vcp

k1=उह, L=10223
उह¦ अर्दने भ्वादि० पर० सक० सेट् इरित् । ओहति औहत्,
औहीत्, उवोह ऊहतुः । अप अपसारणे तानपौहीत्
निशाचरः” भट्टिः “अपौहदुत्तरः” रघुः


skd

k1=उह, L=5262
उह¦ इर् अर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं
सकं-सेट् ।) ह्रस्वादिः । इर् औहत् औहीत् ।
अर्द इह बधः । इति दुर्गादासः ॥


Match 0072: vcp=ऊन, skd=ऊन

vcp

k1=ऊन, L=10240
ऊन¦ परिहाणे अदन्तचुरा० उभ० सक० सेट् । ऊनयति ते
औनिनत् त लुङि वा चङ् औनयीत् औनयिष्ट ।
ऊनः ऊनितः । “मा त्वायतोजरितुर्मामूनयीः” ऋ०
१, ५, ३, ३ ।


skd

k1=ऊन, L=5274
ऊन¦, त् क परिहाने । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) दीर्घादिर्दन्त्योपधः । तथा
च । “क्षोभमाशु हृदयं न यदूनां रागवृद्धिमकरोन्न
यदूनाम्” । इति माघयमकम् । परिहानं न्यूनक्रिया ।
ऊनयति बणिक् स्वर्णं प्रथमपरिमाणात् । परि-
माणमात्रेऽयमिति केचित् । मा भवान् ऊनिनत् ।
ऊनधोर्ञिः अङ् द्वित्वे स्वस्थानमेव नास्ति अतो
नाग्लोपित्वमिति सन्देहनिरासार्थमाह । ओने-
रृदनुबन्धज्ञापकबलात् द्वित्वात् प्राक् प्राप्तो
ह्रस्वो अग्लोपित्वान्न स्यात् । इति दुर्गादासः ॥


Match 0073: vcp=ऊय, skd=ऊय

vcp

k1=ऊय, L=10247
ऊय¦ तन्तुसन्ताने भ्वा० ईदित् आत्म० सक० सेट् । ऊयते
औयिष्ट । ईदित्त्वात् निष्ठायां नेट् ऊतः ऊतवान् ऊतिः


skd

k1=ऊय, L=5280
ऊय¦, ई ङ सेवने । तन्तुसन्ताने इति यावत् ।
इति कविकल्पद्रुमः (भ्वादिं-आत्मं-सकं-सेट् ।)
दीर्घादिः । सेवनमिह षिव्युतन्तुततावित्यस्य
रूपं ई ऊतः । ङ ऊयते पटं सौचिकः । इति
दुर्गादासः ॥


Match 0074: vcp=ऊर्ज्ज, skd=ऊर्ज्ज

vcp

k1=ऊर्ज्ज, L=10258
ऊर्ज्ज¦ बलाधाने जीवने वा अदन्तचु० पक्षे भ्वा० अक० तत्-
करणे सक० सेट् । उर्ज्जवत् । नाभयो वाजिनमूर्जयन्ति”
ऋ०९, ८९, ४, “यो ह्येबान्नमत्ति स प्राणिति तमूर्ज्ज-
यति” शत० ब्रा०७, ५, १, १८, “तां वो देवाःसुमतिमूर्ज्ज-
यन्तीमिषमश्याम” ऋ०५, ४१, १८ ।


skd

k1=ऊर्ज्ज, L=5291
ऊर्ज्ज¦, क जीवने । बले । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सेट् ।) दीर्घादिः । क ऊर्जयति
जनो जीवति बली स्याद्वेत्यर्थः । इति दुर्गादासः ॥


Match 0075: vcp=ऊर्ण्णु, skd=ऊर्णु *

vcp

k1=ऊर्ण्णु, L=10274
ऊर्ण्णु¦ आच्छादने अदा० उभ० सक० सेट् । ऊर्ण्णौति ऊर्ण्णोति
ऊर्ण्णुतः ऊर्णुवन्ति ऊर्णुते । ऊर्ण्णुयात् ऊर्णुवीत । ऊर्ण्णोतु
ऊर्ण्णौतु ऊर्णुहि ऊर्ण्णुताम् । और्ण्णौत् और्ण्णोत् । औ-
र्णुत । और्ण्णवीत् और्ण्णावीत् और्ण्णुवीत् और्ण(र्णा)(र्णु)
विष्ट उर्ण्णुनाव उर्ण्णुनुवतुः । उर्ण्णुनुविरे । ऊर्ण्णु(र्ण)
विता । ऊर्णूयात् ऊर्ण्णु(र्णु)विषीष्ट । ऊर्ण(र्ण्णु)विष्यति ते
और्ण्णु(र्ण)विष्यत् त । ऊर्ण्णुवन् ऊर्ण्णुवानः ऊर्ण्णुतः । “स
द्यामौर्ण्णोदन्तरिक्षम्” अथ० ७, १, २, “उर्णुनाव दिशः शस्त्रैः”
“दृष्ट्वोर्ण्णवानान् ककुभो बलौघान्” भट्टिः “ऊर्ण्णना-
[Page1388-a+ 38]
भिर्यथोर्णुते” भा० २, ९, २७, । सनि ऊर्ण्णुनूषति ते
ऊर्ण्णुनुविषति ते ऊर्ण्णुनविषति ते ।
अप + अपसृतावरणे “अपीवृता अपोर्ण्णुवन्तो अस्थुः” ऋ० १
१९०, ६, “अपोर्ण्णुवन्तः अपगतनिरसनवन्तः” भा० ।
अभि + आभिमुख्येन आच्छादने । “अभ्यूर्ण्णोति यन्नग्नं भिष-
क्ति” ऋ० ८, ७९, २,
आ + समगाच्छादने । “इन्द्रं सोमैरोर्ण्णुत जूर्ण्णवस्त्रैः” ऋ० २, १४, ३
प्र + प्रच्छादने । प्रौर्ण्णुवन् शरवर्षेण तानपौहीन्निशाचरः” ।
“प्रोर्णुवन्तं दिशोवाणैः” भट्टिः ।
वि + विगतापवरणे प्रकाशने । “सवितर्व्यूर्णुषेऽनुचीना” ऋ०४,
५४, २, “व्यूर्णुसे प्रकाशयसि” भा०


skd

k1=ऊर्णु, L=5301
ऊर्णु¦, ञ ल आच्छादने । इति कविकल्पद्रुमः ॥
(अदां-उभं-सकं-सेट् ।) दीर्घादिर्दन्त्योपधः । रेफ-
योगान्मूर्द्धन्यः । तेन ऊर्णुनाव इत्यादौ निमित्ता-
भावान्मूलधातोर्णत्वाभावः । लञ ऊर्णोति ऊर्णौति
ऊर्णुते दिशं मेघः । इति दुर्गादासः ॥
(यथा, भट्टिः । १४ । १०३ ।
“ऊर्णुनाव स शस्त्रौघैर्वानराणामनीकिनीम्” ॥)


Match 0076: vcp=ऊह, skd=ऊह

vcp

k1=ऊह, L=10356
ऊह¦ वितर्के भ्वादि० आत्म० सक० सेट् । ऊहते औहिष्ट । ऊहां
[Page1396-b+ 38]
बभूव आस चक्रे । ऊहितः ऊहमानः ऊहितुम् ऊहः ।
“औहिष्ट तान् वीतविरुद्धबुद्ध्वीन्” भट्टिः । कर्मणि ऊह्यते
औहि णिच् । ऊहयति ते औजिहत् त । “रूपेण
तावौजिहतां नृसिंहौ” भट्टिः अस्य ऊहशब्दे वक्ष्य-
माणेऽर्थेऽपि वृत्तिः । परस्मैपदित्वमप्यस्य ऊहति, इत्यु-
हेत्द्विदैवतं दैविकेषु” कात्या० १०१, ३, १, १७, यादौ उप-
सर्गात् परस्यादेर्ह्रस्वः । समुह्यते
अति + एकदेशस्थितस्य तद्विपरीतदेशप्रेरणे “द्रोणकलसमत्यू-
ह्य” कात्या० ९, २, १६ । “अत्युह्य प्राञ्चमेव प्रतीच्यां
प्रेर्य्य” कर्कः ।
अधि + अञ्जने । “अग्निमग्नीत् संमृढ्ढीति यथाधुरमध्यूहे
देवं तद्यत् पूर्वमाघार माघार यत्यध्युह्य हि धुरं युञ्जन्ति”
शत० ब्रा० १, ४, ४, १३,
अप + निरसने दूरीकरणे । “अपोह्य बर्हींषि” कात्या० २,
२, १७, “एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः” मनुः ।
“सर्वान् रसानपोहेत कृतान्न च तिलैः सह” मनुः
प्रतिकूलतर्केण प्रकृतर्तर्कापनमने अपोहः ।
अप + वि + निवारणे “व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः” भा०
आ० ४७० ।
अभि + आच्छादने । “अथाङ्गारैरभ्यूहति” शत० ब्रा० १, २, ४, ३८ । “अभ्यूहति आच्छादयति” भा० ।
उत् + उत्कर्षणे । “रशनामुदुह्य प्राच्याम्” कात्या० १, ६, १ ।
“उदुह्य उत्कृष्य” कर्कः निरसने च । “तेन प्राचोऽङ्गा-
रानुदूहति” शत० ब्रा० १, २, १, ४ ।
प्रति + उद् + प्रक्षेपणे “दक्षिणतः पुरीषं प्रत्यूहेत” शत० ब्रा० १, ३, ५, १७ ।
वि + उद् + अन्ते विवर्द्धने । “चतुङ्गुलमुभमयतो बाह्यतो व्यु-
दूहति” शत० ब्रा० १०२, १, ४ । व्युदूहति अन्ते विवर्द्ध-
यति” भा०
उप + अधस्तात् प्रवेशने । “पश्चाच्छम्यामुपोहति” कात्या० २,
५, ४ । “उपोहति अधस्तात् प्रवेशयति” कर्कः ।
निर् + निष्काश्य ग्रहणे पृथक्करणे च । गार्हपत्यादुष्णं भस्म
निरुह्य” शत० व्रा० १३, ४, २, २ । “शिरः श्रियमस्य निरौ-
हत्” शत० ब्रा० १०, ५, ४ । वपान्तेऽनपेक्षमध्वर्युः
प्रेष्यति निरूहैतं गर्भमिति” “निरुह्यमाणमभिमन्त्रयीत”
कात्या० २५, १०, ४, ५ । निरुह्यमाणं पृथक्क्रियमाणम्
वेददी० निरूहणम्
परि + परितः खातपूरणे । “अरत्निमात्रे संतृण्णे वोपदधाति-
पर्यूहति च” कात्या० ८, ५, २५ । पर्यूहति पांशुभिरन्त-
रालं परितः पूरयति” कर्कः । पर्य्यूहणम् ।
[Page1397-a+ 38]
प्र + देशान्तरनयने । “प्रोह्य द्रोणकलसम्” कात्या० ९, ५,
१४ । “प्रोह्य प्रेर्य्य” कर्कः । पातने च “कृष्णाजिने
प्रोहति” कात्या० २, ५, ७ । प्र + ऊहस्यादेर्वृद्धिः प्रौहः ।
प्रति + उपरिस्थापने । “दीक्षितोरौ दक्षिणे प्रत्यह्य वासः”
कात्या० ७, ८, २३ । “प्रत्युह्य उपरि स्थापयित्वा” वेददी०
निवारणे च । “प्रत्यौहतमश्विनी मृत्युमुखात्” यजु० २७,
“प्रत्यौहतं न्यवर्त्तयताम्” वेददी० ।
वि + विपरीततया प्रेरणे “जुहूपभृतौ व्यूहति” कात्या० ३, ५,
१७ । सैन्यानां सन्निवेशविशेषेण स्थापने च । व्यूहः ।
“प्रहर्षयेद्बलं व्यूह्यतांश्च सम्यक् परीक्षयेत्” मनुः ।
समवेतभवने । “योवैम्रियते ऋतवोऽस्य व्युह्यन्ते” शत०
ब्रा० ८, ७, १२, ११,
प्रति--वि-- प्रतिरूपव्यूहकरणे । “वार्हस्पत्यविधिं कृत्वा प्रति-
व्यूह्य निशाचरम्” भा० व०३८४ अ० । विरोधाचरणे च
प्रत्यूहः
सम् + समवेतभवने संहनने सम्यक्प्रापणे च । “यद्गव्यन्ता
द्वा जना स्वर्यन्ता समूहसि” ऋ० १, १३१, ३, ससूहसि
प्रापयसि भा० । सम्यक्पूरणे “अङ्गारैरभि समूहति” शत०
ब्रा० ४, ५, २, १८, समूहः
उप + सम् समीपे सङ्कोचने “पक्षाउपसमूहन्ते” शत० ब्रा० १०,
२, १, १, “समूहन्ते मध्यमागसमीपे सङ्कोचयन्ति” भा० ।
परि + सम् + समन्तात् परिमार्जने “वेदिं परिसमुह्य” कात्या०
२, ६, १, २, “परिसमुह्य सर्म्माज्य” कर्कः । “अग्निं प्रति-
ष्ठाप्यान्वाधाय परिसमुह्य” आश्व० गृ० १, ३, १, “परिसमूहनं
नाम चाग्नेः समन्तात् परिमार्जननम्” नारा० वृ० ।
समूढव्यूढनिरूढादिकमस्यैव रूपमाहुः केचित् । अस्य-
सेट्कत्वात् ऊहित इत्यादय एव स्युः । अतस्तानि उपसृष्टस्य
वहतेरेव रूपाणीत्यन्ये । अस्यैव आङ्पूर्ब्बकस्य ओहते
इति रूपम् । न तु केवलस्य, दीर्घोपधत्वेन गुणाप्रसक्तेः ।


skd

k1=ऊह, L=5343
ऊह¦ ङ वितर्के । सन्देहाद्विचारे । इति कविकल्प-
द्रुमः ॥ (भ्वादिं-आत्मं-सकं-सेट् ।) दीर्घादिः ।
सन्देहाद्विचारस्तर्कः । ङ ऊहन्ते धर्म्मं धीरः ।
यशः समूहन्निव दिग्विकीर्णमिति गेर्व्वास्योर्होढे
चेति परस्मैपदविधानाच्छत्रन्तम् । “अनुक्तमप्यू-
हति पण्डितो जनः” । इति गणकृतानित्यत्वादिति
रमानाथः । वस्तुतस्तु पचादित्वादनि ऊह इवा-
चरतीति क्वौ साध्यम् । इति दुर्गादासः ॥


Match 0077: vcp=ऋ, skd=ऋ

vcp

k1=ऋ, L=10364
ऋ¦ गतौ भ्वा० पर० सक० अनिट । शिति ऋच्छादेशः । ऋच्छति
आर्च्छत् आरत्--आर्षीत् । आर आरिथ अर्त्ता अर्य्यात्
अरिष्यति । आरिष्यन् । ऋच्छन् ऋतः ऋतिः अर्त्तव्यः
अरणीयः अर्य्यः यत् वैश्यस्वामिनोः अन्यत्र ण्यत्
आर्य्यः । अर्त्ता आरी आरिवान् अर्त्तुम् । सङ्गमा-
र्थत्वेनाकर्म्मकात् सम्पूर्ब्बकात् ततः आत्म० । समृच्छते ।
समारत समार्त्त । “सारमानवरारोहा--वनमार सा” उद्भटः ।
ऋ--णिच् अर्पयति ते । सन् अरिरिषति समरिरिषते
गत्यर्थत्वेऽपि कौटिल्ये यङ् । अरार्य्यते “किमभीरुररा-
र्य्यसे” भट्टिः । कर्मणि अर्य्यते । आरि ।


k1=ऋ, L=10365
ऋ¦ गतौ प्रापणे च जुहो० पर० सक० अनिट् । लडादौ शपो-
लुक्त्वेन शित्परत्वाभावात् न ऋच्छादेशः । शतृशान-
चोस्तुतदादेशः । इयर्त्ति इयृतः इय्रति । इयृयात् ।
इयर्त्तु इयृहि इयराणि । ऐयः ऐयृताम् ऐयरुः ।
आरत्--आर्षीत् सृसाहचर्य्यात् अङ्विधौ भ्वादेरेव ग्रहण-
मित्यन्ये तन्मते आर्षीदित्येव । समारत समार्त्त इत्यन्ये
आर इत्यादि भ्वादिवत् । शित्त्वात् इयृच्छन् समृच्छा-
न इति भेदः । अयं वैदिक एवेति बहवः “बहुलं छन्द-
सीति” पा० सिद्धेः “अर्त्तिपिपार्त्त्योश्च” पा० इतीत्त्वविधा-
नसामर्थ्यादयं भाषायामपि” सि० कौ० । “शुष्म इयर्त्ति
प्रभृतो मे अद्रि” ऋ० १, १६५, ४ । “इयर्त्ति वाचमरितेव
[Page1399-b+ 38]
नावम्” २, ४२, १ । अनयोर्गत्यर्थत्वात् उपसर्गभेदेनार्थभेदस्तु
इणधातुवत् स च तच्छब्दे उक्तः “अभैषुः कपयोऽन्वारत्
कुम्भकर्णं मरुत्सुतः” “सीतां जिघांसू सौमित्रे
राक्षसावारतां ध्रुवम्” भट्टिः । आ + ऋत आर्त्तः वृद्धिः
“तथार्त्तोऽपि क्रियां धर्म्याम्” भट्टिः “उदयर्षि भानुना”
ऋ०१०, १४०, २, “समुद्रादूर्मिमुदियर्त्ति वेनः” १०, १२३,
३, “यदा शसा निःशसा भिशसोपारिम जाग्रतो यत्
स्वपन्तः” ऋ०१०, १६४, ३, एवं यथायथमुपसर्गपूर्वस्य
उदाहरणं दृश्यम् ।


k1=ऋ, L=10366
ऋ¦ हिंसायां स्वा० पर० सक० अनिट् । ऋणोति । ऋणुयात
ऋणोतु ऋणु आर्णत् । आर्षीत् लिडादौ भ्वादिवत्
शतृ--ऋण्वन् क्त ऋणम् इतिभेदः “त्वेषस्तेधूम ऋण्वति”
ऋ०६, २, ६, “ऋणं देयमदेयञ्च येन यत्र यथा च यत्”
याज्ञ० स्मृतिः । “अपद्वारा मतीनां प्रत्ना ऋण्वन्ति का
रवः” ऋ० ९, १०, ६, ऋणोरक्षं न शचीभिः” ऋ० १, ३०,
१५, अस्य रिकारादित्वमित्यन्ये रिणोति इत्यादि ।


skd

k1=ऋ, L=5346
ऋ¦, ऋकारः । सप्तमस्वरवर्णः । अस्योच्चारणस्थानं
मूर्द्धा । (ऋटुरषाणाम्मूर्द्धा” । इत्युक्तेः । तथाच
शिक्षायां “स्युर्मूर्द्धण्या ऋटुरषाः” । तथा च
मुग्धबोधे । “ऋत्रयं टठडढणरषा मूर्द्धण्याः” ।
इति ।) स तु ह्रस्वो दीर्घः प्लुतश्च भवति ॥ (एवं
त्रिधापि उदात्तानुदात्तसरितभेदात् नवविधस्ततः
प्रत्येकं अनुनासिकानुनासिकभेदादष्टादशविध-
एव ।)
“ऋकारं परमेशानि कुण्डली मूर्त्तिमान् स्वयम् ।
अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने ॥
सदाशिवयुतं वर्णं सदा ईश्वरसंयुतम् ।
पञ्चवर्णमयं वर्णं चतुर्ज्ञानमयं तथा ॥
रक्तविद्युल्लताकारं ऋकारं प्रणमाम्यहम्” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम्) तस्य
लेखनप्रकारादि यथा ।
“ऊर्द्ध्वाद्दक्षगता वक्रा त्रिकोणा वामतस्ततः ।
पुनस्त्वधोदक्षगता मात्रा शक्तिः परा स्मृता ॥
मात्रासु ब्रह्मविष्ट्वीशास्तिष्ठन्ति क्रमतः पराः” ।
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा ।
“ऋः पूर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः ।
भावभूतिः क्रिया क्रूरा रेचिका नाशिका धृतः ॥
एकपादशिरो माला मण्डला शान्तिनी जलम् ।
कर्णः कामलता मेधो निवृत्तिर्गणनायकः ॥
रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी” ।
इति तन्त्रम् ॥ (मातृकान्यासेऽस्य दक्षिणघ्राणेऽव-
स्थितित्वात्तदाख्ययाप्यभिधानम् । यथा, मातृका-
[Page1-283-a+ 52]
न्यासधृतमन्त्रे “ऋं नमो दक्षिणघ्राणे ॠं नमो
वामघ्राणे” । इति । अनुबन्धविशेषः । यथा,
कविकल्पद्रुमः । “उः क्त्वावेडस्तु वेट्क ऋः ।
चङ्य-ह्रस्वः” । एतेन ढौकृङ् गत्यामित्यस्य लुङि
अडुढौकदिति सिद्धम् ॥)


k1=ऋ, L=5347
ऋ¦, प्रापे । गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वादिं-
परं-सकं-अनिट् ।) प्रापः प्राप्तिः । “ऋच्छति धनं
कृती” । इति दुर्गादासः ॥


k1=ऋ, L=5348
ऋ¦, इर ल गत्याम् । इति कविकल्पद्रुमः ॥ (अदां-
परं-सकं-अनिट् ॥)


k1=ऋ, L=5350
ऋ¦, र न हिंसने । इति कविकल्पद्रुमः ॥ (स्वां-परं-
सकं-अनिट् ।) र वैदिकः । न ऋणोति । रेफादि-
स्तृतीयस्वरान्तोऽयमिति केचित् । इति दुर्गादासः ॥


Match 0078: vcp=ऋच्, skd=ऋच *

vcp

k1=ऋच्, L=10395
ऋच्¦ स्तुतौ तुदा० पर० सक० सेट् । ऋचति आर्चीत् ।
आनर्च । कर्मणि ऋच्यते आर्चि । “याभ्यां गायत्रमृच्यते”
ऋ० ८, ३८, १० “ब्रह्माण्यृच्यन्ते युवभ्याम्” ७, ७०, ६,


skd

k1=ऋच, L=5363
ऋच¦, श नुत्याम् । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) श ऋचति । आनर्च्च । इति दुर्गादासः ॥


Match 0079: vcp=ऋच्छ, skd=ऋच्छ

vcp

k1=ऋच्छ, L=10403
ऋच्छ¦ मोहे मूर्त्तौ (कठिनीभावे) अक० गमने सक० तुदा० पर०
सेट् । ऋच्छति आर्च्छीत् आनर्च्छ । उपसर्गात् अस्यादे
र्वृद्धिः प्रार्च्छति अपार्च्छति । “उपसर्गाः क्रियायोगे”
पा० इत्युक्तेः यत्क्रियया योगस्तत्व्रियायामेवोपसर्गत्वम् तेन
प्रगतः ऋच्छकोऽस्मात् वाक्ये प्रादि० ब० । प्रर्च्छकः इत्यादौ न
वृद्धिः अत्र प्रस्य गमेरुपसर्गत्वेन ऋच्छोपसर्गत्वाभावात् ।


skd

k1=ऋच्छ, L=5365
ऋच्छ¦, श मूर्त्तौ । गमने । मोहे । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं अकञ्च-सेट् ।) श ऋच्छती ऋ-
च्छन्ती । मूर्त्तिः कठिनीभावः । “मूर्त्तिः काठिन्य-
काययोरित्यमरात् । ऋच्छति घृतं कठिनं स्यादि-
त्यर्थः । ऋच्छति वृद्धो गच्छति मुह्यति वेत्यर्थः ।
[Page1-283-c+ 52]
मोहस्थाने इन्द्रियप्रलयं पठन्ति प्राञ्चः । ऋच्छति
वृद्धस्येन्द्रियंप्रलीयते इत्यर्थः । इति रमानाथः” ॥
इति दुर्गादासः ॥


Match 0080: vcp=ऋज, skd=ऋज

vcp

k1=ऋज, L=10405
ऋज¦ गतौ ऊर्जने (बलाधाने) अर्ज्जुने च भ्वा० आत्म०
मक० स्थैर्य्ये अक० सेट् । ऊर्ज्जते आर्ज्जिष्ट आनृजे ।


k1=ऋज, L=10406
ऋज¦ भर्ज्जने इदित् भ्वा० आ० सक० सेट् । ऋञ्जते
आर्ञ्जिष्ट । ऋञ्जां बभूव आस चक्रे । ऋञ्जसानः ।


skd

k1=ऋज, L=5367
ऋज¦, ङ गत्याम् । स्थैर्य्ये । ऊर्ज्जने । अर्ज्जने । इति
कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं-सकं-अकञ्च-सेट् ।)
ङ अर्ज्जते । ऊर्ज्जनं जीवनं बलवद्भावश्च । इति
दुर्गादासः ॥


k1=ऋज, L=5368
ऋज¦, इ ङ भृजि । इति कविकल्पद्रुमः ॥ (इदित्
भ्वादिं-आत्मं-सकं-सेट् ।) ह्रस्वादिः । भृजि भर्जने ।
इ ऋञ्ज्यते । ङ ऋञ्जते मत्स्यं सूपकारः । इति
दुर्गादासः ॥


Match 0081: vcp=ऋण, skd=ऋण

vcp

k1=ऋण, L=10423
ऋण¦ गतौ तना० उभ० सक० सेट् । अर्ण्णोति ऋणोति, ऋणुते
[Page1416-b+ 38]
आर्णीत् आर्णिष्ट । आनर्ण्ण आनृणतुः आनृणे । ऋणः ।


skd

k1=ऋण, L=5374
ऋण¦, द उ ञ गतौ । इति कविकल्पद्रुमः ॥ (तनां-
उभं-सकं-सेट् ।) द ञ ऋणोति अर्णोति ऋणुते
अर्णुते । उ अर्णित्वा ऋत्वा । इति दुर्गादासः ॥


Match 0082: vcp=ऋध, skd=ऋध

vcp

k1=ऋध, L=10509
ऋध¦ वृद्धौ दिवा० स्वा० च पर० अक० सेट् उदित् इरि-
च्च । दि० ऋध्यति ऋध्यात् ऋध्यतु आर्द्ध्यत् स्वा० ऋ-
ध्नोति ऋध्नुवन्ति ऋध्नुयात् ऋध्नेतु ऋध्नुहि आ-
र्ध्नोत् । उभयतः । आर्द्धत्--आर्द्धीत् । आनर्द्ध आनृ
धतुः । आर्द्धिता ऋध्यात् अर्द्धिष्यति आर्द्धिष्यत् ।
अर्द्धितव्यः अर्द्धनीयः । ऋध्यः । ऋद्धः ऋद्धिः । ऋध्यन्
ऋध्नुवन् अर्द्धः । उदित्त्वात् वेट् अर्द्धित्वा--ऋद्ध्वा । समृध्य ।
“नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्द्धते” ममुः “सपत्ना-
नृध्यतो दृष्ट्वा हीनमात्मानमेव च । सोऽहं न स्त्री नचाप्य-
स्त्री न पुमान् नापुमानाप” भा० स० ४६ अ० । “पृथिव्याम-
ग्नये समनमन्त् स आर्घ्नोत्” अथ० ४, ३९, १ । ये
[Page1447-b+ 38]
भक्षयन्तो न वसून्यानृधुः” २, २५, ८ । आत्मनेपदित्वमपि
“ते च लोमश! लोकेऽस्मिन्नृध्यन्ते केन हेतुना” भा० व०
९४ । वेदे गणव्यत्यासात् श्नम् । “य एषां भृत्यानृणधत् स
जीवात्” ऋ० १, ८४, १६ । मन्मानि धीतिरुत यज्ञमृन्धन्”
१०, ११०, २ । अन्तर्भूतण्यर्थत्वात् सक० । णिचि अ-
र्द्धयति ये “त्वां यज्ञैर्यज्ञिये अर्द्धयन्ति” अ० ७, ८३, ४ ।
सनि वेट् अर्द्दिधिषति ईर्त्सति । वेदे गणव्यत्यासात्
श तेन । “इन्धानास्त्वा शतं हिमा ऋधेम” अथ० १९, ५५,
४ । ऋधच्छब्दे उदा० । “ऋधद्यस्ते धिया मर्त्तः शश-
मते” ऋ० ६, २, ४ । स्वा० तर्पणे वर्द्धने च सक० । “आ-
दृध्नोति हविष्कृतिम्” ऋ० १, १८, ८ । “अन्तत एव तद्दे-
वानृध्नुवन्ति” ऐ० ब्रा० । “सोऽहं प्राग्भवतैव मूतजननी-
मृध्नोमि” भवभूतिः ।
अधि + अधिकवृद्धौ । “यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्द्धः”
इति शत० ब्रा० १४, ६, १० ।
आ + समृद्धौ । “ऋणान्नोनर्ण्णमेर्त्समानो यमस्य लोकेऽधिर-
रज्जुरायत्” अथ० ६, ११८, २ । ताच्छील्ये चानश्
उप + उपगमे । “तस्मादेतत् क्षत्रिय एव नक्षत्रमुपेर्त्सेज्जि-
घांसतीव” शत० ब्रा० २, १, २, १७ । “उपर्त्सेत् स्वीकुर्य्या-
त्” भा० । “एतेषामेव संवत्सरमुपेर्त्सेत्” २, ३, २, १४ ।
वि + ऋद्धिविगमे विगतायां वृद्धौ “अथ यस्मान्न कृत्तिकास्वाद-
धीतर्क्षाणां वा एता अग्रे पत्न्य आसुः सप्तर्षीनु ह स्म वै
पुरर्क्षा इत्याचक्षते ता मिथुनेन व्यार्द्धन्तामी ह्युत्तराहि
सप्तर्षय उद्यन्ति पुर एता अशमिव वै तद्योमिथुनेन
व्यृद्धः स नेन्मिथुनेन व्यृद्धा” इति शत० ब्रा० २, १, २, ४ ।
“व्यार्द्धन्त विगतर्द्धिका अभवन्” भा० । गणव्य० साधुः ।
“यद्यज्ञमुखे यज्ञमुखे जुहुयात् पशुभिर्व्यृध्येत पा-
पीयान्त्स्यात्” १३, १, ३, ८ । “अव्ययं विभक्तीत्यादि”
पा० सूत्रे विगता ऋद्धिः व्यृद्धिः” सि० कौ० ।
सम् + ऋद्धेराधिक्ये अतिशयितर्द्धौ । “अव्ययं विभक्तीत्यादि”
पा० “ऋद्धेराधिक्य समृद्धिः” सि० कौ० । “कः क्षिण्वंस्तान्
समृध्नुयात्” मनुः । “शत्रुपक्षं समृध्यन्तं यो मोहात्
ससुपेक्षते” भा० व० ५४ अ० “अयं कामः समृध्य-
ताम्” यजु० २६, २ । पदव्यत्यासः ।


skd

k1=ऋध, L=5404
ऋध¦, उ य न इर वृद्धौ । इति कविकल्पद्रुमः ॥
(दिवां, स्वां-परं-सकं-सेट् ।) य ऋद्ध्यति । उ
अर्द्धित्वा ऋद्धा । न ऋध्नोति । इर आर्धत् आ-
र्धोत् । क्वचित्तृप्तौ चायम् । सोऽहं प्राग्भवतैव
भूतजननीमृध्नोमीति भवभूतिः ॥ अन्तर्भूतञ्यर्थ-
त्वादिदं सिद्धमिति केचित् । इति दुर्गादासः ॥


Match 0083: vcp=ऋफ, skd=ऋफ

vcp

k1=ऋफ, L=10513
ऋफ¦ दाने हिंसायां निन्दायां युद्धेच सक० श्लाघायाम् अक०
तुदा० पर० सेट् । ऋफति आर्फीत् । कविकल्पद्रुमे
ऋफधातुस्तदर्थे पा० मते रिफधातुस्तेष्वर्थेषु ऋफधातुस्तु
हिंसायामिति भेदः । आनर्फ आनृफतुः ।


skd

k1=ऋफ, L=5405
ऋफ¦, श दाने । श्लाघायाम् । हिंसायाम् । निन्दा-
याम् । यद्धे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं, अकं च-सेट् ।) श ऋफति जनो ददाति
श्लाघते हिनस्ति निन्दति युद्ध्यते वेत्यर्थः । आनर्फ ।
हिंसायामप्ययमित्यन्ये । इति दुर्गादासः ॥


Match 0084: vcp=ऋष, skd=ऋष

vcp

k1=ऋष, L=10524
ऋष¦ गतौ बधे च तुदा० पर० सक० सेट् । ऋषति आर्षीत् ।
आनर्ष आनृषतुः अर्षिता ऋष्यात् अर्षिष्यति आर्षि-
ष्यत् । अर्षितव्यः अर्षणीयः ऋष्यः । अर्षिता ईदित् ऋष्टः
ऋष्टवान् ऋष्टिः । “शृङ्गाभ्यां रक्ष ऋषत्यवतिम्” अथ० ९,
४, १७ । अथ दाक्षणायुग्यमुपार्षति” शत० ब्रा० ५,
[Page1449-b+ 38]
४, ३, ८ । “ह्रदं न हित्वान्यृषन्त्यूर्म्मयः” ऋ० १, ५२, ७,
“यदुदर्य्यस्य मेदस्य परिशिष्यते तद्गुदे न्यृषेत्” शत०
ब्रा० २, ८, ४, ५ । “अथ पर्ष्यृषति” इत्युपक्रम्य “समं भूमि
पर्यर्षणं करोति” ३, ६, १, १८ । अस्य वेदे भ्वादित्वमपि
दृश्यते । गणव्यत्यासात् साधुः । “अर्षन्त्वापस्त्वयेह प्रसूताः”
ऋ० ३, ३०९ । “ऋषी गतौ व्यत्ययेन शप्” भा० “तस्मा-
आपोघृतमर्षन्ति सिन्धवः” १, १२५, ५ । “मही न धारा-
त्यन्धो अर्षति” ९, ८६, ४४ । “एता अर्षन्त्यनला
भवन्ती” ४, १८, ६ । “एता स्वर्षन्ति हृद्यात् समुद्रात्”
४, ५८, ५ । “शशमास्कन्दमर्षति” यजु० २३, ५५ ।
अभि + आभिमुख्येन गतौ “अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मा-
सु” ऋ० ४, ५८, १० । “कृण्वन्ति वरिवो गवे अभ्यर्षन्ति
सुष्टुतिम्” ९, ६२, ३ ।
नि + परि + सम् + इत्यादौ गत्यर्थधातोरिवार्थे । “गुहाकरिन्द्रं
याता वीर्य्येण न्यृष्टम्” ऋ० ४, १८, ० । “न्यृष्टं नितरां
प्राप्तम्” भा० । “अयं निधिः सरमे अद्रिबुध्नोगोभि-
रश्वेभिर्वसुभिर्न्यृष्यः” १०, १०८, ७ ।


skd

k1=ऋष, L=5412
ऋष¦, ई श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) ह्रस्वादिः । ई ऋष्टः । श ऋषति ।
इति दुर्गादासः ॥


Match 0085: vcp=ॠ, skd=ॠ

vcp

k1=ॠ, L=10573
ॠ¦ गत्यां क्र्यादि० प्वादि० पर० सक० सेट् । प्वादि०
श्नाप्रत्यये ह्रस्वः । ऋणाति ऋणीतः ऋणन्ति । ऋणीयात्
ऋणातु ऋणीहि । आर्ण्णात् आर्णीताम् आर्णन् ।
आरीत् । आर! आरतुः । अरिता । ईर्य्यात् । अरि-
ष्यति । आरिष्यत् । अरितव्यः अरणीयः आर्य्यः ।
अरिता । ऋणन् । ईर्ण्णः । अरः ।


skd

k1=ॠ, L=5431
ॠ¦ गि गत्यां । इति कविकल्पद्रुमः । (घादि-क्र्यादिं-
परं-सकं-सेट् ।) गि ॠणाति । ईर्ण्णः ईर्ण्णिः ।
इति दुर्गादासः ॥


Match 0086: vcp=एज, skd=एज

vcp

k1=एज, L=10768
एज¦ कम्पने भ्वा० आत्म० अक० सेट् । एजते ऐजिष्ट एजां-
बमूव आस चक्रे । एजकः एजितव्यः एजिता । एजितः
एजमानः एजनम् णिच् । एजयति जनमेजयः । “क्षुद्र-
मन्त्रमत एजयतेऽक्षिणी मे” भाग० ५, २, १५ । वेदे गण-
व्यत्यासः । “एजतु दशमास्यो गर्भः” यजु०, २८ अथास्य
मध्यमेजतु” २३, २७ मुष्का विदस्या एजतो गोशफ”
२३, २८ । “उदेजति पतति यस्य तिष्ठति” अथ० २०८
११, १ । “सुखेन वृष्णिरेजति” ऋ० १, १०, २ उदङ्ङे
जत्यन्तरा वा एतदाहबनीयम्” श० ब्रा० १, ५, १, २५
क्वचिल्लोके तथा । “शतान्यशीतिरष्टौ च सहस्राणि च
विंशतिः । सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति”
भा० आ० ८० अ० “त्वत्तःपरं नापरमप्यनेजदेजच्च कि-
ञ्चिद् व्यतिरिक्तमस्ति” भाग० ७, ३, ३० । बलीपलित
एजत्कः” भाग० ६, ९, ४२, एजत्कः कम्पमानशीर्षः”
अप + अपगमने एङि पररूपम् अपेजते । क्वचिदन्तर्भूत-
ण्यर्थेऽपि । “अपेजते शूरो अस्तेव शत्रून्” ऋ० ६, ६४,
३ “शत्रून् अपेजते अपगमयति भा० । उद् + ऊर्द्ध्व-
गतौ उदेजते । “उदेजतु प्रजापति र्वृषा शुष्मेण वाजिना
अथ० ४, ४, २, “उदेजयान् भूतगणान्न्यषेधीत्” भट्टिः ।
प्र + प्रकर्षचलने पररूपम् प्रेजते । सम् + सङ्गतौ निय-
मेन चलने “एवेदनु द्यून् किरण० समेजात्” ऋ० १०,
२७, ५ । “समेजात् नियमेन प्रयाति” भा० ।


k1=एज, L=10769
एज¦ दीप्तौ भ्वादि० पर० अक० सेट् । एजति ऐजीत् । एजाम्-
बभूव आस चकार । एजन् ।


skd

k1=एज, L=5527
एज¦, ऋ ङ दीप्तौ इति कविकल्पद्रुमः ॥ (भ्वादिं-
आत्मं-अकं-सेट् ।) ऋ मा भवान् एजिजत् । ङ
एजते । इति दुर्गादासः ।


k1=एज, L=5528
एज¦, ऋ कम्पे । इति कविकल्पद्रुमः । (भ्वादिं-परं-सकं
सेट् ।) ऋ मा भवान् एजजित् । एजति वायुना
[Page1-297-c+ 52]
वृक्षा । इति दुर्गादासः ॥


Match 0087: vcp=एठ, skd=एठ

vcp

k1=एठ, L=10774
एठ¦ बाधने भ्वादि० आत्म० अक० सेट् । एठते ऐठिष्ट रठाम्
बभूव आस चक्रे । एठनम् एठितः । बाधनमत्र शाठ्यम्


skd

k1=एठ, L=5529
एठ¦, ङ बाधने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं
सकं-सेट् ।) बाधनं विहतिः । ङ एठते वत्सरं
लोकः । इति दुर्गादासः ॥


Match 0088: vcp=एध, skd=एध

vcp

k1=एध, L=10793
एध¦ वृद्धौ भ्यादि० आत्म० अक० सेट् । एधते ऐधिष्ट । एधाम्-
बभूव--आस--चक्रे । एधितव्यः एधनीयः एध्यः एधिता
एधितः एधनम् एधः एधमानः एधित्वा समेध्य एधांसि ।
“हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते” मनुः । क्वचिदस्य
आमभावः “यत्र मैथुनैरेधिरे प्रजाः” भाग० ३, २१, १ ।
आर्षत्वात् समाधेयः “तपसा महतैधित” भा० आ० ८८३ ।
“विवर्द्ध ज्वलना इवैधमानाः” ७१, ५५ । “लोकयोरुभयोः
शक्यं नित्यदा सुखमेधितुम्” रामा० । क्वचित् पर० ।
“न हि साहसकर्त्तारः सुखमेधन्ति भारत!” भा० व०
२४५ अ० । णिचि एधयति ते ऐदिधत् त । “किं त्वं
मामजुगुप्सिष्ठानैदिधः स्वपराक्रमम्” भट्टिः । उपसर्ग-
स्थावर्णात् वृद्धिरेव न पररूपं प्रैधते एङादित्वे एव तथा
तेन मा प्रेदिधत् इत्यादौ न वृद्धिः ।


skd

k1=एध, L=5550
एध¦, ङ, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वादिं-
आत्मं-अकं-सेट् ।) ङ एधते । इति दुर्गादासः ॥
(यथा मनुः ४ । १७० ।
“हिंसारतश्च यो नित्यं नेहासौ सुखमेधते” ॥)


Match 0089: vcp=एष्, skd=एष *

vcp

k1=एष्, L=10831
एष्¦ गतौ भ्वा० आत्म० सक० सेट् । एषते ऐषिष्ट एषाम्
बभूव आस चक्रे । एषणीयः एषितव्यः एषितः एषिता ।
एषितुम् एष्टिः एषणम् एषा एषमाणः । “पराङ्मित्र एष
त्वर्वाची गौरुपैषत” अथ० ६, ६७, ३, वेदे गणव्यत्यासात्
पर० । उपेषतु एङिपररूपम्” । “स वै वत भ्रष्टमतिस्तवै-
षते यः कर्म्मणां पारमपारकर्म्मणः” भाग० ३, १३, ४४,
धातूनामनेकार्य्यात अवलोकयतीत्यर्थः” “तस्माद्दिवा
नष्टैष एति” शत० व्रा० १३, ३, ४, ३, ।

परि + अन्वेषणे पर्य्येषते पर्य्येष्टिः लोकेऽपि क्वचित्
गणव्यात्यासः । “जग्मुः संसिद्ध्वस कल्पाः पर्य्येषन्तो
विभावसुम्” भा० अनु० ८५ ।


skd

k1=एष, L=5577
एष¦ ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ भ्वादिं-
आत्मं-सकं-सेट् ।) ऋ मा भवान् एषिषत् ।
ङ एषते । इति दुर्गादासः ।
(यथा, भागवते ३ । १४ । ४५ ।
“स वै वत भ्रष्टमतिस्तवैषते
यः कर्म्मणां पारमपारकर्म्मणाम्” ॥)


Match 0090: vcp=ओख, skd=ओख

vcp

k1=ओख, L=10941
ओख¦ शोषे सामर्थ्ये अक० भूषणे वारणे सक० भ्बा० पर०
सेट् ऋदित् । ओखति औखीत् ओखाम् बभूव आस
चकार । ओखितः ओखनम् । ओखः णिचि ओख-
यति ते मा भवान् ओचिखत् त ऋदित्त्वात् न ह्रस्वः ।
उपसर्गावर्णात् पररूपम् प्रोखति परोखति ।


skd

k1=ओख, L=5638
ओख¦, ऋ, शोषणे । भूषणे । सामर्थ्ये । निवारणे ।
[Page1-302-b+ 52]
इति कविकल्पद्रुमः ॥ (भ्वादिं-अकं-सकं च परं-
सेट् ।) ऋ मा भवान् ओचिखत् । अत्र द्वित्वात्
प्राक् प्राप्तो ह्रस्व ऋदित्त्वान्न स्यात् । शोषः स्नेह-
रहितीभावः । ओखति पङ्क आतपात् । अल-
मर्थो भूषणं सामर्थ्यं वारणञ्च । इति दुर्गादासः ॥


Match 0091: vcp=ओज, skd=ओज

vcp

k1=ओज, L=10948
ओज¦ बले अद० चुरा० उभ० अक० सेट् । ओजय--ति--ते
औजिजत् त ओजयाम् बमूव आस चकार चक्रे । ओजितः


skd

k1=ओज, L=5642
ओज¦ त्क, बले । तेजसि । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-परं-अकं-सेट् ।) मा भवान् ओजि-
जत् । इति दुर्गादासः ॥


Match 0092: vcp=ओण, skd=ओण

vcp

k1=ओण, L=10959
ओण¦ अपनयने अपसारणे ऋदित् भ्वादि० पर० सक० सेट् ।
ओणति औणीत् । ओणाम् बभूव आस चकार ओणनम्
क्वनिप् अवावा स्त्रियाम् अवावरी । ओणयति ते मा
भवान् ओणिणत् त ।


skd

k1=ओण, L=5650
ओण¦, ऋ अपसारणे । दूरीकरणे ॥ इति कविकल्प-
द्रुमः ॥ (भ्वादिं-परं-सकं-सेट् ।) अपसारणमप-
नयनम् । मा भवान् ओणिनत् । ओणति धनम्
चौरः । इति दुर्गादासः ॥


Match 0093: vcp=ओलज, skd=ओलज

vcp

k1=ओलज, L=10973
ओलज¦ उत्क्षेपे इदित् भ्वा० पर० सक० सेट् । ओलञ्जति
औलञ्जीत् । ओलञ्जाम्--बभूव आस चकार ।


skd

k1=ओलज, L=5660
ओलज¦, इ, क्षेपणे । इति कविकल्पद्रुमः ॥ (भ्वादिं-
परं-सकं-सेट् ।) अन्तस्थतृतीययुक्तः । इ ओलञ्ज्यते
धूलिर्वायुना । इति दुर्गादासः ॥


Match 0094: vcp=ओलड, skd=ओलड

vcp

k1=ओलड, L=10974
ओलड¦ क्षेपे इदित् वा चुरा० उभ० पक्षे भ्वादि० पर० सक०
सेट् । ओलण्डयति ते औलिलण्डत् त ओलण्डयाम्
बभूव आस चकार चक्रे । पक्षे ओलण्डति औलण्डीत्
ओलण्डाम् बभूव आस चकार ।


skd

k1=ओलड, L=5661
ओलड¦, इ कि उत्क्षेपे । इति कविकल्पद्रुमः ॥ (वा
चुरां-उमं-सकं-सेट् ।) अन्तस्थतृतीयोपधः । इ
ओलण्ड्यते । कि ओलण्डयति ओलण्डति तण्डुलं
लोकः । कर्पूरमोलण्डयतीति दर्शनात् । इति
दुर्गादासः ॥


Match 0095: vcp=कक, skd=कक

vcp

k1=कक, L=11229
कक¦ इच्छायाम् सक० गर्व्वेचापले च अक० भ्वा० आत्म० सेट् ।
ककते अककिष्ट चकके


k1=कक, L=11230
कक¦ गतौ भ्वा० इदित् आत्म० सक० सेट् । कङ्कते । अकङ्किष्ट चकङ्के प्रनिकङ्कते न णत्वम् ।


skd

k1=कक, L=5755
कक¦ इ ङ व्रजने । इति कविकल्पद्रुमः ॥ (भ्वां--
आत्मं--सकं--सेट् ।) इ कर्म्मणि कङ्क्यते । ङ कङ्कते ।
इति दुर्गादासः ॥


k1=कक, L=5756
कक¦ ङ इच्छायां । गर्व्वे । चापले । इति कवि-
कल्पद्रुमः ॥ (भ्वां--आत्मं--सकं--अकं--च--सेट् ।)
इच्छेह तृष्णा । चापलं चञ्चलीभावः । ङ ककते
काकः । सतृष्णश्चञ्चलो वा स्यादित्यर्थः । गर्व्वः
कैश्चिन्न पठ्यते । इति दुर्गादासः ॥


Match 0096: vcp=कक्क, skd=कक्क

vcp

k1=कक्क, L=11253
कक्क¦ हासे भ्वा० पर० अक० सेट् । कक्कति । अकक्कीत् ।
चकक्क । कक्कटः । प्रनिकक्कति कादित्वान्न णत्वम् ।


skd

k1=कक्क, L=5770
कक्क¦ हासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--
सेट् ।) कोपधः । कक्कति । इति दुर्गादासः ॥


Match 0097: vcp=कक्ख, skd=कक्ख

vcp

k1=कक्ख, L=11258
कक्ख¦ हासे भ्वादि० पर० अक० सेट् । कक्खति अकक्खेत् । चकक्ख ।


skd

k1=कक्ख, L=5773
कक्ख¦ हासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--
सेट् ।) कोपधः । कक्खति । इति दुर्गादासः ॥


Match 0098: vcp=कख, skd=कख

vcp

k1=कख, L=11282
कख¦ हासे भ्वा० पर० अक० सेट् एदित् घटादि वोपदेवः ।
कखति एदित्त्वात् अकखीत् । चकाख णिच् कखयति ।
पा० मते नास्य एदित्त्वं तेन अकखीत्--अकाखीत् इति-
भेद न वा तन्मते घटादि । तेन काखयत्येव । कादि-
त्वात् प्रनिकखति इत्यादौ न णत्वम् ।


skd

k1=कख, L=5786
कख¦ ए म हासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं
-अकं-सेट् ।) एदित् घटादिः इति वोपदेवः ।
पाणिनीमते तु एदित्वं न तेन अकखीत् अका
खीत् इति स्यात् ।) म कखयति ए अकखीत् ।
इति दुर्गादासः ॥


Match 0099: vcp=कग, skd=कग

vcp

k1=कग, L=11284
कग¦ क्रियामात्रे भ्वादि० पर० सक० अक० च सेट् एदित्
वोप० । कगति अकगीत् । पा० नेदित्त्वम् तेन अकगीत्
अकागीत् कागयति । चकाग प्रनिकगति न णत्वम् ।


skd

k1=कग, L=5788
कग¦ म ए क्रियासु । क्रियामात्रे । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-सकं-अकं च-सेट् । घटादि
एदित् इति वोपदेवः । नैदित् इति पाणिनिः ।
अकगीत् अकागीत् ॥) तेन म कगयति । ए
अकगीत् । क्रियामात्रे । कगति लोकः गच्छती-
त्यर्थः । इति दुर्गादासः ॥


Match 0100: vcp=कच, skd=कच

vcp

k1=कच, L=11318
कच¦ रवे भ्वा० पर० अक० सेट् । कचति अकचीत् अकाचीत्
चकाच । प्रनिकचति ।


k1=कच, L=11319
कच¦ बन्धे सक० दीप्तौ अक० भ्वादि० पर० इदित् सेट् । कञ्चति अकञ्चीत् कचञ्च ।


k1=कच, L=11320
कच¦ बन्धे सक० दीप्तौ अक० भ्वादि० आत्म० सेट् । कचते अक-
चिष्ट चकचे कचः । “चचाम मधु माध्वीकं त्वक्त्रञ्चाचकचे
वरम्” भट्टिः । कादित्वान्न णत्व प्रनिकचति ।


skd

k1=कच, L=5825
कच¦ रवे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--
सेट् ।) कचति । रवः शब्दः । इति दुर्गादासः ॥


k1=कच, L=5826
कच¦ इ बन्धे । त्विषि । इति कविकल्पद्रुमः ॥ (भ्वां--
परं बन्धे सकं दीप्तौ अकं--इदित्--सेट् ।) इ
कञ्चति । इति दुर्गादासः ॥


k1=कच, L=5827
कच¦ ङ बन्धे । त्विषि । इति कविकल्पद्रुमः ॥ (भ्वां--
आत्मं बन्धे सकं दीप्तौ अकं--सेट् ।) ङ कञ्चते
कचते । त्विट् दीप्तिः । इति दुर्गादासः ॥


Match 0101: vcp=कट, skd=कट

vcp

k1=कट, L=11383
कट¦ गतौ भ्वादि० पर० सक० मेट् । कटति अकटीत् अकाटीत् चकाट । प्रनिकटति न णत्वम् ।


k1=कट, L=11384
कट¦ गतौ भ्वादि० इदित् पर० सक० सेट् । कण्टति अक-
ण्टीत् । चकण्ट कण्टकः । प्रनिकण्टति न णत्वम् ।


k1=कट, L=11385
कट¦ गतौ भ्वादि० पर० सक० सेट् । कटति अकटीत् अका-
[Page1618-b+ 38]
टीत् चकाट ईदित् तेन नेट् कट्टः । प्रनिकटति न णत्वम् ।


k1=कट, L=11386
कट¦ वृतौ वर्षणे च भ्वादि० पर० सक० सेट् । कटति एदित्
अकटीत् चकाट । कटः कटुः प्र + प्रकाशे अक० प्रकटिव
प्रकटः । णिच्--प्र + प्रकाशने सक० । घटादि० पकटयति
प्रकटितः प्रकटयन् । युच् प्रकटना । नामधातुरित्यन्ये


skd

k1=कट, L=5891
कट¦ गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--
सेट् ।) कटति । इति दुर्गादासः ॥


k1=कट, L=5892
कट¦ इ गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--
सेट्--इदित् । इ-कण्ट्यते । इति दुर्गादासः ॥


k1=कट, L=5893
कट¦ ई गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् । कटति अकटीत् अकाटीत् चकाट ।
ई कट्टः इति दुर्गादासः ॥


Match 0102: vcp=कठ, skd=कठ

vcp

k1=कठ, L=11477
कठ¦ आध्याने (उत्कण्ठापूर्ब्बकस्मरणे) वा चुरा० उभ० पक्षे
भ्वा० पर० सक० सेट् इदिंत् । कण्ठयति ते कण्ठति ।
अचकण्ठत् त अकण्ठीत् । कण्ठयां बमूव आस चकार
चक्रे चकण्ठ--कण्ठितः कण्ठा ।


k1=कठ, L=11478
कठ¦ कृच्छ्रजीवने भ्वादि० पर० अक० सेट् । कठति अकठीत्-
अकाठीत् । चकाठ । कठरः कठेरः कठिनः कठोरः ।


k1=कठ, L=11479
कठ¦ आध्याने (उत्कण्ठापूर्ब्बकस्मृतौ) इदित् भ्वा० कात्म० सक०
मेट् । प्रायेणोत्पूर्वः उत्कण्ठते उदकण्ठिष्ट । उच्च-
कण्ठे । उत्कण्ठितः उत्कण्ठा “उत्कण्ठायां हृदि न
कुरुते कारणानां सहस्रम्” । “रेवाबोधसि वेतसीतरुतले
चेतः समुत्कण्ठते” काव्य० प्र० ।


skd

k1=कठ, L=5983
कठ¦ इ कि आध्याने । उत्कण्ठापूर्ब्बकस्मरणे इति
कविकल्पद्रुमः ॥ (चुरां--पक्षे भ्वां--परं--सकं--सेट्--
इदित् ।) इ कर्म्मणि कण्ठ्यते । कि कण्ठयति ।
आध्यानं स्मृ म औत्क्ये इत्यत्र व्याख्यातम् । इति
दुर्गादासः ॥


k1=कठ, L=5984
कठ¦ तङ्कने । तङ्कनं दुःखेन जीवनम् । इति कवि-
कल्पद्रुमः ॥ (भ्वां--परं--अकं--सेट् ।) कठति दीनः ।
इति दुर्गादासः ॥


k1=कठ, L=5985
कठ¦ इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वां--
आत्मं--सकं--सेट्--इदित् ।) इ कर्म्मणि कण्ठ्यते ।
ङ कर्त्तरि कण्ठते । “रेवारोधसि वेतसीतरुतले
चेतः समुत्कण्ठते” । इति दुर्गादासः ॥


Match 0103: vcp=कड, skd=कड

vcp

k1=कड, L=11495
कड¦ भक्षणे सक० मदे अक० तुदा० सेट् पर० । कडति अक-
डीत् अकाडीत् चकाड । कडारः कडम्बः । प्रणिकडति


k1=कड, L=11496
कड¦ दर्पे भ्वा० इदित् ञित्त्रात्, उभ० ङित्त्वात् अफलवत्कर्त्तर्य्यपि
आत्म० अक० सेट् । कण्डति ते । अकण्डीत् अकण्डिष्ठ
चकण्ड चकण्डे । अयं वितुषोकारणार्थे व्यापारभेदे
च । (काँडान) कण्डति तुण्डुलम् इति केचित् ।


k1=कड, L=11497
कड¦ रक्षणे भेदे (वितुषीकरणार्थव्यापारे) च (काँडान) चुरादि०
इदित् उभ० सक० सेट् । कण्डयति ते अचकण्डत् त ।
कण्डयाम् बभूव आस चकार चक्रे । कण्डनम् कण्डितः
कण्डयन् कण्ठयितुम् । कण्डयित्वा कण्डना ।


skd

k1=कड, L=6004
कड¦ इ ङ ञ दर्पे । हर्षे इत्यर्थः । इति कविकल्प-
द्रुमटीकायां दुर्गादासः । (भ्वां--आत्मं--अकं--सेट्--
पक्षे उभं--इदित् ।) इ कर्म्मणि कण्ड्यते । ञ
कण्डति कण्डते । ङ कण्डते जनो हृष्टः स्यादि-
त्यर्थः । अयमात्मनेपदीत्थन्ये । कदाचित् परस्मैप-
दार्थो ञकारः । अनेकार्थत्वात् तुषापनयने च ।
(भ्वां--आत्मं--सकं ।) “कण्डते तण्डुलं लोकः” ।
इति दुर्गादासः ॥


k1=कड, L=6005
कड¦ श अदने । दर्पे । इति कविकल्पद्रुमः ॥ (तुदां--
परं--सकं--दर्पे अकं--सेट् ।) श कडती कडन्ती ।
प्राञ्चस्तु वेदे तूच्चारणभेदार्थं भ्वादावप्येवं पठन्ति ।
तथा च । “कड मद इति धातुः पठ्यते भूतुदाद्योः
कडति कडति रूपं तुल्यमेव द्वयोः स्यात् । तदु-
भयगणपाठे किं फलं नेति वाच्यं स्वरक्वत इह
भेदः शप्शयोरस्ति यस्मात्” इति । स्वरकृत इति
उदात्तानुदात्तस्वरितविरिब्धसंज्ञकचतुर्व्विधस्वरकृत
इत्यर्थः । इति दुर्गादासः ॥


k1=कड, L=6006
कड¦ इ क भेदे । रक्षणे । इति कविकल्पद्रुमः ॥
(चुरां--परं--सकं--सेट्--इदित् ।) इ कण्डयति ।
इति दुगादासः ॥


Match 0104: vcp=कड्ड, skd=कड्ड

vcp

k1=कड्ड, L=11508
कड्ड¦ कार्कश्ये भ्वा० पर० अक० सेट् । कड्डति अकड्डीत् ।
चकड्ड--प्रनिकड्डति डोपधत्वात् क्विपि डट् कड् ।


skd

k1=कड्ड, L=6016
कड्ड¦ कार्कश्ये । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--
सेट् ।) टवर्गतृतीयोपधः । क्विपि संयोगान्तलोपे
कड् । कड्डति पद्ममृणालं कर्क्कशं स्यादित्यर्थः ।
इति दुर्गादासः ॥


Match 0105: vcp=कण, skd=कण

vcp

k1=कण, L=11509
कण¦ आर्त्तस्वरे भ्वा० पर० अक० सेट् । कणति अकाणीत्
अकणीत् । ऋदित् । णिचि अचीकणत् त अचकणत् त ।
चकाण प्रनिकणति ।


k1=कण, L=11510
कण¦ गतौ भ्वा० पर० सक० सेट् । कणति अका(क)णीत् ।
घटादि० । णिचि कणयति ते


k1=कण, L=11511
कण¦ निमीलने वा चुरा० पर० अक० सेट् । काणयति ते ।
अचीकणत् त । काणयीम् यभूव आस चकार चक्रे काणः
पक्षे पर० भ्वा० कणति अक(का)णीत् चकाण ।
निमीलनयत्र नेत्रादेः पक्ष्मावरणं सावयवस्याङ्गसङ्कोचनञ्च ।


skd

k1=कण, L=6017
कण¦ ॠ आर्त्तस्वरे । इति कविकल्पद्रुमः ॥ (भ्वां--
[Page2-013-a+ 52]
परं--अकं--सेट् ।) ॠ अचीकणत् अचकाणत् ।
कणति भीतः । इति दुर्गादासः ॥


k1=कण, L=6018
कण¦, म गतौ । इति कविकल्पद्रुमः । (भ्वां--परं--
सक्--सेट्--घटादि ।) म कणयति । इति दुर्गा-
दासः ॥


k1=कण, L=6019
कण¦, क निमीलने । इति कविकल्पद्रुमः ॥ (चुरां--
परं--सकं--सेट् ।) निमीलनं पक्ष्मावरणम् । क
काणयति चक्षुः पक्ष्मभिरावृतं स्यादित्यर्थः । इति
दुर्गादासः ॥


Match 0106: vcp=कत्थ, skd=कत्थ

vcp

k1=कत्थ, L=11630
कत्थ¦ श्लाघायाम् (आत्मगुणाविष्करणे) गृहीतकर्मकत्वात् अक०
भ्वा० आ० सेट् । कत्थते अकत्थिष्ट चकत्थे । कत्थमानः
कत्थनम् कत्था कत्थितम् । “गर्जितेन वृथा किं ते
कत्यितेन च मानुष! । कृत्वैतत् कर्म्मणा सर्वं क-
त्थेथा मा चिरं कृथाः” भा० आ० १, १५३ अ० । “परो-
क्षमिव मे राजन्! कत्थसे शत्रुकर्षण!” भा० व० ७२ अ०
“कृत्वा कत्थिष्यते न कः” भट्टिः “जनस्य गोप्तास्मि विकत्थ-
मानः” भाग० ५, १२, ७ । आर्षप्रयोगे पदव्यत्ययात्
यर० । “तथाऽभिगम्य वित्त नि को विकत्थेद्विचक्षणः”
आ० वि० ५० अ० । प्रणापेऽपि सक० । कत्थन्त ।
[Page1635-b+ 38]
उग्रपरुषं निरतं श्मशाने” भाग० ८, ७, २७ । “कत्थन्ते
प्रलपन्ति” श्रीधरः । वियेकेन कथने । “कोविकत्थितु-
मर्हति” आ० प० २५३३ । कर्त्तरि युच् कत्थनः ।


skd

k1=कत्थ, L=6126
कत्थ¦, ङ श्लाघे । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं--
सकं--सेट् । क्वचित् अकं च ।) दन्त्यवर्गाद्यापधः ।
[Page2-017-a+ 52]
श्लाघः प्रशंसा । ङ कत्थते गुणिनं गुणी । इति
दुर्गादासः ॥


Match 0107: vcp=कत्र, skd=कत्र

vcp

k1=कत्र, L=11632
कत्र¦ शैथिल्ये अद० चुरा० उभ० अक० सेट् । कत्रयति ते
अचकत्रत् त । “तद्बलादन्त्यदोर्घश्च पुक् चेत्यङ्कापयत्यपि”
इत्युक्तेःवा दीर्घः पुक् च । कत्रापयति ते इत्यपि । कत्राम्
बभूव आस कचार चक्रे । एवं कत्थापयाम् बभूवेत्यादि ।


skd

k1=कत्र, L=6127
कत्र¦, त् क शैथिल्ये । इति कविकल्पद्रुमः ॥ (चुरां--
परं--अकं--सेट् ।) कत्रयति कत्रापयति । इति
दुर्गादासः ॥


Match 0108: vcp=कथ, skd=कथ

vcp

k1=कथ, L=11634
कथ¦ बाक्यरचनायां अद० चुरा० उभ० सक० सेट् । कथ-
यति ते अचीकथत् त अचकथत् त । कथयाम् अभूव आस
चकार चक्रे । कथितः कथयित्वा कथयितुम्--कथनम् ।
कथा “तं जनाः कथयन्तीह यावत् भवति गौरियम्”
भा० अनु० ३१६८ “हन्त ते कथयिष्येऽमुमितिहासंपुरा-
तनम्” भा० ४, ४५, ९ । “कथाच्छलेन बालानां नीतिस्तदिह
कथ्यते” हितो० “यो मनुः कथ्यतेऽष्टमः” देवी० “प्रत्येकं
कथिताह्येताः संक्षेपेण द्विसप्ततिः” मनुः ।
अनु + अनुवादे कथितस्यकथने अन्वादेशे अनुकथयति अनुवदति
प्राद्युपसर्गे प्रकर्षादिना कथने अस्य ब्रुवर्थतया द्विकर्म-
कत्वम् तत्र गौणे कर्मणि लकारः ।


skd

k1=कथ, L=6129
कथ¦, त् क वाक्यप्रबन्धे । इति कविकल्पद्रुमः ॥ (चुरां--
पर--सकं--सेट् ।) कथयति । इति दुर्गादासः ॥
(“हन्त ! ते कथयिष्यामि सेतिहासं पुरातनम्” ।
इति भागवतम् ॥)


Match 0109: vcp=कद, skd=कद

vcp

k1=कद, L=11658
कद¦ विह्वलीभावे दिवा० आत्म० अक० सेट् । कदयते
अकदिष्ट । चकदे । घटादि णिच्--कदयति ते । कदनम्
णिच्--ल्युट् । कदनम् कद्यतेः कृदयतेर्वा क्विप् कद् ।


skd

k1=कद, L=6140
कद¦, इ रोदन । आह्वाने । वैक्लव्ये । इति कविकल्प-
द्रुमः ॥ (भ्वां--परं--सकं अकं च--सेट्--इदित् ।) इ
कर्म्मणि कन्द्यते । इति दुर्गादासः ॥


k1=कद, L=6141
कद¦, ष म ङ वैक्लव्ये । विह्वलीमावे । इति कविकल्प-
द्रुमः । (भ्वादिं--आत्मं--अकं--सेट्--घटादि ।) ष
कदा । म कदयति । ङ कदते । इति दुर्गादासः ॥


Match 0110: vcp=कप, skd=कप

vcp

k1=कप, L=11816
कप¦ चलने (सौत्रः) पर० अक० सेट् । कपति अका (क) पोत् चकाप प्रनिकपति न णत्वम् कप्रोलः ।


k1=कप, L=11817
कप¦ चलने भ्वादि० इदित् आत्म० अक० सेट् । कम्पते अक-
म्पिष्ट चकम्पे । कम्पा कम्पनम् कम्पितः कमामानः
कम्पितुम् कम्पनः कम्पित्वा । “समुद्राश्च चकम्पिरे” देवीमा०
“चकम्पे तीर्ण्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः” रघुः ।
“महाकटितटश्रोण्यः कम्पमानाः पयोधरैः” भा० व० ४३ ।
णिचि कम्पयति अचिकम्पत् । अत्र फलवत्कर्त्तर्य्यपि
पर० “क्ष्मां कम्पयन्त्योनिपतन्ति चोल्काः” । आर्षे
कचित् न पर० “अकम्पयत मेदिनीम्” रामा० ।
अनु + दयायामनुग्रहे सक० “प्रकम्पेनेनानुचकम्पिरे सुराः”
माघः स्वार्थेणिच् तत्रार्थे “प्रथमा वृष्टिविवानुकम्पयत”
कुमा० । कर्म्मणि अनुकम्प्यते “अनुकम्प्यतामयं
जनः पुनर्दर्शनेन शकु० ।
आ + ईषच्चलने । “अनोकहाकम्पितपुष्पगन्धिः” रघुः ।
सम्यक्कम्पने च “शतं विज्ञानवतामेको धनवानाकम्प-
यते” छा० उप० ।
उद् + ऊर्द्धतश्चालने । “हुत्वोर्द्धमुत्कम्पयति” शत०ब्रा० १४, २, २, १७ ।
प्रति + प्रतिरूपकम्पने यथा स्वस्य कम्पनं तत्तुल्यमन्यस्य कम्पनं
प्रतिरूपकम्पनम् । “गतेन भूमिं प्रतिकम्पयंस्तदम्” भा०
बि० २० ।
वि + विशेषेण चलने । “खधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि” गीता ।
सम् + सम्यक् चलने । “यस्य ज्यातलनिर्घोषात् समकम्पन्त
शत्रवः” भा० विरा० १९ अ० ।


skd

k1=कप, L=6268
कप¦ चलने । सौत्रधातुरय । इति कविकल्पद्रुमः ॥
(भ्वां--परं--अकं--सेट् ।) कपोलः । इति दुर्गा-
दासः ॥


k1=कप, L=6269
कप¦ इ ङ सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां--
आत्मं--अकं--सेट्--इदित् ।) इ कर्म्मणि कम्प्यते ॥
ङ कम्पते वायुना वृक्षः । इति दुर्गादासः ॥


Match 0111: vcp=कब, skd=कब

vcp

k1=कब, L=11950
कब¦ स्तुतौ वर्णेच भवा० सक० प० सेट् । कबति अकबिष्ट चकाब
ऋदित् णिचि अचकावत् । प्रनिकवति ।


skd

k1=कब, L=6362
कब¦, ऋ ङ स्तुतौ । वर्णे । इति कविकल्पद्रुमः । (भ्वां-
आत्मं-सकं-सेट्-ऋदित् ।) वर्णः शुक्लादिक्रिया ।
ऋ अचकाबत् । ङ कबते कविर्विष्णुम् । कबते
प्रतिमां चित्रकारः । इति दुर्गादासः ॥


Match 0112: vcp=कम, skd=कम

vcp

k1=कम, L=11956
कम¦ वाञ्छायां भ्वा० आ० सक० सेट् । अतः स्वार्थे णिङ् आ-
र्द्धधातुके वा । कामयते कामयीत कामयताम् अकामयत ।
अचीकमत । णिङभावपक्षेऽपि चञ् अचकमत । कामयाम्
बभूव आस चके चकमे । कामयिता--कमिता कामयिषीष्ट-
कमिषोष्ट । कामयिष्यते--कमिष्यते । कामनीयः कमनीयः
काम्यः । कामयितव्यः--कमितव्यः । कामी । कामयिता-
कमिता कानितः कान्तः । कान्तिः । कर्त्तरि अच् कमः कर्म-
ण्युपपदे अण् । स्वर्गकामः । उदित् कामयित्वा कामत्वा का-
न्त्वा । कामुकः कम्रः कमनः कामयमानः नि० काम-
यानः । काम्यते काम्यमानः । घञ् कामः मुच का-
[Page1680-b+ 38]
मना । “नरपतिश्चकमे मृगयारतिम्” “निष्क्रष्टेमर्थं चकमे
कुवेरात्” “भीमकान्तैर्नृपगुणैः” “नवं वयः कान्तमिदं
वपुश्च” रघुः । “सोऽकामत बहु स्यां प्रजायेय” श्रुतिः
“रमणीकमनीयकपीलतले” सा० द० टी० । “स चेत् कामयते
दातुं तव मामरिसूदन!” भा० आ० १७२ । “सर्वान्
कामयते यस्मात्” कत्याशब्दे उक्तम् । “प्रीत्या युक्तः का-
मितं सर्वशस्ते” भा० आ० ५८ “कामयाञ्चक्रिरे कान्ता-
स्ततस्तुष्टानिशाचराः” “अकम्पनस्ततो योद्धु चकमे
रावणाज्ञया” भाट्टः । आर्वे क्वचिन् पर० । “एवं रूप
नलं यो वै कामयेच्छपितुं कले ।” भा० व० ५८
अ० । “न च सीता दशग्रीवं मनसापि हि कामयेत्”
“अकामोऽपि बलात् कामं दर्शनादेव कामयेत्” रामा० ।
अनु + कामनानुरूपकामनायाम् । अनुकामयते ।
अभि + आप्रिमुख्येम कामनायाम् । “दासीं कन्यासहस्रेण
शर्म्मिष्ठामभिकामये” भा० आ० १८ ।
नि + निःशेषकामनायाम् । “या तस्य ते पादसरोरुहार्हणं नि-
कामयेत् साऽखिलकामलम्पटा” भाग० ५ स्क० १८, २२ ।
अतिशये च “निकामतप्ता द्विधेन बह्निना” कुमा०
प्र + प्रकर्षेण कामनायां अतिशये । प्रकामः ।


k1=कम, L=11957
कम¦ वाञ्छायां चुरा० आ० सक० सेट् उदित् कविकल्पद्रुमः ।
णिङन्तकमवत् सर्वंम् । किन्तु तत्र उदित्प्रयोजनं चिन्त्यम ।


skd

k1=कम, L=6368
कम¦, उ क ङ स्पृ हि । इति कविकल्पद्रुमः ॥ (चुरां
--आत्मं--सकं--सेट् ।) उ कमित्वा कान्त्वा । क ङ
कामयते । अन्यैर्भ्वादौ पठ्यमानस्याप्यस्य कित्क-
रणं कम ऋत इत्यादिना विहितस्य ञिङो
ज्ञापनार्थं तेन अरे ञिङोऽप्राप्तिपक्षे अचकमत ।
चकमे कमिता इत्यादि सिद्धम् । इति दुर्गा-
दासः ॥


Match 0113: vcp=कम्ब, skd=कम्ब

vcp

k1=कम्ब, L=11997
कम्ब¦ गतौ भ्वा० पर० सक० सेट् । कम्बति अकम्बीत् चकम्ब प्रनिकम्बति


skd

k1=कम्ब, L=6399
कम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--
सेट् ।) कम्बति । इति दुर्गादासः ॥


Match 0114: vcp=कर्क, skd=कर्क

vcp

k1=कर्क, L=12193
कर्क¦ हामे सौत्रः पर० अक० सेट् । कर्कति अककींत् । चकर्क प्रनिकर्कति ।


skd

k1=कर्क, L=6555
कर्क¦, हासे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥
(म्वां--परं--अकं--सेट् ।) कर्क्कशः । इति दुर्गादासः ॥


Match 0115: vcp=कर्ण्ण, skd=कर्ण् *

vcp

k1=कर्ण्ण, L=12238
कर्ण्ण¦ भेदने अदन्तचुरादि० उभ० सक० सेट् । कर्ण्णयति ते
अचकर्णत् त । कर्ण्णयाम्--बभूव आस । चकार चक्रे ।
कर्ण्णयिता कर्ण्णयिष्यति । कर्णनम् कर्ण्णः कर्ण्णितः
कर्ण्णयितुम् । कर्ण्णयन् कर्णयमानः । कर्णयित्वा आकर्ण्य
कर्ण्णी । कर्ण्यते अकर्ण्णि अकर्ण्णिषाताम् अकर्णयिषाताम्
आ + कर्ण्ण--श्रवणे । “आकर्णयन्नुत्सुकहंसनादान्” भट्टिः ।
“मिथस्तदाकर्णनसज्जकर्णया” देवाकर्णय सुश्रुतेन चरक-
स्योक्तेन जानेऽस्विलम् । “अदस्तदाऽकर्ण्णिफलाढ्यजीवि-
[Page1706-b+ 38]
लम्” इति च नैष० । “आकर्ण्य सम्प्रति रुतं चरणायुधा-
नाम्” सा० द० ।


skd

k1=कर्ण्, L=6606
कर्ण्¦ क भिदि । इति कविकल्पद्रुमः ॥ (अदन्त-
चूरां--परं--सकं--सेट् ।) कर्णयति कर्णापयति ।
आङ्पूर्ब्बोऽयं श्रवणे । देवाकर्णय येन येन सहसा
[Page2-037-b+ 52]
यत्यत् समासादितमिति । उपसर्गात्तत्तदर्थानां
द्योतका एव न तु वाचकाः । केवलधातोरनेका-
र्थत्वेऽवश्यवक्तव्ये उपसर्गपूर्ब्बस्याप्यन्यार्थो धातोरेव
कल्प्यते लाघवात् । क्वचिदुपसर्गा धात्वर्थमेवानु-
वर्त्तन्ते । तथा च ।
“धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते ।
तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधा” ॥
इति विम्तरवृत्तिः ॥ क्रमेणोदाहरणानि । आदत्ते
गृह्णातीत्यर्थः । प्रसूयतेऽत्र प्रसव एव धात्वर्थः ।
प्रशब्दस्तमेवार्थं द्योतयति । प्रणमति प्रकर्षेण
नमतीत्यर्थः । केचित्तु अनर्थकोऽन्यः प्रयुज्यते । इति
चतुर्थचरणं पठन्ति तच्चिन्त्यम् । इति दुर्गादासः ॥


Match 0116: vcp=कर्त्त, skd=कर्त्त

vcp

k1=कर्त्त, L=12326
कर्त्त¦ शैथिल्येशिथिलीकरणे आरम्भसंयोगशिथिलतापादने
अ० चु० सक० सेट् । कर्त्तयति ते मतान्तरे कर्त्तापयति ते
अचकर्त्तत्--त कर्त्तयाम्--वमूव आस चकार चक्रे । कर्त्त
यिता कर्त्यात् कर्त्तयिषीष्ट कर्त्तयिष्यति ते । कर्त्तनीयः
कर्त्तयितव्यः । कर्त्तयिता कर्त्तितः । कर्त्तनं कर्त्तना । क
र्त्तयितुम् कर्त्तयित्वा आकर्त्त्य । कर्म्मणि कर्त्त्यते
अकर्त्तिं अकर्त्तयिषाताम्--अकर्त्तिवाताम् कर्त्तिता-
कर्त्तियिता कर्त्तयिष्यते कर्त्तिष्यते--“एवाहं सर्वं दुर्भूतं
कर्त्रं कृत्या कृताकृतम्” अथ० १०, १, ३२ । “अपि क-
र्त्तमवर्त्तयोऽयज्यून्” ऋ० १, १२१, १३ ।


skd

k1=कर्त्त, L=6662
कर्त्त¦, त् क शैथिल्ये । इति कविकल्पद्रुमः ॥
(अदन्तचुरां--परं--अकं--सेट् ।) रेफस्याधस्तकारः
कर्त्तयति कर्त्तापयति धूलिर्ज्जलेन । इति दुर्गा-
दासः ॥


Match 0117: vcp=कर्त्त्र, skd=कर्त्र *

vcp

k1=कर्त्त्र, L=12332
कर्त्त्र¦ शैथिल्यकरणे अद० चुरा० उभय० सक० शैथिल्ये अक० सेट्
कर्त्त्रयति ते कत्त्रापयतीत्येके अचकर्त्त्रत् त । कर्त्त्रयाम्-
[Page1722-a+ 38]
बभूव आसचकार चक्रे । कर्त्त्र्यते अक्वर्त्त्रि--अकर्त्त्रिषा-
ताम्--अकर्त्त्रयिषाताम् । प्रनिकर्त्त्रयति । क्त कर्त्त्रितः ।


skd

k1=कर्त्र, L=6672
कर्त्र¦, त् क शैथिल्ये । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां--परं--अकं--सेट् ।) रेफद्वययुक्तस्तकारः । कर्त्र-
यति कर्त्रापयति धूलिर्जलेन । इति दुर्गादासः ॥


Match 0118: vcp=कर्द्द, skd=कर्द्द

vcp

k1=कर्द्द, L=12334
कर्द्द¦ कुत्सितरवे उदरशब्दे च भ्वा० पर० अक० सेट् । कर्द्दति अकर्द्दीत् चकर्द प्रनिकर्दति ।


skd

k1=कर्द्द, L=6674
कर्द्द¦, कुत्सितरवे । इति कविकल्पद्रुमः । (भां--परं--
अकं--सेट् ।) उदरशब्दे । इति रमानाथः ॥
एकोऽर्थः । कर्द्दति काकः । रमानाथस्तु कौक्षे-
कर्द्दतीति भट्टमल्लदर्शनादुदरसम्बन्धिशब्द एव
अस्य प्रयोग इति मन्वानः कर्द्दति शिशुरिति यदु
दाजहार तद्धेयम् । यत्तन्मते कर्द्दत्युदरमित्येव
स्यात् । इति दुर्गादासः ॥


Match 0119: vcp=कर्ब, skd=कर्ब्ब *

vcp

k1=कर्ब, L=12364
कर्ब¦ गतौ भ्वा० पर० सक० सेट् । कर्बति अकर्बीत् । चकर्ब ।


skd

k1=कर्ब्ब, L=6700
कर्ब्ब¦ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं-
सेट् ।) रेफोपधः । कर्ब्बति । इति दुर्गादासः ॥


Match 0120: vcp=कर्व, skd=कर्व्व *

vcp

k1=कर्व, L=12438
कर्व¦ दर्पे भ्वा० प० अक० सेट् । कर्व्वति अकर्व्वीत् चकर्व
प्रनिकर्वति । कर्वटः कर्वुरः कर्वूरः ।


skd

k1=कर्व्व, L=6749
कर्व्व¦ दर्पे । इति कविकल्पद्रुमः ॥ (भ्वां--पं--अकं--सेट् ।)


Match 0121: vcp=कल, skd=कल

vcp

k1=कल, L=12455
कल¦ संख्यायां सक० शब्दे अक० भ्वा० आत्म० सेट् । कलते
अकलिष्ट चकले प्रनिकलते ।


k1=कल, L=12456
कल¦ गतौ संख्यायाञ्च अद० चुरा० उभय० सक० सेट् ।
कलयति ते अचकलत् त । कलयाम्--बभूव आस-
चकार चक्रे । गत्यर्थत्वात् ज्ञानार्थत्वमपि । “कल-
यन्त्यनुक्षणमनेकलयम्” माघः “व्यालनिलयमिलनेन
गरलमिव कलयति मलयजसारम्” जयदे० ग्रहणे “कलथ
बलयश्रेणीं पाणौ पदे कुरुनूपुरौ” जलदे० । संख्यानञ्चात्र
गणनं ज्ञानभेदश्च । “स पश्चात् संपूर्णः कलयति धरित्रीं
तृणसमाम्” नीतिः “कलयैदमानमनसं सखि! माम्”
माघः । “वाचामाचकलत् रहस्यमखिलं यश्चाक्षपादस्फुराम्”
मल्लि० । उच्चारणेच “माद्यन्तः कलयन्तु चूतशिखरे, केलि-
पिकाः पञ्चमम्” । ग्रासे “कालः कलयतामस्मि” गीता ।
“कलनात्सर्वभूतानां स कालः परिकीर्त्तितः” ति० त०
विष्णुध० । कलनीयम् कलयितव्यम् कलयिता कलितः ।
कलयन् कलयमानः कलयितुम् कलयित्वा आक-
लय्य । “कलितललितवनमालम्” जयदे० “करक-
लितकपालः कुण्डली दण्डपाणिः” वटुकस्तवः ।
अव + अवगमे अवकलयति वि + अव वियोजने “यदि व्यक्ते
युक्तिव्यवकलनमार्गेऽसि कुशला” लीला० ।
आ + बन्धने “सुवर्ण्णसूत्राकलिकधराम्बराम्, माघः ज्ञाने च”
“वाचामाचकलत्” मल्लि० । “मकरध्वजद्विरदमाकलयत्”
“सुक्तावलीराकलयाञ्चकार” इति च माघः ।
[Page1776-b+ 38]
प्रति + आ + प्रतिबोधे प्रत्याकलितस्वदुर्नयः” दशकु० ।
उद् + उत्क्षिप्य ग्रहणे “स तस्य हस्तोत्कलितस्तदासुरो विक्री-
डतो यद्वदहिर्गरुत्मतः” भाग० ७, ८, १६ ।
सम् + एकसंख्यापादनरूपे योगे । “अथ संङ्कलनव्यकलननयोः
करणसूत्रम्” “सैकपदघ्नपदार्धमथैकाद्यङ्गयुतिः किल
सङ्गलिताख्या” लीला० ।


k1=कल, L=12457
कल¦ नोदने प्रेरणे चुरा० उभय० सक० सेट् । कालयति ते
अचीकलत् त । कालयां बभूव आस चकार चक्रे । काल-
यितव्यः कालनीयः । कालयिता कालितः कालयन् कालय-
मानः । कालयित्वा आकाल्य । कर्म्मणि काल्यते अकालि
अकालयिषाताम् अकालिषाताम् । “गवां शतसहस्राणि
त्रिगर्त्ताः कालयन्ति ते” भा० वि० १००, ७ । “गावो
न काल्यन्त इदं कुतो रजः” भाग० ४, ५, ८ । सा गौस्तत्-
सकलं सैन्यं कालयामास दूरतः” भा० आ० ६६९० ।


skd

k1=कल, L=6772
कल¦, त् क गतौ । सङ्ख्यायाम् । इति कविकल्पद्रुमः ॥
(अदन्तचुरां--परं--सकं--सेट् ।) अन्त्यस्थतृती-
योपधः । कलयति कालं धीरः । इति दुर्गादासः ॥


k1=कल, L=6773
कल¦, ङ सङ्ख्यारुतोः । इति कविकल्पद्रुमः ॥ (भ्वां--
आत्मं--सकं--अकं च--सेट् ।) ङ कलते दिवसं वृद्धः
गणयतीत्यर्थः । रुत् शब्दः । इति दुर्गादासः ॥


k1=कल, L=6774
कल¦, क नुदौ । इति कविकल्पद्रुमः ॥ (चुरां--परं--
[Page2-055-c+ 52]
सक--सेट् ।) क कालयति । नुदिरिति नुद ञौश्
प्रेरणे इत्यस्य औणादिककिप्रत्यये रूपम् । इति
दुर्गादासः ॥


Match 0122: vcp=कल्ल, skd=कल्ल

vcp

k1=कल्ल, L=12616
कल्ल¦ कूजने अशब्दे च भ्वा० आत्म० अक० सेट् । कल्लते अक-
ल्लिष्ट चकल्ले प्रनिकल्लति कल्लः ।


skd

k1=कल्ल, L=6923
कल्ल¦, ङ कूजने । शब्दे । अशब्दे । इति कविकल्प-
द्रुमः ॥ (भ्वां--आत्मं--अकं--सेट् ।) लद्वयान्तः । ङ
कल्लते लोकः अव्यक्तशब्दं करोति शब्दं न
करोति वेत्यर्थः । कूजने इति चान्द्रा जौमराश्च ॥
शब्दमात्रे इति केचित् । अशब्दे इति कालापाः ।
इति दुर्गादासः ॥


Match 0123: vcp=कव, skd=कव

vcp

k1=कव, L=12620
कव¦ स्तुतौ वर्ण्णने च भ्वा० आत्म० सक० सेट् । कवते अकविष्ट ।
चकवे णिच्--कावयति ते ऋदित् अचकावत् । प्रनिकवते


skd

k1=कव, L=6927
कव¦, ऋ ङ स्तुतौ । वर्णे । इति कविकल्पद्रुमः ।
(भ्वां--आत्मं--सकं--सेट् । ऋदित् ।) ऋ अचका-
वत् । ङ कवते । इति दुर्गादासः ॥


Match 0124: vcp=कश, skd=कश

vcp

k1=कश, L=12669
कश¦ शब्दे अक० वोप० गतौ शासने च सक० पा० भ्वा० पर०
सेट् । कशति अकशीत्--अकाशीत् चकाश । प्रनि-
कशति । “अन्थोऽनश्नन्नभिचाकशीति” श्रुतिः । यङ्-
लुकि लटोरूपम् । उभयपदीत्येके ।


skd

k1=कश, L=6964
कश¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--
सेट् ।) कशति । इति दुर्गादासः ॥


Match 0125: vcp=कष, skd=कष

vcp

k1=कष, L=12689
कष¦ बधे भ्वा० पर० सक० सेट् बधोऽत्र निष्पीडनं
घर्षणञ्च । कषति अकषीत्--अकाषीत् । ककाष प्रनिक-
षति । “छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले”
नैष० । अस्य परस्मैपदिषु पा० ग० पाठात् शब्दकल्पद्रुमे
च तथा पाठात् आ० उक्तिर्भ्रान्तिमूला । “पामानं
कषमाणम्” इत्यादिप्रयोगस्तु ताच्छीलिकचानशैवोपपत्तेः ।
“निमूलसमूलयोः कषः” “कषादिषु यथाविध्यनुप्र-
योगः” पा० णमुल् अनुप्रयोगश्च । निमूलकाषं
कषति समूलकाषं कषति समूलं निमूलं वा कषतीत्यर्थः
सि० कौ० “समूलकाषं चकषूरुदन्तः” भट्टिः ।
“सर्वकूलाभ्रकरीषेषु कषः” पा० कर्मरूपेष्वेषूपपदेषु
खच् । सर्वङ्कषः कूलङ्कषः अभ्रङ्कषः करीषङ्कषः”


skd

k1=कष, L=6982
कष¦ वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--
सेट् ।) कषति । अयमुभयपदीति चतुर्भुजजुमरौ ॥
रमानाथरामौ तु इमं परस्मैपदिनं मत्वा उभ-
यपदिनं तालव्यान्तं अन्यं मन्येते । इति दुर्गा-
दासः ॥


Match 0126: vcp=कस, skd=कस

vcp

k1=कस, L=12708
कस¦ गतौ भ्वा० पर० सक० सेट् । कसति अकसीत्--अका-
सीत् । चकास--ज्वलादित्वात् कर्त्तरि वा ण । कासः । यङ्
चनीकस्यते यङ् लुक् चनीकसीति--कस्ति । प्रनिकसति
उद् + ऊर्द्धगतौ “उत्कसन्तु हृदयान्यूर्द्ध्वं प्राण उदीषतु”
अथ० ११, ९, २ १” ।
निस् + निर् + अपगतौ निष्कसति । णिचि निष्कासयति
“निरकासयद्रविमपेतवसुम्” माघः ।
वि + प्रकाशे । विकसति पङ्कजकलिका “फुल्लश्च इते विकसिते”
अमरः “स प्रीतियोगात् विकसन्मुखश्रीः” कुमा० ।
“क्षणदृष्टिपातविकसद्वदनाम्” माघः । “विकसद्भिरास्य-
कमलैः कमलैः प्रमदाः” माघः “मुखं विकसितस्मितं
वशितवक्रिमप्रेक्षितम्” मालतीमा० । णिचि विकासयति
व्यचीकसत् । “वचनेन चोपकुसुमं व्यचीकसत्” माघः ।
“वौ कसल सेत्या०” पा० इनि विकासी । वरच् ।
विकस्वरः “मुदा रमन्ते कलभा विकस्वरैः” माघः ।
अनु + वि + अनुरूपविकाशे “अन्तर्जलेऽनुविकसन्मधुमाधवीनाम्”
भाग० ३, १५, १७ ।
प्रवि + प्रकर्षविकाशे प्रविकसति चिरायद्योतिताशेषलोके” माघः
सम् + सम्यग्गतौ सङ्कसुकः ।


k1=कस, L=12709
कस¦ शातने गतौ च अदा० इदित् आत्म० सक० सेट्
शातममिह नाशनम् । कंस्ते अकंसिष्ट । चकंसे । प्रनि-
कंस्ते । कर्मणि कंस्यते । अकंसि ।


k1=कस, L=12710
कस¦ शातने गतौ च सक० अदा० आत्म० सेट् । शातन-
मत्र नाशनम् । कस्ते अकसिष्ट । चकसे प्रनिकस्ते ।


skd

k1=कस, L=7001
कस¦ ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं
--सेट्--ज्वलादिः ।) ज कासः कसः । विपूर्ब्बोऽयं
प्रफुल्लीभावे । तथा च ।
“प्रफुल्लोत्फुल्लसंफुल्लव्याकोषविकचस्फुटाः ।
फुल्लश्चैते विकसिते” इत्यमरः । २ । ४ । ७-८ ।
[Page2-071-a+ 52]
विकसित पङ्कजकलिका । इति दुर्गादासः ॥


k1=कस, L=7002
कस¦ इ ल ङ ध्वसे । गतौ । इति कविकल्पद्रुमः ॥
शाते च । (अदां--आत्मं--सकं--सेट् । इदित् ।)
इ कंस्यते । ल ङ कंस्ते हरिः कंसम् । चकारात्
गतौ च । शात इह ध्वंसना । इति दुर्गादासः ॥


k1=कस, L=7003
कस¦ ल ङ ध्वंसे । गतौ । इति कविकल्पद्रुमः ॥ (अदां--
शाते च । आत्मं--सकं--सेट् ।) ल ङ कस्ते हरिः
कंसम् । चकारात् गतौ च । शात इह ध्वंसना ।
इति दुर्गादासः ॥


Match 0127: vcp=काक्ष, skd=काक्ष

vcp

k1=काक्ष, L=12824
काक्ष¦ काङ्क्षणे इदित् भ्वा० सक० सेट् । काड्क्षति
अकाङ्क्षीत् चकाङ्क्ष काङ्क्षा प्रनिकाङ्क्षति । “न शोचति
न काङ्क्षति” गीता “काङ्क्षन्नु गतिमुत्तमाम्” मनुः ।
अस्यात्मनेपदित्वमिच्छन्ति । “न काङ्क्षे विजयं कृष्ण!”
गीता “काङ्क्षावहे द्वारपतेस्तवाज्ञाम्” भा० व० १०६२३ ।
“नाहं भूयो वरं काङ्क्षे” भा० अनु० ७६९ भा० स० २१३५ ।
अनु + आनुलोम्येन प्रार्थने । “अतः प्रियंचेदनुकाङ्क्षसे त्वम्”
अभि + आभिमुख्येन प्रार्थने “अत्यर्थमभिकाङ्क्षामि मृगयां
सरयूवने” रामा० ।
आ + सम्यक्प्रार्थने रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः”
रामा० । “धीरेव कन्या पितुराचकाङ्क्ष” रघुः । “आका-
ङ्क्षेयं तनुगुरुतया नैव गन्तुं समर्था” पदाङ्कदूतम् ।
प्रति + आ प्रत्याशायाम । “इहैव फलमासीनः प्रत्याकाङ्क्षत
सर्वगम्” भा० शा० ४८७ ।
प्रति + प्रतिरूपतयाभिलाषे । “त्वामेघ प्रतिकाङ्क्षन्त पर्जन्यमिव
कर्षकाः” रामा० ।


skd

k1=काक्ष, L=7110
काक्ष¦ इ काङ्क्षणे । आकाङ्क्षायामिति यावत् । इति
कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--सेट्--इदित् ।)
इ काङ्क्षति धनं लोकः । नमध्यपाठेनैवेष्टसिद्धे
इदनुबन्धो वेदेषूच्चारणभेदार्थः । इति दुर्गा-
दासः ॥


Match 0128: vcp=काल, skd=काल

vcp

k1=काल, L=13281
काल¦ कालोपदेशे (इयत्तया कालनिश्चयार्थोप्रदेशे) अद०
चु० उभ० सक० सेट् । कालयति ते अवकालत्--त,
कलयाम्--बभूव--आस--चकार--चक्रे । कालयिष्यति--ते


skd

k1=काल, L=7441
काल¦ त् क कालोपदेशे । इति कविकल्पद्रुमः ।
(अदन्तचुरां--परं--सकं--सेट् ।) यथा अचकालत्
[Page2-108-c+ 52]
कालमियत्तया गणकः । एतावती वेलेति कथित-
वानित्यर्थः । इति दुर्गादासः ॥


Match 0129: vcp=काश, skd=काश

vcp

k1=काश, L=13477
काश¦ दीप्तौ भ्वा० आत्म० अक० सेट् । काशते अकाशिष्ट, काशाम्बभूव
काशामास काशाञ्चक्रे चकाशे । णिच् अचकाशत्--त ।
ऋदित्त्वात् चङि नोपधाह्रस्यः । “काली कपालाभरणा
चकाशे” “तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभा-
मण्डलया चकाशे” कुमा० “नंनम्यमानाः फलदित्सयेव
चकाशिरे तत्र लता विलोलाः” भट्टिः । काशी काशकः
काशितः काशमानः काशः काशनं काशितुम् काशित्वा
प्रकाश्य । यङ् लुक् चाकाशीति । वेदे ह्रस्वः चाकशीति
अनु + अनुरूपदीप्तौ अनुकाशते
अभि + सर्व्वतः प्रकाशे अभिकाशते “अन्योअनश्नन्नभिचाक-
शीति” शत० व्रा० १४, ७, १, १२, आभिमुख्येन दर्शने
सक० । “घृतस्य धारा अभिचाकशीमि” ऋ० ४, ५८, ५, ९,
“व्यञ्ज्यमानाभिचाकशीमि” ९, “आभिचाकशीमि अभि
पश्यामि” भा०
अव + अवकाशे स्ववासयोग्यताप्राप्तौ “उभयतो मांसैः संछन्नं
नावकाशते” शत०८, ७, ४, २०, यदमुत्राग्रेऽधिश्रयति पत्नीं
ह्यवकाशयिष्यन् भवति” “अथ यत्पुत्नीं नावकाशयेत्”
शत०१, ३, १, २०, अवकाशः “कृत्वावकाशे रुचिसंप्रकॢप्तम्”
भट्टिः अवेक्षणे सक० । “ज्ञातप्रियानूचानानवकाशयेत्”
का० श्रौ० ९, ७, १६, “अवकाशयेत् अवेक्षयेत्” कर्कः ।
आ + समन्तात्स्थितौ आकाशः । अभिज्ञापने सक० । “संप्र-
त्युरः पुरुषमाकाश्य” शत० ब्रा० ७, ४, १, ४३, “आकाश्य
अभिज्ञाप्य” भा० ।
[Page2030-a+ 38]
उद् + ऊर्द्ध्वगतौ ऊर्द्ध्वप्रकाशे च । उत्काशते उत्काशः ।
नि + तुल्यत्वे नीकाशः घञि पूर्वस्वरदीर्वः ।
सम् + नि + निष्काशने । “न सन्निकाशयेद्धर्म्मम्” भा० आश्व० ४६ अ० ।
निर् + निःसारणे । “मात्रा निष्काशयेदेषा पुनः सन्धान-
काङ्क्षया” सा० द० । अत्र निःकसोरूपत्वेन निष्कासयेदि-
त्येव पाठोयुक्तः
प्र + प्रकृष्टदीप्वौ “एषु सर्व्वेषु भूतेषु गूढोत्मा न प्रका-
शते” कठो० । “उभावपि प्रकाशेते प्रवृद्धौ वषमाविव”
भा० वि० ७५५ श्ली० ।
प्रति + प्रतिरूपप्रकाशे सारूप्ये च प्रतीकाशः । “यमस्य त्वा
गृहेऽरसं प्रतिचाकशान” अथ० ६, २९, ३,
वि + मुकुलीभावापनोदनेन प्रकाशे । पुष्पं विकाशते । प्रकाशे
च । “आदित्य इव तं देशं कृत्स्नं सर्व्वं व्यकाशयत्”
भा० आ० ७४५६ श्लो० वीकाशः ।
सम् + सम्यक्प्रकाशे सादृश्येन प्रकाशे च सङ्काशः “प्रतिस्रोत-
स्तृणाग्राणां सहस्रं सञ्चकाशिरे” रामा०


skd

k1=काश, L=7569
काश¦ य उ ऋ ङ द्युतौ । इति कविकल्पद्रुमः ॥ (दिवां--
आत्मं-अकं-सेट् ।) य ङ काश्यते । उ काशित्वा
काष्ट्वा । ऋ अचकाशत् । इति दुर्गादासः ॥


Match 0130: vcp=कि, skd=कि

vcp

k1=कि, L=13581
कि¦ ज्ञाने जुहो० पर० सक० अनिट् । चिकेति अकैषीत् ।
चिकाय । वैदिकोऽयं धातुः


skd

k1=कि, L=7648
कि¦ र लि ज्ञाने । इति कविकल्पद्रुमः ॥ (ह्वादिं-
परं-सकं-सेट् ।) र वैदिकः । लि चिकेति । इति
दुर्गादासः ॥


Match 0131: vcp=किट, skd=किट

vcp

k1=किट, L=13621
किट¦ गतौ सक० भये अक० भ्वा० पर० सेट् । केटति अकेटीत्
किकेट प्रनिकटति ।


skd

k1=किट, L=7682
किट¦ गतौ । भयभीषयोः । इति कविकल्पद्रुमः ॥ (भ्वां-
परं--सकं अकञ्च--सेट् ।) भीषा स्वतो भयोत्पादना ।
केटति जनो व्याघ्रो जनं भीषयतीत्यर्थः । इति
दुर्गादासः ॥


Match 0132: vcp=कित, skd=कित

vcp

k1=कित, L=13632
कित¦ संशये रोगापनयने च चा० पर० सक० सेट् एतदर्थे स्वा-
र्थेसन् । चिकित्सति अ चकित्सीत् चिकित्सा चिकित्-
सितुम् चिकित्सितः । वासे अक० न सन् इच्छायां सक०
न सन् । केतति अकेतीत् । केतनं केतुः


k1=कित, L=13633
कित¦ ज्ञाने जुहो० पर० सक० सेट् वैदिकोऽयम् । चिकित्ति
अकेतीत् । “यं नोअचिकेत् चित्रभानो” ऋ०१०, ५१, ३,


skd

k1=कित, L=7693
कित¦ संशये । इच्छायां । वासे । आरोग्ये । इति
कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सकञ्च-सेट् ।)
विचिकित्सति मनः सशेते इत्यर्थः । आरोग्ये
चिकित्सत्यातुरं वैद्यः । इच्छानिवासयोस्तु केत-
तीति वोपदेवः ॥ तत्र तिवादयो न प्रयुज्यन्ते ।
इति रमानाथः ॥ इति न वनितामेतां हन्तुं मनो
विचिकित्सते । इति तु अन्तर्भूतञ्यर्थतया कर्म्म-
कर्त्तरि सन्श्रन्थग्रन्थैत्यादिना यक्निपेधे सि-
द्धम् । इति दुर्गादासः ॥


k1=कित, L=7694
कित¦ र लि मतौ । इति कविकल्पद्रुमः ॥ (ह्वादिं-
परं-सकं-सेट् ।) र वैदिकः । लि चिकेत्ति । इति
दुर्गादासः ॥


Match 0133: vcp=किल, skd=किल

vcp

k1=किल, L=13691
किल¦ शौक्ल्ये क्रीडायाञ्च तुदा० पर० अक० सेट् । किलति अके-
लीत् चिकेल प्रनिकिलति


k1=किल, L=13692
किल¦ प्रेरणे चुरा० सक सेट् । केलयति ते अचीकिलत्” केलयाम् बभूवआस चकारचक्रे केलिः


skd

k1=किल, L=7743
किल¦ क नुदौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क केलयति । नुदिरिति णुद ञौश्
प्रेरणे इत्यस्य औणादिककिप्रत्यये रूपम् । इति
दुर्गादासः ॥


k1=किल, L=7744
किल¦ श शौक्ल्ये । क्रीडे । इति कविकल्पद्रुमः ॥
(तुदां-परं-अकं-सेट् ।) श किलति प्रासादः
शिशुर्व्वा । केलिता । इति दुर्गादासः ॥


Match 0134: vcp=किष्क, skd=किष्क

vcp

k1=किष्क, L=13713
किष्क¦ बधे चुरा० आत्म० सक० सेट् । किष्कयते अचिकिष्कत


skd

k1=किष्क, L=7763
किष्क¦ क ङ वधे । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) मूर्द्धन्योपधः । क ङ किष्क-
यते । इति दुर्गादासः ॥


Match 0135: vcp=कीट, skd=कीट

vcp

k1=कीट, L=13732
कीट¦ बन्धे वर्णे च चुरा० उभ० सक० सेट् । कीटयति ते अची-
किटत्--त । कीटयाम् बभूव आस चकार चक्रे कीटः ।


skd

k1=कीट, L=7784
कीट¦, क बन्धे । वर्णे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) क कीटयति कीटः । वर्णः
कैश्चिन्नमन्यते । इति दुर्गादासः ॥


Match 0136: vcp=कील, skd=कील

vcp

k1=कील, L=13759
कील¦ बन्धे भ्वादि० पर० सक० सेट् । कीलति अकीलीत् ।
चिकील कीलः । कीलितः कीलनम् । प्रनिकीलति


skd

k1=कील, L=7811
कील¦, बन्धे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--
सकं--सेट् ।) चतुर्थस्वरी । कीलति । इति
दुर्गादासः ॥


Match 0137: vcp=कु, skd=कु

vcp

k1=कु, L=13770
कु¦ शब्दे वर्णे च भ्वा० आत्म० अक० अनिट् कवते अकोष्ट
चुकुये प्रनिकवते


k1=कु, L=13771
कु¦ आर्त्तस्वरे तुदा० आत्म० अ० क० अनिट् । कुटादि । कुवते अकोष्ट चुकाव


k1=कु, L=13772
कु¦ शब्दे अदा० पर० अक० अनिट् । कौति अकौषीत् चुकाव


skd

k1=कु, L=7822
कु¦ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-
सेट् ।) ङ कवते इति दुर्गादासः ॥


k1=कु, L=7823
कु¦ ल शब्दे । इति कविकल्पद्रुमः ॥ (अदां-परं-अकं-
सेट् ।) ल कौति । इति दुर्गादासः ॥


k1=कु, L=7824
कु¦ शि ङ आर्त्तस्वरे । इति कविकल्पद्रुमः ॥ (तुदां-
आत्मं-अकं-सेट् ।) शि ङ कुवते अकुत । इति
दुर्गादासः ॥


Match 0138: vcp=कुक, skd=कुक् *

vcp

k1=कुक, L=13775
कुक¦ आदाने भ्वा० आत्म० सक० सेट् । कोकते । अकोकिष्ट ।
चुकुके कोकः’ प्रनिकोकते


skd

k1=कुक्, L=7827
कुक्¦, ङ आदाने । इति कविकल्पद्रुमः । (भ्वां-आत्मं-
सकं-सेट् ।) ङ कोकते । इति दुर्गादासः ॥


Match 0139: vcp=कुज, skd=कुज

vcp

k1=कुज, L=13825
कुज¦ स्तेये भ्वा० पर० सक० सेट् । कोजति अकोजीत् चुकोज
उदित् कुजित्वा कुक्क्त्वा । प्रनिकुजति


skd

k1=कुज, L=7880
कुज¦ उ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) उ कोजित्वा कुक्त्वा । स्तेयं चौर्य्यम् । इति
दुर्गादासः ॥


Match 0140: vcp=कुट, skd=कुट

vcp

k1=कुट, L=13854
कुट¦ कौटिल्ये तुदा० पर० सक० सेट् कुटादि कुटति अकु-
टीत् चुकोट । कुटिता कुटितुं कुटितव्यम् । कुटिलः
प्रनिकुटति उद् + उत्थितौ अक० वि + कुत्सने सक० ।
विकुटितः कुत्सितः ।


k1=कुट, L=13855
कुट¦ प्रतापने चुरा० आत्म० सक० सेट । कोटयते अचूकुटत ।


k1=कुट, L=13856
कुट¦ वैकल्ये भ्वा० इदित् प० अक० सेट । कुण्टति अकुण्टीत् ।


k1=कुट, L=13857
कुट¦ कुट्टने (कोटा) दिवा० अक० सेट् । कुट्यति अकोटीत्
“जोवनं कुट्यतीव” । “भक्षयन्ति स्ममांसानि प्रकुट्य
विधिवत्तथा” भा० आ० २६४२ श्लो०


skd

k1=कुट, L=7906
कुट¦ इ वैकल्ये । इति कविकल्पद्रुमः ॥ (भ्वां--परं--
सकं--सेट् । इदित् ।) पञ्चमस्वरी । इ कुण्ट्यते ।
वैकल्यमिह विकलीकरणम् । कुण्टति जनं
शोकः । इति दुर्गादासः ॥


k1=कुट, L=7907
कुट¦ शि कौटिल्ये । इति कविकल्पद्रुमः ॥ (तुदां-परं
-अकं-सकञ्च-सेट् ।) शि कुटति अकुटीत् चुकोट
कौटिल्यमिह कुटिलीभावः कुटिलीकरणञ्च ।
इति दुर्गादासः ॥


k1=कुट, L=7908
कुट¦ क ङ प्रतापने । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं--सकं--सेट् ।) पञ्चमस्वरी । क ङ कोट-
यते । एषोऽन्यैर्न मन्यते । इति दुर्गादासः ॥


Match 0141: vcp=कुटुम्ब, skd=कुटुम्ब

vcp

k1=कुटुम्ब, L=13895
कुटुम्ब¦ धृतौ चुरा० आत्म० अक० सेट् । कुटम्बयते अचुकु
टुम्बत । कुटुम्बः प्रनिकुटुम्बयते ।


skd

k1=कुटुम्ब, L=7936
कुटुम्ब¦, क ङ धृत्याम् । इति कविकल्पद्रुमः । (चुरां-
आत्मं-अकं-सेट् ।) ओष्ठवर्गशेषोपधः । क ङ
कुटुम्बयते । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥


Match 0142: vcp=कुट्ट, skd=कुट्ट

vcp

k1=कुट्ट, L=13901
कुट्ट¦ प्रतापने अद० चुरा० आत्म० सक० सेट् । कुट्टयते अचुकुट्टत ।


skd

k1=कुट्ट, L=7943
कुट्ट¦, क कुत्सायाम् । छिदि । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) क कुट्टयति । इति दुर्गा-
दासः ॥


k1=कुट्ट, L=7944
कुट्ट¦, क ङ प्रतापने । इति कविकल्पद्रुमः ॥ (चुरां--
आत्मं--सकं--सेट् ।) पञ्चमस्वरी । टद्वयान्तः । क ङ
कुट्टयते । एषोऽन्यैर्न मन्यते । इति दुर्गादासः ॥


Match 0143: vcp=कुठ, skd=कुठ

vcp

k1=कुठ, L=13915
कुठ¦ छेदने सौत्रः पर० सक० सेट् । कोठति अकोटीत् ।
प्रनिकोठति ।


k1=कुठ, L=13916
कुठ¦ वैकल्ये (गतिप्रतिघाते) आलस्ये अक० मोचने सक०
इदित् म्बा० प० सेट् । कुण्ठति अकुण्ठीत् । प्रनिकुण्ठति
कुण्ठनम् कुण्ठा ।


skd

k1=कुठ, L=7956
कुठ¦ छिदि । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् ।) कुठेरः कुठारः कुठाकुः ।
इति दुर्गादासः ॥


k1=कुठ, L=7957
कुठ¦ इ खोटने । वैकल्ये । आलस्ये । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-अकं-सेट्-इदित् ।) पञ्चमस्वरी ।
कर्म्भणि इ कुण्ठ्यते । वैकल्यं विकलीभावः ।
आलस्यं मन्दीभावः । कुण्ठति खञ्जः शोकार्त्तो
वृद्धो वा । इति दुर्गादासः ॥


Match 0144: vcp=कुड, skd=कुड

vcp

k1=कुड, L=13929
कुड¦ वैकल्ये म्बा० इदित् पर० अक० सेट् । कुण्डति अकुण्डीत्
प्रनिकुण्डति कुण्डः ।


k1=कुड, L=13930
कुड¦ दाहे भ्वा० इदित् आत्म० सक० सेट् । कुण्डते अकुण्डिष्ट प्रनिकुण्डते । कुण्डम् ।


k1=कुड, L=13931
कुड¦ रक्षणे चुरा० इदित् उभ० सक० सेट् । कुण्डयति ते
अचुकुण्डत् त । प्रनिकुण्डयति ते ।


k1=कुड, L=13932
कुड¦ अदने सक० बाल्ये अक० तुदा० पर० सेट् कुटादि ।
कुडति अकुडीत् चुकोड । प्रनिकुडति कुडपः कुडवः


skd

k1=कुड, L=7971
कुड¦ शि बाल्ये । अदने । इति कविकल्पद्रुमः ॥ (तुदां --
परं-अकं-सकञ्च-सेट् ।) एतदाद्याश्चत्वारः पञ्चम-
स्वरिणः । बाल्यमिह शिशुव्यापारः । शि कुडति
अकुडीत् सिताभिः शिशुः । इति दुर्गादासः ॥


k1=कुड, L=7972
कुड¦ इ वैकल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेत्-इदित् ।) इ कर्म्मणि कुण्ड्यते । कुण्डति
जनं दैवः विकलं करोतीत्यर्थः । इति दुर्गादासः ॥


k1=कुड, L=7973
कुड¦ इ ङ दाहे । इति कविकल्पद्रुमः । (भ्वां-आत्मं-
सकं-सेट्-इदित् ।) इ कर्म्मणि कुण्ड्यते । ङ
कुण्डते इति दुर्गादासः ॥


k1=कुड, L=7974
कुड¦ इ क रक्षे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट्-इदित् ।) इ क कुण्डयति । इति दुर्गा-
दासः ॥


Match 0145: vcp=कुण, skd=कुण

vcp

k1=कुण, L=13943
कुण¦ उपकरणे शब्दे च तुदा० पर० सक० सेट् । कुणति अको-
णीत् । प्रनिकुणति उपकरणं दानादिना पोषणम् ।


skd

k1=कुण, L=7987
कुण¦ त् क आभाषे । मन्त्रे । इति कविकल्पद्रुमः ॥
(अदन्त-चुरां-परं-सकं-सेट् ।) ह्रस्वो मूर्द्धन्योपधः ।
कुणयति । मन्त्रोऽभिमुखीकरणम् । गुप्तोक्तिरि-
त्येके । इति दुर्गादासः ॥


k1=कुण, L=7988
कुण¦ श उपकरणे । शब्दे । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) उपकरणं दानादिना
पोषणम् । श कुणति दीनं दयालुः । कोणिता ।
इति दुर्गादासः ॥


Match 0146: vcp=कुत, skd=कुत् *

vcp

k1=कुत, L=13983
कुत¦ आस्तरणे सौ० प० सक० सेट् । कोतति अकोतीत् । चुकोत ।


skd

k1=कुत्, L=8017
कुत्¦ आस्तृतौ । सौत्रधातुरयम् । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) कुतपः । इति दुर्गा-
दासः ॥ कुत् अपस्त्यः कुतपः कालविशेषः । कृत्ति-
रचितस्नेहपात्रञ्च । इति केचित् ॥


Match 0147: vcp=कुत्स, skd=कुत्स

vcp

k1=कुत्स, L=13998
कुत्स¦ निन्दने चुरा० आत्म० सक० सेट् । कुत्सयते अचुकुत्सत
कुत्सयाम् बभूव आस चक्रे । कतसयमानः कुत्सयित्वा
[Page2095-b+ 38]
सं कुत्स्य । कुत्स्यः कुत्सितः कुत्सनं कुत्सा कुत्सः ।
कुत्सना । कर्म्मणि कुत्स्यते अकुत्सि अकुत्सिषाताम्-
अकुत्सयिषाताम् “वहत्कुत्समार्ज्जनेन शतक्रतुः” ऋ०
१ । ६३ । ३ । कुत्सायशुष्ममशूषम्” ऋ० ४ । १६ । ४२ “कुत्सि-
तानि कुत्सनैः” पा० । कुत्सकः । “परिवित्तिः परीवेत्ता
ब्रह्मघ्नोयश्च कुत्सकः” भा० शा० ३४० अ० । “यदाऽश्रौषं कर्ण्ण
मासाद्य मुक्तं नावघीत्भीमं कुत्सयित्वा वचोभिः” भा०
आ० अ० “नास्तिक्यम् वेदनिन्दाञ्च देवतानाञ्च कुस-
नम्” मनुः । “नैतच्छतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव
कुत्सयन्” भा० आ० ५२८६ श्लो० । अत्र परस्मैपदमार्षम्


skd

k1=कुत्स, L=8032
कुत्स¦ ङ क ञ अवक्षेपे । इति कविकल्पद्रुमः ॥ चुरां--
आत्मं--उभञ्च--सकं--सेट् ।) पञ्चमस्वरी । दन्त्यवर्गा-
द्योपधः । अवक्षेपो निन्दा । ङ क, यो न कुत्सयते
कुत्स्यमिति हलायुधः ॥ ञ, कुत्सयति कुत्सयते ।
अयमात्मनेपदीत्यन्ये । कदाचित् परस्मैपदार्थो
ञकारः । इति दुर्गादासः ॥


Match 0148: vcp=कुथ, skd=कुथ

vcp

k1=कुथ, L=14005
कुथ¦ क्लेशे (कॐथपाडा)इदित् भ्वोदि० अक० सेट् । कुन्यति अकुन्थीत् चुकुन्थ कुन्थ्यात्


k1=कुथ, L=14006
कुथ¦ पूतिगन्धे दिवा० पर० अक० प० सेट् । कुथ्यति अकोथीत् ।
प्रनिकुथ्यति णिचि कोथयति (पॐथा) निखनने । तस्य
[Page2096-a+ 38]
पूतिभावसाधनत्वात्तथात्वम् । “अप्रकाशे देशे कोथयेत्”
सुश्रुतः ।


skd

k1=कुथ, L=8038
कुथ¦ इ क्लेशे । वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--
अकं--सकञ्च--सेट् इदित् ।) पञ्चमस्वरी । इ कर्मणि
कुन्थ्यते । क्लेश इह दुःखानुभवः । शीतार्त्तश्च न
कुन्थतीति हलायुधः । इति दुर्गादासः ॥


k1=कुथ, L=8039
कुथ¦ य पूतित्वे । इति कविकल्पद्रुमः ॥ (दिवां-परं-
अकं-सेट् ।) पूतित्वं दुर्गन्धीभावः । य, कुथ्यति
मीनो दुर्गन्धः स्यादित्थर्थः । चुकोथ । इति दुर्गा-
दासः ॥


Match 0149: vcp=कुद्र, skd=कुद्र

vcp

k1=कुद्र, L=14019
कुद्र¦ मिथ्योक्तौ इदित् चु० उभ० सक० सेट् । कुन्द्रयति अचुकु-
न्द्रत् । प्रनिकुन्द्रयति नोपधकरणेनैवेष्टसिद्धौ इदित्करणं
स्वरार्थम ।


skd

k1=कुद्र, L=8047
कुद्र¦, इ क मिथ्योक्तौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् । इदित् ।) पञ्चमस्वरी । दन्त्यवर्ग-
तृतीयोपधः । इ क कुन्द्रयति नीचः । मिथ्यां
वदतीत्यर्थः । कुन्द्र इत्यनेनैवेष्टसिद्धे इदनुबन्धो
वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥


Match 0150: vcp=कुन्च, skd=कुन्च

vcp

k1=कुन्च, L=14037
कुन्च¦ वक्रणे अनादरे च भ्वा० पर० सक० सेट् । कुञ्चति अकु-
ञ्चीत् चुकुञ्च चुकुच(ञ्च)तुः । कुञ्चनम् आ + सङ्कोचने आ-
कुञ्चति मंकोचयति । वि प्रसारणे । विकुञ्चति प्रसा-
रयति सङ्कुचितः णिच् आकुञ्चितः “आकुञ्चितसव्य-
पादम्” भट्टिः ।


skd

k1=कुन्च, L=8059
कुन्च¦ वक्रणे । तौच्छ्ये । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सकं-सेट् ।) पञ्चमस्वरी । वक्रणमिति वक्र
इवाचरतीति क्वौ वक्रं करोतीति ञौ च रूपम् ।
तेन कुटिलीभावः कुटिलीकरणञ्च । तौच्छ्यमल्पी-
भावः अल्पोकरणञ्च । कुञ्चति खलः कुटिलोऽल्पो
बा स्यादित्यर्थः । कुञ्चति लतां वायुः कुटिलामल्पां
वा करोतीत्यर्थः । इति दुर्गादासः ॥


Match 0151: vcp=कुन्थ, skd=कुन्थ

vcp

k1=कुन्थ, L=14049
कुन्थ¦ क्लेशे श्लेषे च क्र्यादि० प० अक० सेट् । कुथ्नाति अकु-
न्थीत् चुकुन्थ प्रनिकुथ्यात् ।


skd

k1=कुन्थ, L=8067
कुन्थ¦ ग श्लिषि । क्लिशि । इति कविकल्पद्रुमः ॥
(क्र्यां-परं-सकं-अकं च-सेट् ।) पञ्चमस्वरी । क्लिशि
दुःखानुभवे । ग कुथ्नाति बुभुक्षार्त्तः । इति हला-
युघः । चुकुन्थ । इति दुर्गादासः ॥


Match 0152: vcp=कुप, skd=कुप

vcp

k1=कुप, L=14060
कुप¦ आच्छादने इदित् वा चुरा० उभ० पक्षे भ्वादि० पर० सक०
सेट् । कुम्पयति ते कुम्पति अचुकुम्पत् त अकुम्पीत् । कुम्प-
याम् बभूव आस चकार--चक्रे । चुकुम्प । प्रनि कुम्प्यात्


k1=कुप, L=14061
कुप¦ द्युतौ चुरा० उभ० अक० सेट् । कोपयति ते अचूकुपत् त ।
कोपयाम् बभूव आस चकार चक्रे । कुपितः कोपः
कोपनम् कुपित्वा प्रकुप्य । “प्रोचुः प्राञ्जलयो विप्राः
प्रहृष्टाः कुपितत्वचः” भाग० ३, १६,


k1=कुप, L=14062
कुप¦ रोषे दिवा० सक० प० सेट् । कुप्यति इरित् अकुपत्
अकोपीत् चुकोप । “यस्मिन् यस्मिन् ऋतौ ये ये दोषाः
कुप्यन्ति देहिनाम्” सुश्रु० । “तस्य तद्ववनं श्रुत्वा रूक्षं रू-
क्षाक्षरं बहु । चुकोप बलिनां श्रेष्ठः” भा० स० ४१ अ० ।
“कुपितकपिकपोलक्राडताम्रस्तमांसि । उद्भटः “द्रुह्य
कुप्यसि याचके” भा० आ० ७८ अ०” अस्य आर्षे पदव्य-
त्ययोऽपि दृश्यते । “नन्दते कुप्यते चापि तथा हुङ्गार-
यत्यपि” भा० आनु० १४ अ० । “न च कुप्ये महासर्प!
न चात्मानं विगर्हये” भा० ब० १७९ अ० । उपसर्गपू-
र्ब्बकस्य तत्तदुपसर्गद्योत्यार्थपरत्वम् यथा प्रकोपः संकोपः
अतिकोषः इत्यादि । “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति
कोपः” पा० कर्म्मणः सम्प्रदानता ।


skd

k1=कुप, L=8080
कुप¦ इ कि स्तृतौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट्-इदित् ।) पञ्चमस्वरी । इ कुम्प्यते ।
कि कुम्पयति कुम्पति । स्तृतिराच्छादनम् । इति
दुर्गादासः ॥


k1=कुप, L=8081
कुप¦, क द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) क कोपयति । इति दुर्गादासः ॥


k1=कुप, L=8082
कुप¦ य इर् कोपे । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अकं-सेट्-इरित् ।) कोपो नेत्रलौहित्यादि-
हेतुश्चित्तविकारः । य, कुप्यति माता शिशवे । इर्
अकुपत् अकोपीत् । अस्मात् पुषादित्वान्नित्यं
ङ इत्यन्ये । “कदाचित् कुप्यते माता नोदरस्था
हरीतकी” । इति तु कुप्यतीति कुप् ततः स
इवाचरति इति ङ्ये साध्यम् । इति दुर्गादासः ॥


Match 0153: vcp=कुब, skd=कुब

vcp

k1=कुब, L=14078
कुब¦ स्तृतौ (आच्छादने) इदित् वा चुरा० उभ० पक्षे भ्वा० पर०
सक० सेट् । कुम्बयति ते कुम्बति अचुकुम्बत् त अकुम्बीत् ।
कुम्बयाम्--बभूव आस चकार चक्रे चुकुम्ब । कुम्बा


skd

k1=कुब, L=8093
कुब¦ इ कि स्तृतौ । इति कविकल्पद्रुमः । (चुरां-पक्षे-
भ्वां-परं-सकं-सेट् ।) पञ्चमस्वरी । इ कुम्ब्यते ।
कि कुम्बयति कुम्बति । स्तृतिराच्छादनम् । इति
दुर्गादासः ॥


Match 0154: vcp=कुमार, skd=कुमार

vcp

k1=कुमार, L=14097
कुमार¦ केलौ अद० चुरा० उभ० अक० सेट् । कुमारयति ते
अचुकुमारत् त । कुमरयाम् बभूव आस चकार चक्रे ।


skd

k1=कुमार, L=8100
कुमार¦, त् क केलौ । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-अकं-सेट् ।) ह्रस्वी । अचुकुमारत् ।
इति दुर्गादासः ॥


Match 0155: vcp=कुमाल, skd=कुमाल

vcp

k1=कुमाल, L=14119
कुमाल¦ केलौ अद० चुरा० उभ० अक० सेट् । कुमालयति ते
अचुकुमालत् त । कुमालयां बभूव आस चकार चक्रे


skd

k1=कुमाल, L=8112
कुमाल¦ त् क केलौ । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-अकं-सेट् ।) ह्रस्वीं । अचुकुमालत् ।
इति दुर्गादासः ॥


Match 0156: vcp=कुर, skd=कुर

vcp

k1=कुर, L=14194
कुर¦ शब्दे तुदा० पर० अक० सेट् । कुरति अकोरीत् । चुकोर
कुरटः ।


skd

k1=कुर, L=8164
कुर¦ श शब्दे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
अकं-सेट् ।) श कुरति कोरिता । इति दुर्गादासः ॥


Match 0157: vcp=कुर्द्द, skd=कुर्द्द

vcp

k1=कुर्द्द, L=14247
कु(कू)र्द्द¦ क्रीडायां भ्वा० आत्म० अक० सेट् । कु(कू)र्द्वते
अकु(कू)र्द्दष्ट चुकु(कू)र्द्दे । अर्थवत्परिभाषया न-
कुरछुरामिति निषेधाप्रवृत्तावपि दीर्घमध्यान्तरपाठसाम-
र्थ्यात् रेफे परे न दीर्घः इति सूचितम् । तेन कुर्द्द-
नमित्यादौ न दीर्घः ।


skd

k1=कुर्द्द, L=8212
कुर्द्द¦ ङ क्रीडायाम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) पञ्चमस्वरी । दीर्घिणः पृथक् पाठ-
सामर्थ्यात् पूर्ब्बस्य र्वनच्तयीति दीर्घो न स्यात् ।
ङ कुर्द्दते । इति दुर्गादासः ॥


Match 0158: vcp=कुल, skd=कुल

vcp

k1=कुल, L=14255
कुल¦ बन्धे संहतौ च भ्वा० पर० अक० सेट् । कोलति अको-
लीत् चकोल । कुलम् । वंशेएवास्य प्रयोग इति वदन्
दुर्गादासः आकुलः सङ्गुलैत्यादिप्रयोगमपश्यन् परास्तः ।
आ + व्यग्रतायाम् चञ्चलतायाम् । आकोलति “किमे-
तदित्याकुलमीक्षितं जनेः” माषः “उदपतद्दिवमाकुल
लोचनैः” भट्टिः ।
सम् + सङ्कीर्ण्णतायाम् सङ्कुल युद्धम् भा० द्रो० प० । “अलि-
कुलसंकुलकुसुमनिराकुलेत्यादि” जयदेवः । “शङ्खकुला-
कुलेन” माघः ।


skd

k1=कुल, L=8218
कुल¦ ज बन्धौ । संहतौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-अकं-क्वचित् सकं सेट् । ज्वलादिः ।)
ज कोलः कुलः । कोलति कुलीनः सर्व्वेषां बन्धुः
स्यादित्यर्थः । संहती राशीकरणमिति चतुर्भुजः ॥
केचित्तु संहतिस्थाने संख्यानं पठित्वा कोलति
कुलालः गणयति इत्यर्थः इत्याहुः । संस्त्यानं
पठित्वा संस्त्यानं उपचयः । इति रामः ॥ अन्ये तु
बन्धुषु ज्ञातिषु वर्त्तमानोऽयं अन्यत्रास्य न प्रयोगः ।
गडि गण्डे इतिवदित्याहुः । इति दुर्गादासः ॥


Match 0159: vcp=कुश, skd=कुश

vcp

k1=कुश, L=14399
कुश¦ द्युतौ इदित् वा चुरा० पक्षे भ्वादि० पर० सक ० सेट् ।
कुंशयति ते कुंशति अचुकुंशत्--त अकुंशीत् ।
कुंशयां बभूव आस चकार चक्रे चुकुंश । प्रनिकुंशति


k1=कुश, L=14400
कुश¦ श्लेषे दि० पर० सक० सेट् । कुश्यति । अकुशत्--अको-
शीत् । चुकोश । कुक्षिः कोशः


skd

k1=कुश, L=8332
कुश¦ इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां
पक्षे भ्वां--परं-अकं-सेट्-इदित् ।) पञ्चमस्वरी ।
[Page2-157-c+ 52]
इ कुंश्यते । कि कुंशयति कुंशति । इति दुर्गा-
दासः ॥


k1=कुश, L=8333
कुश¦ य इर् श्लिषि । आलिङ्गन इति यावत् । इति
कविकल्पद्रुमः ॥ (दिवां-परं-सकं-सेट् ।) य कुश्यति
बाला कान्तम् । इर् अकुशत् अकोशीत् ।
अस्मात् पूषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गा-
दासः ॥


Match 0160: vcp=कुष, skd=कुष

vcp

k1=कुष, L=14444
कुष¦ निष्कर्षे क्र्यादि० पर० सक० सेट् । कुष्णाति अकोषीत् ।
निरस्तु वेट् निरकोषीत् निरकुक्षत् । चुकोष । निष्कर्षश्चेह
इयत्तापरिच्छेदः, मध्यस्थितस्य, वस्तुनो बहिर्निःसार-
णञ्च । “शिवाः कुष्णान्ति मांसानि” “ततोऽकुष्णात् दश-
ग्रीवः क्रुद्धः प्राणान् वनौकसाम्” भट्टिः । क्त्वा सेट्
कित् । “कुषित्वा जगतां सारम्” भट्टिः कर्म्मकर्त्तरि
सार्व धातुके श्यन् वा प० । कुष्यति ते वा पादः । आ-
र्द्धधातुके तु न परैस्मपदम् श्यन्सन्नियोमशिष्टत्वात्
कोषिषीष्ट पादः ।
अनु + सादृश्येन बर्निस्मारणे तूलेनानुकुष्णाति
अभि + आभिमुख्येन निःसारणे “न बालकर्ण्णनासास्रोतो
दशनविवराण्यभिकुष्णोयात्” सुश्रुतः
अव + अधोनिःसारणे तूलैरवकुष्णाति सि० कौ० ।
निर् + निष्कासने । निरकुक्षत् निरकोषीत् “निष्क्रोष्टा नि-
ष्कोषिता । “निष्कोषितव्यान्निष्कोष्टु प्राणान् दशमु-
खात्मजात् । आदाय परिधं तस्थौ बलान्निष्कुषित-
द्रुमः” भट्टिः “कीटनिष्कुषितं धनुः” भट्टिः “उपान्तयो
र्निष्कुषितं विहङ्गैः” रघुः । आर्षे तु गणव्यत्ययोऽपि
क्वचित् दृश्यते “यमपुरुषा अयस्मयैरग्नितप्तैः संदंशंस्त्वचि
निष्कुषन्ति” भाग० ५ । २६ । १९ ।


skd

k1=कुष, L=8366
कुष¦ ग निष्कर्षे । इति कविकल्पद्रुमः । (क्र्यां --
परं -- सकं -सेट् ।) ग कुष्णाति चुकोष । निष्कर्ष
इयत्तापरिच्छेदः । तूलैरवकुष्णातीति वोपदेवः ॥
निष्कर्षोऽन्तःप्रकाशनमिति गोविन्दभट्टः ॥ “ततो-
ऽकुष्णाद्दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्” । इति
भट्टौ अनेकार्थत्वांन्निष्कोषणार्थः । इति दुर्गादासः ॥


Match 0161: vcp=कुस, skd=कुस

vcp

k1=कुस, L=14474
कुस¦ श्लेषे दि० प० सक० सेट् । कुस्यति इरित् अकुसत्--अ-
कोसीत् चुकोस । कुसलः


skd

k1=कुस, L=8390
कुस¦ इ कि भासने । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां--परं--अकं--सेट्--इदित् ।) पञ्चमस्वरी ।
इ कुंस्यते । किं कुंसयति कुंसति । भासनं दीप्तिः ।
इति दुर्गादासः ॥


k1=कुस, L=8391
कुस¦ य इर् श्लिषि । इति कविकल्पद्रुमः ॥ (दिवां-
परं--सकं--सेट् ।) य, कुस्यति बाला कान्तम् । इर्
अकुसत् अकोसीत् । अस्मात् पुषादित्वान्नित्यं ङ
इत्यन्ये । इति दुर्गादासः ॥


Match 0162: vcp=कुस्म, skd=कुस्म

vcp

k1=कुस्म, L=14513
कुस्म¦ बुद्धिपूर्व्वकदर्शने चुरा० आत्म० सक० ईषद्धास्ये अक०
सेट् । कुस्मयते अचुकुस्मतमूर्द्धन्यमध्य इत्येके ।


skd

k1=कुस्म, L=8418
कुस्म¦ क ङ मतीक्षिते । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) कुस्मिति च । (अत्र अकं) ह्रस्वी
दन्त्योपधः । मतीक्षितं बुद्धिपूर्ब्बकदर्शनम् । कुस्मित्
कुत्सितमीषद्धास्यम् । क ङ, कुस्मयते जनः । बुद्ध्या
पश्यति कुत्सितं स्मयते वेत्यर्थः । इति दुर्गादासः ॥


Match 0163: vcp=कुह, skd=कुह

vcp

k1=कुह, L=14514
कुह¦ विस्मायने अद० आत्म० सक० सेट् । कुहयते अचु
कुहत, कुहयां बभूव आस चक्रे कुहकम् कुहनम् ।


skd

k1=कुह, L=8419
कुह¦ त् क ङ विस्मायने । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-आत्मं-सकं-सेट् ।) ह्रस्वी । विस्मा-
यनमन्यतो विस्मयोत्पादनम् । ङ कुहयते । कुह-
केनेन्द्रजालिको लोकं विस्माययति इत्यर्थः ।
स्यातां कुहयते विस्मापयते हेतुतो भयमिति
भट्टमल्लदर्शनाद्विस्मापने इति पाठ इत्येके । इति
दुर्गादासः ॥


Match 0164: vcp=कू, skd=कू

vcp

k1=कू, L=14534
कू¦ आर्तस्वरे तुदा० अक० सेट् कुटादि । कुवते अकुविष्ट चुकुवे ।


k1=कू, L=14535
कू¦ शब्दे क्र्यादि० उभ० अक० सेट् प्वादि० । कुनाति कुनीते
अकवीत् अकविष्ट । कुकाव चुकुवे । प्रनिकुनाति


skd

k1=कू, L=8445
कू¦ शि ङ आर्त्तस्वरे । इति कविकल्पद्रुमः ॥ (तुदां--
आत्मं--अकं--सेट् ।) शि ङ कुवते अकुविष्ट ।
इति दुर्गादासः ॥


k1=कू, L=8446
कू¦ ञ ग शंब्दे । इति कविकल्पद्रुमः ॥ (क्र्यां--उभं
--अकं--सेट् ।) ञ ग कूनाति कूनीते । ह्रस्वान्तो-
ऽयमिति जैमिनिः । दन्त्यनोपधोऽपि । नकार-
रहितो ह्रस्वान्त इति रमानाथः । दीर्घान्त इति
जौमराः । इति दुर्गादासः ॥


Match 0165: vcp=कूज, skd=कूज

vcp

k1=कूज, L=14540
कूज¦ अव्यक्तशब्दे भ्वा० प० अक० सेट् । कूजति अकूजीत् ।
“कूजन्तं रामरामेति मधुरं मधुराक्षरम्” रामा० “पुं-
स्कोकिलोयन्मधुरं चुकूज” कुमा० “चुकूज कूले कलहंस-
मण्डली” नैष० । “कूजितं राजहंसेन नेदं नूपूरशि-
ञ्जितम्” विक्र० । “समोऽकुजने” पा० ।


skd

k1=कूज, L=8451
कूज¦ हिक्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) दीर्घी । हिक्वनमव्यक्तशब्दः । कूजति
कोकिलः । इति दुर्गादासः ॥


Match 0166: vcp=कूट, skd=कूट

vcp

k1=कूट, L=14542
कूट¦ अपवादे दानाभावे च चुरा० आत्म० सक० सेट् । कूटयते
अचुकूटत्--त । कूटयां--बभूव आस चकार चक्रे ।


k1=कूट, L=14543
कूट¦ दाहे मन्त्रणे प्रच्छादने च अट० चुरा० उभय० सक० सेट् ।
कूटयति ते अचुकूटत्--त । कूटयां बभूव आस चकार चक्रे


skd

k1=कूट, L=8453
कूट¦ क ङ अप्रसादाप्रदोः । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-अकं-सेट् ।) अप्रदा दानाभावः । क
ङ कूटयते खलः स्फुटमप्यर्थं प्रसन्नं न करोति ।
किञ्चिन्न ददाति वेत्यर्थः । इति दुर्गादास ॥


k1=कूट, L=8454
कूट¦ त् क दाहे । मन्त्रे । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-परं-सकं-सेट् ।) दीर्घो । अचुकूटत् ।
इति दुर्गादासः ॥


Match 0167: vcp=कूड, skd=कूड

vcp

k1=कूड, L=14560
कूड¦ घनीभावे अक० भक्षणे सक० पर० तुदादि० सेट् । कूडति
अकूडीत् । चुकूड । प्रनिकूडति


skd

k1=कूड, L=8472
कूड¦, शि घान्ये । भक्षे । इति कविकल्पद्रुमः । (तुदां-
पर-अकं-सकञ्च-सेट् ।) षष्ठस्वरी । फलाभावे
ऽप्यस्य कूटादौ पाठः प्राचामनुरोधात् । प्राञ्चोऽपि
डान्तप्रस्तावादिमं कूटादौ पठितवन्तः । शि,
कूडती कूडन्ती । घान्यं घनीभावः । कूडति
दुग्धं वह्नियोगात् । कूडत्यन्नं लोकः । इति
दुर्गादासः ॥


Match 0168: vcp=कूण, skd=कूण

vcp

k1=कूण, L=14562
कूण¦ आभाषे मन्त्रणे च अद० चुरा० उभ० सक० सेट् । कूण-
यति--ते अचुकूणत् त । कूणयाम्--बभूव आस चकार
चक्रे ।


k1=कूण, L=14563
कूण¦ सङ्कोचे चुरा० आत्म० अक० सेट् । कूणयते अचूकुणत । कूणितम् कूणिः प्रनिकूणयति


skd

k1=कूण, L=8474
कूण¦, त् क सङ्कोचे । इति कविकल्पद्रुमः ॥ (अद-
न्तचुरां-परं-अकं-सेट् ।) दीर्घी मूर्द्धन्योपधः
अचुकूणच्चक्षुः सङ्कुचितमभूदित्यर्थः । इति दुर्गा-
दासः ॥


k1=कूण, L=8475
कूण¦, क ङ सङ्कुचि । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-अकं-सेट् ।) षष्ठस्वरी । क ङ, कूणयते चक्षुः
सङ्कुचितं स्यादित्यर्थः । पञ्चमस्वरीत्येके । इति
दुर्गादासः ॥


Match 0169: vcp=कूप, skd=कूप

vcp

k1=कूप, L=14568
कू(कु)प¦ दौर्बल्ये अद० चुरा० उभ० अक० सेट् । कू(कु)पय-
ति--ते अचुकू(कु)पत् त । कू(कु)पयां बभूप आस च-
कार चक्रे ।


skd

k1=कूप, L=8480
कूप¦, त् क दौर्ब्बल्ये । (अदन्तचुरां--परं--अकं--सेट् ।)
अयं षष्ठस्वरी । इति त्रिलोचनः ॥ सप्तमखरी ।
इति कविकल्पद्रुमटीकायां दुर्गादासः ॥


Match 0170: vcp=कूर्द्द, skd=कूर्द्द

vcp

k1=कूर्द्द, L=14588
कूर्द्द¦ क्रीडायां कुर्द्दवत् ।


skd

k1=कूर्द्द, L=8497
कूर्द्द¦ ङ क्रीडायाम् । इति कविकल्पद्रुमः । (भ्वां-
आत्मं--अकं--सेट् ।) षष्ठस्वरी । ङ, कूर्द्दते । इति
दुर्गादासः ॥


Match 0171: vcp=कूल, skd=कूल

vcp

k1=कूल, L=14600
कूल¦ आवृतौ भ्वा० पर० सक० सेट् । कूलति अकूलीत् चु-
कूल प्रनिकूलति कूलम् । “तासां प्राजमानो योनिम-
कूलयत्” टत० व्रा० ४९ ।


skd

k1=कूल, L=8507
कूल¦, आवृतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--
सकं--सेट् ।) षष्ठस्वरी । कूलति वाटी प्राचीरम् ।
इति दुर्गादासः ॥


Match 0172: vcp=कृ, skd=कृ

vcp

k1=कृ, L=14621
कृ¦ कृतौ भ्वा० उभ० सक० अनिट् कविकल्प० । करति ते
अकार्षीत् अकृत । चकार । भौवादिकस्यास्यापाणिनीयता


k1=कृ, L=14622
कृ¦ कृतौ तना० उभ० सक० अनिट् । करोति कुरुते कुर्य्यात् ।
करोतु कुरु अकरोत् अकार्षीत् अकृत । चकार कर्त्ता
करिष्यतिते क्रियात् कृषीष्ट । कर्म्मणि क्रियते
अकारिअकारिषाताम्कारयिषाताम् । कारक कर्त्ता
कारी कुर्वन् कुर्ष्वाणः चक्रिवान् चक्राणः । डु--कृत्रिमः
कृतः कृतवान् करणं कृतिः क्रिया कृत्या कृत्वा प्रकृत्य ।
कृत्यं कार्य्यः कर्त्तव्यः करणीयः । णिचि कारयति ते
अचीकरत्तसनि चिकीर्षति ते यङि चेक्रियते यङ् लुकि
चरि(री)करीति चरि(री) कर्त्ति चर्करीति चर्कर्त्ति

“कृञो हेतुताच्छील्यानुलोम्येषु” पा०
“एषु द्योत्येषु करोतेष्टः स्यात् । अतः कूकमीति
सः । यशस्करी विद्या । श्राद्धकरः वचनकरः” सि० कौ०

“दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी-
किम्लिपिलिबिबलिभक्तिकर्त्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वह-
र्य्यत्तद्धनुररुष्षु” पा० ।

“एषु कृञष्टः स्यात् । अहेत्वादावपि । दिवाकरः
विभाकरः निशाकरः कस्कादित्वासः । भास्करः
बहुकरः बहुशब्दस्य वैपुल्यार्थे संख्यापेक्षया पृथग्-
ग्रहणम् लिपिलिबिशब्दौ पर्य्यायौ । संख्या--एककरः ।
द्विकरः । कस्कादित्वात्सः । अहस्करः । नित्यम् समा-
मेऽनुत्तरपदस्थस्येति षत्वम् । धनुष्करः । अरुष्करः ।
“किंयत्तद्बहुषु कृञोऽज्विधानमिति” वार्त्तिकम् किङ्क-
रा । तत्करा । हेत्वादौ टम्बाधित्वा परत्वादच् ।
पुंयोगे ङीप् । किङ्करी । “कर्म्मणि भृतौ” पा०

“कर्म्मशब्दे उपपदे करोतेष्टः स्यात् भृतौ । कर्म्म-
करो भृतकः । कर्म्मकारोऽन्यः” सि० कौ०

“न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु” पा० ।

“एषु कुञष्टो न । हेत्वादिषु प्राप्तः प्रतिपिध्यते ।
शब्दकार इत्यादि” । “स्तम्बशकृतोरिन्” पा०
“व्रीहिवत्सयोरिति वक्तव्यम्” वार्त्ति० । स्त्रम्बकरि-
व्रीहिः । शकृत्करिर्ष्वत्सः । वीहिवत्सयो किम्
स्तम्भकारः । शकृत्कारः” । सि० कौ०
[Page2170-b+ 39]

“सुकर्म्मपापमन्त्रपुण्येषु कृञः” पा० “सौ
कर्म्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र
नियम इति काशिका । सकृत् कर्म्मकृत् पापकृत्
मन्त्रकृत् पुण्यकृत् । क्विबेवेति नियमात्कर्म्म
कृतवानि तिनिष्ठा न । कृञ एवेति नियमान्मन्त्रमधीत-
वान्मन्त्राध्यायः अत्र न क्विप् । भूत एवेति नियमात्
मन्त्रङ्करोति करिष्यति वेति विवक्षायान्न क्विप् । स्वा-
दिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्र-
कृत् । भाष्यकृत्” । सि० कौ०
अधि + अधिकारे आरम्भे सक० अधिकरोति अधिकृत्य
अनु + सदृशीकरणे अनुकरोति । “शैलाधिपस्यानुचकार लक्ष्मीम्”
अप + अपकारे अनिष्टाचरणे अपकरोति “रिपौ सान्त्वमपक्रि-
या” माघः
अप + आ निवारखे सक० । अपाकरोति । “अयं प्रश्नः प्राधान्येनावाक्रियते” वृ० उ० भा०
आ + आकारे अवयवसंस्थाने आकृतिः आकारः
उद् + आ + उत्कालने सक० “उदाकरोति उत्कालयति
“याज्ञकलक्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज
सोमश्रवाः! इति ताहोदाचकार” वृ० उ० । “तागाः ह
उदाचकार उत्कालितवानाचार्य्यगृहम्” भा० ।
उप + उपकारे सक० उपकरोति “उपकृतं बहु तत्र किमुच्यते”
सा० द० । संस्कारे सक० सुट् च । उपस्करोति
उप + आ + आरम्भे उपाकरोति उपाकृत्य “श्रावण्यां प्रोष्ठ
पर्द्या वा उपाकृत्य यथाविधि” मनुः पश्वादिसंस्कारे च
उपाकर्म्मशब्दे उदा० ।
दुर् + दुष्टाचरणे दुष्कृतं दुष्कृतिः ।
नि + पराभवे सक० निकरोति (पराभवति) नीकरः
निस् + निर् + शुद्धौ अक० निष्करोति निष्कृतिः (शुद्धिः)
निर् + आ + निवारणे सक० निराकरोति “निराकरिष्णू वर्द्धिष्णू
वर्त्तिष्णू परितोरणम्” भट्टिः! “निराकरिष्णोर्वृजिना-
दृतेऽपि” रघुः
परा + निराकरणे सक० । पराकरोति
परि + परिष्कारे सतोगुणान्तराधाने भूषणे च सक० सुट् च परिष्करोति
प्र + प्रस्तावे सक० प्रकरोति प्रकृत्य । आरम्भे च “प्रकृत
जपविधीनामास्यमुद्रश्मिदन्तम्” माघः ।
प्रति + प्रतिकारे अतिष्टनिवारणे प्रतिकूलाचरणे च सक० प्रति-
करोति प्रतीकारः प्रतिक्रिया ।
वि + विभागे विकरोति “स त्रेधात्मानं व्यकुरुत” छा० उ० ।
“व्यकुरुत व्यभजद्” भा० । विकारे (अत्यथास्थितस्य वस्तु-
नोऽन्यथाभाके) अक० आ० वायुर्विकुरुते” सि० कौ० ।
[Page2171-a+ 38]
वि + आ + प्रकाशने व्याकरोति “अनेन जीवेनात्मनानुप्रविश्य
नामरूपे व्यकरवाणि” श्रुतिः । व्याख्याने व्याकृतम्
पाणिन्याद्युक्तशब्दसाधुत्वाधायकसंस्कारभेदे च “शिक्षा
कल्पोव्याकरणं निरुक्तं छन्दसां चितिः” वेदा-
ङ्गोक्तौ “व्याक्रियाव्यञ्जनीया वा जातिः कापीह सा
धुता” भर्त्तृ हरिः ।
वि + प्र + उपद्रवे सक० विप्रकरोति “तस्मिन् विप्रकृताः काले”
कुमा० । “कमपरमवशं न विप्रकुर्य्युः” कुमा० ।
सम् + संस्कारे सतोगुणान्तराधाने सक० सुट् च । संस्करोति
पात्रम् ।
सम् + परि उप + भूषणे अर्थे सुट् । संस्करोति परिष्करोति
उपस्करोति अलङ्करोतीत्यर्थः । तत्पूर्व्वकाः समवायेऽ-
र्थेच अक० सुट् संस्करोति उपस्करोति परिस्करोति सं-
घीभवतीत्यर्थः उप + सतोगुणान्तराधाने विकारे आका-
ङ्क्षितवाक्यस्य पूरणे च सुट् । उपस्कृतं भुङ्क्तेविकृतं
भुङ्क्ते । उपस्कृतं ब्रूते वाक्यमध्याहृत्य ब्रूते” सि० कौ०

अथ मतभेदेन कृञोऽर्थोनिरूप्यते तत्र वैयाकरणाः
तस्य यत्नार्थकतानिराकरणेन व्यापारार्थकतामाहुः
यथा वै० भू० सारे
“व्यापारोभावना सैवोत्पादना सैव च क्रिया । कृ-
ञोऽकर्म्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते” मू० ।
“पचति पाकमुत्पादयति पाकानुकूला भावना तादृ-
श्युत्पादनेत्यादिविरणाद्विव्रियमाणस्यापि तद्वाचकतेति
भावः । व्यापारपदं फूकारादीनामयत्नानामपि फूत्कार-
त्वादिरूपेण वाच्यतां ध्वनथितुमुक्तम् । अतएव पचतीत्य-
त्राघःसन्तापनत्वफूत्कारत्वचूल्ल्युपरिधारणत्वयत्नत्वादिभि-
र्बोधः सर्वसिद्धः । नचैबमेषां शक्यतावच्छेदकत्वे गौर-
वापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यम् रथो गच्छति
जानातीत्यादौ च व्यापारत्वादिप्रकारकबोधोलक्षणयेति
नैयायिकरीतिः साध्वी, शक्यतावच्छेदकत्वस्यापि ल-
क्ष्यतावच्छेदकत्ववद्गुरुणि सम्भवात् तयोर्वैषम्ये वीजा-
भावात् । नच पचति पाकं करोतीति यत्नार्थकरोतिना
विवरणाद्यत्नएवाख्यातार्थ इति वाच्यम् । रथोगमनं
करोति वीजादिना अङ्कुरः कृत इति दर्शनात् कृ-
ञोयत्नार्थकताया असिद्वेः । किञ्च भावनाया अवा-
च्यत्वे घटं भावयती यत्रेव घटोभवतीत्यत्रापि द्वि-
तीया स्यात् नचात्र घटस्य कर्तृत्वेन तत्संज्ञया क-
र्म्मासंज्ञायाताधान्न द्वितीयेति वाच्यम् अनुगतकर्तृत्वस्य
[Page2171-b+ 38]
त्वन्मते दुर्व्वचत्वेन घटस्याकर्तृत्वात् । कृत्याश्रयत्वस्य
कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात् । धात्वर्थानु-
कूनव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात् ।
अपि च भावनाया अवाच्यत्वे धातूना सकर्म्मक-
त्वाकर्म्मकत्वविभाग उच्छिन्नः स्यात् । स्वार्थफलव्य-
धिकरणव्यापारवाचित्वं स्वार्थव्यापारव्यधिकरणफल-
वाचकत्वं वा सकर्मकत्वं भानियिवाच्यत्वमन्त-
रेणासम्भवि । अन्यतमत्वं तत्त्वमिति चेन्न एकस्यै-
वार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् तदेतदभिसन्धायाह
कृञ इति । अयं भावः व्यापारावाच्यत्वपक्षे फलमात्र
मर्थैति फलितम् । तथा च करोतीत्यादौ यत्नप्रतीते-
स्तन्मात्रं वाच्यमभ्युपेयम् । तथा च यती प्रयत्नैति-
वत् फलस्थानीययत्नवाचकत्वाविशेषादकर्मकतापत्तिः उ-
क्तरीत्या दुर्वारेति । तथा च नहि यत्नः इत्यत्र फल-
स्थानीयत्वेनेति शेषः कृञः इति धातुमात्रोपलक्षणं
सर्वेषामप्यकर्म्मकता सकर्मकता वा न स्यादिति भावः ।
अथ वा व्यापारोभावना इत्यर्द्धेन व्यापारस्य बाच्यत्वं
प्रसाध्य फलांशस्यापि तत्साधयन् नैयायिकाभ्युप-
गत जानातिकृञादेः केवलज्ञानयत्नादिक्रियाणात्रवा-
चित्वं दूषयति कुञः इति । अयं भावः फलांशस्यावा-
च्यत्वे व्यापारएव धात्वर्थः स्यात् । तथा च स्वार्थफ-
लव्यधिकरणव्यापारवाचित्वादिरूपसकर्मकत्वोच्छेदापत्तिः ।
नच कृञादौ सकर्म्मकत्वव्यवहारोभाक्तैति नैयायि-
कोक्तं युक्तम् व्यवहारस्य भाक्तत्वेऽपि कर्मणि लका-
रासम्भवात् । न हि तीरे गङ्गापदस्य भाक्तत्वेऽपि तेन
स्नानादिकार्यं कर्त्तुं शक्यम् । एवञ्च नहि यत्न इत्यत्र
यत्नमात्रमित्यर्थः” । अतएवाह ।
“किन्तूत्पादनमेवातः कर्म्मवत्स्यात् यगाद्यपि ।
कर्मकर्त्तर्य्यन्यथा तु न भवेत् तद्दृशेरिव” मू०
“उत्पादनम् उत्पतिरूपफलसहितं यत्नादिकृञर्थैत्यर्थः ।
फलस्य वाच्यत्वे युक्त्यन्तरमाह अतैत्यादि । यतः
कृञोयत्नमात्रार्थोनेष्यते अतः कर्मवत् स्यादिति पदेन “कर्म-
वत्कर्मणा तुल्यक्रियः” इति(पा०)सूत्रं लक्ष्यते । अवमर्थः
यतएवास्योत्पादनार्थकता अतः पच्यते ओदनः णयनेवे-
तिवत् क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते ।
अन्यथा यत्नस्य कर्मनिष्ठत्वाभावात्तन्न स्यात् दृशिवत् ।
यथा दृश्यते घटः स्वयमेवेति न, दर्शनस्य घटावृत्ति-
त्वात्तथा यत्नस्थापीति, तथा प्रयोगामुपपत्तेरिति” ।
[Page2172-a+ 38]
नैयायिकास्तु व्यापारार्थकतानिराकरणेन यत्नार्थक-
तामाहुः थथा शब्दचिन्तामणौ
“आख्यातस्य यत्नवाचकत्वादचेतने रथोगच्छतीत्यादौ
चाख्याते व्यापारलक्षणा तथाह्याख्यातस्य पचतीत्यादौ
यत्नोवाच्यः पचति पाकं करोतीत्यादियत्नार्थककरो-
तिना सर्व्वाख्यातविवरणाद्वृद्धव्यवहारादिव बाधकं
विना विवराणादपि व्युत्पत्तेः । द्वन्द्वादिसमासस्य विग्र-
हेण विवरणादपि विग्रहार्थे न शक्तिग्रहः अन्य-
लभ्यत्वात् किंकरीतीति यत्नप्रश्ने पचतीत्युत्तरस्य यत्ना-
र्थत्वं विनानुपपत्तेरित्याचार्य्याः । अत्र वदन्ति--आख्या-
तस्य करोतेश्च न यत्नार्थकत्वं रथोगच्छति जानाति यतते
निद्रातीत्यत्र धात्वर्थानुकूलयत्नाभावेऽप्याख्यातपदप्रयो-
गात् गमनं करोतीति करोतिना तत्राख्यातविवरणाच्च
अत्र व्यापारस्य करोत्यर्थत्वे चेतनेऽपि तथा । न च तत्रा-
ख्यातकरोत्योर्गौणत्वं मुख्ये बाधकाभावात् । अतएव
प्रश्नोत्तरयोर्न यत्नार्थत्वं किन्तु क्रियावाचकत्वमेव कृञः,
तेन किं करोतीति क्रियामात्रप्रश्ने पचति गच्छतीति
क्रियाविशेषेणोत्तरमपि समञ्जसम्भवति” । ततः परो-
ग्रन्थः कर्त्तृशब्दे १७१७ दर्शितोदृश्यः । तत्परस्तु-
“ननु प्रकृतेस्तदर्थत्वेऽपि प्रत्ययस्य न तदर्थत्वं दोषः ए-
कोद्वौबहवःएषिषतीत्यत्रेव तत्सम्भवात् । यत्तु तत्र द्वितीय-
संख्येच्छादिकल्पनावदिहापि द्वितीययत्नकल्पनमिति तन्न
द्वितीययत्नेच्छादा विच्छायत्नाऽभावात् । वस्तुतस्तु प्रत्येकसा-
मर्थ्यावधृतौ सम्भेदे उभयोपस्थितेरावश्येकत्वेन कस्या-
प्यनन्वयेऽप्यदोषात् पाकाय यतेत पाकं कुर्य्यादित्यत्र कृत्यर्थ-
काख्यातेऽपि तथैवान्वयादिति चेत् न एको द्वौ बहव
इत्यत्र नामार्थस्य विभक्त्युपनीतसंख्यान्वयावगमायोग्य-
त्वात् लडादेर्यत्नसामर्थ्यानवधारणात् लिङः पचेते-
त्यत्र कृतौ सामर्थ्यावधारणाच्च । अथायत्नार्थकधातु-
पराख्यातस्य यत्नार्थत्वं तेन यतत इति नानन्वयः अचे-
तने चाख्यातप्रयोगो गौणएव । न च वृत्त्यन्तरेणापि
प्रयोगसम्भवे शक्तिकल्पना युक्ता । यद्वाऽनुकूलयत्ने प्रवृत्तं
पदं तदेकदेशेऽनुकूलमात्रे प्रवर्त्तते विशुद्धिमात्रं पुर-
स्कृत्य व्राह्मणे श्रोत्रियपदवत् । अचेतने तु मध्यमोत्तम
पुरुषौ न भवतएव उपपदयोर्युष्मदस्मदोश्चेतना-
र्थत्वात् । भवतु वा गौण एव लोकस्यापर्यनुयोज्यत्वादिति
चेत् न अचेतने आख्यातस्य मुख्यत्वे बाधकाभावेन गौण
त्वाभावात् तस्मादाख्यातम्यानुकूलत्वेन व्यापारो वाच्यः”
[Page2172-b+ 38]
इति माट्टाः । तेन चेतनाचेतनयोर्धात्वर्थानुकूलव्यापारस्य
सत्त्वादाख्यातप्रयोगोमुख्यएव । पथि श्रमशयानेऽपि पच-
तीति स्यात् श्रमशान्तिद्वारा शयनस्य पाकानुकूलव्यापार-
त्वात् तव यत्नविशेषस्येवानुकूलव्यापारविशेषस्य वाच्यत्वात्
अन्यथा यत्नवाच्यत्वेऽपि तण्डुलानुकूलयत्नवति पचतीति
स्यात् एवमचेतनेऽपि करोतिनाख्यातविवरणात्
करोत्यर्थोऽपि व्यापारविशेषः । कथन्तर्हि चैत्रःपचतीत्यत्र
पाकानुकूलताप्रतीतिः आक्षेपादिति चेन्न आख्यातार्थेन
व्यापारेण संख्यया वा यत्नानपेक्षणात् तयोः प्रयत्नं
विनापि सत्त्वात् नापि कर्त्त्रा, द्रव्यमात्रस्य कर्त्तृत्वात् य-
त्नवतश्च कर्तृत्वे आख्यातेन तदभिधाने यत्नस्याप्यभिधा-
नात् । नापि धात्वर्थमात्रेण, तस्य यत्नं विनापि
सत्त्वात् नापि यत्नोधात्वर्थः क्रियायास्तत्फलस्य वा
धातुवाच्यत्वात् अन्यथा पाक इत्यत्रापि यत्नानुभवप्रसङ्गा
दिति चेत् न धात्वर्थविशेषेण पाकादिना यत्नाक्षेपात्
तस्य यत्नं विनानुपपत्तेः । अथ पचतीत्यत्र पाकयत्नवा-
निति विवरणात् यत्नार्थतेति चेत् तर्हि कर्त्त्रर्थतापि स्यात्
न हि पाकयत्नैत्येव विवरणं पचतीत्यस्य, तत्पार्य्यविव-
रणन्तत् तच्चाक्षेपेणापि निर्व्वहतीति चेत् तुल्यं यत्नेऽपि
कथन्तर्हि रथोगच्छति, विद्यते व्योमेति भावनानुभवैति
चेत् न कथञ्चित्, भावनायाधात्वर्थान्वयायोग्यत्वेन
त्वयापि तत्र गौणत्वाभ्युपगमादिति । उच्यते । चैत्रः
पचतीत्यत्र पाकानुकूलयत्नानुभवावाद्यत्न एवाख्या-
तार्थोलाघवात् नत्वनुकूलो व्यापारः यत्नत्वापेक्षया व्या-
पारत्वस्योपाधित्वेन गुरुत्वात् नचाचेतन आख्यातार्थे
मुस्यत्वार्थमनुगुणोव्यापार एवाख्यातवाच्यः मुख्यत्वसम्भवे
त्यागायोगादिति वाच्यं शक्तिग्राहकेण लघुनि शक्ति
परिच्छेदात् अचेतने प्रयोगस्य घृत्त्यन्तरेणापि सम्भवात् ।
मुख्यत्वार्थं शक्तिकल्पने च वृत्त्यन्तरोच्छेदः । एतन व्यापा-
रवाचकस्याख्यातस्य यत्नसाध्यार्थरूपपच्यादिधातूपसन्धा-
नेन व्यापारविशेषयत्नोपस्थापनमिति निरस्तं लाघवेन
यत्नस्यैव शक्यत्वात् ननु यत्नोनाख्यातार्थः पाकत्वेन
पाकस्य यत्नसाध्यत्वानुमित्या यत्नलाभादित्युक्तमिति
चेन्न चैत्रो यत्नं कतीत्यतः पाकानुकूलवर्तमानयत्नवान्
प्रतीयते । नच पाकस्य वर्त्तमानयत्नेन व्याप्तिरस्ति अती-
तानागतयोर्व्यभिचारात् । न च धात्वर्थेनानुमिते यत्ने
आख्यातेन वर्त्तमानतान्वयः सम्भवति यत्नस्यापदार्थत्वात्
स्वार्थव्यापारस्य वर्त्तमानत्वबोधनेनाख्यातस्य पर्य्यवसि-
[Page2173-a+ 38]
तत्वाच्च । अथ चैत्रः पाकानुकूलवर्त्तमानव्यापारवानिति
शाब्दबोधानन्तरं चैत्रः पाकानुकूलवर्त्तमानयत्नवान् चे-
तनत्वे सति पाकानुकूलवर्त्तमानव्यापारवत्त्वात् मैत्रवत् ।
अनुमानं विना च पाकयत्ने वर्त्तमानताभानमाख्यातस्य
यत्ने शक्तिभ्रमादिति चेन्न यत्नाभावकालेऽपि तज्जन्य
व्यापारस्य वर्त्तमानतया व्यभिचारात् किञ्च । व्यापारस्य
वाच्यत्वं तल्लिङ्गकञ्च वर्त्तमानयत्नानुमानमिति कल्प
नाद्वयमपेक्ष्य यत्न वाच्यत्वे लाघवात् । नचाचेतने आख्या
तस्य व्यापारवाचकत्वाबधारणादेव कल्पनेति युक्तं
गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोप
पत्तेः । यत्नविगमदशायां तज्जन्यव्यापारकाले पचती
त्यत्र वर्त्तमानव्यापाराभिधानमाख्यातेन लक्षणया ।
यथा रथोगच्छतीत्यत्र, अतोऽन्यलभ्यत्वान्न तदनुरोधेन
व्यापारे शक्तिः । अन्यथा तवापि यत्नकाले पचतीति न-
स्यात् तस्मान्न लडाख्यातं यत्नावाचकं आख्यातत्वात् लिङा-
ख्यातवत् तर्कश्चोक्त एव । एतेन फलानुकूलोव्यापा
रोधात्वर्थः आख्यातवाच्या संख्यैव तेन चैत्रः पचति
रथो गच्छतीत्यत्र चैत्ररथयोर्धात्वर्थानुकूलव्यापारवत्त्व
प्रतीते र्मुख्य एव प्रयोगः । पचतीत्यत्र यत्नलाभोधार्त्वेना
क्षेपात् विकॢत्त्यनकूलव्यापारस्य यत्नं विनानुपपत्ते रिति
गुरुमतमपास्तं पचतीत्यत्र पाकानुकूलयत्नवर्त्तमान त्वस्या-
क्षेपादलाभेनाख्यातार्थत्वात्” । रत्नकोषकृतस्तु धात्वर्थो
व्यापारः आख्यातार्थ उत्पादना सा चोत्पादकता सैव
भावना पचतीत्यादावाख्यातस्य पाकमुत्पादयतीति विवर-
णात् धात्वर्थोत्पादकता च चेतनाचेतनयोरिति सर्व्व-
त्राख्यातप्रयोगो मुख्यएव । यतते जानातीत्यादावपि
यत्नं ज्ञानमुत्पादयतीत्यर्थात् नतु व्यापारो यत्नोवाख्या-
तार्थः यतत इत्यादौ मुख्यत्वे सति गौणत्वस्यान्याय्यत्वात्
आख्यातार्थविवरणकरोत्यर्थोऽप्युत्पादकतैव पाकं करो-
तीत्यादौ करोतीत्यस्योत्पादयतीति विवरणात् घटं
करोतीत्यादौ कृञर्थ उत्पत्तिरेव गम्यते । अतएव किं
करोतीतिं सामान्योत्पादनाप्राश्ने पचतीति पाकोत्-
पादनाविशेषेणोत्तरमात्रमपि समञ्जसम् । चैत्र उत्पाद-
यतीत्यत्र धात्वर्थ एवोत्पादना चैत्रेणान्वेति आख्या-
तार्थोत्पादना त्वनन्वितैव उत्पत्तेरुत्पत्त्यभावात् ।
वस्तुतस्तूत्पादयतीत्यत्र धात्वर्थ एवोत्पादना अतोऽनुत्पा-
दनार्थधातूत्तरवर्त्तिन आख्यातस्यानन्यलभ्यतयोत्पादना
वाच्या” तन्मतञ्च शब्दचि० दूषितं विस्तरभयान्नोद्धृतम् ।
[Page2173-b+ 38]
एवं दर्शितेषु मतेषु युक्तायुक्तत्वं सुघीभिर्भाव्यम् ।
ततः स्वार्थे--णिच् कारयति करोतीत्यर्थः । “दश वर्ष-
सहस्राणि रामो राज्यमकारयदित्यादि” रामा०


k1=कृ, L=14623
कृ¦ बधे स्वादि उभ० सक० सेट् । कृणोति कृणुते अका-
र्षीत् अकृत । चकार । अस्य न सुट् सुड्विधौ ताना-
दिकस्यैव ग्रहणात् ।


skd

k1=कृ, L=8524
कृ¦, ञ कृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-
अनिट् ।) ञ, करति करते । अयं कैश्चित् न
मन्यते । इति दुर्गादासः ॥


k1=कृ, L=8525
कृ¦, ञ न वधे । इति कविकल्पद्रुमः ॥ (स्वां--उभं--सकं--
अनिट् ।) ञ न, कृणोति कृणुते । इति दुर्गादासः ॥


k1=कृ, L=8526
कृ¦, ञ द डु कृतौ । इति कविकल्पद्रुमः ॥ (तनां--उभं
--सकं--अनिट् ।) ञ द, करोति कुरुते । डु, कृत्रि-
मम् । अस्माद्गुणी मकारोऽप्यगुणी वा वक्तव्य
इति वररुचिः ॥ “तेन किं करोमि कथं कुर्मि
क्वानु गच्छामि माधव ! । दुर्य्योधनविहीनन्तु
शून्यं सर्व्वमिदं जगत्” ॥ इति दुर्गादासः ॥


Match 0173: vcp=कृत, skd=कृत् *

vcp

k1=कृत, L=14640
कृत¦ संशब्दे चुरा० उभ० सक० सेट् । कीर्तयति ते अचिकी-
र्त्तत् त कीर्त्तयां बभूव आस चकार चक्रे । कीर्त्तिः
कीर्त्तनम् कीर्त्तितः कीर्त्त्यन् । कीर्त्त्यते कीत्त्यमानः


k1=कृत, L=14641
कृत¦ छेदे तुदा० पर० सक० सेट् मुचादि । कृन्तति अकर्त्तीत्
कर्त्तिष्यति--कर्त्स्यति ईदित् कृत्तः कृत्तिः । “न विश्वसेद-
विश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद् भयमुत्पन्नं
मूलान्यपि निकृन्तति” हितो० । प्रनिकृन्तति णिचि
कर्त्तयति ते अचीकृतत्--त अचकर्त्तत्--त सनि । चिक-
र्त्तिषति “शिरोऽतिरागाद्दशमं चिकीर्त्तिषुः” माघः ।
कर्त्तनं कर्त्तनी कृन्तनम् ।


k1=कृत, L=14642
कृत¦ वेष्टे रुधा० पर० सक० सेट् । कृणत्ति कृन्तः अकर्त्तीत् । चकर्त


skd

k1=कृत्, L=8542
कृत्¦, ई श प छिदि । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) ई, कृत्तः । श प, कृन्तति ।
(यथा, हितोपदेशे, --
“न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति” ॥)
नृत्कृत्वृदित्यादिसूत्रेण वेमत्वादेव निष्ठायां
अनिमत्वे सिद्धे अस्य पूर्ब्बस्य च ईदनुबन्धो नेम्-
डीश्वीत्यस्य व्यभिचारसूचनार्थः । तेन धावुञ जवे
मृजीत्यादीनां धाविताः पान्थसार्था इत्यादि
[Page2-174-c+ 52]
सिद्धमिति रमानाथः । मनितः यतितं इत्यादि
सिद्धमिति क्रमदीश्वरः । ईदित्करणमाभ्यां यङ्-
लुकि निष्ठायां इम्निषेधार्थं इति केचित् ।
चरीकृत्त इति । किञ्चैतन्मते धावितादीनां
धावनं धावः धावोऽस्य जातः धावितः इत्यादि
समाधानम् । “विरहिनिकृन्तनकुन्तमुखाकृति-
केतकिदन्तुरिताशे” इत्यत्र निकृन्तन इति जय-
देवोक्तं निकृन्तं करोति इति शत्रन्तात् ञौ
नन्द्यादित्वादने साध्यम् । इति दुर्गादासः ॥


k1=कृत्, L=8543
कृत्¦, ई ध वेष्टे । इति कविकल्पद्रुमः ॥ (रुधां-परं-
सकं-सेट् । ईर्निष्ठायामनिट् ।) ई, कृत्तः । ध,
कृणत्ति चकर्त्त । इति दुर्गादासः ॥


Match 0174: vcp=कृप, skd=कृप

vcp

k1=कृप, L=14737
कृप¦ कल्पने (सम्प्रत्तौ) भ्वा० आत्म० लुङि लुटि ऌटि ऌङि च उभ०
वृतादि अक० वेट् । अस्य ऋतः रकारस्थाने लः । कल्प-
ते । अकल्पत्--अकल्पिष्ट--अकॢप्त । कल्प्तासि कल्पितासे
कल्प्स्यति कल्प्स्यते--कल्पिष्यते । कल्पितव्यः--कल्प्त्व्यः
कल्पनम् कल्पः । कॢप्तः कॢप्तिः । णिचि । कल्पयति ते
अचकल्पत् त--अचीकॢपत् त । कल्पितः कल्पना कल्पयिता ।
“कॢपि सम्पद्यमाने” वार्त्ति० । एतद्योगे सम्पद्यमाने
कर्त्तरि चतुर्थी । भक्तिर्ज्ञानाय कल्पते । “कल्पवित् कल्प-
यामास वन्यामेवास्य संविधाम्” “कॢप्तेन सोपानपथेन”
रघुः । “रुचिसंप्रकॢप्तम्” भट्टिः “प्रजापतिकल्पितयज्ञ-
भागम्” कुमां० । छेदने च सक० “कॢप्तकेशनखश्मश्रुः”
मनुः “कल्पनं छेदनम्” कुल्लू० ।
अनु + प्रथमविधानप्रतिनिधीकरणे सक० “शक्तः प्रथमकल्प-
स्य योऽनुकल्पे प्रवर्त्तते” स्मृतिः ।
अव + अवधारणे “अनवकॢप्तावेवः” सि० कौ० ।
आ + भूषणे सक० आकल्पः भूषा
वि + कल्पि--संशये विकल्पयति संशेते इत्यर्थः ।
सम् + कल्पि इदं करिष्यामीत्येबंरूपे मानसव्यापारभेदे ।
“कामः सकल्पोविचित्सेत्यादि” श्रुतिः “मनसा संकल्प-
यति वाचाऽभिलपति” स्मृतिः । मानसकर्म्माभिलापने
“संकल्पेन विना राजन्! यत्किञ्चित् करुते नरः” ति० त० ।


k1=कृप, L=14738
कृप¦ दौर्बल्ये अद० चुरा० उभ० अक० सेट् । कृपयति ते अचि-
कृपत्त


k1=कृप, L=14739
कृप¦ युतौ चित्रीकरणे वा चुरा० पक्षे भ्वा० पर० सेट् । कल्पयति ते कल्पति अचकल्पअचीकॢपत्--त अकल्पीत् ।


skd

k1=कृप, L=8604
कृप¦, ऊ ङ व ऌ कल्पने । इति कविकल्पद्रुमः ॥
(भ्वां--आत्मं--अकं--सेट् ।) सप्तमस्वरी । कल्पनं
सामर्थ्यम् । ऊ, अकल्पिष्ट अक्लप्त । ङ, कल्पते
कल्पवृक्षवदिति हलायुधः ॥ व, कल्प्स्यति चिकॢ-
प्सति । ऌ, अकॢपत् । हते तस्मिन् प्रियं श्रुत्वा
कल्प्ता प्रीतिं परां प्रभुरिति अनेकार्थत्वेऽन्तर्भूत-
ञ्यर्थत्वात् जनयितेत्यर्थः । इति दुर्गादासः ॥


k1=कृप, L=8605
कृप¦, त्क दौर्ब्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्त
चुरां--परं--अकं--सेट् ।) सप्तमस्वरी । कृपयति ।
षष्ठस्वरीति त्रिलोचनः । इति दुर्गादासः ॥


k1=कृप, L=8606
कृप¦, कि युतौ । चित्रे । कल्पने । इति कविकल्पद्रुमः ॥
(चुरां पक्षे भ्वां--परं--अकं सकञ्च--सेट् ।) सप्तम-
स्वरी । कि कल्पयति कल्पति । कृपः कॢपोऽकृ-
पादाविति कॢपादेशः । इति दुर्गादासः ॥


Match 0175: vcp=कृव, skd=कृव

vcp

k1=कृव, L=14777
कृव¦ कृतौ हिंसे च इदित् स्वा० प० सक० सेट् श्रौ कृ
इत्यादेशः । कृणोति--अकृणोत् अकृण्वीत् । इदित्त्वात्
कुण्व्यते इत्यत्र न नलोपः ।


skd

k1=कृव, L=8640
कृव¦, इ न कृतौ । हिंसे । इति कविकल्पद्रुमः ॥
(स्वां--परं--सकं--सेट् । इदित् ।) ह्रस्वी । न, कृ-
णोति । इ, कर्म्मणि कृण्व्यते । इति दुर्गा-
दासः ॥


Match 0176: vcp=कृश, skd=कृश

vcp

k1=कृश, L=14779
कृश¦ तनूकरणे दिवा० पर० सक० सेट् । कृश्यति इरित् अकृशत्
अकर्शीत् । णिचि कर्शयति ते अचीकृशत्--त अचकर्श-
त्त । कर्शयाम् बभूव आस चकार चक्रे । कृशः ।


skd

k1=कृश, L=8642
कृश¦, इर् य कार्श्ये । इति कविकल्पद्रुमः ॥ (दिवां-
परं-सकं-सेट् । इरित् ।) कार्श्यं कृशकरणम् ।
इर्, अकृशत् अकर्शीत् । अस्मात् पुषादित्वान्नित्ये
ङ इत्यन्ये । य, कृश्यति चन्द्रं कष्णपक्षः । इति
दुर्गादासः ॥


Match 0177: vcp=कृष, skd=कृष

vcp

k1=कृष, L=14789
कृष¦ विलेखने आकर्षणे च तुदा० आ० सक० अनिट् । कृषते ।
अकृक्षत--अकृष्ट । चकृषे चकृषिषे । क्रष्टा क्रक्षीष्ट
क्रक्ष्यते । कर्षणम् । प्रनिकृषते ।


k1=कृष, L=14790
कृष¦ विलेखने आकर्षणे च भ्वा० पर० सक० अनिट् । कर्षति
अक्राक्षीत्--अकार्क्षीत्--अकृक्षत् । चकर्ष चकर्षिथ चकृ-
षिव । क्रष्टा कृष्वात् क्रक्ष्यति । कर्म्मणि कृष्यते अकर्षि
अकृक्षाताम् अकृषाताम् । कृष्यः कर्षणीयः क्रष्टव्यः । क्रष्टा
कर्षकः कर्षी कर्षन् कृष्यमाणः । क्रक्ष्यन् क्रक्ष्यमाणः ।
कृष्टः कृष्टिः कृष्ट्वा अनुकृष्य । कर्षः कर्षणम् ।
अनु + पूर्वस्थितस्य पदादेः उत्तरवाक्ये योजनार्थे अनुसन्धाने
अनुषङ्गे सक० अनुकर्षति । अनुकर्षशब्दे विवृतिः
अप + हीनताकरणे स्वकालात् पूर्ब्बत्र काले करणे च सक०
अपकर्षति अपकर्षसपिण्डनम् । अपकृष्टः । अप-
कर्षशब्दे विवृतिः
अप + आ + निवर्त्तने सक० । “तमशक्यमपाक्रष्टुं निदेशात्
स्वर्गिणः पितुः” रषुः ।
अभि + आभिमुख्येन कर्षणे सक० अभिकर्षति ।
अव + अधःस्थतया कर्षणे सक० । अवकर्षति
आ + विषयान्तरतोनयने सक० । आकर्षति
उद् + अतिशायने प्राधान्यप्रापणे स्वकालात् उत्तरकालकरणे
आकर्षणे च सक० । उत्कर्षन्त्यां च रशनां क्रुद्धायां
मयि पक्षिणे” रामा० ल० ३८, १४ । उत्कर्षशब्दे विवृतिः
निस् + निर् + निस्मारणे निश्चये च सक० । निष्कर्षति “नि-
क्रष्टुमर्थं चकमे कुबेरात्” रघुः । तदयं निष्वर्षः
प्र + अतिशयेन कर्षणे उत्तमतावाने सक० प्रकर्षति प्रकृष्टः
[Page2197-a+ 38]
प्रकर्षः पाधान्थभवने अक० “इदं तु मम दीनस्य मनोभूयः
प्रकर्षति” रामा० सु० १, १,
सम् + सम्यक्र्षणे सक० सङ्कर्षणम् ।
सम् + आ + सम्यक्तया दूरपर्य्यन्तनयने सक० । समाकर्षति समाकर्षी ।
कृषधातुर्न्यादिपाठात् द्विकर्म्मकः । कर्षणञ्च भूमिसंयो-
जनेन बलेन देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः
तेनास्य द्विव्यापारबोधकतया द्विकर्म्मकत्वम् । ग्राम-
मजां कर्षति इत्यादौ अकथितञ्चेत्यादि पा० अजादेः
कर्म्मत्वम् । अत्र प्रधाने कर्म्मण्येव वाच्ये लकारादयः ।
“प्रधाने नीकृष्वहाम्” भर्त्तृहर्य्युक्तेः । अजा ग्रामं कृष्य-
ते । विलेखनञ्च विदारणं तत्रार्थे न द्विकर्म्मकतेति भेदः


skd

k1=कृष, L=8653
कृष¦, औ आकृषि । विलेखने । इति कविकल्प-
द्रुमः । (भ्वां-परं-सकं-अनिट् ।) औ, अकार्क्षीत्
अकृक्षत् अक्राक्षीत् । आकृषि आकर्षणे । क-
र्षन्ति तुरगा रथम् । इति दुर्गादासः ॥
(यथा, मनुः ३ । ६६ ।
“मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः” ॥
आखुकर्णीशब्दे ऽस्या विशेषो ज्ञेयः ॥)


k1=कृष, L=8654
कृष¦, औ ञ श आकर्षणे । विलेखने । इति कवि-
कल्पद्रुमः । (तुदां-उभं-सकं-अनिट् ।) श ञ, कृ-
षति कृशते भूमिं कृषकः । औ, अकार्क्षीत् ।
अक्राक्षीत् अकृक्षत् । इति दुर्गादासः ।


Match 0178: vcp=कॄ, skd=कॄ

vcp

k1=कॄ, L=14924
कॄ¦ विक्षेपे तुदा० पर० सक० सेट् । किरति अकारीत् ।
[Page2229-a+ 38]
अकारिष्टाम् चकार चकरतुः चकरिव । करीता ।
क(रि)रीष्यति करी(रि)तव्यः कार्य्यः । कर्म्मणि कीर्य्यते
अकारि अकारिषाताम् अकारि(क(रि)री) सात्राम्
किरन् कीर्य्यमाणः । कीर्ण्णःकीर्ण्णिः करी(रि)तुभ्
अनु + पश्चात् क्षेपे अनुकिरति अनुकीर्ण्णः
अप + हर्पवासभक्षणार्थतया खनने तत्र चतुष्पाजन्तु--पक्षि
कर्त्तृके आ० सुट् च । अपस्किरते हृष्टो वृषः भक्षार्थी
कुक्कुटः । वासार्थी श्वा वा । हर्षाभावे तु न सृट् न वा
तङ । अपकिरति कुसुमम् ।
अव + अधःक्षेपणे दूरतःप्रक्षेपे च सक० अवकिरति मलार्थे
सुट् अवस्करः । व्रतात् पतने अक० । अवकीण्णीं
आ + समन्तात् क्षेपणे विस्तारे च सक० “आकीर्ण्णमृषिपत्नीना
मुटजद्वाररोधिभिः” रघुः
उद् + उत्खनने (गाडा) उत्कीर्ण्णशब्दे उदा०
सम् + उद् + छेदने विदारणे हिंसायां च सक० “मणौ वज्रसमुत्कीर्णे” रघुः
उप + छेदने सुट् च । उपष्किरति
परा + सम्यक क्षेपे व्याप्तौ च सक० पराकीर्ण्णः
प्र + प्रक्षेपे सक० नानाजातीयैर्मेलने । प्रकीर्ण्णम्
प्रति + हिंसायाम् सुट् च । “उरोविदारं प्रतिचस्करे नखैः” माघः
वि + विक्षेपे सक० “व्यवीर्य्यत त्र्यम्बकपादमूलेः कुमा०
सम् + मिश्रणे । सङ्करः सङ्कीर्ण्णः


k1=कॄ, L=14925
कॄ¦ हिंसने क्य्रादि० उभ० सक० सेट् । कृणाति अकारीत् ।
चकार चकरे करीता करो(रि)ष्यति ते । कीर्णः कीर्णिः


k1=कॄ, L=14926
कॄ¦ विज्ञाने चुरा० आत्म० सक० सेट् । कारयते अचीकरत ।


skd

k1=कॄ, L=8760
कॄ¦, श विक्षेपे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) श, किरति । अस्यापि निष्ठायां कीर्ण
इति । सूल्वाद्योदिदित्यत्र मूर्च्छवर्जनसामर्थ्यात्
येन केनापि प्रकारेण रेफान्तान्निष्ठातस्य न इति
व्याख्यानात् ॠदिरणाविति इति उरि च कृते
रान्तत्वात् निष्ठा तस्य न स्यात् । एवं गॄ श निग-
रणे इत्यादेरपि गीर्ण इत्यादि बोध्यम् । इति
दुर्गादासः ॥


k1=कॄ, L=8761
कॄ¦, ञ गि हिंसे । इति कविकल्पद्रुमः ॥ (क्र्यां-उभं-
सकं-सेट् ।) ञ गि, कृणाति कृणीते । कीर्णः
किर्णिः । इति दुर्गादासः ॥


k1=कॄ, L=8762
कॄ¦, क ङ विज्ञाने । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) क ङ, कारयते । इति दुर्गा-
दासः ॥


Match 0179: vcp=कॄत, skd=कॄत् *

vcp

k1=कॄत, L=14927
कॄत¦ संशये सशब्दे चु० उभ० सक० सेट् । कीर्तयति--ते
अचकीर्त्तत्--त कविकल्पद्रुमः ।


skd

k1=कॄत्, L=8763
कॄत्¦, क संशब्दे । इति कविकल्पद्रुमः ॥ (चुरां
--परं--सकं--सेट् ।) दीर्धी । क, कीर्त्तयन्ति च
[Page2-186-a+ 52]
गोष्ठीषु यद्गुणानप्सरोगणाः । कीर्त्तादेशस्य नि-
त्यत्वेऽपि कॄतपाठः कीर्त्तादेशस्य व्यभिचारसूच-
नार्थः तेन अचीकृतदिति सिद्धम् । इति दुर्गा-
दासः ॥


Match 0180: vcp=केत, skd=केत

vcp

k1=केत, L=14940
केत¦ मन्त्रणे निःश्रावणे (यथोचितभाषणे) च अद० चु० उ०
सक० सेट् । केतयति ते अचिकेतत् त केतयाम् बभूव
आस चकार चक्रे । केतितः सङ्केतः “क्षत्रधर्म्माण-
मप्याजौ केतयेत् कुलजं द्विजम्” भा० आनु० १५ ९५
“केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः” ननुः ।
सम् + इच्छाभेदे शब्दस्यार्थबोधकव्यापारे । “सङ्केतो गृह्यते
जातौ गुणद्रव्यक्रियासु च” काव्यप्र० “साक्षात् सङ्केतितं
योऽर्थम्” सा० द० अभिप्रायसूचके चेष्टाभेदे (इसारा)
सक० “नामगृहीतं कृतसङ्केतम्” जय० “कान्तार्थिनी
तु या याति सङ्केतं साऽभिसारिका” अमरः


skd

k1=केत, L=8779
केत¦, त् क मन्त्रणे । निःश्रावणे । इति कविकल्प-
द्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् । मन्त्रणे नि-
मन्त्रणे । अचिकेतत् । निःश्रावणं समयोद्भा-
षणम् । इति दुर्गादासः ॥


Match 0181: vcp=केप, skd=केप

vcp

k1=केप, L=14972
केप¦ चालने भ्वा० आत्म० सक० सेट । केपते अकेपिष्ट ।
ऋदित् केपयति ते अचकेपत्--त । प्रनिकेपते


skd

k1=केप, L=8799
केप¦, ऋ ङ गत्याम् । चाले । इति कविकल्पद्रुमः ।
(भ्वां-आत्मं-सकं-सेट्-ऋदित् ।) ङ, केपते । ऋ,
अचिकेपत् । इति दुर्गादासः ॥


Match 0182: vcp=केल, skd=केल

vcp

k1=केल, L=14980
केल¦ चालने भ्वा० पर० सक० सेट् । केलति अकेलीत् ।
चिकेल । केलिः । ऋदित् णिचि अचिकेलत्--त ।


skd

k1=केल, L=8806
केल¦, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-गत्यर्थे सकं-सेट्-ऋदित् ।) ऋ, अचि-
केलत् । चालः कम्पः । चालः कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥


Match 0183: vcp=केव, skd=केव

vcp

k1=केव, L=15000
केव¦ सेवने भ्वा० आत्म० सक० सेट् । केवते अकेविष्ट, चिकेवे
ऋदित् णिचि अचिकेवत् त ।


skd

k1=केव, L=8821
केव¦, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं--
सकं--सेट्--ऋदित् ।) ङ, केवते । ऋ, अचिकेवत् ।
इति दुर्गादासः ॥


Match 0184: vcp=कै, skd=कै

vcp

k1=कै, L=15081
कै¦ शब्दे भ्वा० पर० अक० अनिट् । कायति अकासीत् । चकौ ।


skd

k1=कै, L=8887
कै¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
अनिट् ।) कायति । एषामादन्तत्वेन दिवादौ पाठे-
ऽपीष्टसिद्धौ भ्वादावैकारान्तत्वेन पाठो गणकृत-
मनित्यमिति ज्ञापयति । तेन अयधातोरात्मने-
पदानित्यत्व शपो लुकि च य्वोर्लोप इति यलोपे
अयधातौ परे उपसर्गरेफो ल इति वक्तव्यात्
पराशब्दस्य रेफस्य लकारे “एष कालः समूत्पन्नो
यः पलाति सजीवति” इति सिद्धम् । वेदेषूच्चारण-
[Page2-198-a+ 52]
भेदार्थो भ्वादौ पाठ इति केचित् । इति दुर्गादासः ॥


Match 0185: vcp=क्नथ, skd=क्नथ

vcp

k1=क्नथ, L=15429
क्नथ¦ बधे वा० चु० उभ० पक्षे भ्वा० पर० सक० सेट् घटादि ।
क्नथयति--ते क्नथति अचिक्नथत्--त अक्नथीत्--अक्नाथीत् ।
क्नथयां--बभूव आस चकार--चक्रे--चक्नाथ ।


skd

k1=क्नथ, L=9159
क्नथ¦, कि म वधे । इति कविकल्पद्रुमः । (चुरां पक्षे
भ्वां--परं--सकं--सेट् ।) कि म, क्नथयति । इति
दुर्गादासः ॥


Match 0186: vcp=क्नस, skd=क्नस

vcp

k1=क्नस, L=15430
क्नस¦ दीप्तौ कौटिल्ये च दिवा० पर० अक० सेट् । क्रस्यति
अक्नसीत्--अक्नासीत् चक्नास । घटा० क्नसयति--ते । अ-
चिक्रसत्त उदित् क्नसित्वा--क्नस्त्वा ।


k1=क्नस, L=15431
क्नस¦ दीप्तौ वा० चु० उभ० पक्षे भ्वा० अक० सेट् घटादि क्नस-
यति--ते । क्नसति । अचिक्नसत्--त अक्नसीत्--अक्नासीत् क्न-
मयां बभूव आसचकार चक्रेचक्रासाउदित् क्रसित्वा--क्नस्त्वा ।
“म्य् ह्वृतौ क्नस् कुसिकि च भासने कुस्य इर्श्लिषि” वोप-
देवव्याख्याने “परोऽनुवन्धः पूर्वेषामेकवाक्यस्थधातुषु” इति
तदुक्तिमाश्रित्य भ्रान्त्या दुर्गादासेन क्नस इदित्त्वमुक्तम्
तच्चिन्त्यम् । पा० धातुप्राठे चुरादिषु “त्रसिपिसि कुसि
दशि कुसीत्यादिनां कुसेरेवेत्वमुक्तेः दिवादिषु च क्नुसु
ह्वरणदीप्त्योरित्युक्तेः वटादौ च जनीजृष क्नसु रञ्ज
इति पाठाञ्च इदित् क्नसधातोरदर्शनात् । अतः परानुबन्धस्य
को स्येवात्र प्रवृत्ति दनात्व वा चुरादित्वम् अन्यथा
[Page2282-b+ 38]
कुसिवत् क्नसीत्येव मूलकृत् पठेत् । न च तथाऽपाठि अ-
तस्तस्य नेदित्त्वम् ।


skd

k1=क्नस, L=9160
क्नस¦, उ म य ह्वृतौ । भासने । इति कविकल्प-
द्रुमः ॥ (दिवां--परं--अकं--सेट् ।) एष दन्त्यन-
कारयक्तः । उ, क्नसित्वा क्नस्त्वा । म, क्नसयति
कान्त्यां जगत्पान्थः । य, क्नस्यति खलः कुटिलः
स्यादित्यर्थः । ह्वृतिरिह कौटिल्यम् । इति दुर्गा-
दासः ॥


k1=क्नस, L=9161
क्नस¦, इ कि भासने । इति कविकल्पद्रुमः ॥ (चुरां
पक्षे भ्वां--परं--अकं--सेट् ।) इ, क्नंस्यते । कि,
क्नंसयति क्नंसति । भासनं दीप्तिः । इति दुर्गा-
दासः ॥


Match 0187: vcp=क्नूय, skd=क्नूय

vcp

k1=क्नूय, L=15432
क्नूय¦ दुर्गधे आर्द्रीमावे शब्दे च भ्वा० आत्म० अक० सेट् ।
कूयते अक्नूयिष्ट चुक्नूय । णिचि क्नोपयति ते । अस्य
चेलार्थककर्म्मण्वुपपदे णमुल् चेलङ्गोपम् वस्त्रक्नोपम् ।
“यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृधे मदनेन”
माघः । “वस्त्रं क्नोपयित्वा परिषिच्येत्यर्थः” मल्लि० । अ-
भि + अतिव्याप्त्या आर्दीभावकरणे पतीभावकरणे च सक०
“आपो वै सर्वमन्नं ताभिर्हीदमभिक्रूयमिवादन्ति”
शत० ब्रा० १४ । १ । १ । १४ । यान्तत्वात् ताच्छील्ये नातोयुच्
किन्तु तृच् । क्नूयिता इत्येव ।


skd

k1=क्नूय, L=9162
क्नूय¦, ई ङ दुर्गन्धे । आर्द्रत्वे । शब्दे । इति कविकल्प-
द्रुमः ॥ दन्त्यनकारयुक्तो दीर्घी । (भ्वां--आत्मं--
अकं--सेट्--ईर्निष्ठायामनिट् ।) तथा च । क्नूयो
स्फायति ते विदेव य इमे सेविश्च मेविस्तता ।
इति शार्द्दूलविक्रीडिते चण्डेश्वरः ॥ ई, क्नूतः । ङ,
[Page2-212-a+ 43]
क्नूयते मत्स्यः दुर्गन्धः स्यादित्यर्थः । क्नूयते वस्त्र-
मम्भसा । इति दुर्गादासः ॥


Match 0188: vcp=क्मर, skd=क्मर

vcp

k1=क्मर, L=15433
क्मर¦ कोटिल्ये मा० पर० अक० सेट् । क्मरति अक्मा(क्म)रीत् चक्मार ।


skd

k1=क्मर, L=9163
क्मर¦, कौटिल्ये । इति कविकल्पद्रुमः ॥ (भ्वां--परं--
अकं--सेट् ।) ओष्ठवर्गशेषयुक्तः । क्मरति खलः
कुटिलः स्यादित्यर्थः । इति दुर्गादासः ॥


Match 0189: vcp=क्रथ, skd=क्रथ

vcp

k1=क्रथ, L=15463
क्रथ¦ बधे भा० पर० सक० सेट् घटा० । क्रथति अक्रथीत्--अक्रा
थीत् । चक्राथ, णिच्--क्रथयति--ते । अचिक्रयत् त


k1=क्रथ, L=15464
क्रथ¦ प्रतिहर्षे चु० उभय० सक० सेट् घटा० । क्राथयति--ते अ-
चिक्रथत्--त । क्रथयां--बभूव आस चकार चक्रे


skd

k1=क्रथ, L=9182
क्रथ¦, म वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--
सेट् । घटां । क्रथति । म, क्रथयति ॥)


k1=क्रथ, L=9183
क्रथ¦, क प्रतिहर्षे । इति कविकल्पद्रुमः ॥ (चुरां--
परं--सकं--सेट् ।) रेफयुक्तः । प्रतिहर्षः पुनः
पुनर्हृष्टीकरणम् । क, क्रथयति शिशुं लोकः
पुनःपुनर्हर्षयति इत्यर्थः । इति दुर्गादासः ॥


k1=क्रथ, L=9184
क्रथ¦, कि वधे । इति कविकल्पद्रुमः ॥ (चुरां पक्षे
भ्वां--परं--सकं--सेट् ।) रेफयुक्तः । कि, क्राथयति
क्रथति । इति दुर्गादासः ॥


k1=क्रथ, L=9185
क्रथ¦, कि म वधे । इति कविकल्पद्रुमः ॥ (चुरां
पक्षे भ्वां--परं--सकं--सेट् ।) रेफयुक्तः । पुनः
पाठात् पूर्ब्बो न मित् । कि म, क्रथयति । इति
दुर्गादासः ॥


Match 0190: vcp=क्रद, skd=क्रद

vcp

k1=क्रद, L=15468
क्रद¦ रोदने वैकल्ये अक० आह्वाने सक० भ्वा० पर० इदित्
सेट् । क्रन्दति अक्रन्दीत् चक्रन्द । भावे क्रन्द्यते क्रन्दि-
तम् । अव्यक्तशब्दकरणे “अक्रन्ददाग्नः स्तनयन्निव द्यौः”
यजु० १२ । ६ । अक्रन्दत् क्रन्दति विस्फूर्जति” वेददी० ।
“यदक्रन्दः प्रथमं जायमानः” यजु० २९, १२ ।
अनु + क्रन्दनेनानुगमने सक० अनुक्रन्दति पुत्रम् क्रन्दनेनानुयाति
[Page2287-b+ 38]
अभि + आभिमुख्येन शत्रुप्रभृतेराह्वाने सक० । “अभिक्रन्दन्
वृषायसे” ऋ० १० । २१ । ८ । “अभिक्रन्दन् आभिमुख्येन
युद्धार्थं शत्रूनाह्वन्” भा० । “आभिमुख्येन शब्दकरणे
अक० । “अभिक्रन्द स्तनय गर्भम्” ऋ० ५ । ८३ । ७ ।
“अभिक्रन्द भूम्यभिमुखं क्रन्द शब्दाय” मा० ।
आ + आह्वानपूर्ब्धकरोदने सक० । “आक्रन्दत् भीमसेनं
वै” भा० व० १५७ अ० । सम्यक्क्रन्दने च “आक्रन्दिषुः
सखीनह्वन्” भट्टिः । “तदीयमाक्रन्दितमार्त्तसाधोः” रघुः ।
सम् + आ + सम्यगाह्वानपूर्ब्बकक्रन्दने “हा तात! धर्म्मरा-
जेति समाक्रन्दन्महाभये” मा० आश्र० १०७३ श्लो०
नि + यथानामशब्दोच्चारणे । “न्यकन्दीज्जन्म प्रब्रुवाणो
यथास्य शब्दस्तथा नामेरयति वाचम्” निरु० ९ । ४ ।
प्र + स्तवने “प्र वः स्पडक्रन्त् सुविता यः” ऋ० ५ । ५९ । १ ।
“अक्रन् स्तौति” भा० वेदे गणव्यत्ययात् शपीलुक् ।
वि + विशेषेण क्रन्दने । सम् सम्यक् क्रन्दने ।


k1=क्रद, L=15469
क्रद¦ वैकल्ये म्वा० आत्म० अक० सेट घटादि० । क्रदते अक्रदिष्ट
चक्रदे णिच् क्रदयति । यङ् वेदे कनिक्रद्यते यङ
लुकि कनिक्रत्ति कनिक्रदीति “उपस्थे वृषभः कनि-
क्रदत्” ऋ० ९ । ७७ । ५ । “कनिक्रदत् शब्दं कुर्वन्” मा० ।
अनु + अनुगमने सक० । “संनशेयं क्षौणीरनुचक्रदे” ऋ०
८ । ३ । १० । “अनचक्रदे अनुगच्छति” भा० ।


skd

k1=क्रद, L=9188
क्रद¦, इ रोदने । आह्वाने । इति कविकल्पद्रुमः ॥
(भ्वां--परं--अकं--आह्वाने सकं--सेट् । इदित् ।)
इ, क्रन्द्यते । ततोऽक्रन्दीद्दशग्रीव इति । क्रन्दति
भर्त्तारमिवाभिपन्नम् । दुर्गादासमते तु षमङानु
बन्धी । यथा, ष, क्रन्दा । म, क्रन्दयति । ङ,
क्रन्दते । इति ॥


k1=क्रद, L=9189
क्रद¦, ष म ङ वैक्लव्यविकलत्वयोः । इति कविकल्प-
द्रुमः ॥ (भ्वां--आत्मं--अकं--सेट्--घटां ।) ष, क्रदा ।
म, क्रदयति । ङ, क्रदते । इति दुर्गादासः ॥


Match 0191: vcp=क्रन्द, skd=क्रन्द

vcp

k1=क्रन्द, L=15470
क्रन्द¦ निरन्तरशब्दकरणे चुरा० अक० उभ० सेट् । प्रायेणाङ्-
पूर्ब्बः आक्रन्दयति ते आचक्रन्दत् त । आक्रन्दयाम्
बभूव आस चकार चके ।


skd

k1=क्रन्द, L=9190
क्रन्द¦, क शब्दसातत्ये । इति कविकल्पद्रुमः ॥ (चुरां--
परं--अकं--सेट् ।) रेफयुक्तः । आ उपसर्गपूर्ब्बकः ।
क, आक्रन्दयति । शब्दसातत्यं निरन्तरशब्दक्रिया ।
इतिदुर्गादासः ॥


Match 0192: vcp=क्रप, skd=क्रप

vcp

k1=क्रप, L=15473
क्रप¦ कृपायाम् भ्वा० अक० आत्म० सेट् घटादि । क्रपते अक्र-
पिष्ट चकपे णिचि क्रपयति ते । “उतस्तासुर्मधवन्नक्रपिष्ट”
ऋ० ७ । २० । ९ । वेदेऽस्य क्वचित् सप्रसाणम् । “उतो द्यपन्त
धीतयो देवानां नाम विभ्रतीः” ऋ० ९ । ९९ । ४ । “विन्दन्त
ज्योतिश्च कृपन्त धीभिः” ऋ० ४ । १ । १४ । “मर्तानां चिदुर्व-
शीरकृपन्” ऋ० ४ । २ । १८ । “विश्वे देवा अकृपन्त समीच्यो-
र्निष्पतन्त्यः” ऋ० १० । २४ । ५ । “काविं कृपमाणमकृणुतं
विचक्षे” ऋ० १ । ११६ । १४ ।


skd

k1=क्रप, L=9194
क्रप¦, ष म ङ कृपायाम् । इति कविकल्पद्रुमः ॥
(भ्वां--आत्मं--अकं--सेट् ।) कृपा दया । ष, कृपा ।
भीषि चिन्तीति ङे मनीषाद्या इति निपात-
[Page2-214-a+ 52]
नात् रेफस्य ऋकारः । म, क्रपयति । ङ, क्रपते
दयालुर्दीनम् । इति दुर्गादासः ॥


Match 0193: vcp=क्रम, skd=क्रम

vcp

k1=क्रम, L=15474
क्रम¦ पादविक्षेपणेन गतौ भ्वा० पर० सक० सट् । अस्य सार्व्व-
[Page2288-a+ 38]
धातुके वा श्यन् सेडमन्तत्वात् अतिङि णिति ञिति चिणि
परे न वृद्धिः । कर्त्तरि क्रम्यति क्रामति । क्रम्येत्--क्रामेत् ।
क्रम्यतु क्रामतु । अक्रम्यत् अक्रामत् । अक्रमीत् । चक्राम ।
क्रमिता कम्यात् क्रमिष्यति । अक्रमिष्यत् । कर्म्मणि क्र-
म्यते । अक्रमि । णिचि इण्ण मुलो र्वा वृद्धिः । क्रमयति--ते ।
अचिक्रमत्--त । कर्म्मणि क्रम्यते । अक्र(क्रा)मि । क्र(क्रा)
मितासे क्रमयितासे । कृत्सु क्रमणीयम् । क्रमितव्यम् क्रम्यम्
क्रमणम् । क्रमकः । क्रमी । क्रमिता । क्रान्तिः । क्रमितुम् । उ-
दित् क्रमित्वा क्रान्त्वा । संक्रम्य । क्रमं क्रमम् । णिचोणमुलि
वा वृद्धिः क्र(क्रा)मं क्र(क्रा)मम् । क्रम्यन् क्रामन् । क्रमिष्यन्
क्रमिष्यमाणः । ण्यन्तस्य क्रमयिता क्रमितः । क्रमयितुम् ।
क्रमयितव्यम् । क्तिन्नास्ति युच् क्रमणा । क्रम--यन् माणः
क्रमयिष्यन् । कर्म्मणि क्रम्यमाणः । क्र(क्रा)मिष्यमाणः ।
क्रमयिष्यमाणः । सनि चिक्रमिषति आत्म० चिक्रंसते ।
“समुद्रात् पश्चिमे पूर्वं दक्षिणादपि चौत्तरा । क्रामत्यनु-
दिते सूर्य्ये वाली व्यपगतक्लमः” रामा० कि० ८० अ० । “देवा
इमाल्लॐकानक्रमन्त” शत० व्रा० ६ । ७ । २ । १० “विष्णुस्त्वा क्र-
मताम्” यजु० १ । ९ । “पादेनाक्रम्यारोहतु” वेददी० ।
“हत्वा रक्षांसि लवितुमक्रमीन्मारुतिः पुनः” भट्टिः “वृ-
तोद्विजाग्र्यैरभिपूज्यमानः चक्राम वज्रीव दितेः सुतेषु”
भा० आ० १९३ अ० । “क्रमं वबन्ध क्रमितुं सकोपः”
“क्रन्त्वा क्रन्त्वा स्थितं क्वचित्” भट्टिः । परोपक्रमवत्
अप्रतिवन्धादौ आत्म० । “न तत्र क्रमते मृत्युर्नजरा
न च पावकः” भा० आनु० ८३ अ० । “हरेर्यदक्रामि
पदैककेन खम्” नैषधे अक्रामीत्यसाधु । स्वार्थेणिचि-
कथञ्चित् साधु इत्यन्ये । निष्ठायां नेट् क्रान्त इत्यादि
कौटिल्ये यङ् चंक्रम्यते नागः । “सोऽपि चंक्रम्यमाणः
कूपे पपात” भा० आ० ७०० श्लो० ।
अति + अतिक्रमणे उल्लङ्घने सक० । “स नदीः पर्वतांश्चापि
सलिलानि सरांसि च । अचिरेणातिचक्राम खेचरः खे च-
रन्निप” भा० आ० ४६५२ श्लो० । “अत्यक्राममिमान् मासां
स्तद्बधं परिचिन्तयन्” रामा० युद्ध० ८८ अ० ।
अभि + अति + आभिमुख्येनातिक्रमणे सक० । “न दिष्टमभृति-
क्रान्तुं शक्यं बुद्ध्या बलेन च” भा० स० १०५१ श्लो० ।
वि + अति + वैपरीत्येन क्रमणे । “तदन्तः पुरमासाद्य व्यतिच-
क्राम तं जनम्” रामा० बाल० ७० अ० । विशेषेण अति-
क्रमे च । “स लोकानाहिताग्नीनामृषीणां पुण्यकर्म्मणा-
ग । देवानाञ्च व्यतिक्रम्य ब्रह्मलोकमवाप ह” रामा०
[Page2288-b+ 38]
आर० ९ अ० । “एवं हि सुमहान् कालोव्यत्यक्रामत तस्य
वै” भा० अनु० ४५५ श्लो० । “विवाहे च व्यतिक्रमः” उद्वा० त०
सम् + अति + सम्यगतिक्रमणे । “अवन्तीमृक्षवन्तञ्च समतिक्रम्य
पर्वतम्” भा० व० २३१ श्लो०
अधि + आधिक्येन क्रमणे
अनु + परिपाट्या क्रमणे । “श्रद्धा रतिर्भक्तिरनुक्रमिष्यति”
भा० ३ । २५ । २५५ । “महर्षिभिरनुक्रान्तं धर्म्मपन्थानमास्थि-
तः” रामा० उ० ४७ अ० । “परिपाटी ह्यनुक्रमः” अमरः ।
अप + अपसरणे अक० “हित्वा सेनामपचक्राम चापि”
भा० आ० १ । १७७ श्लो० ।
अभि + आभिमुख्येन गमने सक० “तमभिक्रम्य सर्वेऽद्य वयं
वाऽर्थामहे वसु” भा० व० ८३१ अ० । “प्रदक्षिणमभिक्रम्य
सर्वे प्राञ्जलयः स्थिताः” भा० अनु० ६०४७० “आरम्भे च
“नेहाभिक्रमनाशोऽस्ति” गीता अभिक्रमः आरभ्यमाणः ।
अव + अपसरणे हिंसने च सक० । “अवक्रामन्तः प्रपदैरमि-
त्रान्” ऋ० ६ । ७५ । ७ । “अषक्रामन्तः हिंसन्तः” भा० ।
अनु + अव + अनुगमने प्रवेशे च सक० । “एतास्तेजोमात्राः स-
मभ्याददानो हृदयमेवान्ववक्रामति” शत० व्रा० १४ । ७ ।
२ । १ । “मृतिकाले हृदयस्थां बुद्धिमेवान्वागच्छति” भा० ।
आ + बलपूर्वकास्कन्दने । “आकामन्नागभवने तदा नागकु,
मारकान्” भा० आ० ५०१८ श्लो० । “आरोहणे च आक्रा-
न्तिसम्मानितपादपीठम्” कुमा० । उद्गमे अक० तत्र दीप्त्या-
न्वितस्योद्गमे आत्म० । “भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते
जलम् । तावद्गर्भं विजानीयात्तदूर्द्ध्वं तीरमुच्यते” प्रा० त०
दानधर्म्मः । एवं सूर्य्य आक्रमते इत्यादि । अन्यत्र आक्रा-
मति । अत्यादिपूर्वकस्याङस्तु तत्तदर्थविशिष्टारोहणादि-
द्योतकता । “सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुः
उत् + उदये अक० । “यज्ञस्य शींर्षाच्छिन्नस्य उदक्रामत्” शत०
व्रा० १४ । १ । २ । १३ । ऊर्द्ध्वक्रमणे च “न तस्य प्राणा उत्-
क्रामन्ति इहैव समवलीयन्ते” श्रुतिः । “कस्मिन्नुत्क्रान्ते
सर्व्वमिदमुत्क्रान्तम्” श्रुतिः । “तान् कृत्वा पतगश्रेष्ठः
सर्वानुत्क्रान्तजीवितान्” भा० आ० ३२ अ० । “विष्वङ्ङन्या
उत्क्रमणे भवन्ति” छा० उप० । उल्लङ्घने सक० ।
उत्क्रमः । --वेपैरीत्येन क्रमणे अक० “क्रमोत्क्रमान्मे-
षतुलादिमानम्” ज्यो० त०
अनु + उद् + उत्क्रमणानुसरणे सक० । “प्राणमनूत्क्रामन्तं
सर्वे प्राणा अनूत्क्रामन्ति” शत० ब्रा० ७ । २ । ३ ।
वि + उद् + वैपरीत्येन विशेषेण च लाङ्घने सक० ऊर्द्ध्वं गतौ अक०
[Page2289-a+ 38]
“इन्द्रियाणि वीर्य्याणि व्युदक्रामन्” शत० व्रा० १२ । ७ । १ । ९ ।
“व्युत्क्रान्तरजसोऽमलाः” भा० अनु० १३१९ श्लो० ।
“व्युत्क्रमात् प्रेतश्राद्धानि योमोहात् धर्म्ममोहितः”
ति० त० देवलः ।
उप + आरम्भे सक० आत्म० । उपक्रमते आरभते इत्यर्थः ।
“उपक्रमस्व पुरुरूपमाभर वाजम्” ऋ० ८ । १ । १४ । “उप-
क्रमोपसंहारौ” वेदान्तसा० । “योयस्य विहितः कालः
कर्म्मणस्तदुपक्रमे । तिथिर्याऽभिमता सा तु कार्य्या नोप
क्रमोज्झिता” बौधा० । गत्यर्थमात्रद्योतकत्वे नात्मनेप-
दम् “मागधेषूपचक्राम भगवांश्चण्डकौशिकः” भा० स०
१८ अ० । अप्रतिबन्धे उत्साहे वृद्धौ च आत्म० । ऋचि
उपक्रमते बुद्धिः न प्रतिहन्यते इत्यर्थः अध्ययनाय उप-
क्रमते उत्सहते । उपक्रमन्ते शास्त्राणि स्फीतानि
भवन्ति इत्यर्थः । एवंपरापूर्वकस्य केवलस्य च एष्वर्थेषु
अकर्म्मकता आत्मनेपदञ्च । अन्योपसर्गपूर्वकत्वे तत्तद-
र्थेषु, परोपपूर्व्वस्यार्थात्तरे च न तङ् । उपसर्गराहित्ये
अन्यार्थेऽपि वा तङ् । कामति क्रमते इति । आङि तु
ज्योतिरुद्गमने आत्मनेपदमिति भेदः । विपूर्वकस्य विशेषो
वक्ष्यते समादिपूर्व्वकोपशब्दस्य तत्तदर्थविशिष्टारम्बद्यो
तकता । वक्तुं समुपचक्रमे ।
नि + नितरां क्रमणे अवश्यक्रमणे । “कर्म्मन् वाजी न्यक्र-
मीत्” ऋ० ९ । ३६ । १ । “न्यक्रमीत् नितरामक्रमीत्” भा०
अनु + नि + अनुक्रमणे । “सप्तपदान्यनुनिक्रामति” शत० ब्रा०
३ । ३ । १ । १ ।
निर्(स्) + निम्मरणे “जिगीषया महीं पाण्डुर्निरक्रामत् पुरात्
प्रभो!” भा० आ० ११३ अ० । अस्य क्वचिदात्मनेपदित्वम् “वाता-
पे! निष्क्नमस्वेति पुनः पुनरुवाच ह” भा० व० ९९ अ० ।
अभि + निर्(स्) + आभिमुख्येन निःसरणे । “अभिनिष्क्रामति
द्वारम्” पा० । “स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्ज-
द्वारम्” सि० कौ० “प्रविश्य चाभिनिष्क्रान्तं सुग्रीवं वा-
नरर्षभाः” रामा० किष्कि० २५ अ०
वि + निर्(स्) + विशेषेण निःसरणे “यथा प्रविश्यान्तरमन्तकस्य
को वै मनुष्योहि विनिष्क्रमेत” भा० व० १०२७३ अ० ।
परा + वलेनाक्रमणे आत्म० सक० । “यत्र तपः पराक्रम्य व्रतं
धारयत्युत्तरम्” अथ० १० । ७ । ११ । अप्रतिबन्धादौ उपो-
पसर्गवत् । तत्रोत्साहे “पानीयार्थे पराक्रान्ता यत्र
ते भ्रातरोहताः” भा० महा० ९१ श्लो० । पराक्रनः ।
परि + भ्रनणे अक० । “परिक्रामति संसारे चक्रवत् बहुवेदनः”
[Page2289-b+ 38]
भा० व० २०८ अ० । परितोगमने सक० । “परिक्रामति
यः सर्वाल्लॐकान् संत्रासयन् बलात्” भा० ८६ । १३ । ३० ।
सम् + परि + सम्यक् वेष्टनाकारेण परितो गमने सक० “बहूनि
संपरिक्रम्य तीर्थान्यायतनानि च” भा० आ० १२ श्लो०
पर्य्यटने अक०
प्र + आरम्भे आत्म० । “प्रचक्रमे वक्तुमनुज्भितक्रमः” रघुः ।
अनारम्भे तु न आत्म० “विष्णोर्यत्परमं पदं प्रदक्षिणं
प्रक्रानन्ति” भाग० ५ २२ । १७ श्लो० ।
प्रति + प्रतिरूपक्रमे सक० “यं स्रुवेण प्रतिक्रामति” शत० व्रा०
३ । ४ । ४ । ९ । प्रतिकूलक्रमणे निवृत्तौ अक० । “भद्रे! प्रति-
क्राम नियच्छ वाचम्” भा० व० २६८ अ० ।
वि + पादविहरणे अक० आत्म० । “साधु विक्रमते वाजी” सि० कौ०
“त्रेधा विष्णुरुरुगायोवित्तक्रमे” तैत्ति० । पादाकरणके तु
न तङ् । वाजिना विक्रामति । “ते विक्रमन्तः स्फुरता
दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः” भा० आ० १८ अ० ।
इत्यत्र न तङ् “ततएनं महादेवः पीड्य गात्रैः सुपीडि-
तम् । तेजसा व्यक्रमद्रोषात् चेतस्तस्य विमोहयन्”
भा० व० ३९ अ० । दीर्घाभाव आर्षः । वीर्य्यातिशयेन
पराक्रमे अक० । “ते यूयं त्वरिताः सर्वे विक्रमध्वं प्लव-
ङ्गमाः” रामा० किष्कि० ५८ अ० । तङ् आर्षः । एवं
“ताञ्च विक्रमसे जेतुम्” भा० स० १९६ श्लो० तङ् आर्षः ।
“वेः पादविहरणे” पा० योगविभागाद्वा क्वचिदन्यत्रापि
तङ् इत्यन्ये ।
अधि + वि + आधिक्येन पराक्रमे “यजमानायाविविक्रमस्व”
कात्या० २३ । ३ । १ ।
निर् + वि + विशेषेण निःसरणे । “भित्त्वा कुक्षिं निर्विचका-
म विप्रः” भा० आ० ७६ अ०
सम् + एकत्रस्थितस्यान्यत्र संचरणे सक० “कार्मुकं तु परित्य-
ज्य झषं (मृगम्) संक्रमते रविः” ति० त० भवि० पु० । “र-
विसंक्रान्तिरेव च” तत्रैव । “जीवः संक्नमतेऽन्यत्र कर्म्मबन्ध-
निबन्धनः” भा० व० २० ८ अ० । तङार्षः । “औपसर्गिकरोगाः
सक्रामन्ति नरान्नरम्” सुश्रु० । “संक्रामन्ति हि पापानि
तैलविन्दुरिवाम्भसि” पराशरः “कालोह्ययं संक्रमितुं
द्वितीयम्” रघुः । सम्यक् क्रमणे सक० “संक्रामन्तौ बहून्
देशान् शैलाच्छैलं वनाद्वनम्” रामा० आर० ७६ अ० ।
अनु + सम् + आनुरूप्येण आनुपूर्व्येण च संक्रमणे । “इष्टापूर्त्त
मनुसंक्राम विद्वन्!” अथ० १८ । २ । ५ ।
उप + सम् + सामीप्येन संक्रसणे सक० “सविशेषणे हि विधि-
[Page2290-a+ 38]
निषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे” दी-
धितौ न्यायवाक्यम् “एतमन्नमयात्मानमुपसंक्रामति” तैत्ति०
प्रति + सम् + प्रतिकूलसङ्क्रमणे निवृत्तौ “तावन्न संसृतिरसौ
प्रतिसंक्रमेत” भाग० ३ । ९ । १० श्लो० । “प्रतिसंक्रामयद्विश्वम्”
४ । २४ । ४९ श्लो० प्रतिसंक्रामयत् निवर्त्तयत् ।


skd

k1=क्रम, L=9195
क्रम¦, उ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--
सकं--सेट् ।) उ, क्रमित्वा क्रान्त्वा क्रन्त्वा । क्रामति ।
वारिपूर्णां महीं कृत्वा पश्चात् संक्रमते गुरु-
रिति संशब्दस्योपसर्गप्रतिरूपकत्वे वागेरित्या-
त्मनेपदम् । वृत्त्युत्साहतायनेषूपसर्गान्तरपूर्ब्बा-
दप्यात्मनेपदमिति शरणदेवः । संक्रामयतीत्यादि
तु संक्रामन्तं करोतीति शत्रन्तात् ञौ साध्यम् ।
अन्यथा अमन्तत्वाद्ध्रस्वः स्यात् । हरेर्यदक्रामि
पदैककेन खमिति तु धातुपारायणमते चुरादि-
विवक्षया सिद्धम् । तन्मतन्तु परिभाषायां लिखि-
तम् । अथवा आत्मेति कर्म्मणोऽध्याहारे प्रेरणे
ञौ साध्यम् । हरेः पदं आत्मानं यत् खं क्रामया-
मास । इत्यर्थः । इति दुर्गादासः ॥


k1=क्रम, L=9196
क्रम¦, य गतौ । इति कविकल्पद्रुमः ॥ (दिवां-परं-
सकं-सेट् ।) य, क्रम्यति । गोविन्दभट्टक्रमदीश्वरौ
तु दीर्घं विधाय । क्राम्यतीत्याहतुः । तथा च ।
“इष्यते श्यनि दीर्घत्वं दाक्षिलक्षणवेदिभिः ।
तेन क्राम्यति कौमारे श्यनीत्यस्योपलक्षणात्” ॥
इति दुर्गादासः ॥


Match 0194: vcp=क्री, skd=क्री

vcp

k1=क्री, L=15567
क्री¦ क्रये (मूल्यदानेन द्रव्यग्रहणे) क्य्रा० उभ० सक० अनिट् ।
क्रीणाति क्रौणीते अक्रैषीत् अक्रेष्ट । चिक्राय चिक्रिये
क्रेतव्यः क्रयणीयः क्रेयः क्रयार्थे प्रसारिते क्रव्यः क्रायकं
क्रेता क्रीणन् क्रीणानः । क्रीतः क्रीत्वा विक्रीय । क्रेतुम् ।
कर्म्मणि क्रीयते अक्रायि आक्रयिषाताम्--अक्रेषाताम् ।
चिक्रिये । “कैमं दशभिर्ममेन्द्रं, क्रीणाति धेनुभिः” ऋ० ४,
२४, १०, “शुक्रं त्वा शुक्रेण क्रीणामि” यजु० ४, २६, । “क्री-
णीयाद्यस्त्वपत्यार्थं मात्रापित्रोर्यमन्विकात्” मनुः “कच्चित्
सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्” भा० स० कच्चिद-
ध्यायः । “सोमं राजानमक्रीणंस्तस्मात् प्राच्यां दिशि
क्रीयते” ऐत० १, १२, “शूद्रानीतैः क्रयक्रीतैः (जलैः)
कर्म्म कुर्व्वन् पतत्यधः” स्मृतिः । अनुशयशब्दे उदा० ।
अप + मूल्यादिदानेन वशनयने । “सा चेदस्मै न दद्यात् काम-
मेनामपक्रीणीयात्” शत० ब्रा० १४, ९, ४, ७, “तदा एनां
स्वपत्नीं वस्त्राभरणभोग्यादिदानेन कामं यथाशक्तिवैभव-
मपक्रीणीयात् वशं नयेत्” भा० ।
अभि + अभिलक्ष्यीकृत्य विक्रये संस्कारविशेषे च । “एकं वा
एष क्रीययाणोऽभिक्रीयते छन्दसामेव राज्याय” शत०
ब्रा० ३, ३, २, ३, “एषः क्रीयमाणः क्रयेण सम्पाद्यमागः
सोमः एकं वै एकं खलु प्रयोजनमभिलक्ष्य विक्रीयते
अभिषबादिना स्वात्मना संस्क्रियते वा” भा० ।
अव + धनादिना वशनयने । “ब्राह्मणं क्षत्रिय वा सहस्रेण
शताश्वेभावक्रीय” सांङ्ख० श्रौ० सू० १५, १०, १०,
आ + इवत्क्रये । “भार्य्यां शुल्काक्रीताम्” दशकुमा०
उप + सामीप्येन क्रये । “घटादीनुपक्रीय” हितो० ।
निस् + (र्) विक्रये क्रयानुरूपमूल्यदाने च । “न निष्क्रयवि-
सर्गाभ्यां भर्त्तुर्भार्य्या विमुच्यते” मनुः । “निष्क्रयो-
विक्रयः” उ० त० रघु० । “भोः केशव! मदीयस्त्वमद्भिर्दत्तोऽसि
सत्यया । स त्वं मामनुगच्छस्व कुरुष्व यद्व्रवीम्यहम् ।
प्रथमः कल्प इत्येवमब्रवीन् मधुसूदनः । व्रजन्तमनुवव्राज
नारदञ्च जनार्द्दनः । परिहासान् बहुविधान् कृत्वा मुनि
[Page2333-b+ 38]
वरस्ततः । तिष्ठस्य गच्छामीत्युक्ता परिहासविचक्षणः ।
अपनीय ततः कण्ठात् पुष्पदामैनमव्रवीत् । कपिलां
गां सवत्सां मे निष्क्रयार्थं प्रवच्छ मे । तिलं कृष्णाजिभं
शूर्पं प्रयच्छ तप्तकाञ्चनम् । एषोऽत्र निष्क्रयः कृष्ण!
विहितो वृषकेतुना” हरि० १३५ अ० ३ निष्कृतौ ।
“तपोदानोपहारेषु व्रतेषु नियमेषु च । इज्याध्यायनध-
र्म्मेषु योनाऽऽसक्तः स निष्क्रयः” वसिष्ठः
परि + नियतकालं भृत्या स्वीकारे अनियतकालस्वत्वोत्पादकात्
क्रयात् तस्य नियतकालत्वेन न्यूनता । तद्योगे करणस्य
वा सम्प्रदानसंज्ञा । शतेन शताय वा परिक्रीतः” सि० कौ० ।
“सम्भोगाय परिक्रीतः कर्त्ताऽस्मि तव नाप्रियम्” भट्टिः
“भक्त्यै मुक्तिः परिक्रीता सद्भिर्षिष्णोरुषाऽरिभिः” मुग्ध० ।
“कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्” भट्टिः ।
क्रयशब्दे २३०५ पृ० दर्शितम् जै० सूत्रवाक्यादि उदा० ।
वि + मूल्यग्रहणेन स्वस्वत्वध्वंसपरस्वत्वापादकव्यापारे “वस्नेव
विक्रीणावहा इषमूर्ज्जं शतक्रतो!” यजु० ३, ४९, विक्री-
णीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः” मनुः अनु-
शयशब्दे भूरि उदा० ।
सम् + सम्यक् क्रये “न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्”
भा० आ० १६० अ० ।
“परिव्यवेभ्यः क्रियः” पा०
अकर्त्तृपामिन्यपि क्रियाफले तङ् ।


skd

k1=क्री, L=9257
क्री¦, डु ञ ग द्रव्यपर्य्यये । इति कविकल्पद्रुमः ॥
(क्र्यां--उभं-सकं-अनिट् ।) पर्य्यायः परीवर्त्तः ।
डु, क्रीत्रिमम् । ञ ग, क्रीणाति क्रीणीते धान्यं
धनेन लोकः । इति दुर्गादासः ॥


Match 0195: vcp=क्रीड, skd=क्रीड

vcp

k1=क्रीड, L=15569
क्रीड¦ खेलने भ्वा० पर० अक० सेट् । क्रीडति अक्रीडीत् ।
चिक्रीड क्रीडिता । क्रीडितव्यः क्रीड्यः क्रीडकः क्रीडिता ।
क्रीडः । क्रीडा । क्रीडितः । क्रीडनं क्रीडितुम् । क्रीडि-
त्वा विक्रीद्व्य । “एष सोमो अधित्वचि गवां क्रीडत्यद्रिभिः”
ऋ० ९, ६६, २६, “माता च पिता च तेऽग्रे वृक्षस्य क्री-
डतः” यजु० २३, २५, चिक्रीड चैव प्रजहास चैव” भा०
व० १०४२ श्लो० “क्रीडारसं निर्विशतीव नाल्ये” कुमा ।
अस्मादर्षे प्रयोगे तङपि दृश्यते । ब्रह्मशङ्करशक्राद्यैर्देववृ-
न्दैः पुनः पुनः । क्रीडमे त्वं मरव्याघ्र । बालः क्रीडनकै-
रिव” भा० व० ५०४ श्लो०
अन्वाद्युपसर्गे ततद्व्योत्यार्थविशिष्टे क्रीडने तत्र “क्रीडो-
ऽनुसंपरिभ्यश्च” पा० एम्यः चकारात् आङश्च तङ् साध्व-
नुक्रीडमानानि पस्य वृन्दानि पक्षिणाम्” भट्टिः । आ-
क्रीडमानोहृष्टात्म श्रीमान् वायुसुतोययौ” भा० व०
[Page2334-a+ 38]
१४६ अ० । “फलान्यादत्स्व चित्राणि परिक्रीडख सानु-
षु” भट्टिः । “मरुतस्तमभितः परिचिक्रीडुः” शत०
व्रा० २, ५, २, २०, आर्षस्तङभावः । समस्तु अकूजने अव्य-
क्तशब्दामावे एव तङ । “समोऽकूजने” वार्त्तिककृता
नियमात् “हरः संक्रीडमानश्च उमया सह पर्व्वते”
रामा० आ० ४७, १०, तेनास्य कूजनार्थताऽपि किन्तु
तत्र न तङ् “संक्रीडति चक्रम्” सि० कौ० । “तैस्तैर्वि-
हारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः संक्रीडतां
तेषाम्” भा० आ० २०९ अ० । अत्र आर्षः तङभावः ।


skd

k1=क्रीड, L=9258
क्रीड¦, ऋ खेले । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) ऋ, अचिक्रीडत् । क्रीडति
[Page2-219-a+ 52]
बालः शिशुभिः । इति दुर्गादासः ॥


Match 0196: vcp=क्रुध, skd=क्रुध

vcp

k1=क्रुध, L=15591
क्रुध¦ कोपे दिवा० पर० अक० सोपसर्गः सक० अनिट् । क्रु-
ध्यति मृत्यभभिक्रुध्यति ऌदित् अक्रुधत् । चुक्रोध--क्रोद्धा
क्रीत्स्यति । क्रोद्धव्यम् क्रोध्यम् क्रोधनीयम् क्रोद्धा क्रोधी
क्रुद्धः । क्रुध्यन् क्रोधः । क्रुद्ध्वा संक्रुध्य “चुक्रोध पुरुषा-
दकः” भा० आ० १५३ अ० “द्रुमेभ्यः क्रुध्यमानास्ते तपो-
दीपितमन्यवः” भाग० ६, ४, ५, अत्र तङ् आर्षः शक्त्यादौ-
चानश् वा । “क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः” भट्टिः “क्रोधं
विभो! संहर संहरेति” कुमा० । “क्रुधद्रुहेर्य्या-
सूयार्थानां यं प्रति कोपः” पा० कोपविषयस्य संपदा-
नता । अरये क्रुध्यति । “क्रुधद्रुहोरुपसृष्टयोः कर्म्म” पा०
सोपसर्गस्य तस्य सम्प्रदानस्य कर्म्मता “कुध्यन्तं न
प्रतिक्रुध्येत्” मनुः । “भृत्यमभिक्रुध्यति” सि० कौ०
अन्वाद्युपसर्गात् परस्तु तत्तदुपसर्गद्योत्यार्थयुक्तक्रोधे सक०
प्रति + वैपरीत्येन क्रोधने सक० “क्रुध्यन्तं न प्रतिक्रुध्येत्” मनुः


skd

k1=क्रुध, L=9273
क्रुध¦, ऌ य औ कोपे । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-अनिट् ।) ऌ, अक्रुधत् । य, क्रुध्य-
ति लोकः शिशवे । औ, क्रोद्धा । इति दुर्गा-
दासः ॥ * ॥ रेलते १ हेलते २ भ्रामते ३ भृणी-
यते ४ भ्रीणाति ५ भ्रेयति ६ दोधति ७ वनय्यति
८ कम्पते ९ भोजते १० । इति दश क्रुध्यति-
कर्म्माणः । इति वेदनिघण्टौ २ अध्यायः ॥


Match 0197: vcp=क्रुन्थ, skd=क्रुन्थ

vcp

k1=क्रुन्थ, L=15595
क्रुन्थ¦ क्लेशे श्लेषे च क्य्रा० पर० अक० सेट् हलायुधः ।
क्रुथ्नाति अक्रुन्थीत् कुक्रुन्थ अयमपाणिनीयः


skd

k1=क्रुन्थ, L=9276
क्रुन्थ¦, ग श्लिषि । क्लिशि । इति कविकल्पद्रुमः ॥
(क्र्यां-परं-अकं-सेट् ।) पञ्चमस्वरी रेफयुक्तः ।
क्लिशि दुःखानुभवे । ग, क्रुथ्नाति बुभुक्षार्त्तः । इति
हलायुधः । चुक्रुन्थ । इति दुर्गादासः ॥


Match 0198: vcp=क्रुश, skd=क्रुश

vcp

k1=क्रुश, L=15598
क्रुश¦ रोदने अक० आह्वाने आक्रोशे च सक० भ्वा० प० अ-
निद् । क्रोशति अक्रुक्षत् । चुक्रोश क्रोक्ष्यति । क्रोष्टा
क्रुष्टः क्रोशन् क्रोशः क्रोशनः क्रोष्टुः । “रसन्नरण्या-
न्यां सायमक्रुक्षदिति मन्यते” ऋ० १० । १४६ । ४ “वृहद्वद-
न्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु” ऋ१० । ९४
४ “एष क्रोशति दात्यूहस्तं शिखी प्रतिकूजति” रामा०
अयो० ५६ अ० । कर्म्मणि क्रुश्यते अक्रोशि “इतिक्रुधा-
क्रुश्यत तेन केतकम्” नैष०
अत्याद्युपदर्गात् परस्तु तत्तद्द्योत्यार्थयुक्ते रोदनादौ
अनु + दयायाम् अनुरोदने च सक० । अनुक्रोशा (दया) “न
तायुमनुक्रोशन्ति क्षितयोभरेषु” ऋ० ४ । ३८ । ५ “कि-
मनुक्रुश्य वैकल्यमुत्पादयसि मेऽनघ!” भा० अनु० ५ अ०
आ + अप्रियकथने सक० । “शतं ब्राह्मणमाक्रुश्य क्षत्रियोदण्ड-
मर्हति” मनुः । “प्रत्याक्रोशेदिहाक्रुष्टः” भा० अनु०
४५६२ श्लो० । “आक्रुष्टः पुरुषः सर्व्वं प्रत्याक्रोशेदनन्त-
रम्” भा० व० १९१ श्लो० । “हा प्रिये! क्वासि नष्टासि
व्याक्रोशन्न्यपतत् क्षितौ” रामा० आ० ८६ अ०
उद् + उच्चराह्वाने सक० “उदक्रोशन् स पाण्डवान्” भा०
आ० ७४८ श्लो० । उच्चैरोदने च अक०


skd

k1=क्रुश, L=9277
क्रुश¦, ज औ रोदे । हूतौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-रोदने अकं-आह्वाने सकं-अनिट् ।)
ज, क्रोशः क्रुशः । औ, अक्रुक्षत् । रोदोऽश्रु-
विमोचनम् । हूतिराह्वानम् । इति दुर्गादासः ॥


Match 0199: vcp=क्लथ, skd=क्लथ

vcp

k1=क्लथ, L=15673
क्लथ¦ बधे वा चुरा० उभ० पक्षे म्बा० प० सेट घटादि० । क्लथयति
ते क्लथति, अचिक्लथत् अक्लाथीत् अक्लथीत् । क्लथयां-
बभूवं आस चकार चक्रे चक्लाथ । मध्ये धृतस्यापव-
र्त्तने च । “पौष्णो विष्पन्दमाने मारुतः क्लथन्” यजु०
३९, ५, “क्लथनं मध्ये धृतस्यापवर्तनम्” वेददीपः


skd

k1=क्लथ, L=9337
क्लथ¦, कि म वधे । इति कविकल्पद्रुमः ॥ (चुरां पक्षे
भ्वां-परं-सकं-सेट् ।) अन्तःस्थतृतीययुक्वः । कि, क्लथ-
यति क्लथति । म, क्लथयति । इति दुर्गादासः ॥


Match 0200: vcp=क्लद, skd=क्लद

vcp

k1=क्लद, L=15674
क्लद¦ रोदने अक० आह्वाने सक० इदित् भ्वा० पर० सेट् ।
क्लन्दति अक्लन्दीत् । चक्लन्द । क्रन्द्यते


k1=क्लद, L=15675
क्लद¦ वैकल्ये दि० आत्म० अक० सेट् घटादि० । क्लद्यते अक्लादष्ट
चक्लदे । क्लदयति त अचिक्लदत् त ।


k1=क्लद, L=15676
क्लद¦ रोदने भ्वा० उभ० इदित् अक० सेट् । क्लन्दति ते अक्ल-
न्दीत् अक्लन्दिष्ट । चक्लन्द चक्लन्द । क्लन्द्यते “याः
क्लन्दास्तमिषीचयो ऽक्षकामामनो मुहः ताभ्यो गन्धर्व-
पत्नीभ्योऽप्सराभ्योऽकरं नमः” अथ० २, २, ५


skd

k1=क्लद, L=9338
क्लद¦, इ ञ ङ रुदि । इति कविकल्पद्रुमः ॥ (भ्वां-
उभं-आत्मं च-अकं-सेट् ।) अन्तःस्थ तृतीययुक्तः ।
इ, कर्म्मणि क्लन्द्यते । ञ, क्लन्दति क्लन्दते । ङ,
क्लन्दते । रुदि रोदने । इति दुर्गादासः ॥


k1=क्लद, L=9339
क्लद¦, इ ष म ङ रोदने । आह्वाने । इति कवि-
कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-आह्वाने सकं-सेट् ।)
इ, कर्म्मणि क्लन्द्यते । ष, क्लन्दा । म, क्लन्दयति ।
ङ, क्लन्दते । इति दुर्गादासः ॥


k1=क्लद, L=9340
क्लद¦, ष म ङ वैक्लव्यविकलत्वयोः । इति कविकल्प-
द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) वैक्लव्यं विह्वली-
भावः । ष, क्लदा । म, क्लदयति । ङ, क्लदते
शोकार्त्तः । इति दुर्गादासः ॥


Match 0201: vcp=क्लम, skd=क्लम

vcp

k1=क्लम, L=15678
क्लम¦ ग्लानौ दिवा० पर० अक० सेट् शमा० । क्लाम्यति अक्लमीत्
चक्लाम । उदित् क्लमित्वा--क्लान्त्वा । क्लान्तः । घञ्
न वृद्धिः क्लमः । क्लम्यते अक्लमि । “क्लमं ययौ कन्दुक-
लीलयाऽपि या” “अह्नाय सा नियमजं क्ललमुत्ससर्ज”
कुमा० “न चक्लाम न विव्यथे” भट्टिः “तपः क्लमं साध-
यितुं य इच्छति” शकु०


k1=क्लम, L=15679
क्लम¦ ग्लानौ भ्वा० पर० अक० सेट् । क्लमति इरित् अक्लमत्
अक्लमीत् चक्लाम । क्लमित्वा । क्लमितः ।


skd

k1=क्लम, L=9341
क्लम¦, उ भ इर् ग्लानौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् । उदित्वात् क्त्वावेट् ।) अन्तःस्थ-
तृतीययुक्तः । उ, क्लमित्वा क्लान्त्वा । भ, क्ला-
म्यति । भ्वादिपक्षेऽपि शमादित्वं “ष्ठिवुक्लमाचम”
इति दीर्घज्ञापनार्थम् । इर्, अक्लमत् अक्लमीत् ।
इवि दुर्गादासः ॥


k1=क्लम, L=9342
क्लम¦, ञि य भ ग्लानौ । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः । ञि,
क्लान्तोऽस्ति । य भ, क्लाम्यति । इति दुर्गादासः ॥


Match 0202: vcp=क्लव, skd=क्लव

vcp

k1=क्लव, L=15683
क्लव¦ भये दिवा० आत्म० अक० सेट् घटादि० । क्लंव्यते अक्ल-
विष्ट । चक्लवे । क्लवयति । वि--वैकल्ये विक्लवः ।


skd

k1=क्लव, L=9345
क्लव¦, ष म ङ भये । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) ष, क्लवा । म, क्लवयति ।
ङ, क्लवते । विक्लवन्ति दिवि ग्रहाः । इति पचा-
दित्वादनि विक्लवा इवाचरन्तीति क्वौ साध्यम् ।
इति दुर्गादासः ॥


Match 0203: vcp=क्लिद, skd=क्लिद

vcp

k1=क्लिद, L=15686
क्लिद¦ आर्द्रीभावे दिवा० पर० अक० वेट् । क्लिद्यति । इरित् ।
अक्लिदत्--अक्लेदीत्--अक्लैत्सीत् । चक्लाद । क्लेदः । क्लिद्यन्
क्लेदी । क्लेदयति ते । अचिक्लिदत् त । “तेन क्लिद्यति
व्रणः” सुश्रु० । “सुवेशं पुरुषं दृष्ट्वा भ्रातर यदि वा
[Page2343-b+ 38]
सुतम् । योनिः क्लिद्यति नारीणाम्” हितो० । “लु-
ट्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च” भट्टिः ।
“कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्” भा०
आ०१३५ । “नचैनं क्लेदयन्त्यापो न शोषयति मारुतः ।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता ।
“रक्तैरचिक्लिदद्भूमिम् सैन्यैश्चातस्तरद्धतैः” भट्टिः ।
उपसर्गविशेषपूर्शकस्तु तत्तदुपसर्गद्योत्यार्थविशिष्टे क्लेदे ।


k1=क्लिद, L=15687
क्लिद¦ रोदने इदित् भ्वा० उभ० अक० सेट् । क्लिन्दति ते अ-
क्लिन्दीत् अक्लिन्दिष्ट । चिक्लिन्द चिक्लिन्दे । क्लिन्दितः ।
परिदेवने शोके सक० आत्म० । क्लिन्दते चैत्रम्” सि० कौ० ।


skd

k1=क्लिद, L=9347
क्लिद¦, इ ञ ङ रुदि । इति कविकल्पद्रुमः ॥ (भ्वां
उभं-आत्मं च-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः ।
[Page2-222-a+ 52]
इ, कर्म्मणि क्लिन्द्यते । ञ, क्लिन्दति क्लिन्दते । ङ,
क्लिन्दते । रुदि रोदने । इति दुर्गादासः ॥


k1=क्लिद, L=9348
क्लिद¦, य ऊ इर् क्लेदे । इति कविकल्पद्रुमः । (दिवां-
परं-अकं-वेट् ।) अन्तःस्थतृतीययुक्तः । क्लेद आर्द्री-
भावः । य, क्लिद्यति वस्त्रं पयसा । ऊ, क्लेदिष्यति
क्लेत्स्यति । इर्, अक्लिदत् अक्लेदीत् । अस्मात्
पुषादित्वात् ङ इत्यन्ये । इति दुर्गादासः ॥ (यथा,
नारदपञ्चरात्रे ।
“सुवेशं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद !” ॥)


Match 0204: vcp=क्लिश, skd=क्लिश

vcp

k1=क्लिश, L=15691
क्लिश¦ उपतापे दिवा० आ० अक० उपतप्तीकरणे सक० सेट्
पा० । किश्यते अक्लेशिष्ट । क्लिशित्वा क्लिष्ट्वा । क्लिशितः
क्लिष्टः । कविकल्पमते अयमुभयपदो तेन “क्लिश्यन्नपि
हि मेधावी” प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्ल-
वीति” नृपात्मजौ चिक्निशतुः समीतौ” भट्टिः साधुः
सकर्म्मकत्वे “इन्द्रियैः कामवृत्तैस्तु क्लिश्यसे प्राकृतोयथा”
रामा० ति० १६, २७, अकर्म्मकत्वे “। क्लश्यते हि जनः
सर्व्वः तरमाणः पुनः पुनः” भा० व० १३५ अ० । “चिर
क्लिशित्वा मर्म्मावित्” भट्टिः परस्मैपदित्वे “त्रयः परार्थे
क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्” मनुः । “हिम-
क्लिष्टप्रभावानि ज्योतींषीव मुखानि वः” कुमा० । “क्लेशः
फलेन हि पुनर्नवतां निधत्ते” कुमा० ।
उपसर्गपूर्ब्बकस्तु तत्तदुपसर्गविशेष्यद्योत्यार्थोपतापे


k1=क्लिश, L=15692
क्लिश¦ बाधने सक० क्र्या० ऊदित् वेट् । क्लिश्नाति अक्लेशीत् अक्लि-
क्षत् चिक्लेश । क्लिष्टः । क्लेशः लिशित्वा क्लिष्ट्वा । क्लिशितः क्लि
ष्टः “इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्” कुमा० ।
“अयं मां सुदृढ क्षुद्रः कौरवाणां यशोहरः । क्लिश्नाति
नाहं तत् सोढुं चिरं शक्ष्यामि कौरव!” भा० स० ६७ ।
“असुरस्तारकोनाम त्वया दत्तवरः प्रभो! । सुरानृषींश्च
क्लिश्नाति कधस्तस्य विधीयताम्” भा० आनु० ८५ अ०
[Page2344-a+ 38]
“किश्नन्निवास्य भुजमध्यमुरःस्थलेन” रघुः । अत्र मल्लि-
नाथः क्लिश्नन्निति पठित्वा क्लिश्नातिरयं सकर्म्मकः “क्लि-
श्नातिभुवनत्रयमिति दर्शनादिति व्याचख्यौ । तेन टी-
कापुस्तके क्लिश्यन्निति पाठः प्रामादिकएव ।
उपसर्गविशेषात्तु तत्तदुपसर्गद्योत्यार्थयुक्ते बाधने ।
परि + सर्व्वतोबाधने । “परिक्लिश्यमाने” पा० ।


skd

k1=क्लिश, L=9351
क्लिश¦, य उ ञ उपतापे । इति कविकल्पद्रुमः ॥
(दिवां--उभं--अकं--सकंच--सेट् । उदित्वात् क्त्वा
वेट् ।) य ञ, क्लिश्यति क्लिश्यते । उ, क्लिशित्वा
क्लिष्ट्वा । उपताप इह उपतप्तीभावः । तत्करणञ्च ।
क्लिश्यते न च निष्फलमिति हलायुधः । क्लिश्यते
कृपणः स्वर्गमपीति चतुर्भुजः । अन्ये त्वस्मात् परस्मै-
पदममन्यमानाः क्लिश्यन्नपि हि मेधावीति । प्रत्या-
सन्नतुषारदीधितिकरक्लिश्यत्तमो वल्लवीत्यादि च
क्लिशं करोतीति कण्ड्वादित्वात् क्ये शत्रन्तमाहुः ।
मृपात्मजौ चिक्लिशतुः ससीताविति भट्टिप्रयोगञ्च
क्रैयादिकात् समादधते तद्धेयम् । क्रैयादिकस्य
सकर्म्मकत्वात् । इति दुर्गादासः ॥


k1=क्लिश, L=9352
क्लिश¦, ऊ ग विहतौ । इति कविकल्पद्रुमः ॥ (क्र्यां--
परं--सकं--वेट् ।) ऊ, अक्लेशीत् अक्लिक्षत् । ग,
“इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्” ।
इति दुर्गादासः ॥


Match 0205: vcp=क्वण, skd=क्वण

vcp

k1=क्वण, L=15718
क्वण¦ अव्यक्तशब्दे भ्वा० पर० अक० सेट् । क्वणति अक्वाणीत्-
अक्वणीत् चक्वाण । ज्वला० क्वणः क्वाणः । कणितम् ।
[Page2350-a+ 38]
विलोलघण्टाक्वणितेन नागाः” रघुः “दुःसहा हि
परिक्षिप्तः क्वणद्भिरलिगाथकैः” अक्वाणिषुश्च्युतोत्-
साहाः” चक्वणाशङ्कितोयोद्धम्” “विभूषणानां क्वणित-
ञ्च षट्पदः” भट्टिः “किञ्चित्कणाकिन्नरमध्युव स” कुमा०
उगप्रादिपूर्वः वीणायाः शब्दे अमरः । णिच्
क्वणयति ।


skd

k1=क्वण, L=9375
क्वण¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) वकारयुक्तः । क्वणति वीणा । इति दुर्गा-
दासः ॥


Match 0206: vcp=क्वथ, skd=क्वथ

vcp

k1=क्वथ, L=15721
क्वथ¦ निष्पचने (क्वाथशब्दोक्तपाकभेदे) भ्वा० पर० सक० सेट् ।
क्वथति एदित् अक्वथीत् चक्वाथ क्वाथः । क्वथ्यमानः ।
णिच् क्वाथयति “जलाशयेषु तप्तेषु क्वथ्यमातेषु वह्निना”
भा० आ० ३२६ अ० “पक्षान्तयोर्वाप्यश्नीयात् यवागूं क्व-
थितां सकृत्” मनुः


skd

k1=क्वथ, L=9379
क्वथ¦, ए ज निष्पचने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) वकारयुक्तः । ए, अक्वथीत् ।
ज, क्वाथः क्वथः । क्वथति वैद्य औषधं निष्पच-
तीत्यर्थः । इति दुर्गादासः ॥


Match 0207: vcp=क्वेल, skd=क्वेल

vcp

k1=क्वेल, L=15728
क्वेल¦ कम्पे अक० गतौ सक० प० सेट् कबि० । क्वेलति
अक्वेलीत् ऋदित् चङि अचिक्वेलत् त ।


skd

k1=क्वेल, L=9384
क्वेल¦, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-गतौ सकं-सेट् ।) वकारयुक्तः । ऋ,
अचिक्वलत् । चालः कम्पः । चालः कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥


Match 0208: vcp=क्षज, skd=क्षज

vcp

k1=क्षज, L=15730
क्षज¦ कृच्छ्रजीवने इदित् चुरा० उभ० अक० सेट् । क्षञ्जयति
ते अचक्षञ्जत् त । क्षञ्जयां बभूव आस चकार चक्रे ।


k1=क्षज, L=15731
क्षज¦ बधे भ्वा० आ० सक० सट् घटा० । क्षजते अक्षजिष्ट ।
चक्षजे षित् क्षजा । क्षजयति ते अचिक्षजत् त ।


k1=क्षज, L=15732
क्षज¦ गतौ दाने च भ्वा० आत्म० इदित् सक० सेट् । क्षञ्जते
अक्षञ्जिष्ट चक्षञ्जे । कर्म्मणि क्षञ्ज्यते घटा० क्षञ्जयति
इणि अक्ष(क्षा)ञ्जि णमुलि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम्
अनुपधाया अपि दीर्घः


skd

k1=क्षज, L=9387
क्षज¦, इ क तङ्के । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) तङ्को दुःखेन जीवनम् । इ क,
क्षञ्जयति दीनः । इति दुर्गादासः ॥


k1=क्षज, L=9388
क्षज¦, इ ष म ङ दागत्योः । इति कविकल्पद्रुमः ॥
भ्वां-आत्मं-सकं-सेट् ।) इ,
क्षञ्ज्यते । ष, क्षञ्जा । सेमक्तात् सरोरित्यने-
नैवेष्टसिद्धौ अस्य षानुबन्धस्त्वरपर्य्यन्तघटादिभ्यो
ङ इति प्राचीनमतानुरोधात् । म, अक्षञ्जि
अक्षाञ्जि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् । मानुबन्ध-
बलात् अनुपधाया अपि दीर्घः । स्रमते तु अत्र
दीर्घविधिरुपधां नापेक्षते । ङ, क्षञ्जते । ष, क्षजा ।
म, क्षजयति । ङ, क्षजयते । दा दानम् । इति
दुर्गादासः ॥


k1=क्षज, L=9389
क्षज¦, ष म ङ दागत्योः । इति कविकल्पद्रुमः ॥
भ्वां-आत्मं-सकं-सेट् ।) इ,
क्षञ्ज्यते । ष, क्षञ्जा । सेमक्तात् सरोरित्यने-
नैवेष्टसिद्धौ अस्य षानुबन्धस्त्वरपर्य्यन्तघटादिभ्यो
ङ इति प्राचीनमतानुरोधात् । म, अक्षञ्जि
अक्षाञ्जि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् । मानुबन्ध-
बलात् अनुपधाया अपि दीर्घः । स्वमते तु अत्र
दीर्घविधिरुपधां नापेक्षते । ङ, क्षञ्जते । ष, क्षजा ।
म, क्षजयति । ङ, क्षजयते । दा दानम् । इति
दुर्गादासः ॥


Match 0209: vcp=क्षण, skd=क्षण

vcp

k1=क्षण, L=15733
क्षण¦ वघे तना० उभ० सक० सेट् । क्षणोति क्षणुते । अक्ष
[Page2352-a+ 38]
णीत् अक्षणिष्ट । चक्षाण चक्षणे । उदित् क्षणित्वा
क्षत्वा । क्षतिः क्षतः । क्षणः । नान्तत्वमतेऽपि रूपं
तुल्यम् विचि क्षन् इति भेदः ।


skd

k1=क्षण, L=9390
क्षण¦, द ञ उ वधे । इति कविकल्पद्रुमः । (तनां-
उभं-सकं-सेट ।) द ञ, क्षणोति क्षणुते । उ
[Page2-224-a+ 52]
क्षणित्वा क्षत्वा । इति दुर्गादासः ॥


Match 0210: vcp=क्षद, skd=क्षद

vcp

k1=क्षद, L=15781
क्षद¦ संभूतौ पेषणे भक्षणे च सौ० आ० सक० सेट् । क्षदते
अक्षदिष्ट क्षत्त्रः । “तद्यथैवादो मनुष्यराज आगतेऽ-
न्यस्मिन् वार्हत्युक्षाणं वा वेहतं वा क्षदन्त एवमेवास्मा
एतत्” ऐत० ब्रा० १ । १५ “शतं मेषान् वृक्ये चक्षदानम्”
ऋ० १ । ११६ । १६ । “तस्मै वृतं सुरां मध्बन्नमन्नं क्षदामहे”
अथ० । १० । ६ । ५


skd

k1=क्षद, L=9425
क्षद¦, संवृतौ । इति कविकल्पद्रुमः ॥ (सौत्रं--आत्मं--
सकं--सेट् ।) क्षत्ता । इति दुर्गादासः ॥
(यथा, ऐतरेयब्राह्मणे । १ । १५ । “तद्यथैवादो
मनुष्यराज आगतेऽन्यस्मिन् वार्हत्युक्षाणं वा
वेहतं वा क्षदन्त एवमेवास्मा एतत्” ॥)


Match 0211: vcp=क्षप, skd=क्षप

vcp

k1=क्षप, L=15785
क्षप¦ क्षपे अद० चुरा० उभ० सक० सेट् । क्षपयति ते अचिक्षपत्
त । क्षपयाम् बभूव आस चकार चक्रे । “अरण्ये का-
ष्ठवत् त्यक्त्वा क्षपयेयुस्त्र्यहं ततः” मनुः


k1=क्षप, L=15786
क्षप¦ सहने चुरा० इदित् उभ० सक० सेट् । क्षम्पयति ते
अचक्षम्पत् त । क्षम्पयाम् बभूव आस चकार चक्रे ।
अयं मित् “तेन इणि अक्षम्पि--अक्षाम्पि । णमुलि क्षम्पं
क्षम्पं--क्षाम्पं क्षाम्पम्” अनुपधाया अपि वा दीर्घः ।


skd

k1=क्षप, L=9427
क्षप¦, इ क शक्तौ । इति कविकल्पद्रुमः ॥ (चुरां--
परं--सकं--सेट्--इदित् ।) शक्तिरिह क्षमा । इक,
क्षम्पयति दुःखं मुनिः । सहत इत्यर्थः । इति
दुर्गादासः ॥


k1=क्षप, L=9428
क्षप¦, त् क म क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरां--परं--सकं--सेट् ।) म, अक्षपि अक्षापि क्षपं
क्षपं क्षापं क्षापम् । मानुबन्धसामर्थ्यात् स्थानिव-
त्त्वाभावे दीर्घः । स्वमते तु अत्र दीर्घविधिरुपधां
नापेक्षते । इति दुर्गादासः ॥


Match 0212: vcp=क्षम, skd=क्षम

vcp

k1=क्षम, L=15797
क्षम¦ सहने भ्वादि० आत्म० सक० वेट् । क्षमते अक्षमिष्ट अक्षंस्त
चक्षमे क्षान्तः क्षात्तिः । क्षमिता क्षन्ता । “इन्द्र त्वा यज्ञः
क्षममाण मानट्” ऋ० १० । १०३ । ६ । योनित्यं क्षमते तात!
बहून् लोकान् स विन्दति” भा० व० १०३५ श्लो० । “का-
र्पण्यात् साधुभावाच्च कुन्ती राजन्न चक्षपे” भा० आ०
१५७ अ० । “ऋते रवेः क्षालयितुं क्षमेत कः” माघः
“कुरुस्थ्यं भीरु! यत्तेभ्योद्रुहद्भोऽपि क्षमामहे”
ट्टिः । षित् क्षमा “तेजः क्षमा वानैकान्तम्” माघः
पैदिके तु नि० क्षमति क्षमिति । इति पा ।


k1=क्षम, L=15798
क्षम¦ सहने दिवा० पर० सक० सेट् शमादि० इरित् । क्षाम्यति
अक्षमत् अक्षनीत् । चक्षाम “कामं क्षाम्यतु यः क्षमी” माघः ।


skd

k1=क्षम, L=9437
क्षम¦, उ इर् भ य मर्षे । इति कविकल्पद्रुमः ॥
(दिवां--परं--सकं--सेट् । उदित्वात् क्त्वावेट् ।)
मर्षः सहनम् । उ, क्षमित्वा क्षान्त्वा । षष्ठस्वरा-
नुबन्ध इत्येके । इ र, अक्षमत् अक्षमीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । भ य, क्षाम्यति दोषं
साधुः । इति दुर्गादासः ॥


k1=क्षम, L=9438
क्षम¦, ऊ ङ ञि ष मर्षे । इति कविकल्पद्रुमः ॥
(म्वां--आत्मं--सकं--वेट् ।) ऊ, अक्षमिष्ट अक्षंस्त ।
ङ, क्षमते । ञि, क्षन्तोऽस्ति । ष, क्षमा । इति
दुर्गादासः ॥


Match 0213: vcp=क्षर, skd=क्षर

vcp

k1=क्षर, L=15822
क्षर¦ सञ्चलने भ्वा० पर० अक० सेट् । क्षरति अक्षारीत् । चक्षार
क्षरितः क्षरन् क्षारः । “इयं त इन्द्र! राति क्षरति
सुन्वतः” ऋ० ८, १३, ४ । “मधु क्षरन्ति सिन्धबः” मधुसूक्तम् ।
“यज्ञोऽनृतेन क्षरति तपः क्षरति कीर्त्तनात्” “इन्द्रि-
याणां हि च सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य
क्षरति प्रज्ञा” मनुः । “त्वत्प्रसादान्महादेव! तपोमे
न क्षरेत वै” भा० व० ७०११ श्लो० । आर्षत्वात् पदव्यत्ययः ।
“अक्षारिषुः शरास्त्राणि तस्मिन् रक्षःपयोधराः” भट्टिः
ज्वला० क्षरः क्षारः । उपसर्गपूर्वस्तु तदुपसर्गद्यीत्या-
र्थयुक्ते चलने । आङ्पूर्ककः णिजन्तस्तु आक्षारणे ६०२
पृ० दृश्यम् । सञ्चननञ्च मोचनं स्रवणं चलनं स्यन्दनञ्च
तत्र मोचने सक० अन्यत्र अक० । तत्र मोचने “मधु
क्षरन्ति सिन्धबः” । “स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः”
किरा० । स्रवणे “तपः क्षरतीत्यादि प्रागुक्तम् । वेदे
नि० तिपि क्षरिति ।


skd

k1=क्षर, L=9452
क्षर¦, ज सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां--परं--
अकं-सेट् । क्वचित् सकञ्च ।) ज, क्षारः क्षरः ।
सञ्चलनमिह मोचनं स्रवणञ्च । आदौ सकर्म्मकः ।
“स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः” । इति
किराते । ७ । ८ ॥ स्रवणे तु । क्षरत् क्षतजवृत्तयः ।
इति दुर्गादासः ॥


Match 0214: vcp=क्षल, skd=क्षल

vcp

k1=क्षल, L=15827
क्षल¦ शोधने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । क्षाल-
यति ते क्षलति अचिक्षलत् त अक्षालीत् । क्षालयाम्
बभूव आस चकार चक्रे चक्षाल । ज्वला० क्षलः क्षालः ।
“ऋते रवेः क्षालयितुं क्षमेत कः” माघः । “क्षालित
मपि हृदयं मलिनं शोकोर्म्मिभीः क्रियते” प्रबो० ।
क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेनो निकृन्तति” हितो० ।
भ्वादिस्तु चाले चयने कवि० इति भेदः । प्राद्युपर्ग
पूर्व्वस्तत्तदुपसर्गद्योत्यार्थयुक्तशोधने । “गात्राणि वाससी
चैव प्रक्षाल्य सलिलेन सा” भा० वि० १७ अ० । “सुखं
प्रक्षालयेत्ततः” स्मृतिः ।


skd

k1=क्षल, L=9457
क्षल¦, क शौचे । इति कविकल्पद्रुमः । (चुरां-परं-
सकं-सेट् ।) शौचमिह शुद्धीकरणम् । क, क्षाल-
यति पात्रं पयसा लोकः । इति दुर्गादासः ॥


k1=क्षल, L=9458
क्षल¦, ज चाले । चये । इति कविकल्पद्रुमः । (भ्वां-परं
अकं-सेट् ।) ज, क्षालः क्षलः । चालः कम्पः ।
चयश्चयनम् । इति दुर्गादासः ॥


Match 0215: vcp=क्षि, skd=क्षि

vcp

k1=क्षि, L=15873
क्षि¦ क्षये अक० ऐश्वर्ये सक० भ्वा० पर० अनिट् । क्षयति अ-
क्षेयीत् चिक्षाय क्षीयात् । क्षीणः क्षितिः । क्षयः । क्षयन्
क्षेतुम् भावे दैन्ये आकोशे च निष्ठातस्य वा नः दीर्घो
वा । तत्र दैन्ये क्षितं क्षीणं वा तपस्विना । आक्रोशे
क्षितायुः क्षीणायुः भूयात् । “क्षयन्तमस्य रजसः पराके”
ऋ० ७, १००, १५, “यस्मिन् क्षयन्ति षडुर्व्वीः” अथ० १३, ३, १,
“ताहि मध्यं भराणामिन्द्राग्नी अधिक्षितः” ऋ० ८, ४०,
३, कर्म्मकर्त्तरि क्षीयते “अपक्षीयते नश्यति” यास्कः
“क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे” कठो० ।
“शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा
राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्” मनुः


k1=क्षि, L=15874
क्षि¦ हिंसायां स्वा० पर० सक० अनिट् । क्षिणोति, क्षिणुतः
क्षिण्वः--क्षिणुवः । अक्षैषीत् । चिक्षाय । “खटिनी क्षि-
णोति” नैष० । “यन्मां तुदन्वाक्यशल्यैः क्षिणोषि” भा०
[Page2371-b+ 38]
व० ३४ अ० । “सिंहीवैनं भूत्वाक्षिणोति” शत० व्रा०
३ । ५ । १ । २५ । अयं क्रादिरपि तत्रार्थे । “क्षिणामि ब्रह्म-
णामित्रान्” अथ० ३ । १९ । ३ ।


k1=क्षि, L=15875
क्षि¦ वासे अक० गतौ सक० तु० प० अनिट् । क्षियति ।
अक्षैषीत् चिक्षाय । “अन्तरीक्षं पृथिवीं क्षियन्ति” तैत्ति०
३, १, १, ७, “मत्स्यं न दीन उदनि क्षियन्तम्” ऋ० १०, ६८, ८,
वेदे गणव्यत्ययात् क्वचित् शपीलुक् । “जयति क्षेति पु-
ष्यति” ऋ० ७ । ३२ । ९ । “क्षेति क्षेमोभिः साधुभिः” ८ । ७३ । ९ ।


skd

k1=क्षि, L=9499
क्षि¦, क्षयैश्वर्य्ययोः । इति कविकल्पद्रुमः । (भ्वां--परं-
सकं, ऐश्वर्य्ये--अकं-अनिट् ।) क्षयति पापम् ।
इति दुर्गादासः ॥


k1=क्षि, L=9500
क्षि¦, न ग ष हिंसायाम् । इति कविकल्पद्रुमः । (स्वां-
क्र्यां च-परं-सकं-अनिट् ।) न, क्षिणोति । ग,
क्षिणाति । ष, क्षिया । (यथा, शान्तिशतके ५ ।
“धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं
ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्के
[Page2-233-a+ 52]
स्थिताः । अस्माकन्तु मनोरथोपरचितप्रासाद-
वापीतटक्रीडाकाननकेलिमण्डपयुषामायुः परं
क्षीयते” । इति कर्म्मकर्त्तरि साध्यम् । इति
दुर्गदासः ॥


k1=क्षि, L=9501
क्षि¦, श वासगत्योः । इति कविकल्पद्रुमः ॥ (तुदां--
परं-अकं-सकंच-अनिट् ।) श, क्षियति । इति
दुर्गादासः ॥


Match 0216: vcp=क्षिण, skd=क्षिण

vcp

k1=क्षिण, L=15877
क्षिण¦ हिंसायां तना० उभ० सक० सेट् । क्षिणोति क्षिणुते
अक्षणीत् अक्षणिष्ट । चिक्षणचिक्षिणे ।


skd

k1=क्षिण, L=9503
क्षिण¦, दु ञ वधे । इति कविकल्पद्रुमः ॥ (तनां-उभं-
सकं-सेट्-उदित्त्वात् क्त्वा वेट् ।) द ञ, क्षिणोति
क्षिणुते । उ, क्षिणित्वा क्षित्वा । इति दुर्गा-
दासः ॥


Match 0217: vcp=क्षिप, skd=क्षिप

vcp

k1=क्षिप, L=15904
क्षिप¦ प्रोरणे तुवा० उभ० सा० अनिट । क्षिपति--ते अक्षै-
[Page2373-a+ 38]
पसीत् अक्षिप्त । चिक्षेप चिक्षिपे । क्षिप्तः क्षेपकः ।
क्षेप्ता क्षिप्त्वा क्षिपः क्षिपन् । “क्षिपत्येकेन वेगेन पञ्च-
वाणशतानि च” भा० व० १०१८ श्लो० । “सुशर्म्मा साय-
कांस्तीक्ष्णान् क्षिपते च पुनः पुनः” भा० वि० ३३ अ० ।
“पदाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजन” रामा० १ । ११ अ०
“यणिन् क्षप्स्यसि शक्तिञ्च स एकोन भविष्यति” भा० आ०
६७ अ० “स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते
मयि” भा० व० २८१ अ० “चिक्षेप मारीचोरसि” रासा०
वा० ३२ स० । आक्षेपे च “चिक्षेप च स तं धीमान्
वाग्भिरुग्रामिरच्युतम्” भा० आश्व० ३५ अ० । प्रेरणे
क्वचित् स्वार्थे च णिच् क्षेपयति ते अचिक्षिपत् त
अति + अत्यन्तक्षेपे । “सन्धिमुक्तमुत्पिष्टं श्लिष्टं विवर्त्तित
मवक्षिप्तमतिक्षिप्तं तिर्य्यक् क्षिप्तमिति षड्विधम्” “अति-
क्षिप्ते द्वयोःसन्ध्योरतिक्रान्तता वेदना” सुश्रुतः ।
अधि + तिरस्कारे “तस्मादेतैरधिक्षिप्तः संहेतासंज्वरः सदा”
मनुः । “त्वं नाधिक्षेप्तु मर्हसि” भा० व० ९९ अ० ।
अधिक्षेपशब्दे विवृतिः ।
अव + अधःक्षेपणे “अवक्षिप दिवो अश्मानमुच्चाः” ऋ० २, ५३, ५ अवक्षेपणशब्दे विवृतिः
आ + आकर्षणे “आक्षिप्य केशान् वेगेन वाह्वोर्जग्राह पाण्ड-
वम्” भा० वि० ७५० श्लो० । भत्र्सने । आक्षेपशब्दे
६०३ पृ० विवृतिः । “आक्षिपन्तं प्रभां भानोः” भा० आ०
११०३ । “आक्षिप्तत्तोमिव प्रभां शशिनः स्वेन तेजसा” भा०
व० २१४७ श्लो० ।
परि + आ + आकृष्य तन्धने । “पर्य्याक्षिपत् काचिदुदारबन्धम्” कुमा० ।
उद् + ऊर्द्वक्षेपणे । “वलिमाकाश उत्क्षिपेत्” मनुः “शिर
उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्” भा० आ० ११२६ श्लो०
उत्क्षेपणशब्दे १०८६ पृ० विवृतिः
नि + नितरां क्षेपणे निधाने च । “अन्नं भूमौ श्वचाण्डाल
वायसेभ्यश्च निक्षेपेत्” याज्ञ० । गात्राणि कान्तासु च नि-
क्षिपन्तः” रामा० ५ । ११ निक्षेपशब्दे विवृतिः
निस् + निशेषेण क्षेपे । “मक्षिकाव्रणजातस्य निःक्षिपन्ति
यदा कृमीन्” सुश्रुतः ।
परि + परितः क्षेपे । “गङ्गास्रोतःपरिक्षिप्तम्” कुमा० ।
प्र + प्रंकर्षेण क्षेपे “नामेध्यं प्रक्षिपेदग्नौ” मनुः
प्रति + प्रतिरूपक्षेपे । “अन्तः सिराणां श्वसनः स्थितोदृष्टिं
प्रतिक्षिपन्” सुश्रु० । अधिक्षपे निवारणे प्रेरणे च
वि + विशेषेण क्षेपे “विक्षिप्यमाणाः धनुषा नरेन्द्राः” भा० आ०
७०२२ श्ला० । वायुकृते उणादे, विक्षिप्तचित्तः । योगा-
[Page2373-b+ 38]
न्तरायकरणे चित्तवृत्तेरन्यत्र सञ्चारे च “अस्वण्डवस्त्वनव-
लम्बनेन चित्तवृत्तेरन्यालम्बनं क्षिपः” वेदान्तसा०
“लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः” तत्रस्था
कारिका
सम् + सम्यकक्षेपे विस्तीर्ण्णस्य सङ्कोचापादने व्यापारे “आतपा-
त्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः । “संक्षिप्तैः प्रति-
संस्कृतैः” अमरः । “संक्षिप्तसारमाचष्टे” संक्षिप्तसा०


k1=क्षिप, L=15905
क्षिप¦ प्रेरणे दिवा० प० सक० अनिट् । क्षिपयति--ते अक्षे-
प्सीत् । चिक्षेप । “शत्रुघ्नान् युधि हस्तिग्नोगिरीन्
क्षिप्यन्नकृत्रिमान्” “वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्र-
मिन्द्रजित्” भट्टिः ।
उपसर्गभेदेनार्थविशेषः तौदादिकवत् ।


skd

k1=क्षिप, L=9526
क्षिप¦, य औ नुदि । इति कविकल्पद्रुमः ॥ (दिवां-
परं-सकं-अनिट् ।) य, क्षिप्यति । औ, क्षेप्ता ।
इति दुर्गादासः ॥


k1=क्षिप, L=9527
क्षिप¦, श ञ औ नुदि । इति कविकल्पद्रुमः ॥
(तुदां-उभं-सकं-अनिट् ।) नुदि प्रेरणे । श ञ,
क्षिपति क्षिपते शरं योधः । औ, क्षेप्ता । इति
दुर्गादासः ॥


Match 0218: vcp=क्षिव, skd=क्षिव

vcp

k1=क्षिव, L=15924
क्षिव¦ निरसने भ्वा० पर० सक० सेट् । क्षेवति अक्षेवीत् ।
चिक्षेव उदित् । क्षिवित्वा क्ष्यूत्वा क्ष्यूतः क्ष्यूतिः । निर-
सनं फूत्कार इति भट्टमल्लः मुखेन श्मेष्मादेर्वमनमित्यन्ये


k1=क्षिव, L=15925
क्षिव¦ निरसने दिवा० पर० सक० सेट् । क्षीव्यति अक्षेवीत्
चिक्षेव । उदित् क्षेबित्वा क्ष्यूत्वा ।


skd

k1=क्षिव, L=9544
क्षिव¦, उ निरासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् उदित्वात् क्त्वावेट् ।) ह्रस्वी । निरास
इह कुत्कारः इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन-
मिति केचित् । पृथक् पाठात् पूर्ब्बो भ्वादिः ।
क्षेवति । उ, क्षेवित्वा क्ष्यूत्वा । इति दुर्गादासः ॥


k1=क्षिव, L=9545
क्षिव¦, य उ निरासे । इति कविकल्पद्रुमः ॥ (दिवां-
परं-सकं-सेट् । उदित्वात् क्त्वावेट्) ह्रस्वी । य,
क्षीव्यति । उ, क्षेवित्वा क्ष्यूत्वा । इति दुर्गादासः ॥


Match 0219: vcp=क्षी, skd=क्षी

vcp

k1=क्षी, L=15926
क्षी¦ हिंसायां भ्वा० उभ० सक० अनिट् । क्षयति ते अक्षेषीत्
अक्षेष्ट । चिक्षाय चिक्षिये


skd

k1=क्षी, L=9546
क्षी¦, ञ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
सकं-अनिट् ।) ञ, क्षयति क्षयते । इति दुर्गा-
दासः ॥


Match 0220: vcp=क्षीज, skd=क्षीज

vcp

k1=क्षीज, L=15927
क्षीज¦ अव्यक्तशब्दे भ्वा० पर० अक० सेट् । क्षीजति अक्षीजित् चिक्षीज


skd

k1=क्षीज, L=9547
क्षीज¦, हिक्कने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) दीर्घी । हिक्कनमव्यक्तशब्दः । सखेद-
स्यैवाव्यक्तशब्दे क्षीजेः प्रयोगः । इति रक्षितः ।
क्षीजति सखेदो जनः । इति दुर्गादासः ॥


Match 0221: vcp=क्षीब, skd=क्षीब

vcp

k1=क्षीब, L=15932
क्षीब(व)¦ मदे भ्वा० आत्म० अक० सेट् क्षीब(व)ति अक्षीबी-
(वी)त् । चिक्षीब(व)


skd

k1=क्षीब, L=9552
क्षीब¦, (व) ऋ ङ मदे । इति कविकल्पद्रुमः । (भ्वां-
आत्मं-अकं-सेट् ।) मदे मत्तीभावे । ऋ, अचिक्षी-
बत् । ङ, क्षीबते मद्यपः । इति दुर्गादासः ॥


Match 0222: vcp=क्षीव, skd=क्षीव

vcp

k1=क्षीव, L=16003
क्षीव¦ निरासे भ्वा० प० सक० सेट् । क्षीवति अक्षीवीत् चिक्षी-
व । निरासः फुत्कारः तत्र अक० । मुखेन श्लेष्मादेर्वमनञ्च
तत्र सक० इति भेदः ।


skd

k1=क्षीव, L=9615
क्षीव¦, ऋ ङ दर्पे ॥ इति कविकल्पद्रुमः । (म्बां-
आत्मं-अकं-सेट् ।) ऋ, अचिक्षीवत् । ङ, क्षीवते ।
इति दुर्गादासः ॥


k1=क्षीव, L=9616
क्षीव¦, निरासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं-
सकं-सेट् ।) निरास इह फुत्कारः । इति भट्ट-
मल्लः ॥ मुखेन श्लेष्मादेर्व्वमनमिति केचित् । क्षीव-
त्यन्नं लोकः । इति दुर्गादासः ॥


Match 0223: vcp=क्षु, skd=क्षु

vcp

k1=क्षु, L=16004
क्षु¦ क्षुतौ पु०(हाँचि) अदा० अक० सेट् । क्षौति क्षुतः क्षुवन्ति
अक्षावीत् चुक्षाय क्षविष्यति । उगन्तत्वात् किति कृति अ-
निट्क्षुतम् । क्षुतिः क्षुत्वा । क्षयथुः “पुरांचुक्षाव चाशुभम्”
भट्टिः । “कृतकं कामिनि चुक्षुवे मृगाक्ष्या” माघः “सुप्त्वा
क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः । पीत्वापोऽध्येष्य-
माणश्च आचामेत् प्रयतोऽपि सन्” । “क्षुवतीं जृम्भमाणां
वा” मनुः । “क्षतोत्पतनजृम्भसु” ति० त० पुरा० ।
“रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या” चोरप० ।
अव + अधःस्थस्य क्षवथुना दूषणे “अवक्षुतं केशपतङ्गकीटैः”
यमः । अवक्षुतं उपरिकृतक्षुतेन दूषितम् । “पतितान्न-
मवक्षुतम्” मनुः “अवक्षुतम् उपरिकृवक्षुतम्” कुल्लू०
अन्योपसर्गपूर्व्वस्तु तत्तद्द्योत्यार्थयुक्तक्षुतौ ।


skd

k1=क्षु, L=9618
क्षु¦, दु ल क्षुते । इति कविकल्पद्रुमः ॥ (अदां-परं-
अकं-सेट् ।) क्षुतं हाँची इति ख्यातम् । टु,
क्षवथुः । ल, क्षौति कफी । कृतकं कामिनि
चुक्षुवे मृगाक्ष्या । इति माघे । इति दुर्गादासः ॥


Match 0224: vcp=क्षुद, skd=क्षुद

vcp

k1=क्षुद, L=16013
क्षुद¦ गतौ निघ० भ्वा० प० सक० सेट् । क्षोदति अक्षोदीत्
चुक्षोद । “उत क्षोदन्ति रोदसी महित्वा” ७, ८५, १, क्षो-
दन्त आपो रिणते, वनानि” ऋ०५, ५८, ६०


k1=क्षुद, L=16014
क्षुद¦ पेषणे रुधा० उभ० सक० अनिट् इरित् । क्षुणस्ति च
क्षुदत् अक्षौत्सीत् अक्षुत्त । चुक्षोद चुक्षुदे । क्षुण्ण-
क्षुन्दन् क्षुन्दानः । क्षोदः । “क्षुण्णभिन्नविपन्नकैः” क्षु-
नद्मि सर्पान पाताले” भट्टिः । “ते त व्याशिषुरक्षौत्सुः”
“अक्षुणद्वाजिकुञ्जरम्” भट्टिः “षष्ठः खण्डनखण्डखाद्य-
सहजक्षोदक्षमे” नैषधक् । उपसर्गपूर्ब्बस्तु तत्तद्धोत्यार्थ
युक्ते प्रेषणे ।


skd

k1=क्षुद, L=9630
क्षुद¦, ञ ध औ इर् क्षुदि । इति कविकल्पद्रुमः ॥
(रुधां--उभं--सकं--अनिट् ।) ञ ध, क्षुणत्ति क्षुन्ते ।
औ, क्षोत्ता । इर्, अक्षुदत् अक्षौत्सीत् । क्षुदि
चूर्णीकरणे । इति दुर्गादासः ॥ (यथा, भट्टिः ।
१४ । ३३ ।
“मित्रघ्नस्य प्रचुक्षोद गदयाङ्गं विभीषणः ।
सुग्रीवः प्रघसं नेभे बहून्रामस्ततर्द्द च” ॥)


Match 0225: vcp=क्षुध्, skd=क्षुध *

vcp

k1=क्षुध्, L=16091
क्षुध्¦ बुभुक्षायां दिवा० पर० सक० अनिट् ऌदित् । क्षुध्यति
अक्षुधत् । चुक्षोध क्षुत् । क्षुधा क्षुधितः । क्षुधित्वा ।
“क्षुध्यद्भ्योवय आसुतिदाः ऋ० १, १०४, ७, मा क्षुधन्मा-
रुषत्” अथ० २, २९, ४, क्षुध्यन्तोऽप्यघसन् व्याला” ।
“क्षुधित्वा पत्रिभिर्वनम्” भट्टिः । क्षुधाजातास्य तारका०
इतच् । क्षुधित संजातक्षुधे त्रि०


skd

k1=क्षुध, L=9713
क्षुध¦, ऌ य औ क्षुदि । इति कविकल्पद्रुमः ॥ (दिवां
--परं-सकं-अनिट् ।) क्षुद्भक्षणेच्छा । ऌ, अक्षु-
धत् । य, क्षुध्यत्यन्नं बुभुक्षितः । औ, क्षोद्धा ।
इति दुर्गादासः ॥


Match 0226: vcp=क्षुप, skd=क्षुप

vcp

k1=क्षुप, L=16100
क्षुप¦ मदे सौ० प० अक० सेट् । क्षोपति अक्षोपीत् चुक्षोप
“स सवृक्षक्षुपलतः” भा० आ० १७१ अ०


skd

k1=क्षुप, L=9723
क्षुप¦, सादे । इति कविकल्पद्रुमः ॥ (सौं-परं-अकं-
सेट् ।) सौत्रधातुरयम् । क्षुपः । इति दुर्गा-
दासः ॥


Match 0227: vcp=क्षुभ, skd=क्षुभ

vcp

k1=क्षुभ, L=16104
क्षुभ¦ सङ्कोचने भ्वा० आत्म० सक० हेट् ऌदित् । क्षोभते अक्षुभत्
चुक्षुभेक्षोभ्यम् । क्षोभः क्षोभणम् क्षोभी “तानसौ नापि-
[Page2385-b+ 38]
चाक्षुभत्” नाक्षुभद्राक्षसोभ्रातुः” भट्टिः क्षुब्धः क्षुभितः ।
“क्षुब्धतोया महावेगाः श्वममानाइवाशुगाः” भा० व०
८ अ० । “क्षुभिताः सागराः सर्व्वे” रामा० बा० ६५ स० ।
“चुक्षुभे द्विषतां मनः” रघुः “यदेतदादित्यस्य मध्ये
क्षोभत इव” छा० उ० । क्षोभमाणः ।


skd

k1=क्षुभ, L=9729
क्षुभ¦, ऌ ङ सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां--
आत्मं--अकं--सेट् । ऌदित् ।) ऌ, अक्षुभत् । ङ,
क्षोभते नानुजीविषु । इति हलायुधः । इति
दुर्गादासः ॥


k1=क्षुभ, L=9730
क्षुभ¦, य ग सञ्चलने । इति कविकल्पद्रुमः ॥ (दिवां--
क्र्यां च--परं--अकं--सेट् ।) य, क्षुभ्यति रिपुष्वेवेति
हलायुधः । ग, क्षुभ्नाति चुक्षोभ । इति दुर्गा-
दासः ॥


Match 0228: vcp=क्षुर, skd=क्षुर

vcp

k1=क्षुर, L=16112
क्षुर¦ विलेखने तुदा० पर० सक० सेट् । क्षुरति अक्षोरीत् चु
क्षोर क्षुरः ।


skd

k1=क्षुर, L=9735
क्षुर¦, श विलेखने । खनने । इति कविकल्पद्रुमः ॥
(तुदां--परं--सकं--सेट् ।) श, क्षुरति भूमिं लोकः ।
क्षोरिता । क्षुरो लोमच्छेदनः । इति दुर्गादासः ॥


Match 0229: vcp=क्षै, skd=क्षै

vcp

k1=क्षै, L=16183
क्षै¦ क्षये भ्वा० पर० अक० अनिट् । क्षायति अक्षासीत् चक्षौ ।
क्षेयं क्षाता क्षामः ।


skd

k1=क्षै, L=9825
क्षै¦, क्षये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
अनिट् ।) क्षादिः । क्षायति । इति दुर्गादासः ॥


Match 0230: vcp=क्ष्णु, skd=क्ष्णु

vcp

k1=क्ष्णु, L=16221
क्ष्णु¦ तेजने अदा० पर० सक० सेट् । क्ष्णौति अक्ष्णावीत् ।
चुक्ष्णाव । क्ष्णविता क्ष्णुतः । “वाचं क्ष्णुवानोदमयन्
सपत्नान्” अथ० ५ । २० । १ । “उभयतो हीदं वाचः क्ष्णुतम्”
शत० ब्रा० ६, ३, १, ३४ ।


skd

k1=क्ष्णु, L=9868
क्ष्णु¦, ल तेजने । इति कविकल्पद्रुमः ॥ (अदां-परं-
सकं-सेट् ।) मूर्द्धन्यणकारोपधः । क्षादिः ।
क्ष्णौति खड्गं कर्म्मकारः । इति दुर्गादासः ॥


Match 0231: vcp=क्ष्माय, skd=क्ष्माय

vcp

k1=क्ष्माय, L=16229
क्ष्माय¦ विधूनने कम्पने भ्वा० आत्म० अक० सेट् । क्ष्मायते ।
अक्ष्मायिष्ट चक्ष्माये ईदित् क्ष्मातः । “अक्ष्मायन्त महीं
गृध्राः” “चक्ष्माये च महीं रामः” भट्टिः । णिचि पुक्
यलोपश्च । क्ष्मापयति ।


skd

k1=क्ष्माय, L=9878
क्ष्माय¦, ई ङ विधूनने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) पवर्गशेषयुक्तः । क्षादिः ।
विधूननमिति विधून्यतेऽसाविति कर्म्मणि घञि
विधूनः सकम्पः ततो विधून इवाचरतीति कौ
कृते अनटि रूपम् । कम्पनमित्यर्थः । ई, क्ष्मातः ।
ङ, क्ष्मायते वृक्षः । (तथाच, भट्टिः । १४ । २१ ।
“उल्का ददृशिरे दीप्ता रुरुवुश्चाशिवं शिवाः ।
चक्ष्माये च मही रामः शशङ्के चाशुभागमम् ॥”)
क्ष्मायते कम्पते त्वङ्गत्येजतीर्त्ते च वेपते
इति कम्पार्थे भट्टमल्लोऽपि । रमानाथस्तु विधू-
ननशब्दस्येणन्ताद्व्युत्पत्तेः सकर्म्मकोऽयं इति
प्रतीमः । प्रयोगस्त्वन्यथा दृश्यते इत्याह । इति
दुर्गादासः ॥


Match 0232: vcp=क्ष्मील, skd=क्ष्मील

vcp

k1=क्ष्मील, L=16230
क्ष्मील¦ निमेषे भ्वा० पर० अक० सेट् । क्ष्मीलति अक्ष्मीलीत्
चिक्ष्मील । निमेषः पक्ष्मभिश्चक्षुयोरावृतिः ।


skd

k1=क्ष्मील, L=9881
क्ष्मील¦, निमेषे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
[Page2-266-b+ 46]
अकं-सेट् ।) निमेषः पक्ष्मभिश्चक्षुष आव-
रणम् । क्ष्मीलति चक्षुः पक्ष्मभिरावृतं स्यादि-
त्यर्थः । इति दुर्गादासः ॥


Match 0233: vcp=क्ष्विड, skd=क्ष्विड

vcp

k1=क्ष्विड, L=16231
क्ष्विड¦ स्नेहे भ्वा० आत्म० अक० मोक्षे सक० सेट् । क्ष्वेडते
ऌदित् अक्ष्विडत् । चिक्ष्विडे ञीदित् । क्ष्वेडितम् ।
आदत् क्ष्वेट्टम् क्ष्वेडितं तेन “नास्फोटपेन्नचाक्ष्वेडेत्”
मनुः । परस्मैपदमार्षम् एवं “क्ष्वेडन्तोधावमानाश्च
[Page2412-a+ 15]
प्रणेदुस्ते महाजवाः” रामा० कि० ४५ अ० । “क्ष्वेडन्ति
घुघुरायन्ते ज्वलन्तीव च ये ब्रणाः” सुश्रुतः । अव्यक्त
दन्तशब्दकरणे अक० “क्ष्वेडितोत्क्रुष्टसङ्कुलः” भा०
आश्व० ५९ अ० ।


skd

k1=क्ष्विड, L=9882
क्ष्विड¦, ऌ आ ङ ञि स्नेहे । मोक्षे । इति कवि-
कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-मोक्षे सकं-सेट् ।)
वकारयुक्तः । ऌ, अक्ष्विडत् । आ, क्ष्विडितं
क्ष्विट्टं तेन । ङ, क्ष्वेडते । ञि, क्ष्विट्टोऽस्ति ।
स्नेहः स्निग्धीभावः । मोक्षे क्ष्वेडते तिलः तैलं
मुञ्चतीत्यर्थः । इति दुर्गादासः ॥


Match 0234: vcp=क्ष्विद, skd=क्ष्विद

vcp

k1=क्ष्विद, L=16232
क्ष्विद¦ मोचने सक० स्नेहे अक० भ्वा० आ० सेट् । क्ष्वेदते
ऌदित् अक्ष्विदत् ञीदित् क्ष्विण्णः आदित् क्ष्विसां
क्ष्वेदितं तेन ।


k1=क्ष्विद, L=16233
क्ष्विद¦ कूजने दिवा० पर० अक० सेट् । क्ष्विद्यति । इरित्
अक्ष्नेदीत् अक्ष्विदत् । आदित्क्ष्विण्णं क्ष्वेदितं तेन ।


skd

k1=क्ष्विद, L=9884
क्ष्विद¦, आ ञि कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) आ, क्ष्वेदितं क्ष्विण्णं तेन ।
ञि, क्ष्विण्णोऽस्ति । मूर्द्धन्यवर्गतृतीयान्तोऽय-
मित्येके । इति दुर्गादासः ॥


k1=क्ष्विद, L=9885
क्ष्विद¦, इर् य आ मोक्षे । स्नेहे । इति कवि-
कल्पद्रुमः ॥ (दिवां-परं-अकं-मोक्षे तु सकं-
सेट् ।) इर्, अक्ष्विदत् अक्ष्वेदीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । य, क्ष्विड्यति । आ,
क्ष्वेदितं क्षिण्णं तेन । इति दुर्गादासः ॥


k1=क्ष्विद, L=9886
क्ष्विद¦, ऌ आ ङ ञि मोक्षे । स्नेहे । इति कवि-
कल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-स्नेहे तु अकं-
सेट् ।) एतदाद्यास्त्रयो वकारयुक्ताः क्षाद्याः ।
ऌ, अक्ष्विदत् । आ, क्ष्वेदितं क्ष्विण्णं तेन । ङ,
क्ष्वे दते तिलः तैलं मुञ्चतीर्थः । ञि, क्ष्विण्णो-
ऽस्ति । स्नेहः स्निग्धीभावः । इति दुर्गादासः ॥


Match 0235: vcp=खक्ख, skd=खक्ख

vcp

k1=खक्ख, L=16243
खक्ख¦ हासे भ्वा० पर० अक० सेट् । खक्खति अखक्खीत् ।
चखक्ख । प्रनिखक्खति ।


skd

k1=खक्ख, L=9900
खक्ख¦, हासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) कोपधः । खादिः । खक्खति ।
इति दुर्गादासः ॥


Match 0236: vcp=खच, skd=खच

vcp

k1=खच, L=16264
खच¦ पूतौ उत्पत्तौ च अतिक्तान्तोत्पत्तौ सि० कौ० क्र्या०
प० अक० सेट् । खच्ञाति अस्वचीत्--अखाचीत् । गण-
व्यत्यासात् “खचद्वृत्तावलीढम्” कथास० ।


k1=खच, L=16265
खच¦ बन्धने अद० चुरा० उभ० सक० सेट् । खचयति ते
अचखचत् त । “शकुन्तनीडखचितं बिभ्रज्जटामण्डलम्”
शकु० “रत्नच्छ याखचितबलिभिश्चामरैः क्लान्तहस्ताः” मेघदू०
उद् + सह बन्धने । “अन्यत्र माला सितपङ्कजानामिन्दी-
वरैरुत्खचितान्तरेव” रघुः । “उत्खांचता सह ग्र-
थिता” मल्लिना० ।


skd

k1=खच, L=9917
खच¦, ग भूतिपूत्योरुत्पत्तौ । इति कविकल्पद्रुमः ॥
(क्र्यां-परं-अकं-सेट् ।) भूतिः सम्पत्तिः पूतिः
पवित्रता तयोरुत्पत्तिः प्रादुर्भावः । भूत्युत्पत्तौ
पूत्युत्पत्तौ चेत्यर्थः । ग, खच्ञाति राजा
समृद्धः स्यादित्यर्थः । शेषार्थः कातन्त्राद्यसम्मतः ।
इति दुर्गादासः ॥


k1=खच, L=9918
खच¦, त् क बन्धने । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) खचयति । इति दुर्गादासः ॥


Match 0237: vcp=खज, skd=खज

vcp

k1=खज, L=16270
खज¦ मन्थे भ्वा० पर० सक० सेट् । खजति अखा(ख)जीत् घटा० णिचि ह्नस्वः खजयति । ०


k1=खज, L=16271
खज¦ पङ्गुतायां भ्वा० इदित् पर० अक० सेट् । खञ्जति अख-
ञ्जीत् । खञ्जः । पङ्गुता चेहैकपादविकलता ।


skd

k1=खज, L=9922
खज¦, मन्थे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) मन्थो विलोडनम् । खजति जलं
मत्स्यः । इति दुर्गादासः ॥


k1=खज, L=9923
खज¦, इ पाङ्ग्युल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् । इदित् ।) इ, खञ्ज्यते । पङ्गुः खोडः
भावप्रधाननिर्द्देशात् पङ्गुत्वमिति यावत् । सो-
ऽस्यास्तीति चूडादित्वाल्लः । पङ्गुलस्तस्य भावः
पाङ्ग्युल्यं खोटनमित्यर्थः । खञ्जति खोडः ।
भावप्रधाननिर्द्देशो यथा । वुदसवर्ण इति का-
तन्त्रसूत्रम् । अत्र असवर्णे परे उवर्णो वकारत्वं
प्राप्नोतीत्येवार्थः । इति दुर्गादासः ॥


Match 0238: vcp=खट, skd=खट

vcp

k1=खट, L=16294
खट¦ काङ्क्षायां भ्वा० पर० सक० सेट् । खटति अखाटीत्--अख-
टीत् चखाट । प्रनिखटति ।


skd

k1=खट, L=9945
खट¦, काड्क्षि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) खटति । काङ्क्षि आकाङ्क्षायाम् ।
इति दुर्गादासः ॥


Match 0239: vcp=खट्ट, skd=खट्ट

vcp

k1=खट्ट, L=16302
खट्ट¦ वृतौ चुरा० उभ० सक० सेट् । खट्टयति ते अचखट्टत् त ।


skd

k1=खट्ट, L=9952
खट्ट¦, क वृतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) टद्बयान्तः । क, खट्टयति । वृतिः
संवरणम् । इति दुर्गादासः ॥


Match 0240: vcp=खड, skd=खड

vcp

k1=खड, L=16317
खड¦ मन्थने भञ्जने च भ्वा० आत्म० इदित् सक० सेट् । खण्डते
अखण्डिष्ट । चखण्डे खण्डनं खण्डः खण्डितः ।


k1=खड, L=16318
खड¦ भेदने चुरा० उभ० सक० सेट् । खाडयति--त अचीखडत् त
खाडयाम् वभूव आस चकार चक्रे । खण्डयन् ।


skd

k1=खड, L=9968
खड¦, इ ङ मथि । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् । इदित् ।) मथि मन्थने
मन्थनञ्चेह भञ्जनम् । इ, खण्ड्यते । ङ, खण्डते
दण्डेन भाण्डं लोकः । इति दुर्गादासः ॥


k1=खड, L=9969
खड¦, क भेदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, खाडयति । इति दुर्गादासः ॥


Match 0241: vcp=खन, skd=खन

vcp

k1=खन, L=16389
खन¦ विदारे भ्वा० उभ० सक० सेट् । खनति ते--अखानीत्--अख-
नीत् अखनिष्ट खायात्--खन्यात् । चखान चखतुः चखे,
खातम् खनित्रं खेयम् । खनिता । खनित्वा--खात्वा खानः ।
खनितुम् । खनन् खनमानः । खायते खन्यते खनिः खनकः ।
[Page2465-b+ 38]
“इमां खनाम्योषधिम्” ऋ० १० । १४५ । २१ । “अभ्रि-
रसि नार्य्यसि त्वया वयमग्निं शकेम खनितुम्” यजु० । १०
“त्वां गन्धर्वा अखनन्” यजु० १२, ९८ । “यथा खनन्
खनित्रेण नरोवार्य्यधिगच्छति” मनुः । “अगस्त्यः खन-
मानः खनित्रैः” ऋ० १, १७९६ ।
अभि + आभिमुख्येन सर्वतश्च खनने । “यो हीहामिखनेदप्
एवाभिविन्देत्” शत० ब्रा० ११, १, ६, १६ ।
अव + अधःखनने । अवखनति अवखातः ।
आ + समन्तात् खनने आखरः आखनः आखुः ।
उद् + उत्पाटने “फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः”
(कलमाः) । “त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः!”
“वङ्गानुत्खाय तरसाउत्खातलोकत्रयकण्टकोऽपि” रघुः ।
नि + निधाने सक० “निचखान जयस्तम्भम्” वसु-
धायां निचख्नतुः” “अष्टादशद्वीपनिखातयूपः” रघुः
“विषादशङ्कुश्च मतौ निचख्ने” भट्टिः ।
निस् + निर् + निष्क्रामणे “समुद्रान्निरखनंस्तीक्ष्णाभि-
रभ्रि भः” शत० ब्रा० ७ । ५ । २ । ५२ ।
परि + परितः खनने परिखा उत्पाटने च “कण्टकिक्षीरि-
णस्तु समूलान् परिखायाद् वासयेदपामार्गम् आश्व० २ । ७५
वि + विशेषेण खनने । “यत्ते भूमिं विखनामि क्षिप्रं तदपि-
रोहतु” अथ० १२ । १ । ३५ ।


skd

k1=खन, L=10030
खन¦, उ ञ विदारे । इति कविकल्पद्रुमः ॥ (भ्वां-
उभं-सकं-सेट् ।) उ, खनित्वा खान्त्वा । ञ,
[Page2-276-a+ 52]
तृषितो जाह्नवीतीरे कूपं खनति दुर्म्मतिः ।
खनते । इति दुर्गादासः ॥


Match 0242: vcp=खम्ब, skd=खम्ब

vcp

k1=खम्ब, L=16405
खम्ब¦ गतौ भ्वा० पर० सक० सेट् । अम्बति अखम्बीत् चखम्ब ।


skd

k1=खम्ब, L=10045
खम्ब¦, गतौ, इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) ओष्ठवर्गशेषोपधः । खम्बति । इति
दुर्गादासः ॥


Match 0243: vcp=खर्ज, skd=खर्ज्ज *

vcp

k1=खर्ज, L=16452
खर्ज¦ व्ययायां भ्वा० अक० पर० सेट् । खर्ज्जति । अखर्ज्जीत् । चखर्ज्ज ।


skd

k1=खर्ज्ज, L=10091
खर्ज्ज¦, व्यथामृजोः । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) खर्ज्जति । मृट् मार्ज्जनम् ।
इति दुर्गादासः ॥


Match 0244: vcp=खर्द्द, skd=खर्द्द

vcp

k1=खर्द्द, L=16461
खर्द्द¦ दंशने भ्वा० पर० सक० सेट् । खर्द्दति अखर्द्दीत् । चखर्द्द ।


skd

k1=खर्द्द, L=10101
खर्द्द¦, दशने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) दशनं दन्तकरणकक्रिया । खर्द्दति
मूलकं लोकः । केचित्तु दन्दशूके इति पठित्वा
दन्दशूकः दन्दशूककर्त्तृकक्रियेत्याहुः । इति
दुर्गादासः ॥


Match 0245: vcp=खर्ब, skd=खर्ब्ब *

vcp

k1=खर्ब, L=16465
खर्ब(र्व)¦ गतौ भ्वा० पर० सक० सेट् । ख(र्ब)र्वति अख-
र्बी(र्वी)त् । चख(र्ब)र्व । गतिरत्र नीचतगतिः खर्ब-
शब्ददर्शनात् । अन्त्यस्थान्त्यस्तु गर्वे इति भेदः ।


skd

k1=खर्ब्ब, L=10105
खर्ब्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) खर्ब्बति । इति दुर्गादासः ॥


Match 0246: vcp=खष, skd=खष

vcp

k1=खष, L=16516
खष¦ बधे भ्वा० पर० सक० सेट् । खषति अखाषीत्--अख-
षीत् । चखाष ।


skd

k1=खष, L=10152
खष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) खषति । इति दुर्गादासः ॥


Match 0247: vcp=खाद, skd=खाद

vcp

k1=खाद, L=16553
खाद¦ भक्षणे भ्वा० पर० सक० सेट् । खादति अखादीत्
चखाद । खाद्यः खादकः खादनम् । णिचि । खादयति
ऋदित् अचखादत् त । “सक्तून् खादति यश्च तस्य
रिपवोनाशं प्रयान्ति घ्रुवम्” ति० त० “न खादेः पर-
शस्यानि” वृषोत्सर्गमन्त्रः । “देवान् पितन् समभ्यर्च्य खादन्
मांसं न दोषभाक्” मनुः । “स हि (उशस्तिः) कुल्माषान्
खादन्तं विभिक्षे” छा० उप० । “मांसानि च न खादेद्यस्तयोः
पुण्यं सभं स्मृतम्” मनुः । “आशङ्कमानो वैदेहीं खादितां
निहतां मृताम्” भट्टिः । “तादृशं भवति प्रेत्य वृथा मांसानि
खादकः” मनुः । षष्ट्यभावश्छादसः । खादनस्य हिं-
साव्यभिचरितत्वात् हिंसार्थत्वात् अकित्त्वेऽपि वा०
चुरा० तेन स्वार्थे णिच् खादयति । “दुर्बलं
वलवन्तो हि मत्स्यामत्स्यं विशेषतः । खादयन्ति”
मत्स्यपु० “मां खादय मृगश्रेष्ठ! दुःखादस्मा
द्विमोचय” भा० व० ६१ अ० । “देवराजो मया दृष्टो
वारिवारणमस्तके । खादयन्नर्कपत्राणि” विदग्धमु० ।
अस्य भक्षणार्थत्वेऽपि आदिखाद्योर्न” वार्त्ति० णिचि प्रयो-
ज्यकर्त्तुः न कर्मत्वम् । खादयति अन्नं वटुना” “वयोभिः
खादयन्त्यन्ये” “तां श्वभिः खादयेद्राजा” मनुः । “मारयि
ष्यामि वैदेहीं खादयिष्यामि राक्षसैः” भट्टिः । खादनञ्च कठि-
नादि द्रव्यस्य गलाधःसंयोगानुकूलव्यापारबिशेषः प्रति-
षिद्धभक्षणविप्रये तु वदनमात्रप्रवेशेऽपि प्रायश्चित्तार्द्धमिति
भेदः यथाह प्रा० त० “यद्यपि अन्नादीनां कण्ठादधो-
नयनमेव भक्षणं न तु निष्ठीवनाय शुण्ठ्यादेः कपोल-
धारणं, तथाविधे प्रयोगाभावात् । तथापि पापविषये तथा-
विधानुबन्धेऽपि प्रायश्चित्तं, ब्रह्मबधे तथा दर्शनात् यथा
याज्ञवल्क्यः “चरेद्व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः” ।
अत्र हननप्रतिषेधेन यथा तदङ्गभूताध्यवसायादेरपि प्रति-
षिद्धत्वात् प्रायश्चित्तविधानं तथाऽत्रापि भक्षणप्रतिपेधेन
[Page2475-b+ 38]
तदङ्गभूताव्यभिचारितान्नादिसंयोगस्यापि प्रतिषिद्ध-
त्वेन दोषस्य विद्यमानत्वात् भवत्येव प्रायश्चित्तं, मिता-
क्षरायायामप्येवम् । अतएवोक्तं “जिघ्रन्नपि सुरां कश्चित्
पिवतीत्यभिधीयते । यावन्न क्रियते वक्त्रे गण्डूषस्य
प्रवेशनम्” इति । अत्र वक्त्रे गण्डूषस्य प्रवेशनेन पानाति-
देशवद्भक्षणोद्यमेऽपि भक्षणातिदेशः । ततश्च विप्रदण्डो-
द्यमे कृच्छ्रमतिकृच्छ्रं निपातने” इति याज्ञवल्क्योक्तेः
दण्डोद्यमे दण्डनिपातप्रायश्चित्तार्द्धवत् भक्षणोद्यमे
कण्ठादधोनयनसम्भावनारहिते अर्द्धं प्रायश्चित्तं ज्ञेयम्”


skd

k1=खाद, L=10180
खाद¦, ऋ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् । ऋदित् ।) ऋ, अचखादत् ।
इति दुर्गादासः ॥


Match 0248: vcp=खिट, skd=खिट

vcp

k1=खिट, L=16582
खिट¦ भये भ्वा० पर० अक० सेट् । खेटति अखेटीत् ।
चिखेट । खेटकम् ।


skd

k1=खिट, L=10203
खिट¦, भयभीषयोः । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-भये अकं-भयोत्पादने सकं-सेट् ।) भीषा
स्वतो भयोत्पादना । खेटति जनो व्याघ्राद्बिभे-
तीत्यर्थः । खेटति व्याघ्र्यो जनं भीषयते इत्यर्थः ।
इति दुर्गादासः ॥


Match 0249: vcp=खिद, skd=खिद

vcp

k1=खिद, L=16583
खिद¦ परितापे तुदा० पर० अक० अनिट् मुचादि । खिन्दति
खिन्दतः । अखैत्सीत् चिखेद । खिन्नः ।


k1=खिद, L=16584
खिद¦ दैन्ये दिवा० रुधा० च आत्म० अक० भीषायां सक०
अनिट् । खिद्यते खिन्ते अखित्त चिखेद । खिन्नः ।
“खसुखनिरभिलाषः खिद्यते लोकहेतोः” शकु० ।
“हरिरित्यखिद्यत नितम्बिनीजनः” माघः । “खिन्ते
तेष्वेव ये द्रव्यं दीयमानं न गृह्णति” कविरहस्यम् ।
“अखिन्दानस्य तेजसा” भट्टिः । “प्रहस्तश्चिखिदे न च”
भट्टिः “खिदञ्ध्यौ दैन्यके” इत्येव वोपदेवे पाठः अतएव
“रक्तं न्यष्ठीवदक्लाम्यदखिद्यद्वाजिकुञ्जरम्” भट्टिः
आ + प्रकर्षेण खेदने । “आखेदते प्रखिदते च नमः” यजु०
१६ । ४६ । “आखेदते प्रहर्षेण खेदयति पापिनः” वेददी० ।
वेदे गणव्यत्यासः अन्तर्भूतण्यर्थता च ।
उद् + उत्पाटने । “पजापतिरात्मनोवपामुदखिदत्” श्रुतिः ।
“अथ वपामुत्खिदन्ति” शतब्रा० ३ । ८ । २ । ५ । “इमां
वपामुत्खिदन्ति मध्यतः” ३ । ८ । ३ । २ । “वपामुत्खिदती-
त्युत्खिद्य” ४ । ५ । ११ । २ । सर्व्वत्र गणव्यत्ययः ।
परि + समन्तात् खेदे । “कान्तावियोगपरिखेदितचित्तवृत्तिः ।
“परिखेदितविन्ध्यवीरुधः” भट्टिः । “लोकसंस्थानविज्ञान
आत्मनः परिखिदातः” भाग० ३ । ९ । २८ ।
सम् + सम्यक्तापे अक० उत्पाटने सक० । “यथा सुहयः पशट्टी
[Page2477-a+ 38]
शङ्कून् संखिदेत् एवमितरान् समखिदत्” छा० उ० ।


skd

k1=खिद, L=10204
खिद¦, श प औ परिघाते । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-अनिट् ।) श प, खिन्दति दुष्टं
राजा । औ, खेत्त्वा । इति दुर्गादासः ॥


k1=खिद, L=10205
खिद¦, ङ ध य औ दैन्यके । इति कविकल्पद्रुमः ॥
(दिवां-रुधां च-आत्मं-अकं-अनिट् ।) दैन्यक-
मुपतप्तीभावः । ङ ध, खिन्ते तेष्वेव ये द्रव्यम्
दीयमानं न गृह्णते । इति हलायुधः ॥ ङ य,
स्वसुखनिरभिलाषः खिद्यते लोकहेतोरिति
शाकुन्तले । औ, खेत्त्वा । इति दुर्गादासः ॥


Match 0250: vcp=खुज, skd=खुज

vcp

k1=खुज, L=16598
खुज¦ स्तेये भ्वा० पर० सक० सेट् । खोजति अखोजीत् ।
चुखोज उदित् खीजित्वा खूक्त्वा खुग्नः ।


skd

k1=खुज, L=10214
खुज¦, उ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । उदित्त्वात् क्त्वा वेट् ।) उ, खोजित्वा
खुक्त्वा । स्तेयं चौर्य्यम् । इति दुर्गादासः ॥


Match 0251: vcp=खुड, skd=खुड

vcp

k1=खुड, L=16600
खुड¦ खञ्जे इदित् भ्वादि० आत्म० अक० सेट् । खुण्डते अखु-
ण्डिष्ट । चुखुण्डे । खुण्ड्यते ।


k1=खुड, L=16601
खुड¦ भेदने चुरा० उभ० सक० सेट् । खोडयति--ते अचूखु-
डत्--त । खोडयाम् बभूव मास चकार चक्रे ।


k1=खुड, L=16602
खुड¦ भेदे चुरा० इदित् उभ० सक० सेट् । खुण्डयति ते
अचुखुण्डत् त ।


skd

k1=खुड, L=10216
खुड¦, इ ङ खञ्जे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट्-इदित् ।) पञ्चमस्वरी । खञ्जः
खोटनम् । इ, कर्म्मणि खुण्ड्यते । ङ, खुण्डते
खोडः । इति दुर्गादासः ॥


k1=खुड, L=10217
खुड¦, क भेदे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् । पाक्षिक
इदित् ।) द्वौ पञ्चमस्वरिणौ । क, खोडयति ।
द्वितीय आद्यस्वरीति कातन्त्राद्याः । स्वमते तु
द्वितीयस्याद्यस्वरित्वे पूर्ब्बोऽपीदनुवन्धः स्यात् ।
पञ्चमस्वरित्वे तु स्वजातीयस्य पुनःपाठात् पूर्ब्बो
नेदनुबन्धः । खुण्डयति । खण्डयतीति प्रयोगस्तु
खडि ङ् मथीत्यस्मात् घञि खण्डं करोतीति ञौ
साध्यम् । तस्य भेदवाचित्वन्तु धातूनामनेकार्थ-
त्वात् । इति दुर्गादासः ॥


k1=खुड, L=10218
खुड¦, इ क भेदे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् । पाक्षिक
इदित् ।) द्वौ पञ्चमस्वरिणौ । क, खोडयति ।
द्वितीय आद्यस्वरीति कातन्त्राद्याः । स्वमते तु
द्वितीयस्याद्यस्वरित्वे पूर्ब्बोऽपीदनुवन्धः स्यात् ।
पञ्चमस्वरित्वे तु स्वजातीयस्य पुनःपाठात् पूर्ब्बो
नेदनुबन्धः । खुण्डयति । खण्डयतीति प्रयोगस्तु
खडि ङ् मथीत्यस्मात् घञि खण्डं करोतीति ञौ
साध्यम् । तस्य भेदवाचित्वन्तु धातूनामनेकार्थ-
त्वात् । इति दुर्गादासः ॥


Match 0252: vcp=खुर, skd=खुर

vcp

k1=खुर, L=16605
खुर¦ विलेखने तुदा० पर० सक० सेट् । खुरति अखोरीत् चुखोर खुरः ।


skd

k1=खुर, L=10219
खुर¦, श विलेखने । छेदने । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं सेट् ।) श, खुरति भूमिं तृणं
वा लोकः । खोरिता । खुरः शफम् । इति
दुर्गादासः ॥


Match 0253: vcp=खुर्द्द, skd=खुर्द्द

vcp

k1=खुर्द्द, L=16615
खु(खू)र्द्द¦ क्रीडायां भ्वा० आ० अक० सेट् । खु(खू)र्द्दते अखु-
(खू)र्द्दिष्ट चुखु(खू)र्द्दे ।


skd

k1=खुर्द्द, L=10229
खुर्द्द¦, ङ क्रीडायाम् । इति कविकल्पद्रुमः (भ्वां-
आत्मं-अकं-सेट् ।) पञ्चमस्वरी । दीर्घिणः
पृथक्पाठात् पूर्ब्बस्य न दीर्घः । ङ, खुर्द्दते । इति
दुर्गादासः ॥


Match 0254: vcp=खेट, skd=खेट

vcp

k1=खेट, L=16624
खेट¦ भोजने अद० चु० उभ० सक० सेट् । खेटयति ते अ-
चिखेटत् त ।


skd

k1=खेट, L=10239
खेट¦, त् क भक्षणे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) अचिखेटत् । इति
दुर्गादासः ॥


Match 0255: vcp=खेड, skd=खेड

vcp

k1=खेड, L=16629
खेड¦ भक्षणे अद० चु० उभ० सक० सेट् । खेडयति ते खचखेडत्


skd

k1=खेड, L=10249
खेड¦, त् क भक्षणे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरां परं-सकं-सेट् ।) अचिखेडत् । इति दुर्गा-
दासः ॥


Match 0256: vcp=खेल, skd=खेल

vcp

k1=खेल, L=16634
खेल¦ चलने अक० गत्यां सक० भ्वा० पर० सेट् । खेलति अखे
लीत् । ऋदित् अचिखेलत् त । “माऽस्मिन् खलः
खेलतु” नैष० । खेला खेलनम् खेलः । “लीला-
खेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्” रघुः “खे खेल-
गामी तमुवाह वाहः” कुमा० । खेलितम् “स्फुट-
कमलोदरखेलितखञ्जनयुग्मम्” गीतगो० ।


skd

k1=खेल, L=10253
खेल¦, ऋ चाले । गत्याम् । इति कविकल्पद्रुमः ॥
(भ्वां-परं-चलने अकं गत्यां सकं-सेट् ।) कवर्ग-
द्वितीयादिः । अचिखेलत् । चालः कम्पः ।
चालः कैश्चिन्न मन्यते । इति दुर्गादासः ॥


Match 0257: vcp=खेव, skd=खेव

vcp

k1=खेव, L=16639
खेव¦ सेवने भ्वा० आ० सक० सेट् । खेवते अखेविष्ट ऋदित् अचि-
खेवत् त ।


skd

k1=खेव, L=10258
खेव¦, ऋ ङ सेवे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ऋदित् ।) ऋ, अचिखेवत् ।
ङ, खेवते । इति दुर्गादासः ॥


Match 0258: vcp=खै, skd=खै

vcp

k1=खै, L=16641
खै¦ स्थैर्य्ये अक० खनने हिंसायाञ्च सक० भ्वा० पर० अनिट् । खायति अखासीत् चखौ ।


skd

k1=खै, L=10260
खै¦, स्थैर्य्ये । खनने । हिंसायाम् । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-स्थैर्य्ये अकं-खननादौ सकं-
अनिट् ।) खायति । इति दुर्गादासः ॥


Match 0259: vcp=खोट, skd=खोट

vcp

k1=खोट, L=16645
खोट¦ गतिप्रतिघाते भ्वा० पर० अक० सेट् । खोटति अखोटीत् ।
चुखोट खोटः खोटनम् खोटितम् । ऋदित् चङ्य
ह्रस्वः । अचुखोटत् त ।


k1=खोट, L=16646
खोट¦ क्षेपे अद० चुरा० उभ० सक० सेट् । खोटयति ते अचुखोटत् त ।


skd

k1=खोट, L=10262
खोट¦, ऋ गत्याघाते । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) ऋ, अचुखोटत् । गत्या-
घातः स्वोटनम् । खोटति खञ्जः । इति दुर्गा-
दासः ॥


k1=खोट, L=10263
खोट¦, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) अचुखोटत् । इति दुर्गा-
दासः ॥


Match 0260: vcp=खोड, skd=खोड

vcp

k1=खोड, L=16648
खोड¦ गतिप्रतिघाते भ्वा० पर० अक० सेट् । खोडति अखोडीत्
चुखोड । ऋदित् णिचि चङ्यह्रस्वः अचुखोडत् त ।


k1=खोड, L=16649
खोड¦ क्षेपे अद० चु० उभ० सक० सेट् । खोडयति ते अचुखोडत् त


skd

k1=खोड, L=10266
खोड¦, ऋ खोटने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) ऋ, अचुखोडत् । खोडति
खञ्जः । रमानाथस्तु खोडति बाला क्रिमि-
मित्युदाहृतवान् । इति दुर्गादासः ॥


k1=खोड, L=10267
खोड¦, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) अचुखोडत् । इति
दुर्गादासः ॥


Match 0261: vcp=खोर, skd=खोर

vcp

k1=खोर, L=16652
खोर¦ गतिवैकल्ये भ्वा० पर० अक० सेट् । खोरति अखो-
रीत् । चुखोर । ऋदित् चङि अह्रस्वः अचुखोरत् त ।


skd

k1=खोर, L=10270
खोर¦, ऋ खोटने । गतिवैकल्ये इति यावत् । इति
कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) ऋ,
अचुखोरत् । खोरति खञ्जः । इति दुर्गा-
दासः ॥


Match 0262: vcp=खोल, skd=खोल

vcp

k1=खोल, L=16654
खोल¦ गतिवैकल्ये भ्वा० पर० अक० सेट् । खोलति अखो-
लीत् चुखोल ऋदित् च अह्रस्वः अचुखोलत् त ।


skd

k1=खोल, L=10272
खोल¦, ऋ खोटने । गतिवैकल्ये । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) ऋ, अचु-
खोलत् । खोलति खञ्जः । रमानाथस्तु खोलति
बाला क्रिमिमित्युदाहृतवान् । इति दुर्गादासः ॥


Match 0263: vcp=ख्या, skd=ख्या

vcp

k1=ख्या, L=16659
ख्या¦ प्रसिद्धौ दीप्तौ अक० कथने प्रकाशने ज्ञाने च सक० अद०
पर० अनिट् । ख्याति अख्यत् । आर्द्धधातुके चक्षिङआदेशः
ख्याधातुस्तु उभ० । अख्यत् अख्यात--अख्यास्त । चख्यौ
चख्ये । ख्यातः ख्यततः ख्यानम् । ख्येयम् । ख्याता
[Page2480-a+ 38]
तत्र कथने “अख्यन्मुनिस्तस्य शिवं समाधेः” भट्टिः ।
कर्म्मणि ख्यायते अख्यायि । “हिरण्यपुरमित्येव
ख्यायते नगरं परम्” भा० । खपुरशब्दे दृश्यम् । “विभी-
षणेन सोऽख्यायि” भट्टिः । “शुभयोगसमायुक्ता शनौ
शतभिषा यदि । महामहेति सा ख्याता कुलकोटीः
समुद्धरेत्” ति० त० ।
अति + अतिक्रम्य कथने । “परोरुद्रावतिख्यतम्” ऋ० ८ । २२ । १४ ।
अनु + अनुकर्षणे । “अनु पूर्वाणि चख्यथुर्युगानि” ऋ० ७ ।
७० । ४ । “अनुचख्यथुः अनुकृष्टवन्तावनुग्रहार्थम्” भा० ।
अनुवादे च ।
अनु + आ + तात्पर्य्यावधारणार्थं व्याख्याने अन्याख्यानशब्दे २१९ पृ० वृश्यम् ।
अभि + आभिमुख्येन दर्शने “मृलीकं सुमना अभिख्यम्” ऋ० ७ ।
८६ । २ । “अभिख्यमभिपश्येयम्” भा० । “अभिख्याय तं
तिगितेन विध्य” ऋ० २ । ३० । ९ । “अभिखाय संवीक्ष्य”
भा० । अभितः ख्यातौ च “पुण्यमेतदभिख्यातं त्रिषु
लोकेषु भारत!” भा० आनु० ९६ अ० । दीप्तौ अक० अ-
भिख्या । “काप्यभिख्या तयोरासीत्” रघुः ।
अव + अवाक्प्रेक्षणे । “अव हि ख्यताधिकूलादिवस्पशः” ऋ०-
८ । ४७ । २ । न्यक्कारेण दर्शने च “यदा वाख्यत्स मर
णम्” ऋ० १० । २७ । ३ । “अवाख्यत् अवाक्कृतं न्यक्कृत-
महं पश्यामि” भा० ।
आ + कथनेः । “आख्याहि मेकोभवानुग्ररूपः” गीता । आ-
ख्यातमाख्यातेन क्रियासातत्ये” पा० । “स पृष्टः सर्वतो
घार्त्तमाख्यद्राज्ञे न सन्ततिम्” रघुः । “अनाख्याया
ददन् दोषं दण्ड्य उत्तमसाहमम्” याज्ञ० । “सेवा श्व-
वृत्तिराख्याता” मनुः ।
उद् + आ + उदाहरणे । “दश वीर्य्याण्युदाख्याय” शत० ब्रा० ३ । ३ । ३ । ४
उप + आ + पुरावृत्तकथने । उपाख्यानम् । उत्तरदानेन व्या-
ख्याने च । “यदुताहं त्वया पृष्टो वैरजात् पुरुषादिदम् ।
यदासीत् तद्--उदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः”
भाग० २ । ९ । ४५ ।
प्रति + आ + निवारणे “यदि त्वं भजमानां मां प्रत्याख्या-
स्यसि मानद!” भा० व० ५६ अ० । “अभिप्रेतमनापन्नः
प्रत्याख्यातुमनीश्वरः” भाग० ३ । ३१ । २५ ।
वि + आ + विवरणे शब्दान्तरेण तदर्थकाथने । “अथातः पुत्र-
परिग्रहविधिं व्याख्यास्यामः” शौन कः । “व्याख्यातुं कुशलाः
केचित् ग्रन्थान् धारयितुरं परे” भा० आ० १ अ० ।
विशेपेण कथने च “व्याचक्षुरुच्चैश्च शुभं प्रशस्तम्” ।
[Page2480-b+ 38]
अनु + वि + आ + । उक्तस्य पुनः व्याख्याने “एतं त्वेव ते भूयो-
ऽनुव्याख्यास्यामि” छा० उप० ।
उप + वि + आ + उपासनादिविभूतिफलकथने “ओमित्युद्गायति
तस्योपव्याख्यानं भवति” छा० उ० । “तस्याक्षरस्योप-
व्याख्यानमेवमुपासनम् एवं बिभूति एवं फलमित्यादि
कथनमुपव्याख्यानम्” भा० । “खल्वेतस्यैवाक्षरस्योप-
व्याख्यानम्” छा० उ० ।
सम् + आ + सम्यक्कथने । “तिथवस्ताः समाख्याताः
षोडशैव वरानने!” स्कन्दपु० प्रभासस्व० ।
परि + परितः सर्वतो वा ख्यातौ “सूतपुत्र! यथा तस्य भार्ग-
वस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृ-
च्छतः” भा० आ० ५ अ० । “अञ्जनेति परिख्याता पत्नी
केशरिणः कवेः” रामा० सू० २ । १४ ।
सम् + परि + सम्यक् सर्वतः ख्यातौ । “यथावत् संपरिख्यातो
गन्धर्वाप्सरसां तथा” भा० आ० ६५ अ० ।
प्र + प्रकर्षेण कथने । “यस्तु देव मनुष्येषु प्रख्यातः सहजै-
र्गुणैः” भा० व० ३५ अ० ।
वि + विशेषेण ख्यातौ “संह्राद इति विख्यातः प्रह्लादस्यानुज-
स्तु यः” भा० आ० ६७ अ० ।
सम् + सम्यक् कथने “दश पितामहान् सोमपान् संख्याय”
शत० ब्रा० ४ । ३ । ३ । एकादिसंख्याभेदेन गणने “संख्या-
स्यामि फलान्यस्य पश्यतस्ते जनाधिप!” भा० व० ७ अ० ।
अन्वादिपूर्वकस्य समं तदुपसर्गद्योव्यार्थसहितसंख्याने “अतः
कालं प्रसंख्याय संख्यामेकत्र पिण्डयेत्” सू० सि०
प्रतिसंख्या प्रत्येकसंख्या प्रतीतसंख्या वेत्यर्थः ।


skd

k1=ख्या, L=10277
ख्या¦, ल ख्यातौ । कथने । इति कविकल्पद्रुमः ॥
(अदां-परं-अकं-कथनादौ तु सकं--अनिट् ।)
ख्यातिः प्रसिद्धिः । ल, ख्याति गुणी प्रसिद्धः
स्यादित्यर्थः । ख्याति साधुः कथां हरेः । तथा
च । ख्या प्रकथने । प्रकथनं प्रसिद्धिरिति
गोविन्दभट्टः । ख्या प्रकथने इति चतुर्भुज-
जुमरौ । इति दुर्गादासः ॥


Match 0264: vcp=गग्घ, skd=गग्घ

vcp

k1=गग्घ, L=16693
गग्घ¦ हासे भ्वा० पर० अक० सेट् । गग्घति अगग्षीत् जगग्ध ।


skd

k1=गग्घ, L=10290
गग्घ¦, हसने । इति कविकल्पद्रुमः ॥ (भ्वां परं-
अकं-सेट् ।) कण्ठ्यवर्गतृतीयोपधः । गग घति ।
इति दुर्गादासः ॥


Match 0265: vcp=गज, skd=गज

vcp

k1=गज, L=16719
गज¦ मदे स्वने च भ्वा० पर० अक० सेट् । भजति अगाजीत्
अजगीत् । जगाज । गजः ।


k1=गज, L=16720
गज¦ स्वने भ्वा० इदित् पर० अक० सेट् । गञ्जति अगञ्जीत् ।
जमञ्ज । गञ्ज्यते । गञ्जा ।


k1=गज, L=16721
गज¦ खने चुरा० उभ० अक० सेट् । गजयति ते अजग जत् त ।


skd

k1=गज, L=10303
गज¦, स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) गजति । इति दुर्गादासः ॥


k1=गज, L=10304
गज¦, इ मदे स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् इदित् ।) इ, कर्म्मणि गञ्ज्यते । इति
दुर्गादासः ॥


Match 0266: vcp=गड, skd=गड

vcp

k1=गड, L=16780
गड¦ सेके भ्वा० पर० सक० सेट् । गडति अगाडीत्-
अगडीत् । जगाड घटा० । गडयति--ते ।


k1=गड, L=16781
गड¦ वदनैकदेशे (गण्डव्यापारे) इदित् भ्वा० पर० अक० सेट् ।
गण्डति अगण्डीत् । जगण्डः गण्डः । गण्डूषः ।


skd

k1=गड, L=10352
गड¦, इ गण्डे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट्-इदित् ।) इ, कर्म्मणि गण्ड्यते । गण्डे
कपोलविषयक्रियायाम् । तथा च । यत्र द्रव्य-
निर्द्देशस्तत्र तन्निष्ठक्रियाविशेषो लक्ष्यते । इति
मैत्रयवोपदेवौ ॥ रमानाथस्तु कड्ड कार्वश्य इत्य-
स्मात् कार्कश्य इत्यनुवृत्त्या कपोलकर्त्तृककार्कश्य-
मिति व्याख्याय गण्डति कपोलः पांशुना इत्युदा-
हृतवान् । केचित्तु गण्ड इति शब्दस्य व्युत्-
पत्त्यर्थमेवायं धातुर्मन्तव्यो न त्वस्यान्यत्र प्रयोगः
इत्याह । इति दुर्गादासः ॥


k1=गड, L=10353
गड¦, म सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् । घटादिः ।) म, गडयति । सेकः क्षर-
णम् । गडयति घटात् पानीयम् । डलयोरेक-
त्वात् लस्यैव प्रायः प्रयोगः । इति रमानाथः ॥
तन्मते तु लान्तपक्षेऽपि मानुबन्धः । स्वमते तु
लान्तो वक्ष्यमाणः स त्वनुबन्धशून्यः इति
विरोधः । इति दुर्गादासः ॥


Match 0267: vcp=गण, skd=गण

vcp

k1=गण, L=16796
गण¦ सख्याने अद० चु० उभ० सक० सेट् । गणयति ते अ-
[Page2498-b+ 38]
जीगणत् त अजगणत् त । गणयाम्--बभूव आस-
चकार चक्रे । गणयितव्यः । गण्यः । गणयिता गणयन् ।
गणितम् । गणनम् गणना । गणायत्वा । विग-
णय्य । गणः, “गणयति विहितहुताशविकल्पम्” गीतगो०
“तां भक्तिरेवागणयत् पुरस्तात्” रघुः । “पदानि गणयन्
गच्छ स्वानि नैषध! कानिचित्” भा० व० २६१८ । नलं प्रति
कर्कोटकनागोक्तिः “यदि त्रिलोकी गणनापरा स्यात्
तस्याः समाप्रिर्यदि नायुषः स्यात् । पारेपरार्द्ध ग-
णितं यदि स्यात् गणेयनिःशषगुणोऽपि स स्यात्” नैष० ।
“लीलाकमलपत्राणि गणयामास पार्वती” कुमा० । “अजी-
गणद्दाशरथं न वाक्यम्” भट्टिः । “वाणीं काणभुजीमजी-
गणदवासासीच्च वैयासिकीस्” माघटी०, मल्लिनाथः “वृह-
स्पतिश्च भगवानादित्येष्येव गण्यते” भा० आ० २६०३ श्लो०
अव + अवज्ञायाम् । “नार्थनूनैर्नावगणैरेकात्मभिरसाधनैः”
भा० व० ८२ अ० ।
वि + विशेषेण संख्याने “अदूरवर्त्तिनीं सिद्धिं राजन्! विग-
णयात्मनः” रघुः ।


skd

k1=गण, L=10369
गण¦, त् क संख्याने । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-परं-सकं-सेट् ।) मूर्द्धन्योपधः ।
गणयति । इति दुर्गादासः ॥


Match 0268: vcp=गद, skd=गद

vcp

k1=गद, L=16923
गद¦ मेघध्वनौ अद० चुरा० उभ० अक० सेट् । गदयति ते
अजगदत् त । गदयां बभूव आस चकार चक्रे ।


k1=गद, L=16924
गद¦ व्यक्तभाषणे भ्वा० पर० सक० सेट् । गदति अगादीत्-
अगदीत् जगाद । गदितं गदः । गद्यं निगाद्यम् ।
प्रणिगदति + प्रण्यगदत् । “जगादाग्रे गदाग्रजम्” माघः ।
“यश्च सायं सदा चैवं श्लोकमेक जगाद ह” भा० व०
६७ अ० । “अथ जगदुरनीचैराशिषस्तस्य विप्राः” भट्टिः ।
“शुद्धान्तरक्ष्या जगदे कुमारी” रघु । “अन्तर्वाष्पभरो-
परोधि गदितम्” शकु० । “विस्तरात् गदते मम”
देवीमा० ।
[Page2516-b+ 38]
नि + नितरां कथने । “निगदामि यथा युक्तं पुराणाश्रयसें
युतम्” भा० आ० ५ अ० । “पौरा निवर्त्तध्वमिति न्य-
गादीत्” भट्टिः । “मखांशभाजां प्रथमो मनीषि-
भिस्त्वमेव देवेन्द्र! यदा निगद्यसे” रघुः । “न नैषध
कार्य्यमिदं निगाद्यम्” नैष० । भावे वा अप् । निगादः
निगदः । चतुर्थ्यन्ततयोच्चारणे च । “प्रतिनिगद्य होमः”
कात्या० श्रौ० ६, १०२६ । “देवतां प्रति निगद्य देवतापदं
चतुर्थ्यन्यमुच्चार्य्य स्वाहाकारेण होमः” कर्कः ।
प्रति + प्रत्युत्तरकथने । “आभिर्गाथाभिरव्यग्रः प्रश्नं प्रति-
जगाद ह” भा० आनु० ३२४ अ० ।
वि + विरुद्धोक्तौ । “न हि निम्बात् स्रवेत् क्षौद्र लोके वि-
गदितं वचः” रामा० अयो० ३५ अ० ।


skd

k1=गद, L=10448
गद¦, त् क अभ्रध्वनौ । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-अकं-सेट् ।) अभ्रध्वनौ मेघकर्त्तृक-
शब्दे । गदयति मेघः । इति दुर्गादासः ॥


k1=गद, L=10449
गद¦, भाषे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) गदति । सारङ्गं कतिचिच्च संजगदिरे
इति गणकृतानित्यत्वात् । इति दुर्गादासः ॥


Match 0269: vcp=गन्ध, skd=गन्ध

vcp

k1=गन्ध, L=16955
गन्ध¦ अर्द्दने (हिंसायाम्) गत्यां भूषणे च चुरा० आ० सक० सेट् ।
गन्धयते अजिगन्धत । गन्धनम् “गन्धनक्षेपणसेवन
साहसिक्यप्रतियत्नकथनोपयोगेषु कृञः” पा० “गन्धगं
हिंसनम्, गन्धनाङ्गे उपयमे तु” इति च सि० कौ० ।
“गन्धनाङ्गे सूचनार्थे इत्यर्थः । तेन सूचनार्थेऽपि ।


skd

k1=गन्ध, L=10473
गन्ध¦, क ङ द्रुहि । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) क ङ, गन्धयते । द्रुहि
हिंसायाम् । गतिहिंसायाचनेष्विति रमानाथः ।
इति दुर्गादासः ॥


Match 0270: vcp=गम, skd=गम

vcp

k1=गम, L=17098
गम¦ गतौ भ्वा० पर० अनिट् । गच्छति ऌदित् अगमत् ज-
गाम जग्मतुः । गन्ता गम्यात् गमिष्यति । गन्ता गमी
गम्यः गन्तव्यः गमनीयः गच्छन् गतं गतः गतिः गन्तुम्
गत्वा आगत्य । हृदयङ्गमः । जग्मिवान् । कर्मणि गम्यते
अगमि गम्यमानः । णिच् । गमयति ते अजीगमत् ते ।
सन् जिगमिषति संजिगांसते । यङ् जङ्गम्यते । यङ्लुक्
जङ्गमीति--जङ्गन्ति । जङ्गमम् । “क्षीदीयानपि गच्छति” माघः
“गच्छति पुरः शरीरम्” शकु० “तेन गच्छन् न रिष्यति”
मनुः । “न गणस्याग्रतो गच्छेत्” हितो० । “जगाम
गहनं वनम्” देवीमा० । “तत्र निश्चित्य कन्दर्पमगमत्
पाकशासनः” कुमा० । “गतं तिरश्चीनमनूरुसारथेः”
माघः । “क्रोशार्द्धं प्रकृतिपुरःसरेण गत्वा” रघुः ।
“अगम्यां च स्त्रियं गत्वा” स्मृतिः ।
अच्छ + आभिमुख्ये गच्छगत्य अभिमुखं गत्वा ।
अति + अतिक्रम्य उत्कृष्य वा गमने । “ततो दशाहेऽति-
गते कृतशौचो नृपात्मजः” रामा० अयो० ७७ । १ ।
“चिन्तामतिजगाम ह” भा० शल्य० ४७ अ० । अति-
क्रमार्थे नास्य गतित्वम् अतिगत्वा ।
वि + अति + विशेषेणातिक्रम्य गतौ “कथमर्ज्जुन! कालोयम्
स्वर्गे व्यतिगमस्तव” भा० व० १६७ अ० ।
अधि + प्राप्तौ । “अधिगत्य जगत्यधीश्वरात्” नैष० । यथा
“खनन् खनित्रेण नरो वार्य्यधिगच्छति” मनुः ।
“विशेषं नाधिगच्छामि निर्द्धनस्यावरस्य च” भा० शा०
२२६ श्लो० । “वेदार्थानधिगच्छेच्च शास्त्राणि विवि-
धानि च” याज्ञ० ।
[Page2532-b+ 38]
सम् + अधि + सम्यक् प्राप्तौ । “यत्ते समधिगच्छन्ति यस्यैते तस्य
तद्धनम्” मनुः ।
अनु + प्राप्तौ पश्चाद्वमने अनुकरणे च । “तत् पापं शतधा
भूत्वा तद्वक्तृननुगच्छति” स्मृतिः “श्रुतेरिवार्थं स्मृतिरन्व-
गच्छत्” रघुः । “अनुगतनयमार्गामर्गलां दुर्नयस्य” माघः ।
अन्तर् + व्यबधाने गतौ मध्यगतौ च । “भानौ यज्ञादन्तर्गतः”
शत० ब्रा० १ । ६ । १ । १ । “अन्तर्गता मदनवह्निशिखावली या”
उद्भटः ।
अप + अपाये विश्लेषजनकक्रियायाम् । “सा कन्यापजगामाथ
समीपात्तस्य धीमतः” भा० द्रो० ५४ अ० ।
अपि + स्वकारणादौ प्रवेशे “असुंवागपिगच्छतु” अथ० २ । १२ । ८ ।
अभि + आमिमुख्येन गतौ । “अनुरागाद्वने रामं दिष्ट्या त्वम-
भिगच्छसि” रामा० अयो० २ अ० । सम्यग्गतौ च
“अभिगन्तास्मि भगिनीं मातरं च तवेति च” याज्ञ० ।
अव + बोधे, “यदावगच्छेदायत्यामनिष्टं ध्रुवमात्मनः” मनुः ।
प्राप्तौ च “कुतो युद्धं जातु नरोऽवगच्छेत्” भा०
उ० ७४० श्लो० ।
आ + पश्चाद्देशविभागपूर्वकगतौ । “आगत्य विल्वशाखायां
चण्डिके! कुरु सन्निधिम्” दुर्गावाहनमन्त्रः । “धनुषोऽभ्या-
समागत्य” भा० आ० १८७ अ० । “आगता वत जरेव हि-
मानी सेव्यतां सुरतरङ्गिणी” उद्भटः । बोधे “आगमो
निष्फलस्तत्र भुक्तिस्तोकापि यत्र नो” । आ + गम-
णिच् । क्षमायां प्रतीक्षायाञ्च आत्म० “यावदागम-
यतेऽथ नरेन्द्रान्” नैष० । आगमयते कालम् । “कर्म्मा-
दिषु सर्वेषु अध्यर्य्युः संप्रेषमागमयेत” लाट्या० श्रौ ४ । ९ । ८ ।
अधि + आ + प्राप्तौ “नाध्यागमच्च मृगयंस्तां गां मुनि-
रुदारधीः” भा० आ० ९९ अ० ।
अनु + आ + अनुकृतौ सम्यग्गतौ पश्चाद्गतौ प्रत्यागतौ
च “अन्वागतो यज्ञपतिर्वो अभ्रमत” यजु० १८ । ५९ ।
“अन्वागतो कर्म्मसमाप्तौ भवतः प्रत्यागमिष्यति” वेददी० ।
सम्बन्धे च । “किञ्चित् पश्यत्यनन्वागतः” शत० ब्रा०
१४ । ६ । १ । १७ । “अनन्वागतः अननुबद्धः” भा० ।
अभि + आ + आभिमुख्येनागतौ “सर्वत्राभ्यागतो गुरुः” मनुः
सम्यगागतौ “क्रमादभ्यागत द्रव्यम्” याज्ञ० । प्राप्तौ च
उप + आ + समीपागतौ “वनादारादुपागतः” रामा० ।
“तपोनिधिं वेत्सि न मामुपगातम्” शकु० । उपस्थितौ
अक० । “कथमापदुपागता” भा० स० २६०९ अ० ।
प्रति + आ + परावृत्यागमने (यतो गतिस्तत्र पुनरागतौ) “र-
[Page2533-a+ 38]
णात् प्रत्यागतं शूरं भार्य्याञ्च गतयौवनाम्” चाण० ।
“प्रत्यागतश्चेव पुनस्तथैव” प्रा० त० ।
उद् + ऊर्द्धगतौ उत्थाने अक० । “इत्युद्गताः पौरबधूमु-
खेभ्यः शृण्वन् कथाः” रघुः । उद्गमः । उत्क्रम्य गतौ
च “ऊर्द्ध्वं प्राणा ह्युद्गच्छन्ति यूनः स्थविर आयति” मनुः ।
अभि + आ + आभिमुख्येनागमने । “अभ्युद्गतास्त्वा वयमद्य
सर्वे” भा० आ० ८८ अ० ।
प्रति + उद् + प्रतिलक्ष्यीकृत्य उत्थाने अक० । “तमागतभभिप्रेक्ष्य
प्रत्युद्गम्य परन्तपाः” भा० आ० १६९ अ० । (आगवाडा)
गतिभेदे सक० । “प्रत्युज्जगामातिथिमातिथेयः” । “प्रत्यु-
द्गतमिवामुष्णैः” “प्रत्युद्गता पार्थिवधर्मपत्न्या” रघुः
“प्रत्युज्जगामागमनप्रतीतः” कुमा० ।
उप + समीपगमने । “ग्रहास्तमुपच्छन्ति सारमेया इवा-
मिषम्” “सदनमुपगतोऽहं पूर्वमम्भोजयोनेः” प्रबोधच० ।
“सुप्तां मत्तां प्रमत्तां वा रहोयत्रोपगच्छति” मनुः ।
प्रतिज्ञायाम् उपगमः ।
अभि + उप + प्रतिज्ञायाम् स्वीकारे च । “वयमभ्युपगच्छाम
कृष्णेण त्वां प्रधर्षितम्” हरिवं० ३ अ० । अभ्युपगमः ।
आभिमुख्येन समीपगतौ च “गरूमभ्युपगच्छन्ति यशसेऽ-
र्थाय भाविनि!” भा० १२४ अ० ।
नि + नियमेन प्राप्तौ । “हिते मित्रे निगतान् हन्ति वी-
रान्” ऋ० १० । १३२ । ५ । “निगतान् हननाय नियमेन
प्राप्तान्” भा० । णिच् । निश्चयेन बोधेने च निगमो वेदः ।
निगमकल्पतरोर्गलितं फलम्” भाग० १ । १ । ३ । उक्त-
स्यार्थस्योपसहारे च निगमनशब्द विवृतिः ।
निर् + निष्क्रमणे । “अधिविन्ना तु या नारी निर्गच्छे-
द्रुषिता गृहात्” मनुः । विशेषेण प्राप्तौ च । “पुरुषाः
प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः” भा० व० २५८ अ० ।
परा + परावृत्य गमने परिगतौ च । “यद्वै मनः परागतं
यद्बद्धमिह वेह वा” अथ० ७ । १२ । ४ । “विद्यया तत्रा-
रोहन्ति यत्र कामाः परागताः” शत० ब्रा० १० । ५ । ४ । १६ ।
व्याप्तौ च । “स्फुटपरागपरागतपङ्कजम्” माघ ।
परि + परितो गतौ “यथा हि मेरुर्भगवता (सूर्य्येण)नित्यशः
परिगम्यते” भा० व० २०४ अ० । वेष्टने च “अथ स वल्क-
दुकूलकुथादिभिः परिगतोज्ज्वलदुद्धतबालधिः” भट्टिः ।
प्रति + वैपरीत्येन गतौ (यत आगतिस्तत्रैव गमने) “भवतु
प्रतिगमिष्यामस्तावत्” शकु० “अधीतां योगहीनस्य विद्यां
प्रतिगतामिव” रामा० सुन्द० १८ अ० ।
[Page2533-b+ 38]
वि + विशेषेण गतौ विच्छेदे विगमे च । “अवनितलविगतैश्च
भूतसंघैः” भा० द्रो० ३७ अ० । “ततो निशा साव्यगम-
न्महात्मनाम्” भा० आश्व० ६४ अ० । “श्रद्धा च नो मा-
विगमत्” मनुः । “रुचिभर्त्तुरस्य विरहाधिगमा-
दिति सन्ध्ययापि सपदि व्यगमि” माघः ।
सम् + सङ्गे अक० आ० । “यत्र देवाः समगच्छन्त विश्वे” ऋ०
३० । ८२ । ६ । “मङ्गच्छस्व मया सार्द्धमेकेनैकनराशन!” भा०
अयो० १५३ अ० । “जले स्थले चान्तरीक्षे गङ्गासागर-
सङ्गमे” प्रा० त० । “परमं भगवन्नेवं संगमिष्ये त्वया सह”
भा० व० ३०६ अ० । “दिष्ट्या मे सङ्गतं यथा” भा०
सम्यग्गतौ पर० सक० । “सङ्गच्छ पोंस्नि! स्तैणं माम्”
भट्टिः । गमेः कर्म्मविशेषे उपपदे कर्त्तरि ख । तुरङ्गमः
हृदयङ्गमः भुजङ्गमः इत्यादि । उरआदिषु उपपदेषु ड ।
उरगः भुजगः तुरगः हृद्गः अन्तग इत्यादि ।


skd

k1=गम, L=10610
गम¦, औ ऌ गत्याम् । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-अनिट् ।) औ, गन्ता । ऌ, अग-
मत् । गतिरुत्तरदेशसंयोगफलकव्यापारः । इति
दुर्गादासः ।


Match 0271: vcp=गम्ब, skd=गम्ब

vcp

k1=गम्ब, L=17105
गम्ब(न्ब)¦ गतौ भ्वा० पर० सक० सेट् । गम्बति अगम्बीत्
जगम्ब । नोपधत्वे क्विपि गनौ गनः । मोपधत्वे गमौ
गम इति भेदः ।


skd

k1=गम्ब, L=10617
गम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) गम्बति । इति दुर्गादासः ॥


Match 0272: vcp=गर्ज्ज, skd=गर्ज्ज

vcp

k1=गर्ज्ज, L=17165
गर्ज्ज¦ ऊर्ज्जाहेतुकशब्दे भ्वा० षर० अक० सेट् । गर्ज्जति ।
अगर्जीत् जगर्ज । गर्जितम् । गर्जनं गर्जः । गर्जन् ।
गर्ज्जा । “गर्ज गर्जक्षणं मूढेति” देवीमाहात्म्यम् । “शरदि
गर्जति, न वर्षति, वर्षति वर्षासु निःस्वनो मेघः” उद्भटः ।
“कुम्भकर्ण स्ततोऽगर्जीत्” “गर्ज्जन् हरिः साम्भसि
शैलकुञ्जे” भट्टिः । “योधानां चैव गर्जताम्” भा०
[Page2546-b+ 38]
भी० ६७८ श्लो० । “नाम संश्रावयामास जगर्ज च
ननाद च” रामा० सु० ८९ । शीलार्थे चानश् ।
गर्जमानः । “तथात्र गर्जमाने तु मेघदुन्दुभिनिस्वनम्”
भा० आ० २० अ० । “सन्ध्ययां गर्जिते मेघे शास्त्रचिन्तां
करोति यः । चत्वारि तस्य नश्यन्ति आयुर्विद्यायशो-
बलम्” स्मृतिः । “माधादिचतुरो मासान् गर्जमात्रं
विवर्जयेत्” स्मृतिः ।
अनु + गर्गनप्रतिरूपगर्जने । “अनुगर्जितसन्दिग्धाः करणै-
र्मुरजस्वना” कुमा० । अनुरूपगर्जने च । “सोऽनुगर्जन्
धनुष्पाणिः” भा० द्रो० ४० अ० ।
अभि + अभिलक्ष्य गर्जने सक० । “दुःशासनस्तामभिगर्ज-
मानः” भा० स० ६५ अ० । ताच्छील्ये चानश् । “शार्दूलाविव
चानन्योन्यमामिषार्थेऽभ्यगर्जताम्” भा० द्रो० १३३ अ० । सम्य-
ग्गर्जने अक० । “शूराणाञ्चाभिगर्जताम्” भा० क० २१ अ०
प्रति + प्रतिरूपगर्जने अक० । “वलवच्चापि संक्रुद्धावन्योन्यं
प्रतिगर्जताम्” भा० वि० २२ अ० । आर्षः पदव्यत्ययः ।
“प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः” भा०
उ० ५० अ० “सुहृदयोहृदयः प्रतिगर्जताम्” रघुः ।
प्रतिलक्ष्यीकृत्य गर्जने सक० । “ऋषीणां कदनं कृत्वा
नामपि प्रतिगर्जति” हरिवं ४९ अ० ।


k1=गर्ज्ज, L=17166
गर्ज्ज¦ रवे चुरा० उभ० अक० सेट् । गर्ज्जयति ते अजग-
र्जत्--त! गर्जयां बभूब आस--चकार चक्रे । गर्जयत्
गर्जयमानः ।


skd

k1=गर्ज्ज, L=10658
गर्ज्ज¦, ऊर्ज्जाशब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) ऊर्ज्जा बलम् । सेमक्तात् सरोरिति
अः तत्करणकशब्दः । गर्ज्जति सिंहः । इति
दुर्गादासः ॥


k1=गर्ज्ज, L=10659
गर्ज्ज¦, क स्वने । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) क, गर्ज्जयति । इति दुर्गादासः ॥


Match 0273: vcp=गर्द्द, skd=गर्द्द

vcp

k1=गर्द्द, L=17177
गर्द्द¦ रवे वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् । गर्द्द-
यति--ते गर्दति अजगर्दत्--त अगर्दीत् । गर्द्दयाम् बभूव
आस चकार चक्रोजक्रे जगर्द्द ।


skd

k1=गर्द्द, L=10670
गर्द्द¦, कि रवे । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे-भ्वां-परं-अकं-सेट् ।) कि, गर्द्दयति गर्द्दति ।
रवः शब्दः । इति दुर्गादासः ॥


Match 0274: vcp=गर्ब, skd=गर्ब्ब *

vcp

k1=गर्ब, L=17190
गर्ब¦ गतौ भ्वा० पर० सक० सेट् । गर्बति अगर्बीत् जगर्ब ।


k1=गर्ब, L=17191
गर्ब¦ दर्पे अद० चुरा० आत्म० अक० सेट् । गर्बयते अजगर्बत ।
गर्बः । गर्बितः । “तदग्रसारगर्बितकृष्णसारम्” रघुः ।


skd

k1=गर्ब्ब, L=10684
ग(र्व्व)र्ब्ब¦, त् क ङ दर्पे । इति कविकल्पद्रुमः ॥
(अदन्त चुरां-आत्मं-अकं-सेट् ।) दर्पोऽहङ्कारः ।
ङ, गर्व्वयते गर्व्वापयते धनैर्नीचः । इति दुर्गा-
दासः ॥


k1=गर्ब्ब, L=10685
ग(र्व्व)र्ब्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) गर्व्वति । इति दुर्गादासः ॥


Match 0275: vcp=गर्व, skd=गर्व्व *

vcp

k1=गर्व, L=17248
गर्व¦ महे भ्वा० पर० सक० सेट् । गर्वति अगर्वीत् । जगर्व ।
गर्वितः । गर्वः । “खर्वे! गर्वसमूहपूरिततनो!” तारास्तवः ।


skd

k1=गर्व्व, L=10717
गर्व्व¦, मदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) मद इह अहङ्कारः । नीचो गर्व्वति
सम्पदा । इति दुर्गादासः ॥


Match 0276: vcp=गर्ह, skd=गर्ह

vcp

k1=गर्ह, L=17252
गर्ह¦ निन्दायां वा चुरा० पक्षे भ्वा० आत्म० सक० सेट् । गर्हयते
गर्हते अजगर्हत अगर्हिष्ट । गर्हयाञ्चक्रे जगर्हेःगर्हहणा
“न गर्हयेयुरस्मान् वै पाण्डवार्थाय कर्हिचित्” भा० आ०
५७३० श्लो० । “गर्हयन्तोऽस्य साहसम्” भा० व० १८१ अ०
पदव्यत्यय आर्षः । उपसर्गपूर्वकस्तु तद्द्योत्यार्थयुक्ते
निन्दने । “विगर्हितं धर्म्मधनैर्निवर्हणम्” नैष० ।


k1=गर्ह, L=17253
गर्ह¦ कुत्सायां भ्वा० आ० सक० सेट् । गर्हते अगर्हिष्ट
जगर्ह गर्हणम् गर्हितः गर्हा । “स एव धर्म्मो राज्ञां ।
तु तद्वितं किन्नु गर्हणम्” भा० आ० ११८ अ० । “केचि-
द्भीष्मं जगर्हिर” भा० स० ४३ अ० । “न कुत्सयाम्यहं
किञ्चिन्न गर्हे बलवत्तरम्” र० २०६ अ० । “विषमां च
दशां प्राप्तो देवान् गर्हति वै भृशम्” २०८ अ० । आर्षः
पदव्य ययः । “गर्हितान्नस्य जग्विः” मनुः ।


skd

k1=गर्ह, L=10721
गर्ह¦, ङ कुत्सने । इति कविकल्पद्रुमः । (भ्वां-आत्मं-
सकं-सेट् ।) रेफोपधः । ङ, गर्हते । कुत्सनं
निन्दा । इति दुर्गादासः ॥ (यथा, रामयणे ।
२ । ८२ । १० ।
“स वाष्पकलया वाचा कलहंसस्वरो युवा ।
विललाप सभामध्ये जगर्हे च पुरोहितम् ॥”)


k1=गर्ह, L=10722
गर्ह¦, कि कुत्सने । इति कविकल्पद्रुमः ॥ (चुरां
पक्षे भ्वां-परं-सकं-सेट् ।) कि, गर्हयति गर्हति ।
इति दुर्गादासः ॥ (यथा, भागवते । ६ । ७ । १० ।
“गर्हयामास सदसि स्वयमात्मानमात्मना ॥”
तथा, तत्रैव । ४ । ४ । १० ।
“जगर्ह साऽमर्षविपन्नया गिरा
शिवद्विषं धूमपथश्रमस्मयम् ॥”)


Match 0277: vcp=गल, skd=गल

vcp

k1=गल, L=17257
गल¦ भक्षणे सक० स्राव (गला) अक० भ्वा० पर० सेट् । गलति अ-
गालीत् । “निर्गलिताम्बु गर्भम्” रघुः । “गलितं त्वरावि-
रहितासनयाः” माघः “प्राक्शोकनिर्गलितनेत्रपयः-
प्रवाहान्” नैष० । “विपक्षे गलितादरौ” “पर्य्या-
गलदच्छविन्दुः” “मुषलाद्यगलत्ततः” भट्टिः ।
“प्रच्छदात्तयलितास्रविन्दुभिः” । “विगाह्यमानो गलि-
ताङरागैः” रघुः ।


k1=गल, L=17258
गल¦ क्षारणे (गालान) चुरा० आत्म० सक० सेट् । गालया
अजीगलत गालयाञ्चक्रे । गालः । गालितः । “पङ्क
गोमूत्रगलितम्” चक्रदत्तः ।


skd

k1=गल, L=10728
गल¦, भक्षे । सावे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-स्रावे अकं-सेट् ।) गलति । इति दुर्गा-
दासः ॥ (स्रावार्थे यथा, कथासरित्सागरे ।
११ । ५७ ।
“इति मे तव कल्याणमपश्यन्त्या गलन्त्यमी ।
सन्तापक्वथिताः प्राणा इव वाष्पाम्बुबिन्दवः ॥”)


k1=गल, L=10729
गल¦, क ङ स्रावे । इति कविकल्पद्रुमः ॥ (चुरां
आत्मं-अकं-सेट् ।) स्रावः । क्षरणम् । क ङ,
गालयते रक्तं क्षतस्य । इति दुर्गादासः ॥


Match 0278: vcp=गल्भ, skd=गल्भ

vcp

k1=गल्भ, L=17289
गल्भ¦ धार्ष्ट्ये (प्रागल्भ्ये) भ्वा० आ० सक० सेट् । गल्भते
अगल्भिष्ट जगल्भे । “या कथञ्चन सखीवचनेन प्राग-
भि प्रियतमं प्रजल्भे” माघः । गल्भ + च्व्यर्थे क्यङ् गल्-
भायते अगल्भायिष्ट ।


skd

k1=गल्भ, L=10748
गल्भ¦, ङ धृष्टत्वे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) अन्तःस्थतृतीयोपधः । ङ,
गल्भते लोकः प्रगल्भः स्यादित्यर्थः । इति
दुर्गादासः ॥


Match 0279: vcp=गल्ह, skd=गल्ह

vcp

k1=गल्ह, L=17295
गल्ह¦ कुत्सने भ्वा० आ० सक० सेट् । गलहते अगल्हिष्ट
जगल्हे ।


skd

k1=गल्ह, L=10753
गल्ह¦, ङ कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) अन्तःस्थतृतीयोपधः । ङ,
गल्हते । इति दुर्गादासः ॥


Match 0280: vcp=गह, skd=गह

vcp

k1=गह, L=17345
गह¦ गहने अद० चुरा० उभ० सेक० सेट् । गहयति ते अ-
जगहत् त । गहनं दुर्वोधः दुष्प्रवेशो दुर्गमश्च ।


skd

k1=गह, L=10783
गह¦, त् क गहने । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) गहनं दुर्ब्बोधः । गह-
यति शास्त्रं जडधीः । दुःखेन जानातीत्यर्थः ।
इति दुर्गादासः ॥


Match 0281: vcp=गा, skd=गा

vcp

k1=गा, L=17350
गा¦ गतौ सक० भ्वा० आ० अनिट् । गाते अगास्त जगे ।


k1=गा, L=17351
गा¦ स्तुतौ सक० जन्मनि अक० जुहो० वैदिकोऽयं धातुः सार्वधातुके
अभ्यासस्येत्त्वञ्च । जिगाति अगासीत् । जगौ । “सोमो-
जिगाति गातुविद्” ऋ० ३ । ६२ । १३ । “जरितुः सचा
यज्ञो जिगाति चेतनः” ३ । १२ । २ । “स्वेषु क्षयेषु प्रथमो-
जिगाति” १० । ८ । २ । इङादेशस्य इणादेशस्य च गाते
रूपं तत्तद्धातौ उक्तम् ।


skd

k1=गा, L=10790
गा¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-सेट् ।) ङ, गाते । इति दुर्गादासः ॥


k1=गा, L=10791
गा¦, र लि स्तुतौ । जन्मनि । इति कविकल्पद्रुमः ॥
(ह्वां-परं-सकं-सेट् ।) र, वैदिकः । लि,
जगाति । इति दुर्गादासः ॥


Match 0282: vcp=गात्र, skd=गात्र

vcp

k1=गात्र, L=17384
गात्र¦ शैथिल्ये अद० चु० आत्म० अक० सेट् । गात्रयते अज-
गात्रत । गात्रयाम्--बभूव आस चक्रे ।


skd

k1=गात्र, L=10815
गात्र¦, त् क ङ शैथिल्ये । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-आत्मं-अकं-सेट् ।) दन्त्यवर्गमध्यः ।
ङ, गात्रयते गात्रापयते । इति दुर्गादासः ॥


Match 0283: vcp=गाध, skd=गाध

vcp

k1=गाध, L=17403
गाध¦ प्रतिष्ठायां अक० ग्रन्थने लिप्सायाञ्च सक० भ्वा० आत्म०
सेट् । गाधते अगाधिष्ट । जगाधे । ऋदित् चङि
अह्रस्वः । अजगाघत्--त । गाधः । “अगाधत तती व्योम
“गाधितासे नभो भूयः” भट्टिः ।


skd

k1=गाध, L=10825
गाध¦, ऋ ङ प्रतिष्ठायाम् । ग्रन्थे । लिप्सायाम्
इति कविकल्पद्रुमः । (भ्वां-आत्मं-प्रतिष्ठायां
सकं-अन्यत्र अकं-सेट् ।) ऋ, अजगाधत् ।
ङ, गाधितासे नभो भूय इति भट्टिः । गाधते
मालिकः स्रजः । इति दुर्गादासः ॥


Match 0284: vcp=गाह, skd=गाह

vcp

k1=गाह, L=17476
गाह¦ विलोडने भ्वा० आत्म० सक० ऊदित् वेट् । गाहते
अगाहिष्ट--अगाढ जगाहे । “मनस्तु मे संशयमेव
गाहते” कुमा० । “अगाहताष्टादशतो जिगीषवा”
नेष० । “जगाहिरेऽम्बुधिं नागाः” । “समगाहिष्ट
चांम्बुधिम्” “जगाहे द्यां निशाचरः” “जगाहे च
दिशो दश” भट्टिः । “ब्रह्मावर्त्तं जनपदमधश्छायया
गाहमानः” मेघ० । “पूर्वापरौ तोयनिधी व-
गाह्य” कुमा० अवाऽल्लोपः । पक्षे अवगाह्य । “तप-
स्विगाढां तमसाम्” (प्राप) रघुः । अब + विषयीकरणे च ।
“पक्षे साध्यावगाहि ज्ञानम्” गदा०


skd

k1=गाह, L=10876
गाह¦, ऊ ङ विलोडने । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-सकं-सेट् ।) ङ, गाहन्तां महिषा
निपानसलिलमिति शाकुन्तले । ऊ, अगाहिष्ट
अगाढ । इति दुर्गादासः ॥


Match 0285: vcp=गु, skd=गु

vcp

k1=गु, L=17575
गु¦ ध्वनौ अव्यक्तशब्दे भ्वा० आत्म० अक० अनिट् । गवते अ-
गोष्ट । जुगुवे । “उपो वेनस्य जोगुवानः” ऋ० १ । ६१ ।
१४ । गुङ् अव्यक्ते शब्दे अस्मात् यङ्लुकि पदव्यत्ययेन
शानच” भा० । “विश्वासूक्ष्मासु जोगुवे” ऋ० ५ । ६
४ । २ । “जोगुवे शब्दयामीति” भा० पूर्ववत् पदव्यत्ययः ।


k1=गु, L=17576
गु¦ विष्ठोत्सर्गे तुदा० कुटा० पर० अक० अनिट् । गुवति अगुत
ओदित् क्त तस्य नः “दुग्वोर्दीर्घश्च” पा० दीर्घः गूनः ।


skd

k1=गु, L=10935
गु¦, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-अनिट् ।) ङ, गवते । इति दुर्गादासः ॥


k1=गु, L=10936
गु¦, शि ओ विष्ठोत्सर्गे । इति कविकल्पद्रुमः ॥
(तुदां-(कुटां)-परं-अकं-अनिट् ।) शि, गुवति
अगुवीत् । ओ, गुणः । इति दुर्गादासः ॥


Match 0286: vcp=गुज, skd=गुज

vcp

k1=गुज, L=17593
गुज¦ ध्वनौ तुदा० कुटा० पर० अक० सेट् । गुजति अगुजिष्ट
जुगोज । प्रनिगुजति ।


k1=गुज, L=17594
गुज¦ कूजने भ्वा० पर० अक० सेट् । जोजति अगोजीत् । जुगेज ।


k1=गुज, L=17595
गुज¦ कूजने भ्वा० पर० सक० सेट् इदित् । गुञ्जति अगुञ्जीत्
जुगुञ्ज गुञ्जितम् गुञ्जः गुञ्जन् । (गुनगुन)
इति ध्वनितमिह कूजनम् । “न जुगुञ्ज यः कल-
मिति” । “न गुञ्जितं तन्न जहार यन्मनः” ।
“रेणून् पुपूरिरे गुञ्जा” जुगुञ्जुः करघट्टिताः” भट्टिः ।
“लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्” “गुञ्जन्
मत्तमधुव्रतः” सा० द० ।


skd

k1=गुज, L=10957
गुज¦, कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) पञ्चमस्वरी । गोजति । कूजन-
मव्यक्तशब्दः । इति दुर्गादासः ॥


k1=गुज, L=10958
गुज¦, इ कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) पञ्चमस्वरी । इ, कर्म्मणि गुञ्ज्यते ।
कूजनमव्यक्तशब्दः । गुञ्जति भ्रमरः कुञ्जे । इति
दुर्गादासः ॥


k1=गुज, L=10959
गुज¦, शि ध्वनौ । इति कविकल्पद्रुमः ॥ (तुदां-
(कुटां)-परं-अकं-सेट् ।) शि, गुजति अगु-
जीत् जुगोज । इति दुर्गादासः ॥


Match 0287: vcp=गुठ, skd=गुठ

vcp

k1=गुठ, L=17603
गुठ¦ वेष्टने चुरा० उभ० इदित् सक० सेट् । गुण्ठयति--ते
अजुगुण्ठत्--त । गुण्ठितः गुण्ठनम् । “प्रतिपद्य पदा
सूनुर्धरणीरेणुगुण्ठितः” भा० आ० ७४ अ० । “अग्नि-
होत्रं त्रयोवेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुष-
होनानां जीविकेति वृहस्पतिः” सर्वद० । अव + समन्तात्-
वेष्टने । “रजनीतिमिरावगुण्ठिते पुरमार्गे” कुमा० ।


skd

k1=गुठ, L=10968
गुठ¦, इ क वेष्टे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) ह्रस्वी । इ क, गुण्ठयति अजु
गुठत् । इति दुर्गादासः ॥


Match 0288: vcp=गुड, skd=गुड

vcp

k1=गुड, L=17604
गुड¦ वेष्टने रक्षणे चूर्णने च चुरा० उभ० इदित सक० सेट् ।
गुण्डयति--ते अजुगुण्डत्--त । गुण्डः गुण्डिता ।
गुण्डनं गुण्डा ।


k1=गुड, L=17605
गुड¦ रक्षणे व्याषात च तुदा० कटा० पर० सक० सेट् । गुडति । अगुडोत । जुगोड ।


skd

k1=गुड, L=10969
गुड¦, इ क वेष्टे । रक्षे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) पञ्चमस्वरी । इ क,
गुण्डयति । अनेकार्थत्वाच्चूर्णीकरणेऽपि । गुण्ड-
यति हिङ्गुलं लोकः । इति दुर्गादासः ॥


k1=गुड, L=10970
गुड¦, शि रक्षे । व्याघाते । इति कविकल्पद्रुमः ॥
(तुदां-(कुटां)-परं-सकं-सेट् ।) शि, गुडति
अगुडीत् । इति दुर्गादासः ॥


Match 0289: vcp=गुण, skd=गुण

vcp

k1=गुण, L=17642
गुण¦ आमन्त्रणे आम्रेडने आवृत्ता इत्येकं अद० चु० उभ० सक०
सेट् । गुणयति--ते अजुगुणत्--त । “गुण्यान्त्यमङ्कं
गुणकेन हन्यात्” । “विषमे गच्छे व्येके गुणकः
स्थाप्यः समेऽर्द्धिते वर्गः” “गुण्यः पृथग्वा गुणित-
समेतः” लीला० । “वर्गेण वर्गं गुणयेत् भजेच्च” वीजग०


skd

k1=गुण, L=10999
गुण¦, त् क मन्त्रणे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरां-परं-सकं-सेट् ।) ह्रस्वी । मूर्द्धन्योपधः ।
गुणयति । इति दुर्गादासः ॥


Match 0290: vcp=गुद, skd=गुद

vcp

k1=गुद, L=17702
गुद¦ खेले भ्वा० आत्म० अक० सेट् । गोदते अगोदिष्ट ।
जुगुदे । गुदम् ।


skd

k1=गुद, L=11038
गुद¦, ङ खेलने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) ङ, गोदते । इति दुर्गादासः ॥


Match 0291: vcp=गुद्र, skd=गुद्र

vcp

k1=गुद्र, L=17714
गुद्र¦ मिथ्याकथने चुरा० उभ० सक० सेट् इदित् । गुन्द्रयति
अजुगुन्द्रत्--त । गुन्द्रयां--बभूव आस चक्रे । गुन्द्रा ।


skd

k1=गुद्र, L=11045
गुद्र¦, इ क कुन्द्रे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट्-इदित् ।) पञ्चमस्वरी । दन्त्यवर्ग
तृतीयोपधः । कुन्द्रो मिथ्योक्तिः । इ क, गुन्द्र-
यति नीचः मिथ्या वदतीत्यर्थः । गुन्द्र इत्यने-
नैवेष्टसिद्धे इदनुवन्धो वेदेषूच्चारणभेदार्थः । इति
दुर्गादासः ॥


Match 0292: vcp=गुध, skd=गुध

vcp

k1=गुध, L=17715
गुध¦ रोषणे क्य्रा० पर० सक० सेट् । गुध्नाति अगोधीत् ।
जुगोध । सेट्कत्वेऽपि न गुणः गुधित्वा । गुत्सः ।


k1=गुध, L=17716
गुध¦ क्रीडे भ्वा० आत्म० अक० सेट् । गोधते अगोधिष्ट । जुगुधे


k1=गुध, L=17717
गुध¦ वेष्टने दिवा० पर० सक० सेट् । गुध्यति अगोधीत् ।
जुगोध गुधित्वा ।


skd

k1=गुध, L=11046
गुध¦, ग रुषि । इति कविकल्पद्रुमः ॥ (क्य्रां-परं-
अकं-सेट् ।) ग, गुध्नाति । जुगोध । इति दुर्गा-
दासः ॥


k1=गुध, L=11047
गुध¦, ङ क्रीडे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) ङ, गोधते । इति दुर्गादासः ॥


k1=गुध, L=11048
गुध¦, य वेष्टे । इति कविकल्पद्रुमः ॥ (दिवां-परं-
सकं-सेट् ।) य, गुध्यति । जुगोध । इति दुर्गा-
दासः ॥


Match 0293: vcp=गुन्फ, skd=गुन्फ

vcp

k1=गुन्फ, L=17723
गुन्फ¦ ग्रन्थे तु० प० सक० सेट् । गुम्फति अगुम्फीत् । जु-
जुम्फ । गुम्भन् गुफितः गुम्भित्वा--गुफित्वा । नोपध
त्वात् क्विपि गुन् गुनौ इत्यादि ।


skd

k1=गुन्फ, L=11055
गुन्फ¦, श ग्रन्थे । इति कविकल्पद्रुमः ॥ (तुदां
परं-सकं -सेट् ।) पञ्चमस्वरी । श, गुम्फति मालां
मालिकः । जुगुम्फ । इति दुर्गादासः ॥


Match 0294: vcp=गुप, skd=गुप

vcp

k1=गुप, L=17724
गुप¦ गोपने सक० आत्म० सेत् कुत्सने स्वार्थे सन् अनिट्
कुत्सनमिह कुत्सापूर्वकनिवृत्तिस्तत्र अक० निन्दनञ्च तत्र
सक० । पापात् जुगुप्ससते अगुप्सीष्ट । जुगुपसां
[Page2612-b+ 38]
बभूव आस चक्रे जुगुप्सितः । गोपने गोपते अगो
पिष्ट जुगुपे । “आद्विधानैर्गुपितो वार्हतैः मोक्षरक्षितः
ऋ० १० । ८५ । १ । “तथा राष्ट्रं गुपितं क्षत्रियस्य”
१० । १०९ । ३ । तत्र निन्दार्थत्वे “जुगुप्सेरन्न चाप्ये-
नम् संवसेयुश्च सर्वशः” मनुः “यदा बुध्यति बोद्धव्यं
लोकवृत्तं जुगुप्सते” भा० व० ३११ अ० ।


k1=गुप, L=17725
गुप¦ रक्षणे भ्वा० सक० पर० वेट् स्वार्थे सार्वधातुके नित्य-
मायः आर्द्धधातुके वा । गोपायति अगोपायीत् अगोपीत्
अगौप्सीत् । गोपायाम्--बभूव आस चकार जुगोप ।
गोपायितः गुप्तः । गुप्तिः गोपायनम् गोपनम् । “जु
गोपात्मानमत्रस्नुः” रघुः । “आत्मानं सततं गोपायीत”
श्रुतिः “जुगोप गोरूपधरामिवोर्वीम्” रपुः । “नैनं गोप्स्यति
दुर्बुद्धिमद्य बाणहतं मया” भा० भी० ३८६३ श्लो०
“अगोपिष्टां पुरोलङ्कामगौप्तां रक्षसां बलम्” भट्टिः ।
“यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा” मनुः ।


k1=गुप, L=17726
गुप¦ व्याकुलत्वे दिवा० अक० पर० सेट् इरित् । गुप्यति
अगुपत् अगोपीत् जुगोप । गुपितः ।


k1=गुप, L=17727
गुप¦ भासने चुरा० उभ० अक० सेट् । गोपयति ते अजु-
गुपत् त । गोपयाम् बभूव आस चकार चक्रे । चतुर्ण्णा
गुपधातूनामुदाहरण कविरहस्ये यथा “गोपायति क्षिति
मिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः स-
दैव । वित्तं न गोपयति यस्तु बणीयकेभ्यो धीरो न गु-
प्यति महत्यपि कार्य्यजाते” ।


skd

k1=गुप, L=11056
गुप¦, ऊ रक्षे । इति कविकल्पद्रुमः । (भ्वां-परं-
सकं-वेट् ।) आयन्तत्वादुभयपदमिति वोपदेवः ।
गोपायति गोपायते । अरे तु आयस्याप्राप्ति-
पक्षे परस्मैपदमेव । अगोपीत् । जुगोप गोरूप-
धरामिवोर्व्वीमिति रघुः ॥ ऊ, गोपिष्यति
गीप्स्यति । इति दुर्गादासः ॥


k1=गुप, L=11057
गुप¦, क भासि । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) क, गोपयति । भासि दीप्तौ । इति
दुर्गादासः ॥


k1=गुप, L=11058
गुप¦, ङ गोपनकुत्सयोः । इति कविकल्पद्रुमः ॥
(भ्वां आत्मं-सकं-सेट् ।) गोपनमपह्नवः । ङ,
कङ्कणझनत्कारञ्च किं गोपसे । अत्र त्यादयो न
स्युरिति रमानाथः । कुत्सा । निन्दा । सा जुगुप्सां
प्रचक्रेऽसून् । इति भट्टिः । इति दुर्गा-दासः ॥


k1=गुप, L=11059
गुप¦, य इर् व्याकुलत्वे । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं सकञ्च-सेट् ।) व्याकुलत्वं
व्याकुलीभावस्तत्करणञ्च । य, धीरो न गुप्यति
महत्यपि कार्य्यजाते । इति हलायुधः । गुप्यति
गा वृष्टिः । आकुलीकरोतीत्यर्थः । इति चतु-
र्भुजः । इर्, अगुपत् अगोपीत् । अस्मात्
पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥


Match 0295: vcp=गुफ, skd=गुफ

vcp

k1=गुफ, L=17735
गुफ¦ ग्रन्थे तुदा० पर० सक० सेट् मुचा० । गुम्फति अगोफीत्
जुगोफ ।


skd

k1=गुफ, L=11067
गुफ¦, प श ग्रन्थे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) पञ्चमस्वरी । प श, गुम्फति
मालां मालिकः । जुगोफ । इति दुर्गादासः ॥


Match 0296: vcp=गुर, skd=गुर

vcp

k1=गुर, L=17741
गुर¦ बधे गत्याञ्च दिवा० आत्म० सक० सेट् । गूर्य्यते अगो-
रिष्ट । जुगोर । ईदित् गूर्ण्णः । गोरणम् ।


k1=गुर, L=17742
गुर¦ उद्यमे तुदा० कुटा० आत्म० अक० सेट् । गुरते अगुरिष्ट
जुगोर गुरणम् ईदित् गूर्णः । वेदे तु नि० गूर्त्त इत्येव ।
“इषो हवो गूर्त्ततमाः” ऋ० १ । १६७ । १ । “गूर्वी रुषसः
शरदश्च गूर्त्ताः” ऋ० ४ । १९ । ८ । “अवगूर्य्य चरेत् कृच्छ्र-
मतिकृच्छ्रं निपातने” स्मृतिः । “यो ब्राह्मणायाव-
गुरेत् तं शतेन यातायात्” श्रुतिः छान्दसः पदव्यत्ययः ।
एवं “न कदाचिद् द्विजे तस्माद्विद्वानवगुरेदपि” मनुः ।


skd

k1=गुर, L=11071
गुर¦, ई य ङ वधे । गत्याम् । इति कविकल्पद्रुमः ॥
(दिवां-आत्मं-सकं-सेट् ॥)


k1=गुर, L=11072
गुर¦, ङ ई शि उद्यमे । इति कविकल्पद्रुमः ॥ (तुदां-
आत्मं-अकं-सेट् ।) ह्रस्वी । ङ शि, गुरते
अगुरिष्ट । ई, गूर्णः । इति दुर्गादासः ॥


Match 0297: vcp=गुर्द्द, skd=गुर्द्द

vcp

k1=गुर्द्द, L=17774
गु(गू)र्द्द¦ कूर्दने भ्वा० आत्म० अक० सेट् । गूर्दते अगू-
र्द्दिष्ट । जुगूर्दे । लघुयुक्तस्य क्विपि गूः गुरौ गुरः ।
दीर्घान्वितस्य गूः गूरौ गूर इति भेदः ।


k1=गुर्द्द, L=17775
गु(गू)र्द्द¦ निवासे कूर्दने च चुरा० उभ० अक० सेट् । गु-
(गू)र्दयति ते अजुगु(गू)र्दत्--त ।


skd

k1=गुर्द्द, L=11091
गुर्द्द¦ क निकेतने । कूर्द्दे । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सेट् ।) दीर्घणो वक्ष्यमाणत्वा-
दस्य न दीर्घः । क गुर्दयति । निकेतनं निवासः ।
इति दुर्गादासः ॥


k1=गुर्द्द, L=11092
गुर्द्द¦ ङ कूर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) दीर्घिणो वक्ष्यमाणत्वादस्यापि न
दीर्घः । ङ गुर्दते । कूर्द्दः क्रीडा । इति दुर्गादासः ॥


Match 0298: vcp=गुर्व, skd=गुर्व्व *

vcp

k1=गुर्व, L=17776
गुर्व¦ उद्यमे भ्वा० पर० अक० सेट् । गुर्वति अगुर्वोत् ।
जुगुर्व ईदित् गूर्णः ।


skd

k1=गुर्व्व, L=11093
गुर्व्व¦ ई उद्यमे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ईरित् । अकमित्येके । खड्गादेरुत्तो-
लनार्थकस्य गुर्व्वधातोः सकर्म्मकत्वमकर्म्मकत्वम्
वैतत् प्रज्ञावद्भिरेव चिन्तनीयम् ।) ह्रस्वी । गूः
गुरौ गुरः । ई गूर्णः । गुर्व्वति पत्तिः खड्गम् ।
इति दुर्गादासः ॥


Match 0299: vcp=गुह, skd=गुह

vcp

k1=गुह, L=17798
गुह¦ संवरणे भ्वा० उभ० सक० वेट् । गूहति ते अगूहीत्
अघुक्षत् । अगूहिष्ट अगूढ अघुक्षत अगूहिषत अघुक्षन्त ।
अगूहिषि अघुक्षि । अगूहिष्वहि अगुह्वहि अघुक्षा-
वहि । जुगूह जुगुहे “गूहिता गोढा । गुह्यात् ।
गूहिषीष्ट घुक्षीष्ट गूहिष्यति--ते--धोक्ष्यति--ते, गुह्यम्
गोह्यम् । गूहनं गुहः गुहा । सन् जुघुक्षति “जुगूह
तस्याः पथि लक्ष्मणो यत्” रघुः । “अगूहीच्छायकैर्दिशः”
गूहिष्यामि क्षितिं कृत्तैः” भट्टिः “गूहेत् कूर्म इवाङ्गानि”
[Page2627-a+ 38]
मनुः । “जुगूहे दक्षिणे पार्श्वे” भा० वि० २३५ श्लो० ।
“गूहन्ति मेघा इव रश्मिवन्तम्” भा० भी० ७९२ श्लो० ।
“आकारो गूहितं शक्यः” भा० द्रो० ४४७ श्लो० ।
“अगूढसद्भावमितीङ्गितज्ञया” कुमा० । णिच् गूह-
यति ते अजूगुहत् त । “न देवामपि ह्रुतः सुमति न
जुगुक्षतः” ऋ० ८ । ३१ । ७ । क्विप् घुट् गुहौ गुहः ।
“विश्वायुरग्ने गुहा गुहं गाः” ऋ० १ । ६७ । ३ ।
अप + अपनयने “अपागूहन्नमृतां मर्त्येभ्यः” ऋ० १० । १७ ।
२ । “अपागूहन् अपनीतवन्तः” भा० । संवरणे च ।
“मात्मानमप गूहथाः” अथ० ४ । २० । ५ ।
अव + सम्यग्संवरणे । “यूपशकलमवगूहति” शत० ब्रा० ३ ।
७ । १ । २२ । “उष्णीषं संहृत्य पुरस्तादवगूहति” ५ । ३ ।
५ । २३ ।
उद् + उत्क्षिप्य संवरणे । “नीविमुद्गूहते” शत० ब्रा० ३ । २ । १ । १५ ।
उप + आलिङ्गने “गाढं चोपजुगूहैनम्” भट्टिः “छाया-
च्छलेनोपजुगूह लक्ष्मीः” रघुः । “उपगूढानि सवेपथूनि
च” कुमा० । “तरङ्गहस्तैरुपगूहतीव” रघुः आश्लेषणे
च । “कश्चित् कराभ्यामुप्रगूढनालम्” रघुः ।
नि + अतिशयसंवरणे । “देवात्मशक्तिं स्वगुणैर्निगूढाम्”
श्वेता० उप० । समादिपूर्वस्य तत्तदुपसर्गद्योत्यार्थसंयुतसंवरणे


skd

k1=गुह, L=11113
गुह¦, ऊ ञ संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
उभं-सकं-वेट् ।) ह्रस्वी । ऊ, अगूहीत् अघु-
क्षत् । ञ, गूहति गूहते । गुहो णोरूरिति
दीर्घः । इति दुर्गादासः ॥


Match 0300: vcp=गू, skd=गू

vcp

k1=गू, L=17822
गू¦ विष्ठात्यागे तुदा० कुटा० पर० अक० सेट् । गुवति अगुवीत्
जुगाव । ओदित् गूनः । गूथम् ।


skd

k1=गू, L=11131
गू¦, ओ शि विट्सृजौ । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-अनिट् ।) ओ, गूनः । शि, गुवति
अगुवीत् । विट्सृजिर्हदनम् । इति दुर्गादासः ॥


Match 0301: vcp=गूर, skd=गूर

vcp

k1=गूर, L=17848
गूर¦ उद्यमे चुरा० आत्म० अक० सेट् । गूरयते अजुगुरत । गूरणम्


k1=गूर, L=17849
गूर¦ बधे गतौ च दिबा० आत्म० सक० सेट् । गूर्य्यते अगू-
रिष्ट । जुगूरे ईदित् गूर्णः


skd

k1=गूर, L=11155
गूर¦, ङ क उद्यमे । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं सेट् ।) दीर्घी । ङ कं, भग्नेषु नो
गूरयते महोरगः । इति दुर्गादासः ॥ (तथा
च कविरहस्ये । ५१ ।
“भग्नेषु नोद्गूरयतेऽस्त्रमाहवे-
ऽयुक्तेऽपि यो नोद्गुरते स्वधर्म्मवित् ॥”)


k1=गूर, L=11156
गूर¦, ई य ङ वधे । गत्याम् । इति कविकल्पद्रुमः ।
(दिवां-आत्मं-सकं-सेट् ।) दीर्घी । तथा च ।
“दीपिपूरिजनिगरिधूरयः
काशिवाशिपदिशूरितूरयः ।
घूरिजूरिखिदिविद्यतिः क्लिशि-
श्चूरिशुध्यतिमनो दिवादिषु ॥
इति रथोद्धतायां चण्डेश्वरः ।” इति दुर्गादासः ॥


Match 0302: vcp=गूर्द्द, skd=गूर्द्द

vcp

k1=गूर्द्द, L=17852
गूर्द्द¦ स्तुतौ सक० चु० उभ० सेट् । गूर्द्दयति ते अजुगूर्द्दत् त ।
“गूर्द्दयतिः स्तुतिकर्म्मा” निघ० “तं गूर्दय स्वर्णरम्” ऋ०
७ । १९ । १ “गूर्दय स्तुहि” भा० क्रीडार्थे गुर्द्दवत् ।


skd

k1=गूर्द्द, L=11158
गूर्द्द¦, क निकेतने । कूर्द्दे । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सेट् ।) क, गूर्द्दयति । इति
दुर्गादासः ॥


k1=गूर्द्द, L=11159
गूर्द्द¦, ङ कूर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) ङ, गूर्द्दते । इति दुर्गादासः ॥


Match 0303: vcp=गृ, skd=गृ

vcp

k1=गृ, L=17855
गृ¦ सेके भ्वा० पर० सक० अनिट् । गरति अगार्षीत् । जगार ।


skd

k1=गृ, L=11162
गृ¦, सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) गरति तरुं मेघः । इति दुर्गादासः ॥


Match 0304: vcp=गृज, skd=गृज

vcp

k1=गृज, L=17856
गृज¦ ध्वनौ भ्वा० पर० अक० सेट् गर्जति । अगर्जीत्
जगर्ज “गर्ज गर्जक्षणं मूढ!” देवीमा० “गर्जन् हरिः
साम्भसि शैलकुञ्जे” भट्टिः । भावे गृज्यते । अगर्जि


k1=गृज, L=17857
गृज¦ ध्वनौ भ्वा० पर० अक० सेट् इदित् । गृञ्जति अगृञ्जीत् ।
जभृञ्ज गृञ्जनम् । भावे गृञ्ज्यते अगृञ्जि


skd

k1=गृज, L=11163
गृज¦, ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) सप्तमस्वरी गर्ज्जति । इति दुर्गादासः ॥
(यथा, पूर्ब्बचातकाष्टके । ४ ।
“गर्ज्जसि मेघ ! न यच्छसि तोयं
चातकपक्षी व्याकुलितोऽहम् ।
दैवादिह यदि दक्षिणवातः
क्व त्वं क्वाहं क्व च जलपातः ॥”)


k1=गृज, L=11164
गृज¦, इ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) सप्तमस्वरी । इ, गृञ्ज्यते । इति
दुर्गादासः ॥ (ध्वनिरिह कथनमिति मत्वा
केचित् सकर्म्मकमपि वदन्ति ॥)


Match 0305: vcp=गृध, skd=गृध

vcp

k1=गृध, L=17866
गृध¦ लिप्सायां दिवा० पर० सक० सेट् । गृध्यति इरित् अगृ-
धत्--अगर्द्धीत् । जगर्द्द । गर्द्धित्वा--गृद्ध्वा गृध्नुः ।


skd

k1=गृध, L=11169
गृध¦, इर् य उ लिप्से । इति कविकल्पद्रुमः ॥ (दिवां-
परं-सकं-सेट्-क्त्वावेट् ।) इर्, अगृधत् अगर्धीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । य, गृध्यति
धनं लुब्धः । उ, गर्द्धित्वा गृद्ध्वा । इति दुर्गादासः ॥


Match 0306: vcp=गृह, skd=गृह

vcp

k1=गृह, L=17886
गृह¦ ग्रहणे अद० चु० आत्म० सक० सेट् । गृहयते अजगृहत गृहयालुः ।


skd

k1=गृह, L=11181
गृह¦, त् क ङ ग्रहे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-आत्मं-सकं-सेट् ।) सप्तमस्वरी । क ङ,
गृहयते । ग्रहो ग्रहणम् । इति दुर्गादासः ॥


Match 0307: vcp=गॄ, skd=गॄ

vcp

k1=गॄ, L=17961
गॄ¦ विज्ञापने चुरा० आत्म० सक० सेट् । गारयते अजीगरत् ।


k1=गॄ, L=17962
गॄ¦ शब्दे क्र्यादि० पर० प्वादि० सक० सेट् । गृणाति अगारीत
जगार जगरतुः । गीर्य्यते गीर्णः । गीः ।
अनु + शंसनविषयहर्षानुकूलव्यापाररूपप्रोत्साहने तद्योगे
पूर्वव्यापारणस्य कर्त्ता संप्रदानसंज्ञो भवति यथा अधर्य्युः
होत्रे अनुगृणाति होता प्रथमं शंसति तमध्वर्युः
प्रोत्साहयतीत्यर्थः सि० कौ०
प्रति + अनुगृणातिवत् अर्थादि अस्यावपूर्वप्रयोगो नास्ति इति
“अवाद्ग्रः” पा० सूत्रे भाष्यकार आह स्म


k1=गॄ, L=17963
गॄ¦ निगरणे तु० पर० सक० सेट् । अस्य वा रस्य लत्वम्
गिरति--गिलति अगारीत् अगालीत् जगार (ल) ।
जगरतुः । गीर्यते गीर्णः गीर्णिः गिरः गिरिः
अव + नीचैःकथने आत्म० अवगिरते नीचैः कथयतीत्यर्थः ।
उद् + वमने । “रोमन्थः उद्गीर्य चर्वणम्” सि० कौ० “अनु-
द्गीर्णसुरायुधम्” कुमा० ।
सम् + प्रतिज्ञायाम् आत्म० । संगिरते प्रतिजानीते इत्यर्थः ।
“बसूनि देशांश्च निवर्त्तयिष्यन् रामं नृपः संगिरमाण
एव” भट्टिः ।


skd

k1=गॄ, L=11233
गॄ¦, क ङ विज्ञापे । विज्ञाने । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-सकं-सेट् ।) विज्ञापो विज्ञापनम् ।
क ङ, गारयते सूक्ष्ममर्थं सुधीः । इति दुर्गा-
दासः ॥


k1=गॄ, L=11234
गॄ¦, गि शब्दे । इति कविकल्पद्रुमः ॥ (क्य्रां-परं-
सकं-सेट् ।) शब्द इह व्यक्तवाक्यम् । गि, गॄणाति
वाक्यं लोकः । गीर्णः गीर्णिः । इति दुर्गादासः ॥


k1=गॄ, L=11235
गॄ¦, श निगरणे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) निगरणं भक्षणम् । श, गिरत्यन्नं
लोकः । दैवात्ततो विगलितो गिलितो वकेन
इति तु अस्मात् कृद्धोः कभावे इति भावे
कप्रत्यये ऋदिरणाविति इरि वक्तव्याद्रेफस्य
लकारे गिल इति स्थिते लेः कृत्याख्याने इति ञौ
कर्म्मणि क्ते, सिद्धम् । इति दुर्गादासः ॥


Match 0308: vcp=गेद, skd=गेद

vcp

k1=गेद, L=17964
गेद¦ गतौ भ्वा० आत्म० सक० सेट् । गेदते अगेदिष्ट ऋदित् ।
अजिगेदत । जिगेदे । उदित् । गेदित्वा गेत्त्वा ।


skd

k1=गेद, L=11239
गेद¦, ऋ ङ उ गतौ । चाले । इति कविकल्प-
द्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ॥)


Match 0309: vcp=गेव, skd=गेव

vcp

k1=गेव, L=17967
गेव¦ सेवने भ्वा० आ० सक० सेट् । गेवते अगेविष्ट । ऋदित् अजि-
गेवत । जिगेवे ।


skd

k1=गेव, L=11243
गेव¦, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऋ, अजिगेवत् । ङ, गेवते ।
इति दुर्गादासः ॥


Match 0310: vcp=गेष, skd=गेष

vcp

k1=गेष, L=17968
गेष¦ अन्वेषणे भ्वा० आत्म० सक० सेट् । गेषते अगेषिष्ठ । जिगेषे ऋदित् अजिगेषत् । गेष्णः ।


skd

k1=गेष, L=11244
गेष¦, ऋ ङ अन्वेषे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऋ, अजिगेषत् । ङ, गेषते ।
जिगेषे । अन्वेषोऽनुसन्धानम् । इति दुर्गादासः ॥


Match 0311: vcp=गै, skd=गै

vcp

k1=गै, L=17977
गै¦ गाने भ्वा० पर० सक० अनिट् । गायति । अगासीत् । जगौ
जगतुः । गीयते गेयं गानं गीता गीतः गीतिः । गा-
यकः गायनः गाथा गातुम् । गापयति जिगीषति ।
“यशोऽपि तावत् प्रभवामि गातुम्” नैष० “गेये केन वि-
नीतं वाम्”? रघुः । “तत्र स्म गाथा गायन्ति साम्ना
परमवल्गुना” भा० व० १७८३ “गीतज्ञो यदि गीतेन
नाप्नोति परमं पदम्” याज्ञ० “जयोदारणं बाह्वोर्गाप-
यामास किन्निरान्” रघुः ।
अनु + पश्चाद्गाने । अनुगायति “काचिदञ्चितपञ्चमरागम्”
अभि + आभिमुख्येन समन्ताच्च गाने “राजधानीषु राज्ञां च
समाजेष्वभ्यगायताम्” रामा० आ०
अव + निन्दने अवगीतम् ।
उत् + उच्चैर्गाने । “उद्गास्यतामिच्छति किन्नराणाम्” कुमा० ।
“उद्गीयमानं वनदेवताभिः” रघुः ।
उप + समीपगाने । “शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्म-
ण्डनमिश्रधाम” शङ्करदिग्विजयः । आधिक्येन गाने
च “निवृत्ततर्षैरुपगीयमानात्” भाग०
नि + निश्चयेन गाने । “तथा च श्रुतयो बह्व्योनिगीताश्चा गमेष्वपि” मनुः ।
परि + समन्ततो गाने । “तस्य कर्माण्युदाराणि परिगी-
तानि सूरिभिः” भाग० १ । १ । १७ “ऋषिभिः परिगीतानि
छन्दीभिश्च पृथक् पृथक्” गीता
प्र + प्रकर्षेण । “यावत् कीर्त्तिर्मनुष्यस्य पृथक् लोके
प्रगीयते” न उद्यो० ११८४
वि + निन्दने । नृगया न विगीयते नृपैः” विगीयसे (केतक!)
मन्मथदेहद हना” नैष० विविधगाने च ।
सम् + सम्यगगाये “सङ्गीयमानसत्कीर्त्तिः सस्त्रीभिः सुरगायकैः ।


skd

k1=गै, L=11251
गै¦, गाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
अनिट् ।) गीतं गायति गायनः । इति दुर्गा-
दासः ॥


Match 0312: vcp=गोम, skd=गोम

vcp

k1=गोम, L=18160
गोम¦ लेपने अद० चुरा० उभ० सक० सेट । गोमयति--ते अजुगोमत् त ।


skd

k1=गोम, L=11382
गोम¦, त् क लेपने । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) अजुगोमद्गोमयेन स्थानं
चेटी । इति दुर्गादासः ॥


Match 0313: vcp=गोष्ट, skd=गोष्ट

vcp

k1=गोष्ट, L=18281
गोष्ट¦ संघाते भ्वा० आत्म० अक० सेट् । गोष्टते अगोष्टिष्ट । जुगाष्टे ।


skd

k1=गोष्ट, L=11461
गोष्ट¦, ङ संघाते । इति कविकल्पद्रुमः (भ्वां-
आत्मं-सकं-सेट् ।) सङ्घातो राशीकरणम् ।
ङ, गोष्टते धान्यं लोकः । इति दुर्गादासः ॥


Match 0314: vcp=ग्रथ, skd=ग्रथ

vcp

k1=ग्रथ, L=18421
ग्रथ¦ कुटिलीकरणे आत्म० इदित् सक० सेट् । ग्रन्थते अग्र-
न्थिष्ट जग्रन्थे ।


skd

k1=ग्रथ, L=11537
ग्रथ¦, इ ङ जैह्म्ये । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सकं च-सेट् ।) रेफयुक्तः । जैह्म्य-
मिह कुटिलीभावः कुटिलीकरणञ्च । इ, कर्म्मणि
ग्रन्थ्यते । ङ, ग्रन्थते काष्ठं कुठिलं स्यादित्यथः ।
ग्रन्थते लतां वायुः कुटिलां करोतीत्यर्थः । इति
दुर्गादासः ॥


Match 0315: vcp=ग्रन्थ, skd=ग्रन्थ

vcp

k1=ग्रन्थ, L=18426
ग्रन्थ¦ संदर्भे वा चु० उभ० पक्षे क्य्रा० प० सक० सेट् । ग्रन्थयति-
ते ग्रथ्नाति अजग्रन्थत् अग्रन्थीत् । ग्रन्थयामास वभूव
चकार चक्रे । जग्रन्थ जग्रथतुः--जग्रन्थतुः । जग्रन्थिथ
जग्रथिथ इत्येके । अस्य कविकल्पद्रुमे पा० गणे च
परस्मैपदिष्वेव क्रैयादिकस्य पाठः । णिचि तु उभय-
पदिता । भारद्वाजीयास्तु पठन्ति “णिश्रन्थिग्रन्थिव्रू-
ञात्मनेपदाकर्मकाणामात्मनेपदेषूपसंख्यानम्” श्रन्थि
ग्रन्थ्योराधृषीयत्वात् णिजभावपक्षे ग्रहणम् । ग्रन्थति
ग्रन्थम् । श्रन्थति मेखलान्देवदत्तः । ग्रन्थते ग्रन्थः ।
अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । इति भारद्वाजीय
मते आत्म० । तेनोभयपदता । सि० कौ० पक्षे भ्वा० दित्वमपि
तेन ग्रन्थति इत्याद्वि क्रैयादिकयोस्तु श्रथ्नीते ।
ग्रथ्नीते सि० कौ० । एतच्च कर्म कर्त्तरि न तु कर्त्तरि
इत्यन्ये
उद् + उत्तोल्य ग्रथने । “केशपक्षान् उदग्रथ्येतरान्”
आश्व० श्रौ०१० । ८ । ८ “लताप्रतानोद्ग्रथितैः स केशैः” रघुः ।
“माल्यानि तस्योद्ग्रथितानि पट्टैः” भा० व० ११२ अ०
“कर्म्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः” भाग० ४ । २२ । ३७ ।


skd

k1=ग्रन्थ, L=11539
ग्रन्थ¦, कि ग दर्भे । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-क्र्यां च-परं-सकं-सेट् ।) रेफयुक्तः ।
दर्भो ग्रन्थनम् । कि, ग्रन्थयति ग्रन्थति । ग,
ग्रथ्नाति मालां मालिकः । ग्रन्थिमुद्ग्रथयितुं हृद-
येशः । इति माघे चिन्त्यम् । इति दुर्गादासः ॥


Match 0316: vcp=ग्रस, skd=ग्रस

vcp

k1=ग्रस, L=18451
ग्रस¦ भक्षणे भ्वा० आत्म० सक० सेट् । ग्रसते अग्रसिष्ट
जग्रसे । उदित् ग्रसित्वा ग्रस्त्वा । ग्रस्तः । “हिमां-
शुमाशु ग्रसते तन्मृदिम्नः स्फुटं फलम्” माघः “सुमहा-
न्तमपि ग्रासं ग्रसे लब्धं यदृच्छया” भा० शा० १७९
अ० । “य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते
पुनः” भा० व० २६ श्लो० । “राहुग्रस्ते निशाकरे” भा०
व० २६६७ श्लो० । ग्रासः । ग्रसनम् । क्विप् धातुत्वान्न
दीर्घः ग्रत् ग्रसौ ग्रस इति ।


k1=ग्रस, L=18452
ग्रस¦ भक्षणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । ग्रास
यति--ते ग्रसति अजिग्रसत्--त अग्रासीत् अग्रसीत् ।
ग्रासयाम् बभूव आस चकार चक्र । ग्रसितः ।
“न च प्रापितमन्येन ग्रसेदर्थं कथञ्चन” मनुः ।


skd

k1=ग्रस, L=11566
ग्रस¦, उ ङ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) रेफयुक्तः । उ, ग्रसित्वा
ग्रस्त्वा । ङ, ग्रसते । हिमांशुमाशु ग्रसते ।
इति माघः । इति दुर्गादासः ॥


k1=ग्रस, L=11567
ग्रस¦, कि ग्रासे । इति कविकल्पद्रुमः ॥ (चुरां--
पक्षे भ्वां-परं-सकं सेट् ।) रेफयुक्तः । कि,
ग्रासयति फलं लोकः । ग्रसति तव मुखेन्दुं पूर्ण-
चन्द्रं विहाय । इमं ग्रहणे पठन्ति केचित् ।
इति दुर्गादासः ॥


Match 0317: vcp=ग्रह, skd=ग्रह

vcp

k1=ग्रह, L=18461
ग्रह¦ हस्तव्यापारभेदे स्वीकारे ज्ञाने च क्र्या० उभ० सक० सेट् ।
गृह्णाति गृह्णीते । गृह्णीयात् गृह्णीत । गृह्णातु गृ-
हाण । अगृह्णात् अगृह्णीत । अग्रहीत् अलिटि इटो
दीर्घः । अग्रहीष्टाम् । अग्रहीष्ट । जग्राह जगृहतुः
जग्रहिथ जगृहिव । जगृहे जगृहिषे । ग्रहीता गृ-
ह्यात् ग्रहीषीष्ट ग्रहीष्यति ते । ग्रहीतव्यः ग्रहणीयम्
ग्राह्यम् पदास्वैरिपक्ष्येषु गृह्यम् । छन्दसि प्रतिगृह्यम-
पिगृह्यं लोके तु प्रतिग्राह्यम् अपिग्राह्यम् । जलचरे-
णग्राहः । ज्योतिषि अच् ग्रहः । गृहीतः गृहीतिः ।
ग्रहणम् अप् ग्रहः । उद्ग्राहः मुष्टौ संग्राहः सञ्चये
[Page2743-b+ 38]
संग्रहः । ग्रहीतुर । गृहीत्वा प्रतिगृह्य । ज्ञाने
“हंसं तनौ सन्निहितं चरन्तं मुनेर्जनोवृत्तिरिव स्वि-
कायाम् । ग्रहीतुकामादरिणाशयेन” नैष० । “गृह्णाति
चक्षुः सम्बन्धादालोकोद्भूतरूपयोः” भाषा० । हस्तव्यापारे
“गृहाण शस्त्रं यदि सर्ग एष ते” “तौ जगृहतुः
पादान् राजा राज्ञी च मागधी” रघुः । “दश गृहान्
गृह्णाति” श्रुतिः स्वीकारश्च स्वत्वापदनव्यापारः सेवनादिना
आयत्तीकरणञ्च तत्राद्ये “तत्र किञ्चिन्न गृह्णीयात्
प्राणैः कण्ठगतैरपि” प्रा० त० गङ्गामा० द्वितीय “शर-
द्रौदं न गृह्णीयात् गृह्णीयात् मार्गपौषयोः” नीतिः
कर्मणि गृह्यते अग्राहि अग्राहिषाताम् अग्रहीषाताम् ।
अग्राहिष्यते अग्रहीष्यते । णिच् ग्राहयति ते अजी-
ग्रहत् त । सन् जिवृक्षति ते । यङ् जरीगृह्यते । यङ्-
लुक् जरी(रि)गृहीति जर्गृहीति जरी(रि)गडिर्ढ
जर्गडिर्ढ मुग्ध०” सि० कौ० जाग्रहीति जाग्राढि । ज्ञान-
सामान्थार्थत्वे णिचि प्रयोज्यस्य कर्मत्वं “शिष्यं
वेदं ग्राहयतीति । गुहणमात्रार्थकत्वेऽपि कर्मत्वम्
मुग्धवो० “अजीग्रहत्त” जनको धनुस्तत्” भट्टिः ।
“अयाचितारं न हि देबदेवमद्रिः सुतां ग्राहयितुं
शशाक” कुमा० अन्यमते भञ्जनीयत्वेन विवाह्यत्वेन
च बोधयामासेत्यर्थकत्वात् नानुपपत्तिः । मुगधबो०
द्विकर्मकमध्ये पाठात् “जग्राह यज्वनोभोज्यम्” उदा०
पा० मते न द्विकर्मकतेति भेदः । वेदे हस्य भकारः ।
“इमामगृभ्णन् रसनामृतस्य” श्रुतिः । आर्षेऽपि क्वचित्
हस्य भः गृभीतशब्दे उदा० ।
अति + अतिक्रम्य वर्तने “अतिग्रहाव्यथनक्षेपष्वकर्त्तरि
तृतीयायाः” पा० “अतिक्रम्य ग्रहोऽतिग्रहः चारित्र्य-
तोऽतिगृह्यते चारित्र्येणान्यानतिक्रन्य वर्त्तते इत्यर्थः”
सि० कौ० “तएतानतिग्राह्यान् ददृशुस्तानत्यगृहणत”
शत० ब्रा० ४ । ५ । ४ । २
अनु + आनुकूल्यकरणे “वयमप्यनुगृह्णीमोद्विधा कृत्वा वरू-
थिनीम्” भा० वि० ९९६ श्लो० ।
सम् + अनु + बन्धनादिना आनुकूल्ये “अवमुच्य किरीटं स केशान्
समनुगृह्य च । उदतिष्ठज्जरासन्धः” भा० स० ८९५ श्लो० ।
अप + सन्ततधारातोविच्छिद्य पृथक्कृत्य ग्रहणे “अपगृह्य
पुनरिन्द्रवायू” कात्या० श्रौ० ९ । ६ । ३ “अपगृह्य
सन्ततधारातोविच्छिद्य पृथक्कृत्वा पुनस्तस्या एव
धाराया गृह्णाति” कर्कः अपसारणे च “अथैकं
[Page2744-a+ 38]
तृणमपगृह्णाति” शत० ब्रा० १ । ८ । ३ । १६ । “उभौ
तृणे अपगृह्योपासाते” २ । ५ । २ । ४२ रोधने च । “स
(च्यवनः) ते विप्रः सह वज्रेण बाहुमपगृह्णात्तपसा
जातमन्युः” मा० आश्व० ९ अ०
अपि + पिधाने “यत्रैतत् कर्णावपिगृह्य निनदमिव” छा० उ०
“अपिगृह्य पिधाय” भा० “तस्मात् कर्णं पितृदैवतं
हि तदपिगृह्यम्” शत० ब्रा० ३ । ८ । १ । १५ । आच्छादने
च “तस्मात् कल्पगन्धानपि गृह्णीत” शत० ब्रा० ४ । १ । ३ । ८
अभि + आभिमुख्येन ग्रहणे “अम्बालिका च बलवदभिगृह्य
चण्डवर्मणा परिणेतुमात्मनोभवनमानीता” दशकु०
अव + प्रतिरोधे नियमे च “मन्दोऽपि नाम न महानवगृह्य-
साध्यः” मावः “देवनीयं शंसति पदावग्रहम्” तैत्ति०
“वृष्टिर्वर्षं तद्विघातेऽवग्रहावग्रहौ समौ” अमरः “राव-
णावग्रहक्लान्तमिति वागमृतेन सः” । “वृष्टिर्भवति
शस्यानामवग्रहविशोषिणाम्” रघुः ।
वि + अव + अवनतौ अक० । “तत्रैव कपालम् व्यवगृहीता-
न्तमिब भवति व्यवगृहीतान्तेव हि द्यौः” शत० ब्रा० ७ । ५ ।
१ । २ “व्यवगृहीतान्तं विविधमवगृहीतोऽवनतः अन्तो-
यस्य” भा०
आ + आभिमुख्येनाकर्षणे “आ त एता वचोयुजा हरीं गृभाण
सुमद्रथा” ऋ० ८ । ४५ । ३९ “आगृभाण अस्मदभिमुखं
यातुं हस्ताभ्यासाकर्षयेत्यर्थः” भा० । निर्बन्धे “चले-
ऽपि काकस्य पदार्पणाग्रहः” नैष० ।
आ + सम् + आभिमुख्येन संग्रहे “आ तू न इन्द्र क्षुमन्तं
चित्रं ग्राभं संगृभाय” ऋ० ८ । ८१ । १ । आसंगृभाय
आभिमुख्येन संगृहाण” भा०
उद् + ऊर्द्ध्वं विगृज्य दाने “वाजस्य मा प्रसव उद्ग्राभेणोद
ग्रभीत्” यजु०१७ । ६३ । ऊर्द्धं विगृज्य दामम् उद्ग्रहः”
वेददी० “उद्गृह्णते स्वाहोद्गृहीताय स्वाहा” २२ । २६ ।
उद्धृत्य उत्तोल्य ग्रहणे “शक्तिं योऽग्र्यामुदग्रहीत्” भट्टिः ।
उद् + ग्रह + णिच् । उद्ग्राहि--उपन्यासे “उद्ग्राहितमु-
पन्यस्तम्” वैजयन्ती “विशेषविदुषः शास्त्रं यत्तवोद्ग्रा-
ह्यते मया” माघः । “मोज्जिग्रहः सुनीतानि” भट्टिः
उप + उद् + ज्ञाने । “तस्य हि मुखमुपोद्गृह्णन्नुवाच” छा० उ०
“मुखं द्वारं विद्यायादाने तीर्थमुपोद्गृह्णन् जाननि-
त्यर्थः” भा०
उप + सामीप्येन ग्रहणे “दशापवित्रमुपगृह्य हिंकरोति”
शत० ब्रा० ४ । २ । २ । १४ अवष्टम्भे च “तेजो वा अद्भ्यो-
[Page2744-b+ 38]
भूयस्तद्वा एतद्वायुमुपगृह्याकाशमभितपति” छा० उ०
“तद्वा एतत्तेजो वायुमुपगृह्यावष्टभ्य स्वात्मना निश्च-
लीकृत्य वायुमाकाशमभिव्याप्नुवत्तपति” भा०
नि + बलेन निरोधे प्रातिकूल्यकरणेन नियमने च । “र वे
प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा । निगृहीतो बलाद्
द्वारि सोऽवातिष्ठत पार्थिवः” भा० व० १३६ अ० । “निगृ-
हीतः कन्धरायां शिशुना दृढमष्टिना” हरिव० २० अ० ।
“तस्मात् यस्य महावाहो निगृहीतानि सर्वशः । इ-
न्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता” गीता
“अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” याज्ञ०
प्रति + नि + प्रतिरूपतया ग्रहणे “आदित्यपात्रेण द्रोण-
कलसात् प्रतिनिगृह्णीते” शत० ब्रा० ४ । ३ । ५ । ६
वि + नि + विशेषेण निग्रहे “शिरःसु विनिगृह्यैतान् योधया
मास पाण्डवः” भा० आ० १२८ अ०
निस् + निःशेषोण ग्रहणे निग्रहे च “शक्रस्त्वमिति यो दैत्यै-
र्निर्गृहीतः किलाभवत्” भा० आनु० १९९८ श्लो०
परि + परितोग्रहणे “बाहुन । परिजग्राह दक्षिणेन शिरो-
धराम्” भा० आ० ६३२ श्लो० । “ज्ञानेन परिगृह्य तान्”
मनुः । स्वीकारे च “कस्य गुप्तः परिग्रहः” भा० आ०
गन्धर्व्वं प्रति अर्जुनोक्तिः
प्र + प्रकर्षेण ग्रहणे । “प्रगृहीतश्च योऽमात्योनिगृहीतश्च
कारणैः” भा० वि० १२ श्लो० । सन्धिकार्यनिषेधाय विशिष्य
ग्रहणे “प्रगृह्यं पदम्” प्रा० प्रगृह्यशब्दे दृश्यम् ।
प्रति + दत्तवस्तुनोग्रहणे “सप्त वित्तागमाः धर्म्यादायोलाभ
क्रयो जयः । विभागः संप्रयोगश्च सत्प्रतिग्रह एव च”
स्मृतिः “याजनाध्यापनप्रतिग्रहैर्व्राह्मणो धनमर्ज्जथेत्”
श्रुतिः अदृष्टार्थत्यक्तद्रव्यस्वीकार एव प्रतिग्रहो मुख्यः
अन्यत्र भाक्तः । “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य
विक्रयः” “तत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतै-
रपि” प्रा० त० गङ्गामा० । “प्रतिग्रहादपावृत्तः सन्तु-
ष्टो येन केनचित्” प्रा० त० “अभिपद्यच बाहुभ्यां प्रत्य-
गृह्णादमर्षितः गा० व० ४४१ श्लो० । प्रतिरूपतया
शस्तादिग्रहणे च “तर्थव पाण्डवो भीष्मे दिव्यमस्त्र-
मुदीरयन् । प्रत्यगृह्णादयेमात्मा” भा० वि० ६० अ० ।
स्वीकारमात्रे “प्रतिग्रहीतुं प्रणयिप्रियत्वात्” कुमा०
“अमोघाः प्रतिगृह्णन्तावर्घानुपदमाशिषः” रघुः ।
वि + विरोधे रोधने । “सन्दधीत न चानार्यं विगृह्णीयान्न
बन्धुभिः” भा० शा० ७० अ० “विगृह्य शत्रून् कौन्तेय!
[Page2745-a+ 38]
जेयः क्षितिपतिस्तदा” भा० आश्र०६ अ० । विशेषेण
ज्ञाने “न बिग हणाति वैषम्यम्” भाग० ३ । ३२ । २ । ४ श्लो० ।
“अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः” हरिः
विशेषणग्रहः अवयवीभावः । विग्रहो देहः । “रक्त-
प्रसाधितभुवः क्षतविग्रहाश्च” वेणी पञ्चविधवृत्तिस्फु-
टीकरणवचनभेदे “वृत्त्यर्थविवरणं विग्रहः” सि० कौ०
“सप्तम्या विग्रहस्थया” शब्दश० प्र० ।
सम् + सञ्चये नानास्थानपठितस्य एकत्र समावेशार्थे संदर्भ-
भेदे “संग्रहेऽस्तमुपागते” वाक्यपदीयम् । सङ्कोचने
“संगृह्णती कौशिकमुत्तरीयम्” भा० व० १५६०२ श्लो०
एकत्रीकरणे “संगृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्”
८५५९ श्लो० सम्यक्ग्रहणे “औषधानि च सर्वाणि
मूलानि च फलानि च । चतुर्विधांश्च वैद्यान् वै संगृह्णी-
याद्विशेषतः” भा० शा० २६५४ श्लो० । मुष्टौ संग्राहः
सञ्चये द्रव्यसंग्रहः” सि० कौ०


k1=ग्रह, L=18462
ग्रह¦ आदाने वा चुरा० उभ० पक्षे भ्वा० पर० सक० वेट् ।
ग्राहयति ते ग्रहति । अजिग्रहत्-त अग्रहीत् अ-
घ्राक्षीत् ।


skd

k1=ग्रह, L=11569
ग्रह¦, ग ञ ग्रहणे । इति कविकल्पद्रुमः ॥ (क्य्रां-
उभं-सकं-सेट् ।) ग ञ, गृह्णाति गृह्णीते । इति
दुर्गादासः ॥


k1=ग्रह, L=11570
ग्रह¦, ऊ कि आदाने । इति कविकल्पद्रुमः ॥
(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) ऊ, अग्रहीत्
अघ्राक्षीत् । कि, ग्राहयति ग्रहति । एष ह्वादि-
रेव मन्यते तत्राप्यात्मनेपदी एव । इति दुर्गा-
दासः ॥


Match 0318: vcp=ग्रुच, skd=ग्रुच

vcp

k1=ग्रुच, L=18604
ग्रुच¦ चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्रोचति इरित्
अग्रुचत् अग्रोचीत् । जुग्रोच । उदित् ग्रुचित्वा-
ग्रक्त्वा । क्त्वो वेट्क्त्वात् निष्ठायां नेट् ग्रुक्तः ।


skd

k1=ग्रुच, L=11648
ग्रुच¦, इर् उ चौर्य्ये । गतौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट्-उदित्वात् क्त्वा वेट् ।) रेफ-
युक्तः । पञ्चमस्वरी । इर्, अग्रुचत् अग्रो-
चीत् । उ, ग्रोचित्वा ग्रुक्त्रा । इति दुर्गा-
दासः ॥


Match 0319: vcp=ग्लस, skd=ग्लस

vcp

k1=ग्लस, L=18613
ग्लस¦ भक्षणे भ्वा० आत्म० सक० सेट् । ग्लसते अग्लसिष्ट ।
जग्लसे । उदित् ग्लसित्वा--ग्लस्त्वा । ग्लस्तः ।


skd

k1=ग्लस, L=11653
ग्लस¦, उ ङ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट्-उदित्वात् क्त्वा वेट् ।) अन्तः स्थ-
तृतीययुक्तः । उ, ग्लसित्वा ग्लस्त्वा । ङ, ग्लसते ।
इति दुर्गादासः ॥


Match 0320: vcp=ग्लह, skd=ग्लह

vcp

k1=ग्लह, L=18615
ग्लह¦ आदाने वा चुरा० उभ० पक्षे भ्वा० सक० वेट् । ग्लाह
यति ते ग्लहति अजिग्लिहत् त अग्लहीत् अघ्लाक्षीत् ।
णिचोऽभावे घ्लाढा । घ्लाटः इत्यादि आदानं च द्यूत-
क्रीडार्थं पणादानम् । “तदेषां ग्लहमानानां ध्रुवौ
जयपराजयौ” भा० क ८७ अ० । “दुर्य्योधनो ग्लहते
पाण्डवेन” भा० व० ६१ अ० “शकुने! हन्त दिव्यामो-
ग्लहमानाः परस्परम्” भा० स० ५९ अ० । सर्व्वत्र
आर्षम् आत्मनेपदम् । “इमाञ्चेत् पूर्व्वं कितवोऽग्लहीष्यत्”
भा० स० ६९ अ० ।


skd

k1=ग्लह, L=11655
ग्लह¦, ऊ कि आदाने । इति कविकल्पद्रुमः ॥
(चुरां-पक्षे भ्वां-परं-सकं-वेट् ।) अन्तःस्थतृत्नीय-
युक्तः । ऊ, अग्लहीत् अघ्लाक्षीत् । कि, ग्लाह-
यति ग्लहति । एषः कैश्चिन्न मन्यते इति
दुर्गादासः ॥ (यथा, महाभारते । २ । ६७ । १९ ।
“इमां चेत् पूर्ब्बं कितवोऽग्लहीष्य-
दीशोऽभविष्यदपराजितात्मा ॥”)


Match 0321: vcp=ग्लुच, skd=ग्लुच

vcp

k1=ग्लुच, L=18622
ग्लुच¦ चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्लोचति
इरित् अग्लुचत्--अग्लोचीत् । जुग्लोच उदित् क्त्वा वेट् ।
ग्लुचित्वा ग्लुक्त्वा क्त्वो वेट्कत्वात् ग्लुक्तः । “बहूनाम-
ग्लुचत् प्राणानग्लोचीच्च रणे यशः” भट्टिः ।


skd

k1=ग्लुच, L=11661
ग्लुच¦, इर् उ चौर्य्ये गतौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् । उदित्वात् क्त्वावेट् ।)
अन्तःस्थतृतीययुक्तः । पञ्चमस्वरी । इर्, अग्लु-
चत् अग्लोचीत् । उ, ग्लोचित्वा ग्लुक्त्रा । इति
दुर्गादासः ॥


Match 0322: vcp=ग्लुन्च, skd=ग्लुञ्च *

vcp

k1=ग्लुन्च, L=18624
ग्लुन्च¦ चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्लुञ्चति इरित्
अग्लुचत् अग्लुञ्चीत् जुग्लुञ्च । जुग्लुच(ञ्च) तुः ।
उदित् ग्लुञ्चित्वा ग्लुक्त्वा । क्त्वो वेट्टकात् ग्लुक्तः ।


skd

k1=ग्लुञ्च, L=11662
ग्लुञ्च¦, उ इर् गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) उदित्त्वात् क्त्रावेट् । अन्तः स्थ-
तृतीययुक्तादिः । पञ्चमस्वरी । उ, ग्लुञ्चित्वा
ग्लुक्त्रा । इर्, अग्लुचत् अग्लोञ्चीत् । इति
दुर्गादासः ॥


Match 0323: vcp=ग्लेप, skd=ग्लेप

vcp

k1=ग्लेप, L=18625
ग्लेप¦ दैन्ये अक० गतौ चाले च सक० भ्रा० आ० सेट् ।
ग्लेपते अग्लेपिष्ट जिग्लेपे ऋदित् अजिग्लेपत् त ।


skd

k1=ग्लेप, L=11663
ग्लेप¦, ऋ ङ दैन्ये । गतौ । चाले । इति कविकल्प-
द्रुमः । (भ्वां-आत्मं-अकं-सकं-च-सेट् ।) अन्तःस्थ-
तृतीययुक्तः । ङ, ग्लेपते निर्धनः सदा । ऋ,
अजिग्लेपत् । इति दुर्गादासः ॥


Match 0324: vcp=ग्लेव, skd=ग्लेव

vcp

k1=ग्लेव, L=18626
ग्लेव¦ सेवने भ्वा० आ० सक० सेट् । ग्लेवते अग्लेविष्ट ।
जिग्लेवे ऋदित् अजिग्लेवत् त ।


skd

k1=ग्लेव, L=11665
ग्लेव¦, ऋ ङ सेवे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) अन्तःस्थतृतीययुक्तः । ऋ,
अजिग्लेवत् । ङ, ग्लेवते । इति दुर्गादासः ॥


Match 0325: vcp=ग्लेष, skd=ग्लेष

vcp

k1=ग्लेष, L=18627
ग्लेष¦ अन्वेषणे भ्वा० आ० सक० सेट् । ग्लेषते अग्लेमिष्ट
जिग्लेषे । ऋदित् । अजिग्लेषत् ।


skd

k1=ग्लेष, L=11666
ग्लेष¦, ऋ ङ अन्वेषे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) अन्तःस्थतृतीययुक्तः । ऋ,
अजिग्लेषत् । ङ, ग्लेषते जिग्लेषे । अन्वेषोऽनु-
सन्धानम् । ग्लेषते यः सतां मार्गमिति हला-
युधः । इति दुर्गादासः ॥


Match 0326: vcp=ग्लै, skd=ग्लै

vcp

k1=ग्लै, L=18628
ग्लै¦ क्लमे हर्षक्षये च भ्वा० पर० अक० अनिट् । ग्लायति
आग्लासीत् । जग्लौ जग्लिथ--जग्लाथ । ग्लानिः
ग्लास्नुः । ग्लानः । ग्लेयम् । णिचि ग्लपयति ते
अजिग्लपत् त । ग्लानिशब्दे उदा० । “मनो ग्लपयते
तीव्रम् विषं गन्धेन सर्वशः” भा० आनु० ४६९४ श्ली० ।
“ग्लपयति यथा शशाङ्कम् न तथा हि कुमुद्वतीं
दिवसः” शकु० । “पतङ्गैर्ग्लपितावयम्” भट्टिः ।
“बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः” कुमा० । “यत्त्वं
वैराणि कोषञ्च सहदण्डमजिग्लपः” भट्टिः ।


skd

k1=ग्लै, L=11667
ग्लै¦, क्लमे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
अनिट् ।) अन्तःस्थतृतीययुक्तः । क्लमो हर्ष-
क्षयः । ग्लायति लोकः शोकात् । अनुपसर्गस्य
ञौ ज्वल ह्वल ह्मल इत्यादिना वा ह्रस्वः ।
ग्लपयति ग्लापयति । सोपसर्गस्य तु प्रग्लाप-
यति । इति दुर्गादासः ॥ (यथा, मनुः । २ । ९८ ।
“श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्रा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥”)


Match 0327: vcp=घग्घ, skd=घग्घ

vcp

k1=घग्घ, L=18633
घग्घ¦ हसने भ्वा० पर० अक० सेट् । घग्घति अघग्घीत् । जघग्घ ।


skd

k1=घग्घ, L=11671
घग्घ¦, हसने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) कण्ठ्यवर्गतृतीयोपधः । घग्घति ।
इति दुर्गादासः ॥


Match 0328: vcp=घट, skd=घट

vcp

k1=घट, L=18634
घट¦ चेष्टायां भ्वा० आत्म० अक० सेट् घटादि । घटते अघ-
टिष्ट जघटे घटमानः । षित् अङ् घटा । “घटस्व पर-
या शक्त्या मुञ्च त्वमपि सायकान्” भा० व० १५८१
श्लो० । “कदाचित् तस्य वृद्धस्य घटमानस्य यत्नतः”
१०४७३ श्लो० । “प्रागेव मरणात्तस्माद् राज्यायैव घटा०
महे” १३८१ श्लो० । “अङ्गदेन समं योद्धुमघटिष्ट
नरान्तकः” भट्टिः । णिच् योजने सक० मित्त्वात् ह्रस्वः
घटयति । अजीघटत् त “अनेन भैभीं घटयिष्यतोवि-
धेः” नैष० । “अन्यथा घटयिष्यामि” शकु० । “इत्थं
नारीर्धटयितुमलं कामिभिः काममासः” माघः ।
उद् + घटि--आवरणनिवारणे निरावरणकरणे । “द्वारे
पुरस्योद्घटितापिधाने” कुमा० ।
प्र + प्रारम्भे “ततः प्रजघटे युद्धम्” भट्टिः ।
वि + वियुक्तो अक० “ततोविजघटे शैलैः” भट्टिः । “कार्य्य
[Page2778-b+ 38]
मुद्घाटितं क्वापि मध्ये विजघटे यतः” हितो० ।
“विघटितास्तृष्णालताग्रन्थयः” प्रबो० । णिच्--वियो-
जने सक० विघटयति ते ।
सम् + सम्यक्श्लेषे संयोगे अक० । संघटते संयुज्यते इत्यर्थः
णिच् संयोजने सक० संघटयति--संयोजयतीत्यर्थः ।


k1=घट, L=18635
घट¦ हिंसे सक० संघाते अक० चु० उभ० सेट् । घाटयति--ते
अजीघटत्--त । घाटा ।
उद् + निरावरणे उद्घाटयति द्वारम् “उद्घाटिनी कुञ्जिका”
मृच्छक० । “उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं
कुलविनाशः” वृ० स० ५३ अ० ।


k1=घट, L=18637
घट¦ शब्दकरणे चुरा० उभ० अक० सेट् इदित् । घण्टयति
ते अजघण्टत् त । घण्टा निघण्टुः ।


skd

k1=घट, L=11672
घट¦, क हिंसे । संघाते । द्युतौ । इति कविकल्प-
द्रुमः ॥ (चुरां-परं-सकं-अकंच-सेट् ।) क, घाट-
यति कवाटं द्वारि जनः संयोजयतीत्यर्थः ।
इति दुर्गादासः ॥


k1=घट, L=11673
घट¦, इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-अकं-सेट् ।) इ, भावे घण्ट्यते ।
कि, घण्टयति घण्टति । द्युतिर्दीप्तिः । द्युत्यर्थत्वेन
पाक्षिकचुरादित्वे सिद्धे कि करणमर्थान्तरेऽपि
पाक्षिकचुरादित्वार्थम् । तथाच, --
“क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः ।
प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि घातवः ॥”
इति वोपदेवः ॥
प्रसिद्धाथ कथयितुं धातूनां प्रसिद्धोऽर्थः प्रद-
र्शितः । किन्तु महाकविप्रयोगं दृष्ट्वान्येऽप्यर्था
मन्तव्याः हि यस्मात् धातवोऽनेकार्था भवन्ती-
त्यर्थः । तेन हिंसास्तुत्योः पठितस्यापि शंसतेः
कथनार्थत्वे न मे ह्रिया शंसति किञ्चिदीप्सित-
मिति रघौ कथयतीत्येवार्थः । एवं दीप्तिपठित-
स्यापि तर्कधातोर्वितर्कणार्थत्वे तर्कयत्यन्यगुणं
सुधीरित्यादिः । इति दुर्गादासः ॥


k1=घट, L=11674
घट¦, ष ङ म चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) ष, घटा । ङ, घटते
पठितुं शिष्यः । म, घटयति । घटतीति घटो
ज्ञेयो नाघटन् घटतामियादिति तु घटते घटः
पचादित्वादन् । ततो घट इवाचरतीति क्वौ
साध्यम् । इति दुर्गादासः ॥ (यथा, भट्टिः ।
१२ । २६ ।
“घटेत सन्ध्यादिषु यो गुणेषु
लक्ष्मीर्न तं मुञ्चति चञ्चलापि ॥”)


Match 0329: vcp=घट्ट, skd=घट्ट

vcp

k1=घट्ट, L=18673
घट्ट¦ चालने भ्वा० आत्म० सक० सेट् । वट्टते अघट्टिष्ट ।
जवट्टे । घट्टितः घट्टनम् ।


k1=घट्ट, L=18674
घट्ट¦ चालने चुरा० उभ० सक० सेट् । घट्टयति--ते अज-
[Page2784-b+ 38]
घट्टत्--त । घट्टित “विघट्टितानां सरलद्रुमाणाम्”
कुमा० । “तदीयमातङ्गघटाविघट्टितैः” “त्रस्यन्ती चल-
शफरीविघट्टितघट्टनारुः” माघः । परिस्फुरन्मीनविघ-
ट्टितोरवः” किरा० । “रणद्भिराघट्टनया नभस्वतः माघः” ।


skd

k1=घट्ट, L=11691
घट्ट¦, क चाले । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं क्रचित् सकञ्च-सेट् ।) टद्बयान्तः ।
चालश्चलनम् । क, घट्टयति मेघो वायुना । इति
दुर्गादासः ॥


k1=घट्ट, L=11692
घट्ट¦, ङ चाले । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं क्वचित् सकञ्च-सेट् ।) टद्वयान्तः । ङ,
घट्टते । इति दुर्गादासः ॥


Match 0330: vcp=घण, skd=घण

vcp

k1=घण, L=18681
घण¦ दीप्तौ तना० उभ० अक० सेट् । घणोति घणुते । अघा-
णीत्--अघणीत् अघणिष्ट जघाण जघणे । उदित्
घणित्वा--घण्ट्वा । क्त्वोवेट्कत्वात् निष्ठा त्वनिट् घण्टः ।


skd

k1=घण, L=11697
घण¦, द ञ उ दीप्तौ । इति कविकल्पद्रुमः ॥ (तनां-
उभं-अकं-सेट् । उदित्वात् क्त्वावेट् ।) द ञ,
घणोति घणुते । उ, घणित्वा घत्वा । इति
दुर्गादासः ॥


Match 0331: vcp=घम्ब, skd=घम्ब

vcp

k1=घम्ब, L=18743
घम्ब¦ गतौ भ्वा० पर० सक० सेट् । घम्बति अघम्बीत् । जघम्ब


skd

k1=घम्ब, L=11751
घम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-पर-
सकं-सेट् ।) ओष्ठ्यवर्गशेषोपधः । घम्बति ।
इति दुर्गादासः ॥


Match 0332: vcp=घर्ब, skd=घर्ब्ब *

vcp

k1=घर्ब, L=18751
घर्ब¦ गतौ भ्वा० पर० सक० सेट् । घर्बति अघर्बीत् । जघर्ब


skd

k1=घर्ब्ब, L=11759
घर्ब्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) रेफोपधः । धर्व्वति । इति दुर्गा-
दासः ॥


Match 0333: vcp=घष, skd=घष

vcp

k1=घष, L=18767
घष(स)¦ क्षरणे भ्वा० आत्म० अक० सेट् इदित् । घंष(स)ते
अघषि(सि)ष्ट । जघंषे(से)


skd

k1=घष, L=11768
घष¦, इ ङ क्षरे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) आद्यस्वरी । इ, घंष्यते । ङ,
घंषते । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥


Match 0334: vcp=घस, skd=घस

vcp

k1=घस, L=18768
घस¦ भक्षणे भ्वा० पर० सक० अनिट् । घसति । ऌदित्
अघसत् । जघास जक्षतुः जघसिथ जघस्थ । घस्तः
वेदे ग्धिः लोके, घस्तिः ।


skd

k1=घस, L=11769
घस¦, इ ङ क्षरणे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) इ, घंस्यते । ङ, घंसते ।
अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥


k1=घस, L=11770
घस¦, ऌ औ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-अनिट् ।) ऌ, अघसत् । औ, घस्ता ।
इति दुर्गादासः ॥


Match 0335: vcp=घिण्ण, skd=घिण *

vcp

k1=घिण्ण, L=18794
घिण्ण¦ ग्रहणे भ्वा० आ० सक० सेट् इदित् । घिण्णते अघिण्णिष्ट
जिविण्णे ।


skd

k1=घिण, L=11792
घिण¦, इ ङ ग्रहणे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) इ, घिण्ण्यते । ङ, घिण्णते ।
जेघिण्ण्यते । इति दुर्गादासः ॥


Match 0336: vcp=घु, skd=घु

vcp

k1=घु, L=18795
घु¦ ध्वनौ भ्वा० आत्म० अक० अनिट् । घवते अघोष्ट । जुधुले ।


skd

k1=घु, L=11793
घु¦, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-अनिट् ।) ङ, घवते । इति दुर्गादासः ॥


Match 0337: vcp=घुट, skd=घुट

vcp

k1=घुट, L=18797
घुट¦ आवर्त्तने (घाँटा) भ्वा० आत्म० सक० सेट् । घोटते
ऌदित् अघुटत् जुघुटे ।


k1=घुट, L=18798
घुट¦ प्रतिघाते तु० कुटा० पर० सक० सेट् । घुटति अघुटीत् जुघोट ।


skd

k1=घुट, L=11795
घुट¦, ङ ॡ परिवर्त्ते । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) परिवर्त्तो गतवतः प्रत्या-
गमनं विनिमयो वा । ङ, घोटते नदी । ऌ, अघु-
टत् । इति दुर्गादासः ॥ (यथा, कविरहस्ये १४६ ।
“यस्य व्याघोटते दण्डो नाकृतार्थः कुतश्चन ॥”)


k1=घुट, L=11796
घुट¦, शि प्रतिहतौ । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) शि, घुटति अघुटीत् शत्रुं
शूरः । जुघोट । इति दुर्गादासः ॥


Match 0338: vcp=घुड, skd=घुड

vcp

k1=घुड, L=18802
घुड¦ व्याघाते तु० कु० पर० सक० सेट् । घुडति अघुडीत् जुघोड ।


skd

k1=घुड, L=11802
घुड¦, शि व्याघाते । इति कविकल्पद्रुमः ॥ (तुदा-
परं-सकं-सेट् ।) शि, घुडति अघुडीत् । इति
दुर्गादासः ॥


Match 0339: vcp=घुण, skd=घुण

vcp

k1=घुण, L=18803
घुण¦ भ्रमणे भ्वा० आ० अक० सेट् । घोणते अघोणिष्ट ।
जुघुणे ।


k1=घुण, L=18804
घुण¦ भ्रमणे तु० प० अक० सेट् । घुणति अघोणीत् जुघोण ।


k1=घुण, L=18805
घुण¦ ग्रहणे भ्वा० आ० इदित् सक० सेट् । घुणते अघोण्णिष्ट
जुघुणे ।


skd

k1=घुण, L=11803
घुण¦, ङ भ्रमणे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-सेट् ।) ङ, घोणते । इति दुर्गादासः ॥


k1=घुण, L=11804
घुण¦, इ ङ ग्रहणे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) इ, घुण्ण्यते । ङ, घुण्णते
जोघुण्ण्यते । इति दुर्गादासः ॥


k1=घुण, L=11805
घुण¦, श भ्रमणे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
अकं-सेट् ।) श, घुणति घोणिता । इति दुर्गादासः ॥


Match 0340: vcp=घुर, skd=घुर

vcp

k1=घुर, L=18815
घुर¦ ध्वनौ भीमभवने च तु० पर० अक० सेट् । धुरति अघो-
रीत् । जुघोर । “अघोरीच्च महाघोरम्” । “जुघुरे
चातिभैरवम्” भट्टिः । भावे तङ् । घोरम् ।


skd

k1=घुर, L=11812
घुर¦, श ध्वनौ । भीमार्थे । इति कविकल्पद्रुमः ॥
(तुदां-परं-अकं-सेट् ।) भीमो भयानकरस-
स्तस्य अर्थो निमित्तं हेतुरिति यावत् भीमार्थः ।
श, घुरति व्याघ्रो मनुष्याणां भयहेतुर्भवतीत्यर्थः ।
घुर भीमार्थार्त्तशब्दयोरिति प्राञ्चः । आर्त्त इति
शब्दविशेषणमिति रमानाथः । घुरत्यार्त्ते च
कुरुते इति । शब्दानुवृत्तौ भट्टमल्लः । घोरिता ।
इति दुर्गादासः ॥


Match 0341: vcp=घुष, skd=घुष

vcp

k1=घुष, L=18824
घुष¦ कान्तौ कक० कृतौ स० भ्वा० आत्म० सेट् इदित् ।
घुंवते अघुषिष्ट जुघुंषे सान्तोऽयमित्यन्ये घृसृणम् ।


k1=घुष, L=18825
घुष¦ बधे भ्वा० पर० सक० सेट् । घोषति इरित् अघुषत्
अघोषीत् । जुघोष । घोषः । घुषितः ।


k1=घुष, L=18826
घुष¦ खतौ आविष्करणे च वा चु० उभ० पक्षे भ्वा० पर०
सक० सेट् । घोषधति ते घोषति सजूघुघत् त इरित्
[Page2797-a+ 38]
अघुषत् अघोषीत् । जुघोषाम् बभूव आस चकार
चक्रे । जुघोष णिजभावे घुषितः--घुष्टः । घोषः घो-
षणा । घोषणम् । “इति स द्रुपदो राजा स्वयंवरम-
घोषयत्” भा० आ० १८५ अ० । “सुहृदां प्रियमाख्यातुं
घोषयन्तु च ते जयम्” भा० वि० ३४ अ० । “जयमघोष-
यदस्य तु केवलम्” रघुः । आविष्करणञ्च सर्वजनश्रुति-
योग्यशब्दकरणम् । (ढेडरापेटा)
आ + सम्यक् घोषणे । “आघोषयन् भूमिपतिः समस्तम्”
भट्टिः । सततक्रन्दने इत्यन्ये ।
उद् + ऊर्द्ध्वमाविष्करणे । “उद्घुष्टजयशब्दविराविताशाः” वृ० स० १९ अ० ।


skd

k1=घुष, L=11817
घुष¦, इ ङ धूशे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) धूशः कान्तिकृतिः । इ,
घुष्यते । ङ, घुंषते चन्दनं गात्रम् । इति दुर्गा-
दासः ॥


k1=घुष, L=11818
घुष¦, इर् वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) इर्, अघुषत् अघोषीत् । इति
दुर्गादासः ॥


k1=घुष, L=11819
घुष¦, कि इर् नुतौ । स्तुतौ इति यावत् । विशब्दे ।
इति कविकल्पद्रुमः ॥ (चुरां पक्षे भ्वां-परं-सकं-
सेट् ।) विशब्द इह कथनं आविष्करणं नाना-
शब्दकरणं वा आङ्पूर्ब्बकः सततक्रन्दने । इति
तट्टीका ॥ कि, घोषयति घोषति गूढमर्थमभि-
युक्तः । नानाशब्दे वाद्यं घोषयति द्वारि यस्य
कश्चिदुपद्रुतः । इति हलायुधः । इर्, अघुषत्
अघोषीत् । घुष किरनुवर्त्तते । कि, आघोषयति
आघोषति शोकार्त्तः सततं क्रन्दतीत्यर्थः । इति
दुर्गादासः ॥


Match 0342: vcp=घूर, skd=घूर

vcp

k1=घूर, L=18835
घूर¦ हिंसायां सक० जीर्णतायाम् अक० दि० आत्म० सेट् ।
घूर्य्यते अघूरिष्ट । जुघूरे ईदित् । घूर्णः । ध्वनौ
च “जुघूरेचातिभेरवम्” भट्टौ दोर्घमध्यं पठित्वा
तस्य ध्यन्यर्थकतां भरत आह ।


skd

k1=घूर, L=11826
घूर¦, य ङ ई हिंसाज्यान्योः । इति कविकल्पद्रुमः ॥
(दिवां-आत्मं-सकं-अकं च-सेट् ।) दीर्घो । य
ङ, घूर्य्यते । ई, घूर्णः । ज्यानिर्गतबहुवयो-
भावः । इति दुर्गादासः ॥


Match 0343: vcp=घूर्ण्ण, skd=घूर्ण *

vcp

k1=घूर्ण्ण, L=18836
घूर्ण्ण¦ भ्रमणे अक० तु० उभ० सेट् । घूर्णति ते । अचू-
र्णीत् अघूर्णिष्ट । जुषूर्ण जुघूर्णे । “गुरुभारसमाक्रा-
[Page2797-b+ 38]
न्तश्चचाल च जुवूर्ण्ण च” रामा० कि० । “केचिदा-
सिषते स्तब्धा भयात् केचिदवूर्णिषु” “अघूर्णिष्टां
क्षतौ क्ष्माञ्च तावशिश्रियतामुभौ” इति च भट्टिः ।
घूर्णितः घूर्णितवान् । “ततोरथो घूर्णितबान् न-
रेन्द्र!” भा० क० ९० अ० । “कादम्बरीमदविघूर्णितलोचनस्य
युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भटः ।
“भो वृक्षाः पर्वतस्थाः बहुकुसुमयुता वायुना घूर्ण-
माना” महाना० । वायुनेति हतौ तृतीया सयकारपठे
ण्यन्ताव् कर्मणि शानच् कर्त्तरि तृतीयेति भेदः । णिचि
घूर्णयन्नि ते अजुघूर्णत् त । “नयनान्यरुणानि घूर्णयन्”
कुमा० । “घूर्णयन् मदिरास्वादमदपाटलितद्युती”
माघः । कर्म्मणि घूर्ण्यते अघूर्णि । घूर्ण्यमानः ।
“वायुना घूर्ण्यमानाः” महाना० पाठान्तरम् ।


skd

k1=घूर्ण, L=11827
घूर्ण¦, ञ श भ्रमणे । इति कविकल्पद्रुमः ॥ (तुदां-
उभं-अकं-सेट् ।) ञ, घूर्णति घूर्णते । श,
घूर्णती घूर्णन्ती । इति दुर्गादासः ॥ (यथा, गोः
रामायणे । ४ । १५ । २५ ।
“स तु वाली रणगतः सालताडनविह्वलः ।
गुरुभारसमाक्रान्तश्चचाल च जुघूर्ण च ॥”)


Match 0344: vcp=घृ, skd=घृ

vcp

k1=घृ, L=18843
घृ¦ सेके भ्वा० पर० सक० अगिट् । घरति अघार्षीत् । जघार


k1=घृ, L=18844
घृ¦ सेके छादने च चु० उभ० सक० मेट् । घारयति ते अजी-
घरत त । घारयां बभूव आस चकार चक्रे । घारितः ।
आ + समन्तात्सेके आधारः । तच्छब्दे ६२५ दृश्यम् ।
“प्रणीत पृषदाज्याभिघारघोरा” वीरच० ।


k1=घृ, L=18845
घृ¦ भासे अक० सेके सक० जु० पर० अनिट् । जिघर्त्ति अ-
घार्षीत् । अय वैदिकः । घर्मः (दीप्तः) ।


skd

k1=घृ, L=11834
घृ¦, सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
अनिट् ।) घरति तरुं मेघः । इति दुर्गादासः ॥


k1=घृ, L=11835
घृ¦, क सेके । छादने । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-अनिट् ।) क, घारयति । इति दुर्गा-
दासः ॥


k1=घृ, L=11836
घृ¦, र लि भासि । सेके । इति कविकल्पद्रुमः ॥
(ह्वां-परं-अकं-अनिट् ।) र वैदिकः । लि,
जघर्त्ति घृतं दीप्यते क्षरति वेत्यर्थः । इति दुर्गा-
दासः ॥


Match 0345: vcp=घृण, skd=घृण

vcp

k1=घृण, L=18847
घृण¦ दीप्तौ तना० उभ० अक० सेट् । घर्णोति वृणोति घर्णुते
घृणुते अघर्णीत् अघर्णिष्ट जघर्ण जघृणे घृणा । उदित् ।
वर्णित्वा घृण्ट्वा । क्त्वो वेट्कत्बात् निष्ठा त्वनिट् ।
घृण्णः । वेदे गणव्यत्ययोऽपि “आ यो घृणे न ततृषाणो
अजरः” ऋ० ६ । १५ । ५ । “आघृणे आदीप्यते” भा० ।


k1=घृण, L=18848
घृण¦ ग्रहणे भ्वा० आत्म० सक० सेट् इदित् । घृण्णते अघृ-
ण्णिष्ट । जघृण्णे ।


skd

k1=घृण, L=11838
घृण¦, द ञ उ दीप्तौ । इति कविकल्पद्रुमः ॥ (तनां-
उभं अकं-सेट् । उदित्वात् क्त्रावेट् ।) द ञ,
घृणोति घर्णोति । घृणुते घर्णते । उ, घर्णित्वा
घृत्वा । इति दुर्गादासः ॥


Match 0346: vcp=घृष, skd=घृष

vcp

k1=घृष, L=18901
घृष¦ संघर्षे स्पर्द्धायाञ्च सक० पर० सेट् । घर्षोमर्द्दनम् (घषा)
व्यापारभेदः संमर्द्दो वा घर्षति अघर्षीत् जघर्ष । घर्षणं
घर्षः । उदित् थर्षित्वा घृष्ट्वा । क्त्वो वेट्कत्वात्
निष्ठा त्वनिट् घृष्टः । घर्षित इति प्रयोगस्तु तारका०
इतजन्तः । “धातुजं सृजते रेणुं वायुवेगेन घर्षितम्”
(शैलराजः) रामा० ३ । ७९ अ० ।


skd

k1=घृष, L=11861
घृष¦, उ संघर्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । उदित्वात् क्त्वावेट् ।) उ, घर्षित्वा
घृष्ट्वा । घर्षति चन्दनं लोकः । इति दुर्गादासः ॥


Match 0347: vcp=घ्रा, skd=घ्रा

vcp

k1=घ्रा, L=18943
घ्रा¦ गन्धग्रहणे अक० घ्राणजप्रत्यक्षे सक० भ्वा० प० अनिट् ।
जिघ्रति अघ्रात् अघ्रासोत् अघ्राताम् अघ्रासिष्टाम् ।
जघ्रो जघ्रिथ जघ्राथ । घ्राता घ्रेयात् घ्रायात् ।
कर्म्मणि भावे वा घ्रायते अघ्रायि “अघ्रायि वान्
गन्धवहः सुगन्धः” भट्टिः । “षाड्वर्गिकं जिघ्रति
षड्गुणेशः” भाग० १ । ३ । ६ । नासिकया गन्धज्ञागमिह
(सोङा) ग्रहणम् । उपवर्गपूर्व्वकस्तत्तदुपसर्गद्योत्यार्थ-
युक्ते ग्रहण । घ्रेयः घ्रात--घ्राणम् घ्राति


skd

k1=घ्रा, L=11892
घ्रा¦, गन्धोपादाने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-अनिट् ।) जिघ्रति पुष्पं लोकः । इति
दुर्गादासः ॥


Match 0348: vcp=ङु, skd=ङु

vcp

k1=ङु, L=18952
ङु¦ ध्वनौ भ्वा० आत्म० अक० अतिट् । ङवते अङविष्ट ।
ञुङुबे । सनि ञुङूषते ।
इति वाचस्पत्ये ङकारादिशब्दार्थनिरूपणम् ।


skd

k1=ङु, L=11900
ङु¦, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-अनिट् ।) ङ, ङवते । इति दुर्गादासः ॥


Match 0349: vcp=चक, skd=चक

vcp

k1=चक, L=18956
चक¦ भ्रान्तौ सौ० पर० अक० सेट् वदित् । चङ्कति अचङ्कीत् ।
चचङ्क ।


k1=चक, L=18957
चक¦ प्रतिघाते तृप्तौ च भ्वा० आ० अक० सेट् । चकते
अचकिष्ट चचके । मिते चकयति । प्रतिथातः भयहेतृकोऽ-
निष्टशङ्कया गमनादिप्रतिरोधः । “व्याधानुसारचकिता
हरिणीव यासि” मृच्छ० । “पौलस्त्यचकितेश्वरः” रघुः ।
उद् + अप्रतिघाते । “यं चेकितानमनुचित्तय उच्चकन्ति”
भाग० ६ । १७ । ४६ । उच्चकन्ति अप्रतिहतानि भवन्ति


skd

k1=चक, L=11904
चक¦, इ भ्रान्तौ । सौत्रो धातुरयम् । इति कवि-
कल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) इ, चङ्कुरः
रथे । इति दुर्गादासः ॥


k1=चक, L=11905
चक¦, ञ ङ म प्रतिघाते । तृप्तौ । इति कविकल्प-
द्रुमः ॥) भ्वां-उभं-आत्मञ्च-सकं-अकञ्च-सेट् ।)
ञ, चकति चकते खलः साधुम् । ङ, चकते
जनस्तृप्यतीत्यर्थः । म, चकयति । इति दुर्गा-
दासः ॥


Match 0350: vcp=चकास, skd=चकास

vcp

k1=चकास, L=18958
चकास¦ दीप्तौ अदा० जक्षा० पर० अक० सट् । चकास्ति
[Page2806-b+ 38]
अचकासीत् । चकसाम--बभूघ आस चकार । ऋदित् ।
अचचकासत् । “चकासति च मासादास्तथा रन्ध्रषु जा-
ग्रति” । “चकासां चक्रुरुत्तस्थुः” “शोकादभूषैरपि भू-
श्चकासाञ्चकार नागेन्दाथाश्वमिश्रैः” भट्टिः । “चकासत
चारु चमरुचम्मणा” माघः ।


skd

k1=चकास, L=11906
चकास¦, ऋ क्ष लु दीप्तौ । इति कविकल्पद्रुमः ॥
(अदां-परं-अकं-सेट् ।) ऋ, अचीचकासत् अच-
चकासत् । अनेकस्वरात् सन्वद्भावविकल्पः । क्ष,
चकासति । लु, चकास्ति । इति दुर्गादासः ॥


Match 0351: vcp=चक्क, skd=चक्क

vcp

k1=चक्क, L=18961
चक्क¦ आर्त्तौ चुरा० उभ० सक० सेट् । चक्कयति ते अचचक्कत् त ।


skd

k1=चक्क, L=11910
चक्क¦, क अर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) कोपधः । आद्यस्वरमध्यः । अर्त्तिः
पीडनम् । क, चक्कयति शत्रुं शूरः । इति दुर्गा-
दासः ॥


Match 0352: vcp=चक्ष, skd=चक्ष

vcp

k1=चक्ष, L=19053
चक्ष¦ कथने त्यागे च अदा० आत्म० सक० सेट् । चष्टे । अख्यत्
अख्यत त्यागे तु सम--क्षिष्ट चख्यौ चख्ये चचक्षे ।
भाष्यमते अक्शासोत् अक्शास्त । चक्शौ चक्शे ।
[Page2842-a+ 38]
अनु + पश्चादुक्तौ “परायतीं मातरमन्वचष्ट” ऋ० ४ । १८ । ३ ।
अभि + आभिमुख्येन दर्शने “कदा चिकित्वो अभिचक्षसे नः”
ऋ० ५ । ३ । ९ ।
अव + अधोदर्शने । “सुपर्णोऽवचक्षत क्ष्मां सोमः” ऋ० ९ । ७१ । ९ ।
आ + आख्याने । “विचक्षणः प्रस्तुतमाचचक्षे । “स रावण-
हृतां ताभ्यां वचसाचष्ट मैथिलीम्” रघुः ।
अनु + आ + अन्वाख्याने “एतमेव तदन्वाचक्षते” शत० व्रा० २ । ४ । ४ । २ ।
अभि + आ + आभिमुख्येनाख्याने । “अभ्याचष्टानुरागास्रैर-
न्धीभूतेन चक्षुषा” भाग० १ । ९ । ११ । “अभ्याचष्टुं प्रच-
क्रमे” ८ । ५ । १४ ।
उद् + आ + उदाहरणे “तस्मादध्वर्य्युरेव गोर्वीर्य्याण्युदाचष्टे” शत० व्रा० ३ । ३ । ३ । ४ ।
प्रति + आ + प्रत्याख्याने निराकरणे “गुरुपुत्रीति कृत्वाऽहं
प्रत्याचक्षे न दोषतः” भा० आ० ७७ अ० ।
वि + आ + व्याख्याने विवरणे । “व्याचक्षाणस्य तु मे निदि-
ध्यासस्व” शत० व्रा० १४ । ५ । ४ । ४ ।
सम् + आ + सम्यगाख्याने । “तत्सत्यं नः समाचक्ष्व” भाग० १ ।
४ । १३ ।
परि + परितः कथने विख्यातौ “वेदप्रदानादाचार्य्यं पितरं परिचक्षते” मनुः ।
प्र + प्रकर्षेण कथने विख्यातौ । “तं देवनिर्म्मितं देशं ब्रह्मा-
वर्त्तं प्रचक्षते” मनुः “दहति प्रेतमिति प्रचक्षते” रघुः ।
प्रति + प्रत्युत्तरोक्तौ प्रतिरूपोक्तौ च “यदा तु सर्व्वभूतेषु दारु-
ष्वग्निमिव स्थितम् । प्रतिचक्षीत मां लोकः” भाग० ३ । ९ । ३ ।
वि + विशेषेण कथने विख्यातौ “विश्वं विचक्षते धीराः
योगराद्धेन चक्षुषा” भाग० ३ । ११ । १७ । विचक्षणः ।
सम् + सम्यक्कथने । “मेरोरप्यन्तरे पार्श्वे पूर्व्वं संचक्ष्व
सञ्जय!” भा० भी० ७ अ० ।


skd

k1=चक्ष, L=11975
चक्ष¦, ल ङ वदे । इति कविकल्पद्रुमः ॥ (अदां-
आत्मं-सकं-सेट् ।) वदः कथनम् । (दर्शने च
इति केचित् ।) ल ङ, आचष्टे धर्म्मं धीरः ।
तृतीयस्वरानुबन्ध इति प्राञ्चः । इकार उच्चा-
रणार्थ इति केचित् । छन्दसि नुणागमार्थ इति
केचित् । वेदेषूच्चारणार्थ इति केचित् । अत्र
बहवस्तु तृतीयस्वरो भ्रमकारितः किन्तु चतुर्थ-
स्वरानुबन्धोऽयं निष्ठाया इम्निषेधार्थः तेन
वर्ज्जनार्थे ख्याञकसाञादेशयोरप्राप्तौ आचष्टं
वर्ज्जनमित्याहुः । इति दुर्गादासः ॥


Match 0353: vcp=चघ, skd=चघ

vcp

k1=चघ, L=19069
चघ¦ धातने स्वादि० पर० सक० सेट् । चघ्नोति अचघीत् अचाघीत् चचाघ ।


skd

k1=चघ, L=11985
चघ¦, न घातने । इति कविकल्पद्रुमः ॥ (स्वां-परं-
सकं-सेट् ।) न, चघ्नोति । इति दुर्गादासः ॥


Match 0354: vcp=चट, skd=चट

vcp

k1=चट, L=19090
चट¦ भेदे भ्वा० पर० सक० सेट् । चटति अचटीत्--अचाटीत् ।
चचाट । चटुः चाटुः ।


k1=चट, L=19091
चट¦ बधे भेदे च चु० उभ० सक० सेट् । चाटयति ते अचीचटत् त
उद् + नेदने बधे उत्त्रासने स्थानान्तरायने च । “उच्चा-
टनीयः करतालिकानाम्” नैष० । उच्चाटनम् ।


skd

k1=चट, L=12007
चट¦, भेदे । इति कविकल्पद्रुमः । (भ्वां-परं-सकं-
सेट् ।) चटति । इति दुर्गादासः ॥


k1=चट, L=12008
चट¦, क वधे । भेदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, चाटयति । इति दुर्गा-
दासः ॥


Match 0355: vcp=चड, skd=चड

vcp

k1=चड, L=19101
चड¦ कोपे भ्वा० आत्म० अक० सेट् इदित् । चण्डते अचण्डिष्ट ।
चचण्डे । चण्डः चण्डी


k1=चड, L=19102
चड¦ कोपे चुरा० उभ० अक० सेट् इदित् । चण्डयति ते अचचण्डत् त ।


skd

k1=चड, L=12021
चड¦, इ क रोषे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) इ क, चण्डयति । इति दुर्गादासः ॥


k1=चड, L=12022
चड¦, इ ङ रोषे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) इ, कर्म्मणि चण्ड्यते । ङ, चण्डते ।
इति दुर्गादासः ॥


Match 0356: vcp=चण, skd=चण

vcp

k1=चण, L=19103
चण¦ शब्दे भ्वा० पर० सक० सेट् । चणति अचाणीत्--अचणीत्
चचाण चेणतुः ।


k1=चण, L=19104
चण¦ गतौ हिंसे च भ्वा० पर० सक० सेट् वा घटा० मित् ।
चणति अचाणीत्--अचणीत् । चचाण चेणतुः चण-
यति ते--चाणयति ते ।


k1=चण, L=19105
चण¦ दाने भ्वा० पर० अक० सेट् घटा० । चणति अचणीत्-
अचाणीत् । चणयति । चचाण चेणतुः । चणकः ।


skd

k1=चण, L=12023
चण¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) चणति । इति दुर्गादासः ॥


k1=चण, L=12024
चण¦, म दाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) म, चणयति । इति दुर्गादासः ॥


k1=चण, L=12025
चण¦, मि गतौ । हिंसे । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् ।) मि, चणयति चाण-
यति । इति दुर्गादासः ॥


Match 0357: vcp=चत, skd=चत

vcp

k1=चत, L=19145
चत¦ याचने भ्वा० उभ० द्वि० सेट् । चतति ते एदित् अच-
तीत् । अचतिष्ट । चचात चेते । निरुक्तौ अयं ग-
त्यर्थतयोक्तः । “गुहा चतन्तमुशिजो नमोभिः” ऋ० १० ।
४६ । २ । “चतन्तं चततिर्गतिकर्म्मा” निरु० भा० । अस्य
वैदिकेऽनिट्त्वम् चत्तः । “चत्तो इतश्चत्तामुतः” ऋ०
१० । १५५ । २ । “दूरे चत्तायच्छनत्सद्गहनम्” ऋ० १ । १३२ ।
६ । याचनस्य हिंसायां वृत्तेरस्य हिंसार्थत्वमपि ।
“तं व इन्द्रं चतिनमस्य” ऋ० ६ । १९ । ४ । “चतिनं नाश-
कमिति” भा० । बा० इनि ।


skd

k1=चत, L=12055
चत¦, ए ञ याचे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
द्विकं-सेट् ।) ए, अचतीत् । ञ, चतति चतते ।
इति दुर्गादासः ॥


Match 0358: vcp=चद, skd=चद

vcp

k1=चद, L=19253
चद¦ याचने भ्वा० द्विक० उभ० सेट् । चदति ते एदित् अच-
दीत् अचदिष्टाम् । चचाद चेदतुः चेदे ।


k1=चद, L=19254
चद¦ आह्लादे दीप्तौ च भ्वा० अक० प० सेट् इदित् । चन्दति
अचन्दीत् चचन्द चचन्दतुः । चन्द्रः ।


skd

k1=चद, L=12112
चद¦, ए ञ याचे । इति कविकल्पद्रुमः ॥ (भ्वां-
उभं-द्विकं-सेट् ।) ए, अचदीत् । ञ, चदति
चदते । इति दुर्गादासः ॥


k1=चद, L=12113
चद¦, इ ह्लादे । दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) इ, कर्म्मणि चन्द्यते । ह्लादो
हर्षः । इति दुर्गादासः ॥


Match 0359: vcp=चन, skd=चन

vcp

k1=चन, L=19256
चन¦ हिंमे भ्वा० प० सक० सेट् । चनति अचनीत्--अचा-
नीत् चचान चेनतुः । मित् णिचि चनयति ते ।


k1=चन, L=19257
चन¦ शब्दे तु० प्र० अक० सेट् । चनति अचा (च) नीत्
चचान चेनतुः । णिचि चानयति ।


skd

k1=चन, L=12115
चन¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) चनति । इति दुर्गादासः ॥


k1=चन, L=12116
चन¦, म हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) म, चनयति । इति दुर्गादासः ॥


Match 0360: vcp=चप, skd=चप

vcp

k1=चप, L=19366
चप¦ चूर्णीकरणे चु० उभ० सक० सेट् घटा० । चपययि--ते
अचीचपत्--त । चिधातोरेव स्वार्थे णिचि तद्रूपमित्यन्ये ।


k1=चप, L=19367
चप¦ सान्त्वने भ्वा० पर० सक० सेट् । चपति अचापीत--अच-
पीत् । णिचि चापयति ।


k1=चप, L=19368
चप¦ गतौ पु० उभ० सक० सेट् । इदित् । अम्पयति ते अचचम्पत् त


skd

k1=चप, L=12195
चप¦, सान्त्वे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) सान्त्वः प्रियवचनं उपशमो वा ।
चपति पुत्त्रं माता । इति दुर्गादासः ॥


k1=चप, L=12196
चप¦, क म कल्के । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) कल्कश्चूर्णीकरणम् । क म,
चपयति तण्डुलं शिला । इति दुर्गादासः ॥


Match 0361: vcp=चम, skd=चम

vcp

k1=चम, L=19377
चम¦ अदने भ्वा० प० सक० सेट् । चमति आचामति । वि-
चमति । आचमीत् चचाम चेमतुः । उदित् चमित्वा
चान्त्वा । आचान्तः । आचमनम् आचमनीयम् । “आ-
चान्तः पुनराचामेत्” स्मृतिः । “मनाग् मग्नोऽपि
नाचामसि” प्रवोधच० । “चचाम मधु माध्वीकम्”
[Page2895-a+ 38]
भट्टिः । णिचि चामयति । “इमां किमाचामयसे न
चक्षुषी” नैष० ।


k1=चम, L=19378
चम¦ भक्षे स्वादि० वैदिकः प० सक० सेट् । चम्नोति उदित्
चमित्वा चान्त्वा । कविकल्पद्रुमे “कुस्मित्यां गमॢ गत्यां
चम् न्रचम् जम् जिमु झम” इति वाक्ये “परोऽनुबन्धः
पूर्व्वेषाम्” इति तत्रोक्तेः सर्व्वेषामुदित्त्वं तेन शब्द-
कल्पद्रुमे स्वादिगणीयस्य उदित्त्वानुक्तिः प्रामादिकी


skd

k1=चम, L=12204
चम¦, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
सकं-सेट् । उदित्वात् क्त्रावेट् ।) चमति । उ,
चमित्वा चान्त्वा । इति दुर्गादासः ॥


k1=चम, L=12205
चम¦, न र उ भक्षे । इति कविकल्पद्रुमः ॥ (स्वां-
परं-सकं-सेट् । उदित्वात्क्त्रावेट् ।) न, चम्नोति ।
र वैदिकः । उ, चमित्वा चान्त्वा । इति दुर्गा-
दासः ॥


Match 0362: vcp=चम्ब, skd=चम्ब

vcp

k1=चम्ब, L=19411
चम्ब¦ गतौ भ्वा० पर० सक० सेट् । चम्बति अचम्बोत् । चचम्ब


skd

k1=चम्ब, L=12234
चम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) चम्बति । इति दुर्गादासः ॥


Match 0363: vcp=चय, skd=चय

vcp

k1=चय, L=19413
चय¦ गतौ भ्वा० आ० सक० सेट् । चयते अचयिष्ट चेये ।


skd

k1=चय, L=12235
चय¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ङ, चयते । इति दुर्गादासः ॥


Match 0364: vcp=चर, skd=चर

vcp

k1=चर, L=19416
चर¦ गतौ भ्वा० पर० सक० सेट् । चरति अचारीत् ।
चचार चेरतुः । “दिवा चरेयुः कार्य्यार्थं चिह्निताराज
शासनैः” मनुः । “चेरतुः खरदूषणौ” भट्टिः “हंसं तनौ
सन्निहितं चरन्तम्” नैष० । चरः चारः चरणम्
चरितं चरित्रम् । चरन् चंचूर्य्यते “ततश्चंचूर्य्यमाणा-
सौ” भट्टिः । यङ्लुकि चंचुरीति चंचूर्त्ति ।
अति + अतिक्रंम्य गमने “अतिचेरुर्वक्रगत्या युयुधुश्च पर-
स्परम्” भाग० ३ । १७ । १४ । “अयोगतश्चात्यचरत् योगं
दिवि निशाकरः” हरिवं० २३६ अ० । “पुत्राः पितॄनत्य-
चरन्नार्य्यश्चात्यचरन् पतीन्” भा० शा० ८३८७ श्लो० ।
अतिचारशब्दोक्तेऽर्थे अतिचारशब्दे ९९ पृ० दृश्यम् ।
वि + अति व्यतिक्रमे “त्वामहं न व्यतिचरे मनसाऽपि कदा-
चन” रामा० ल० १०१ ।
अधि + आधिक्येन चरणे । “यामुपरिष्टादधिचरसि” शत० १ । ९ । १ । ८ ।
अनु + अनुगमने पश्चाद्गमने सादृश्यकरणे । अनुचरः ।
अप + अपकारे अनिष्टसम्पादने । “योयस्तेषामपचरेत् त
माचक्षीत वै द्विजः” भा० शा० ९५८६ । “पितृदेवर्षि-
भृत्याश्च न चापचरिता मया” मार्क० पु० ।
अभि + आभिमुख्येन चरणे अतिक्रमे व्यभिचारे च “पतिं
या नाभिचरति मनोवाग्देहसंयता” मनुः “यथैवाहं
नाभिचरे कदाचित” भा० वि० ४५७ अ० । अनिष्ट
सम्पादने “श्येनेनाभिचरन् यजेत” श्रुतिः । अभिचारश्च
[Page2897-b+ 38]
मारणोच्चाटनादीनि षट्कर्म्माणि “प्रति तमभि-
चर योऽस्मान् द्वेष्टि” अथ० २ । ११ । ३ । अभिचारशब्दे
दृश्यम् ।
वि + अभि + विशेषेण अतिक्रमे । यस्य यथात्वमुचितं तस्य
तदतिक्रमे । “उम्राणां व्यभिचरतीव सप्तसप्तौ” किरा० ।
“व्यभिचचार न तापकरोऽनलः” नैष० । हेतोः साध्या-
भाववद्वृत्तित्वं, साध्यस्य च हेतुसमानाधिकरणाभाब
प्रतियोगित्वं व्यभिचारः । “न तावदव्यभिचरितत्वं
तद्धि न साध्याभाववदवृत्तित्वम्” अनुमानचिन्ता० । स्त्री-
णाञ्च पतिमतिक्रम अन्यपुंसि गमनं व्यभिचारः ।
अव + समन्तात् चरणे । “कषायं अवचारितम्” । “कफ-
वातज्वरं हन्याच्छीघ्रं कालेऽवचारितम्” “प्रमार्जनं
धावनञ्च वीक्ष्य वीक्ष्यावचारयेत्” “दूर्व्वां पुनर्णवाञ्चैव
लेपे साध्ववचारयेत्” इति च सुश्रु० ।
आ + अनुष्ठने । “प्रस्थितायां प्रतिष्ठेथा स्थितायां स्थिति-
माचरेः” रघुः । “यद्यदाचरति श्रेष्ठः” गीता । प्रति-
पाल्यत्वादिना सदृशीकरणे च “संप्राप्ते षोडशे वर्षे
पुत्रं मित्रवदाचरेत्” चाण० ।
अधि + आ + आधिक्येनाचरणे “शय्यासनेऽध्याचरिते श्रेयसा
न समाविशेत्” मनुः ।
अनु + आ + अनुगमने तुल्यरूपानुष्ठाने “कोनु तत्कर्म्म रा-
जर्षेर्नाभेरन्वाचरेत् पुमान्” भाग० ४ । ५ । ७ ।
सम् + उद् + आ + सम्यगाचरणे । “बालानपि च मार्गस्थान्
सान्त्रेन समुदाचरेत्” भा० शा० ३३ अ० ।
उप + आ + उपासने । “उपाचरति तत्रस्म धनानामीश्वरम्
प्रभुम्” भा० स० १० अ० ।
सम् + आ + सम्यगाचारे । “त्वया पापानि घोराणि समा-
चीर्णानि पाण्डुषु” भा० क० ३१ अ० । उपधातैत्त्वम् ।
“उच्छिष्टान्ननिषेकञ्च दूरादेव समाचरेत्” मनुः ।
उद् + उल्लङ्घ्य गतौ सक० आत्म० । धर्म्ममुच्चरते “धर्म्म-
मुल्लङ्घ्य गच्छतीति” सि० कौ० । उपरिष्टाद्गतौ अक०
प० । वाष्प उच्चरति “उपरिष्टाद्गच्छति” सि० कौ० ।
“सौदामनीमुच्चरन्तीं यथैव” भा० व० ११३ क० । “क्षीवा-
वृन्दैरुदचरत्” भट्टिः “दिव्यस्तूर्य्यध्वनिरुदचरत् व्यश्नु-
वानोदिगन्तान्” रघुः । कण्ठताल्वाद्यभिघातेन उत्पा-
दने “सकृतच्चरितः शब्दः सकृदर्थं गमयतीति न्यायः ।
“अन्यदा जगति राम इत्ययं शब्द उच्चरित एव माम-
गात्” रघुः ।
[Page2898-a+ 38]
वि + उद् + विशेषेण उत्थितौ । “यथाऽग्नेः क्षुद्राविस्फुलिङ्गा
व्युच्चरन्ति” शत० व्रा० ४ । ५ । १ । २३ ।
सम् + उद् + सम्यगुत्थितौ । “समुच्चरन्त्यस्मादापः” निरु० ६ । ११
उप + उपासने “गिरिशमुपचचार प्रत्यहं सा सुकेशी” कुमा० ।
अन्यथास्थितस्य वस्तुनोऽन्यथात्वप्रतिपादनरूपे शब्दादि-
व्यापारभेदे उपचारश्च लक्षणा छलं वा । “यथा लोके
स्वशक्तिषु योधेषु वर्तमानौ जयपराजथौ राज्ञि उप-
चर्य्येते” सा० द० । “तेनोपचर्य्यते राहुः” । “याम्यो-
त्तरा शशिगतिर्गणितेऽप्यु पचर्य्यते तेन” वृ० स० ५ । १५ ।
दुस् + दुष्टाचरणे । “कामवक्तव्यहृदया भर्त्तारं दुश्चरन्ति याः”
रामा० आर० २ । २५ ।
निस् + निर्गमने “इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः”
हरिव० २२ अ० । “यतोयतोनिश्चरति मनश्चञ्चलमस्थि-
रम्” गीता ।
परि + परितोगमने “कङ्का श्येनास्तथा गृध्रा नीचैः परि-
चरन्ति च” रामा० ल० १६ । ११ । परितः सेवने “गात्र-
संवाहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु कालेषु
दितिं परिचचार ह” रामा० बा० ४६ अ० ११ ।
“आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः” रा०
अयो० ३५ । १४ । परिचर्य्या परिचारकः ।
प्र + प्रकाशेन गतौ । “प्राणः प्रालीयत ततः पुनश्च प्रचचार
ह” भा० आश्व०२३ अ० । प्रकर्षेण चरणे च । “यैः कर्ममिः
प्रचरितैः शुश्रूष्यन्ते द्विजातयः” मनुः । प्रचारः ।
सम् + प्र + सम्यग् प्रकाशके । “अद्य प्रभृति चैवेह लोके संप्र-
चरिष्यति” भा० आनु० ९६ अ० ।
वि + विशेषण गतौ “विचरन्ति महीपाला यात्रार्थं विजि-
गीषवः” रामा० आर० २२ । ७ । “ततोद्रौणिर्महावीर्य्यः
पार्थस्य विचरिष्यतः” भा० वि० ५९ अ० । “रात्रौ न
विचरेयुस्ते ग्रामेषु नगरेषु च” “इन्द्रियाणां विच-
रतां विषयेष्वपहारिषु” मनुः । वि + चु० चर
पर्य्यालोचनया निर्णये । “आयतिं सर्वकार्य्याणां तदा-
त्वञ्च विचारयेत्” मनुः । “मित्रामित्रं विचारयेत्”
भा० पा० ३८२६ । “विचारदृक्चारदृगप्यवर्त्तत”
“भविता न विचारचारु चेत्” नैष० ।
सम् + सम्यग्गतौ “नैव वाताः प्रतायन्ते न मेघाः सञ्चरन्ति
च” हरिव० १०७५८ । “आमेखलं सञ्चरतां घना-
नाम्” कुमा० “सञ्चारोरतिमन्दिवावधि” रतिमञ्जरी
करणविभक्तिसहकारे आत्म० । “रथेन सञ्चरते” सि०
[Page2898-b+ 38]
कौ० । “पद्भ्यां नृपः सञ्चरमाण एव” नैष० ।


k1=चर, L=19417
चर¦ संशये असंशये च चुरा० उभ० सक० सेट् । चारयतिते
अचीचरत् त विचारयति विचारणा विचारितः


skd

k1=चर, L=12237
चर¦, गमने । अदने । आचारे । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) चरति । इति
दुर्गादासः ॥


k1=चर, L=12238
चर¦, क संशीत्यसंशीत्योः । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) संशीतिः संशयः । असं-
शीतिरसंशयः । क, विचारयति यो धर्म्ममिति
हलायुधः । चर असंशये । इति प्राञ्चः ।
केचित्तु संशये इति पठित्वा संशये हि विचा-
रणा स्यादित्याहुः । इति दुर्गादासः ॥


Match 0365: vcp=चर्च, skd=चर्च्च *

vcp

k1=चर्च, L=19449
चर्च¦ अध्ययने चुरा० उभ० सक० सेट् । चर्चयति--ते अचच-
र्चत्--त् । चर्चितः चर्चा ।


k1=चर्च, L=19450
चर्च¦ उक्तौ भर्त्सने च तु० पर० सक० सेट् । चर्चति अचर्च्चीत् ।
उक्तिरत्र विचारार्थपरिभाषणम् ।


skd

k1=चर्च्च, L=12262
चर्च्च¦, क इङ्समे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इङ्समः अध्ययनम् । क,
चर्च्चयति वेदं विप्रः । इति दुर्गादासः ॥


k1=चर्च्च, L=12263
चर्च्च¦, श उक्तौ । भर्त्सने । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) रेफोपधः । श, चर्च्चती
चर्च्चन्ती । गुणस्थानरहितानां तुदादिपाठ-
फलन्तु शत्रन्तानामादीपोरिति नुणो विभाषा
वेदेषूच्चारणभेदश्च । इति दुर्गादासः ॥


Match 0366: vcp=चर्ब, skd=चर्ब्ब *

vcp

k1=चर्ब, L=19460
चर्ब¦ गतौ भक्षणे च भ्वा० पर० सक० सेट् । चर्बति अचर्बीत् । चचर्ब ।


skd

k1=चर्ब्ब, L=12273
चर्ब्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) चर्ब्बति । इति दुर्गादासः ॥


Match 0367: vcp=चर्व, skd=चर्व्व *

vcp

k1=चर्व, L=19507
चर्व¦ भक्षणे दन्तैश्चूर्णने (चिवान) या चुरा० उभ० पक्षे भ्वा०
पर० सक० सेट् । चर्वयति--ते चर्वति अचचर्वत्--त
अचर्वीत् चर्वयां बभूव आस चक्रे चचर्व । चर्वणं चर्वणा
चर्वितः । रसास्वादव्यापारे चर्वणशब्दे दृश्यम् ।


skd

k1=चर्व्व, L=12309
चर्व्व¦, कि भक्षे । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-सकं-सेट् ।) कि, चर्व्वयति चर्व्वति
तण्डुलं बालकः । इति दुर्गादासः ॥


Match 0368: vcp=चल, skd=चल

vcp

k1=चल, L=19514
चल¦ गतौ भ्वा० पर० सक० सेट् । चलति अचालीत् । चचाल ।
चेलतुः । चलन् चलितः ज्वलादि० चालः पचा० चलः ।
“कृष्णेन निहते चैद्ये चचाल च वसुन्धरा” भा० सा०
४४ अ० । “चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्”
चाण० । “तिलमात्रमपि चलितुं न शक्नोति” पञ्चत० ।
आर्षे आत्म० । “न धर्माच्चलते वुद्धिर्धर्मराजस्य धीमतः”
भा० स० ७८ अ० । णिचि । चलयति चालयति । “चाल-
यन् वसुवां चेमां बलेन चतुरङ्गिणा” भा० आ० ९४ अ०
कम्पने अक० मिच्च । चलयति ते । अचीचलत् “चलयन्
भृङ्गरुचस्तवालकान्” रघुः “तां प्राविशत् कपिव्याघ्र-
स्तरूनचलयन् शनैः” भट्टिः । “यूनां मनश्चलयति प्रसभं
नभस्वान्” ऋ० स० गत्यर्थस्य न मित्त्वम् “मिच्चले” इति
कविकल्पद्रुमे कम्पार्थएव तस्य मित्त्वोक्तेः “आचालयेयुः
शैलांस्ते क्रुद्धाभिन्द्युर्महीतले” हरिव० ५४ अ० ।
पर्वतानाञ्च शिखराण्याचालयति वेगवान्” भा० शा०
१५४ अ० ।
उद् + ऊर्द्ध्वगमने उत्कम्य गतौ “पुष्पोच्चलितषट्पदम्” रघुः
उत्थाय गतौ च । “उच्चलितः प्रयाताम्” रघुः ।
वि + विशेषेण चलने । “व्यचालीदम्भसां पतिः” भट्टिः ।


k1=चल, L=19515
चल¦ विलासे तु० प० अ० सेट् । चलति अचालीत् चचाल ।


k1=चल, L=19516
चल¦ मृतौ पोषणे चु० सक० उभ० सेट् । चालयति ते
अचिचलत् ।


skd

k1=चल, L=12316
चल¦, क भृतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, चालयति । दन्त्यवकारादि-
रयमिति दुर्गसिंहजुमरनन्दी । भृतिरिह पोष-
णम् । इति दुर्गादासः ॥


k1=चल, L=12317
चल¦, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ज, चालः चलः । मिच्चले इति
वक्ष्यमाणं न पठित्वा इममेव मानुबन्धं भ्रान्ताः
पठन्ति तद्धेयम् । तेनास्य चालयति हस्तिनं
यन्ता । चलमानोऽनिल इत्यत्र ताच्छील्ये शतुः
शानः । मिच्चले । पूर्ब्बेणान्वयः । चलधातुः
कम्पने मानुबन्धः स्यादित्यर्थः । म, चलयति
लतां वायुः । चलयन् भृङ्गरुचस्तवालकानिति
रघुः । चालयन् सकलां पृथ्वीमिति घञन्तात्
चालं करोतीति ञौ शत्रन्तम् । इति दुर्गादासः ॥


k1=चल, L=12318
चल¦, श विलासे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-अकं-सेट् ।) श, चलती चलन्ती । विलासः
क्रीडनम् । इति दुर्गादासः ॥


Match 0369: vcp=चष, skd=चष

vcp

k1=चष, L=19542
चष¦ भक्षे भ्वा० उभ० सक० सेट् । चषति ते अचषीत्
अचाषीत् अचषिष्ट चचाष चेषतुः चेषे ।


k1=चष, L=19543
चष¦ बधे भ्वा० प० सक० सेट् । चषति अच--(चा)षीत् ।


skd

k1=चष, L=12346
चष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) चषति । इति दुर्गादासः ॥


k1=चष, L=12347
चष¦, ञ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
सकं-सेट् ।) ञ, चषति चषते । इति दुर्गा-
दासः ॥


Match 0370: vcp=चह, skd=चह

vcp

k1=चह, L=19547
चह¦ कल्के (प्रतारणे) भ्वा० पर० सक० सेट् । चहति
अचहीत् । चचाह चेहतुः ।


k1=चह, L=19548
चह¦ कल्के (प्रतारणे) अद० चुरा० उभ० सक० शेट् ।
चहयति--ते अचुचहत् त । चहयां, बभूव आस--चकार
चक्रे ।


k1=चह, L=19549
चह¦ कल्के प्रतारणे चुरा० उभ० सक० सेट् घटा० चहयति
ते अचीचहत्--त ।


skd

k1=चह, L=12351
चह¦, शाठ्ये । प्रतारण इति यावत् । इति कवि-
कल्पद्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) चहति ।
इति दुर्गादासः ॥


k1=चह, L=12352
चह¦, त् क शाठ्ये । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) चहयति खलः । इति
दुर्गादासः ॥


k1=चह, L=12353
चह¦, क म शाठ्ये । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क म, चहयति खलः साधुं
प्रतारयतीत्यर्थः । इति दुर्गादासः ॥


Match 0371: vcp=चाय, skd=चाय

vcp

k1=चाय, L=19640
चाय¦ निशाने (चाक्षुषज्ञाने) पूजने च सक० उभ० वट् ।
चायति ते आचायीत् अचासीत् अचायिष्ट अचास्त-
ऋदित् । अचचायत् त । “तं पर्ब्बतीया प्रमदाश्च-
चायिरे” माघः । “अनाद्यनन्तं महतः परं ध्रुवं नि-
चाय्य तं मृत्युमुखात् प्रमुच्यते” कठोप० । यङि चेकी-
यते । चायश्चिभावः । अपचितिः अपचित ।


skd

k1=चाय, L=12419
चाय¦, ऋ ञ निशामे । अर्च्चे । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-सकं-सेट् ।) ऋ, अचचायत् । ञ,
चायति चायते । निशाम इति चाक्षुषज्ञानम् ।
तं पर्व्वतीयाः प्रमदाश्चचायिरे । इति माघः ।
इति दुर्गादासः ॥


Match 0372: vcp=चि, skd=चि

vcp

k1=चि, L=19697
चि¦ आकर्षणेनादाने विमागपूर्व्वकादाने च उभ० द्विक० खा०
[Page2925-b+ 38]
अनिट् । चिनोति चिनुते । चिनोतु चिनु । अचैषीत्
अचेष्ट । चिकाय चिचाय चिक्ये चिच्ये । कर्मणि चीयते
अचायि । चिकीषति ते चिचीषति ते । चयनीयम् चेत-
ष्यम् चेयम् । चिन्वन् चिन्वानः । चितः चितिः ।
काथः चायः चयनम् । अग्निचित् चित्वा आचित्य
णिचि चाययति चापयति ।


k1=चि, L=19698
चि¦ चयने विमागपूर्वकादाने भ्वा० उभ० अनिट् । चयति ते स्वादिवत्


k1=चि, L=19699
चि¦ चयने विमागपूर्वकादाने वा० चु० उभ० पक्षे भ्वा० द्विक०
अनिट् वा घटादि । चाययतिते चापयतिते चपयति इत्येके
अचीचयत् त अचीचपत् । “दुहियाचिरुधिप्रछिभिक्षिचि-
ञामिति” भाष्योक्तेरस्य द्विकर्म्मकत्वम् “अचैषुर्वा-
नरोत्तमाः” भट्टिः । “चिचीषयन्तोध्वरपात्रजातम्”
भट्टिः “अन्तरीक्षे नाग्निश्चेतव्य” श्रुतिः । “राजहंस!
तव सैव शुम्रता चीयते न च न चापचीयते” काघ्यप्र० ।
अधि + आधिक्येन चयने । “यएष तपत्येतस्मादेवाध्यचीय-
तैतस्मिन्नध्यचीयत” शत० व्रा० १० । ४ ।
अनु + पश्चाच्चयने “आ मूलात् शास्त्रामिरनुचितः” ऐतरे० व्रा०
अप + हीनतासम्पादने सक० । “यस्यायुरपचीयते” भा० व०
१३७८ । कर्म्मकर्त्तरि प्रयोगः ।
अव + अधःस्थित्वा चयने । “फलान्यवाचिनोद्वृक्षान्” मुग्ध० ।
अव + आ सम्यगाचयने “पुष्पाण्यवाचिन्वतीम्” मा० व० १३१५
आ + सम्यक् चयने । “कर्माण्याचिनुतेऽ सकृत्” भाग० ४ ।
२९ । ७८ । “आचिक्याते च भूयोऽपि राघवौ तेन पन्नगेः”
भा० व० १२ व्याप्तौ च “कचाचितौ विव्यगिवागजौ
गजौ” किरा०
अनु + आ अन्वाचये अन्वाचयशब्दे दृश्यम्
सम् + आ + समाह्यरे “यदा तु घाससां राशिः सभामध्ये
समाचितः” भा० स० २३०४ ।
उद् ऊर्द्धतश्चयमे उत्तोल्यादाने “उच्चिक्यिरे पुष्पफलं वनानि” भट्टिः ।
अभि + उद् + समुच्चये अभ्युच्चयशब्दे दृश्यम्
सम् + उद् + समुच्चये समाहारे सक० एकमातीयक्रियाम्ब-
यादौ “अपिः पदार्थसंभाव्यगर्हामुज्ञासमुच्चये” सुग्ध०
“अपिशब्देन संयोगाभावादिः समुच्चीयते” काव्यप्र० ।
उप + वृद्धौ अक० वर्द्धने सक० । आनि घर्मे कपालान्यु प-
चिन्वन्ति वेथसः” तै० त्ति० १ । १ । ७ । २ । “अथ--मौलिगतस्ये-
न्दोर्विशदैर्दशनांशुभिः । उपचिन्वन् प्रभां तन्वीम्” कुमा० ।
नि + निशेषेण चयने समुच्चये च “रथः शरैर्मे निचितः” भा०
७ । १४ । “स्वदेशे निचिता दोषा अन्यस्स्मिन् कोप-
[Page2926-a+ 38]
मानताः” सुश्रुतः “त्रयः परार्थे क्लिश्यन्ति साक्षिणः
प्रतिभूकुलम् । चत्वारस्तूपचीयन्ते विप्र आद्यो वणिङ्
नृपः” मनुः
परि + परिचये पुनः पुनरनुशीलने । “चरणारविन्दस्य ध्यान-
परिचितभक्तियोगः” भाग० ५ । ७ । १ । “मुक्ताजालं चिर-
परिचितं त्याजितो दैवगत्या” मेघः । “हेतुः परिचय-
स्थैर्य्ये वक्तुर्गुणनिकैव सा” माघः ।
प्र + प्रकर्षेण चयने समाहारे च सक० “कर्णिकारान् प्रचि-
ण्वती” भा० आ० ७७
वि + विशेषेण चयने । “पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न
कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः”
भा० उ० ११११ श्लो०
सम् + सम्यक् चयने समाहारे “संचिन्वन्ति सदा युक्ता जा-
तरूपञ्च मौक्तिकम्” हरिव० ५२३६


skd

k1=चि, L=12461
चि¦, ञ चित्याम् । चयने । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-द्विकं-अनिट् ।) ञ, चयति चयते
धनं लोकः । इति दुर्गादासः ॥


k1=चि, L=12462
चि¦, ञ न चित्याम् । इति कविकल्पद्रुमः ॥ (स्वां-
उभं-द्विकं-अनिट् ।) चितिश्चयनं राशीकरण-
मिति यावत् । न ञ, चिनोति चिनुते । इति
दुर्गादासः ॥


k1=चि, L=12463
चि¦, क मि चित्याम् । इति कविकल्पद्रुमः ॥ (चुरां-
परं-द्विकं-सेट् ।) क मि, चययति चाय-
यति । स्वमते तु चपयति चापयतीत्यपि ।
इति दुर्गादासः ॥


Match 0373: vcp=चिक्क, skd=चिक्क

vcp

k1=चिक्क, L=19715
चिक्क¦ पीडने चु० उम० सक० सेट् । चिक्कयति ते अचि-
चिक्कत् त ।


skd

k1=चिक्क, L=12477
चिक्क¦, क अर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) कोपधः । तृतीयस्वरभध्यः ।
अर्त्तिः पीडनम् । क, चिक्कयति शत्रुं शूरः ।
इति दुर्गादासः ॥


Match 0374: vcp=चिट, skd=चिट

vcp

k1=चिट, L=19734
चिट¦ प्रेषणे भ्वा० पर० सक० सेट् । चेटति अचेटीत् । चिचेट--चेटः चेटी ।


k1=चिट, L=19735
चिट¦ प्रेषणे चु० उभ० सक० सेट् । चेटयति ते अचीचिटत् त


skd

k1=चिट, L=12494
चिट¦, प्रेषे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) चेटति भृत्यं स्वामी । इति दुर्गादासः ॥


k1=चिट, L=12495
चिट¦, क प्रेषे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ॥)


Match 0375: vcp=चित, skd=चित

vcp

k1=चित, L=19737
चित¦ ज्ञाने भ्वा० पर० सक० सेट् । चेतति अचेतीत् ।
चिचेत ईदित् चित्तः । “य इन्द्र । सोमपातमोमदः
शविष्ठ चेतति” ऋ० ८ । १२ । १ । “एवं तेऽचेतिषुः सर्व्वे”
भट्टिः । “कृतानीदस्य कर्त्त्वा चेतन्ते दस्युतर्हणाम्” ऋ०
९ । ४७ । २ । अ० वेदे पदव्यत्ययः । चेतः चेतनः चित् ।
क्लमरहितमचेतन्नीरजीकारितक्ष्माम्” भट्टिः ।


k1=चित, L=19738
चित¦ ज्ञाने चु० आत्म० सक० सेट् । चेतयति ते अचीचितत् त
चेतना चेतितः । “पूर्ब्बं चेतयते जन्तुरिन्द्रियैर्विषयान्
पृथक्” भा० शा० ९८९० “किन्नु सुप्तोऽस्मि जागर्मि
चेतयामि न चेतये” भा० स्वर्गा० २ अ० “राक्षस्यश्चेत-
यन्ति न” भट्टिः । अस्य अदन्तत्वमपि । तस्य चित-
यतीत्यादिरूपम् “इन्द्र न यज्ञैश्चितयन्त आयवः” ऋ०
१ । १३१ । २


k1=चित, L=19739
चित¦ स्मृतौ चु० उभ० सक० सेट् इदित् । चिन्तयति ते
अचिचिन्तत् त चिन्तितः चिन्तनम् चिन्तनाचिन्ता ।
“यद्यहं नैषधादन्यं मनसापि न चिन्तये” भा० व०
६३ अ० “तस्मादस्य बधं राजा मनसाऽपि न चिन्तयेत्”
मनुः ।


skd

k1=चित, L=12496
चित¦, ई ज्ञाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ई, चित्तः । ज्ञानमिह जागरणम् ।
ज्ञानञ्च अविद्यानिद्रयाक्रान्ते जगत्येकः स चेत-
तीति हलायुधः । चिचेत रामस्तत् कृच्छ्रम् ।
इति दुर्गादासः ॥


k1=चित, L=12497
चित¦, इ क स्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) इ क, चिन्तयति विष्णं सुधीः ।
इति दुर्गादासः ॥


k1=चित, L=12498
चित¦, क ङ ज्ञाने । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) क ङ, चेतयते । राक्षसस्य
चेतयन्ति न । इति भट्टौ गणकृतानित्यत्वमिति
रमानाथः । वस्तुतस्तु चेतयते ततश्चेतं करोतीति
ञौ साध्यम् । इति दुर्गादासः ॥


Match 0376: vcp=चिरि, skd=चिरि

vcp

k1=चिरि, L=19926
चिरि¦ हिंसे स्वादि० पर० सक० सेट् । चिरिणोति अचिरायीत् । वैदिकोऽयम् ।


skd

k1=चिरि, L=12632
चिरि¦, र न हिंसे । इति कविकल्पद्रुमः ॥ (स्वां-
परं-सकं-सेट् ।) रेफोपधः । र वैदिकः । न,
चिरिणोति । इति दुर्गादासः ॥


Match 0377: vcp=चिल, skd=चिल

vcp

k1=चिल, L=19935
चिल¦ वासे आच्छादने तु० पर० अक० सेट् । चिलति अचेलीत् । चिचेल ।


skd

k1=चिल, L=12641
चिल¦, श वासे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) वासः परिधानम् । श, चिलति
वस्त्रं लोकः परिदधातीत्यर्थः । चेलिता । इति
दुर्गादासः ॥


Match 0378: vcp=चिल्ल, skd=चिल्ल

vcp

k1=चिल्ल, L=19939
चिल्ल¦ शैथिल्ये भावकृतौ च भ्वा० पर० अक० सेट् । चिल्लति अचिल्लोत् । चिचिल्ल ।


skd

k1=चिल्ल, L=12644
चिल्ल¦, शैथिल्ये । हावकृतौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-अकं-सेट् ।) ह्रस्वी लद्वयान्तः ।
चिल्लति चेचिल्ल्यते । इति दुर्गादास ॥


Match 0379: vcp=चीक, skd=चीक

vcp

k1=चीक, L=19960
चीक¦ मर्षणे वा चु० उभ० पक्ष भ्वा० पर० सक० सेट् । ची-
कयति ते चीकति अचीचिकत् त अचीकीत् ।


skd

k1=चीक, L=12661
चीक¦, कि मर्शने । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे
भ्वां-परं-सकं-सेट् ।) कि, चीकयति चीकति ।
मर्शनं स्पर्शः । तथा च । चन्द्रावतीतरङ्गा-
र्द्राश्चीकयन्ति च यद्वपुरिति हलायुधः । वायवः
स्तृशन्तीत्यर्थः । भट्टमल्लस्तु मर्षण इति मूर्द्धन्य-
षमध्यं पठित्वा क्षमार्थमाह । इति दुर्गादासः ॥


Match 0380: vcp=चीभ, skd=चीभ

vcp

k1=चीभ, L=19971
चीभ¦ प्रशंसायां भ्वा० आत्म० सक० सेट् । चीभते अचीभिष्ट ।
चिचीभे ऋदित् अचिचीभत् त ।


skd

k1=चीभ, L=12672
चीभ¦, ऋ ङ कत्थे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) कत्थः प्रशंसा । ऋ, अचि-
चीभत् । ङ, चीभते गुणिनं गुणी ओष्ठ्यब-
कारादिरयमित्येके । इति दुर्गादासः ॥


Match 0381: vcp=चीव, skd=चीव

vcp

k1=चीव, L=19988
चीव¦ ग्रहणे संवृतौ च भ्वा० उभ० सक० सेट् । चीवति ते
अचीवीत् अचीविष्ट । चिचीव चिचीये ऋदित् । अचि-
चीवत् त ।


k1=चीव, L=19989
चीव¦ दीप्तौ चुरा० उभ० सक० सेट् । चीवयति ते अचीचिवत् त


skd

k1=चीव, L=12687
चीव¦, ऋ ञ ग्रहणे । संवृतौ । इति कविकल्प-
द्रुमः ॥ (भ्वां-उभं-सकं-सेट् ।) ऋ, अचिचीवत् ।
ञ, चीवति चीवते वल्कलं भिक्षुः । गृह्णाति
परिदधाति वेत्यर्थः । इति दुर्गादासः ॥


k1=चीव, L=12688
चीव¦, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) क, चीवयति । इति दुर्गा-
दासः ॥


Match 0382: vcp=चुच्य, skd=चुच्य

vcp

k1=चुच्य, L=20007
चुच्य¦ स्नाने मन्थने पीडने सुरादिसन्धाने च भ्वा० पर० सक०
चुच्यति अचुच्यीत् ईदित् चुक्तः ।


skd

k1=चुच्य, L=12704
चुच्य¦, ई अभिषवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सकञ्च-सेट् ।) तालव्यवर्गाद्योपधः । पञ्च-
[Page2-456-a+ 52]
मस्वरी । ई, चुक्तः । यद्वयान्तोऽयमित्येके ।
अभिषवः स्नानं मन्थनं पीडनं सन्धानञ्च ।
इति दुर्गादासः ॥


Match 0383: vcp=चुट, skd=चुट

vcp

k1=चुट, L=20011
चुट¦ अल्पीभावे भ्वा० पर० अक० सेट् । चोटति अचोटीत्
चुचोट ।


k1=चुट, L=20012
चुट¦ अल्पीभावे भ्वा० पर० अक० सेट् इदित् । चुण्टति अचुण्टीत् । चुचुण्ट ।


k1=चुट, L=20013
चुट¦ छेदने चुरा० उभ० सक० सेट् इदित् । चुण्टयति--ते
अचुचुण्टत् त


k1=चुट, L=20014
चुट¦ छेदने वा चु० उभ० पक्षे तुदा० कुटा० पर० सक०
मेट् । चोटयति--ते अचूचुटत्--त पक्षे चुटति अचुटीत्
चुचोट ।


skd

k1=चुट, L=12708
चुट¦, तुच्छने । इति कविकल्पद्रुमः । (भ्वां-परं-
अकं-सेट् ।) पञ्चमस्वरी । तुच्छनमल्पीभावः ।
चोटति नदी ग्रीष्मे । इति दुर्गादासः ॥


k1=चुट, L=12709
चुट¦, इ तुच्छने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) पञ्चमस्वरी । तुच्छनमल्पीभावः ।
इ, चुण्ट्यते नद्या ग्रीष्मे । इति दुर्गादास्रः ॥


k1=चुट, L=12710
चुट¦, इ क छेदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) पञ्चमस्वरी । इ क, चुण्ट-
यति धान्यं लोकः । इति दुर्गादासः ॥


k1=चुट, L=12711
चुट¦, क शि छेदे । इति कविकल्पद्रुमः । (चुरां-
तुदांच-परं-सकं-सेट् ।) क, चोटयति । शि,
चुटति अचुटीत् । इति दुर्गादासः ॥


Match 0384: vcp=चुट्ट, skd=चुट्ट

vcp

k1=चुट्ट, L=20015
चुट्ट¦ अल्पीभावे चुरा० उभ० अक० सेट् । चुट्टयति--ते अचु-
चुट्टत्--त ।


skd

k1=चुट्ट, L=12712
चुट्ट¦, क तुच्छने । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) टद्बयान्तः । पञ्चमस्वरी ।
एकटकार इति रामः । तुच्छनमल्पीभावः ।
क, चुट्टयति नदी ग्रीष्मे । इति दुर्गादासः ॥


Match 0385: vcp=चुड, skd=चुड

vcp

k1=चुड, L=20016
चुड¦ छेदने चुरा० उम० सक० सेट् सदित् । चुण्डयति--ते अचुचुण्डत्--त ।


k1=चुड, L=20017
चुड¦ अल्पीभावे भ्वा० पर० अक० सेट् इदित् । चुण्डति
अचुण्डीत् ।


skd

k1=चुड, L=12713
चुड¦, इ तौच्छ्ये । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) इ, चुण्ड्यते । तौच्छ्यमल्पी-
भावः । इति दुर्गादासः ॥


k1=चुड, L=12714
चुड¦, इ क छिदि । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इ क, चुण्डयति । इति दुर्गा-
दासः ॥


Match 0386: vcp=चुड्ड, skd=चुड्ड

vcp

k1=चुड्ड, L=20018
चुड्ड(द्ड)¦ कृतौ हावे च भ्वा० पर० सक० सेट् । चुड्डति
अचुड्डीत् । क्विपि दोपधस्य चुद् डोपधस्य चुड्


skd

k1=चुड्ड, L=12717
चुड्ड¦, कृतौ । हावे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-अकंच-सेट् ।) टवर्गतृतीयोपधः ।
[Page2-456-b+ 52]
क्विपि संयोगान्तलोपे चुड् । कातन्त्रादौ हाव-
करण इत्येकोऽर्थो दृश्यते । अमी हावाः क्रियाः
शृङ्गारभावजाः । इत्यमरः । भाव एवाल्प-
संलक्ष्यविकारो हाव इष्यते । इति साहित्य-
दर्पणम् । चुड्डति कान्ताथवा कान्तः । इति
दुर्गादासः ॥


Match 0387: vcp=चुण, skd=चुण

vcp

k1=चुण, L=20019
चुण¦ छेदने तु० कु० पर० सक० सेट् । चुणति अचुणीत्
चुचोण ।


skd

k1=चुण, L=12718
चुण¦, शि छिदि । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) शि, चुणति अचुणीत् चुचोण ।
इति दुर्गादासः ॥


Match 0388: vcp=चुत, skd=चुत

vcp

k1=चुत, L=20021
चुत¦ क्षरणे भ्वा० प० अक० सेट् । चोतति इरित् अचुतत्
अचोतीत् चुचोत


skd

k1=चुत, L=12721
चुत¦, इर् क्षरे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । अकं-इति केचित् ।) इर्, अचुतत्
अचोतीत् । क्षर इह आसेचनम् । चोततिघृतं
वह्नौ यज्वा आसिञ्चतीत्यर्थः । इति दुर्गादासः ॥


Match 0389: vcp=चुद, skd=चुद

vcp

k1=चुद, L=20023
चुद¦ नोदने चु० उ० सक० सेट् । चोदयति--ते अचूचूदत्--त
चोदितः चोदना । “धियो योनः प्रचोदयात्” “चोद-
नालक्षणोऽर्थोधर्म्मः” जैमि० ।


skd

k1=चुद, L=12724
चुद¦, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) नुदि प्रेरणे । क, चोदयति बाणं
चापः । इति दुर्गादासः ॥


Match 0390: vcp=चुप, skd=चुप

vcp

k1=चुप, L=20025
चुप¦ मन्दगतौ भ्वा० पर० सक० सेट् । चोपति अचोपीत् ।
चुचोप । “किं स्वित् स्वप्नङ् न मिषति किं स्विज्जा-
ग्रन्न चोपति” भा० व० १३३ अ० अष्टावक्रं प्रति प्रश्नः ।


skd

k1=चुप, L=12727
चुप¦, शनैर्गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) चोपतिखञ्जः । चोपति दुष्टं राजा ।
इति रमानाथः । इति दुर्गादासः ॥


Match 0391: vcp=चुब, skd=चुब

vcp

k1=चुब, L=20028
चुब¦ चुम्बने मुखसंयोगभेदे वा चु० उभ० पक्षे भ्वा० पर-
सक० सेट् इदित् । चुम्बयति ते चुम्बति अचुचुम्बत् त
अचुम्बीत् चुचुम्ब । “घूर्त्तोऽपरां चुम्बति” सा० द०
“प्रियामुखं किं पुरुषश्चुचुम्ब” कुमा० । “दशनच्छद एष
चुम्बयितुम्” दशकुमा० ।


skd

k1=चुब, L=12728
चुब¦, इ कि चुम्बने । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-सकं-सेट् ।) चुम्बनं मुखसंयोगः ।
इ, चुम्ब्यते । कि, चुम्बयति चुम्बति कान्ताधरं
कामी । प्रियामुखं किम्पुरुषश्चुचुम्बे ॥ इति
व्यतीहारे आत्मनेपदम् । इति दुर्गादासः ॥


Match 0392: vcp=चुर, skd=चुर

vcp

k1=चुर, L=20035
चुर¦ स्तेये (परद्रव्यापहरणे) वा चु० उभ० पक्षे भ्वा०
पर० सक० सेट् । चोरयति--ते चोरति अचूचुरत्--त
अचोरीत् “यश्चाग्निं चोरयेत् गृहात्” याज्ञ० । “अचू-
चुरत् चन्द्रसमोऽभिरामताम्” माघः ।


skd

k1=चुर, L=12733
चुर¦, कि स्तेये । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे-
भ्वां-परं-सकं-सेट् ।) कि, चोरयति चोरति
धनं चौरः । इति दुर्गादासः ॥


Match 0393: vcp=चुलुम्प, skd=चुलुम्प

vcp

k1=चुलुम्प, L=20046
चुलु(न्प)म्प¦ लौल्ये भ्वा० पर० अक० सेट् । चुलुम्पति
अचुलुम्पीत् “अम्भोधेर्नालिकेलीरसमिव चुलुकैरुच्चुलुम्प-
न्त्यपो ये” महावी० । अस्य नोपधत्वे क्विपि चुलुन्
मोपधत्वे चुलुम् ।


skd

k1=चुलुम्प, L=12739
चुलुम्प¦, लोपे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) अन्तःस्थतृतीयमध्यः । पञ्चमस्वर-
द्वयी । ओष्ठ्यवर्गशेषोपधः । चुलुम्पति । यगादौ
चुलुम्प्यते इत्यादि । न तु नकारजावनुस्वार-
पञ्चमाविति स्वरसान्नप्रकृतित्वे यगादौ तल्लोप
इति वाच्यम् । तर्हि नोपघस्यैव पठितुमुचित-
त्वात् । एवं सति अङ्कादीनां न प्रकृतित्वेऽपि
ङमध्यपाठः कथमिति चेन्न । ते तु कस्यचिन्मते
ङमध्या एवेति ज्ञापनाय ङमध्याः पठिताः । न
च तर्हि इदित् पाठेऽपीष्टसिद्धिरिति वाच्यम् ।
क्विपि संयोगान्तलोपे इदित्पाठे चुलुन् चुलुम्प
लोपे चुलुम् इति भेदात् । एवं सर्व्वत्र । इति
दुर्गादासः ॥


Match 0394: vcp=चूण, skd=चूण

vcp

k1=चूण, L=20064
चूण¦ सङ्कोचे चुरा० उभ० सक० सेट् । चूणयति ते अचुचूणत् त ।


skd

k1=चूण, L=12758
चूण¦, क सङ्कोचे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) तालव्यवर्गाद्यादिः । षष्ठ-
स्वरी । क, चूणयति चक्षुः सङ्कुचितं स्यादि-
त्यर्थः । इति दुर्गादासः ॥


Match 0395: vcp=चूर, skd=चूर

vcp

k1=चूर, L=20066
चूर¦ दाहे दिवा० आत्म० सक० सेट् । चूर्य्यते अचूरिष्ट ।
चुचूरे ईदित् चूर्णः ।


skd

k1=चूर, L=12761
चूर¦, ई ङ य दाहे । इति कविकल्पद्रुमः ॥ (दिवां-
आत्मं सकं-सेट् । (दीर्घी । ङ य, चूर्य्यते वह्नि-
रिन्धनम् । ई, चूर्णः । इति दुर्गादासः ॥


Match 0396: vcp=चूर्ण्ण, skd=चूर्ण *

vcp

k1=चूर्ण्ण, L=20068
चूर्ण्ण¦ पेषे चु० उभ० सक० सेट् । चूर्णयति--ते अचु
चूर्णत् त । चूर्णः चूर्णितः


skd

k1=चूर्ण, L=12762
चूर्ण¦, क पेषे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) षष्ठस्वरी । पेषश्चूर्णीकरणम् ।
क, चूर्णयति शिला । इति दुर्गादासः ॥


Match 0397: vcp=चूष, skd=चूष

vcp

k1=चूष, L=20087
चूष¦ पाने (चोषा) भ्वा० पर० सक० सेट् । चूषति । अचू-
षीत् । चुचूष । चूष्यम्


skd

k1=चूष, L=12781
चूष¦, पाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) दीर्घी चूषत्याम्रं लोकः । इति दुर्गा-
दासः ॥


Match 0398: vcp=चृत, skd=चृत् *

vcp

k1=चृत, L=20090
चृत¦ हिंसे ग्रन्थने च तुदा० सक० सेट् । चृतति अचर्तीत्
चचर्त्त । चर्त्तिष्यति चर्त्स्याति ।


k1=चृत, L=20091
चृत(प)¦ संदीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
चर्त्त(र्प)यति--ते । अचीचृत(प)त्--त अचचर्त्त(र्प)त् त ।
पक्षे चर्त्त(र्प)ति अचर्त्ती(र्पी)त् ।


skd

k1=चृत्, L=12783
चृत्¦, कि सन्दीपने । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-सकं-सेट् ।) कि, चर्त्तयति । इति
दुर्गादासः ॥


k1=चृत्, L=12784
चृत्¦, श हिंसे । ग्रन्थे । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) श, चृतति चर्त्तिता ।
ग्रन्थो ग्रन्थनम् । इति दुर्गादासः ॥


Match 0399: vcp=चेल, skd=चेल

vcp

k1=चेल, L=20116
चेल¦ लौल्ये अक० गतौ सक० भ्वा० प० सेट् । चेलति अचेलीत्
चिचेल ऋदित् अचिचेत्यत् त ।


skd

k1=चेल, L=12805
चेल¦, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सकंच-सेट्-ऋदित् ।) ऋ, अचि-
चेलत् । इति दुर्गादासः ॥


Match 0400: vcp=चेल्ल, skd=चेल्ल

vcp

k1=चेल्ल, L=20124
चेल्ल¦ चालने गतौ च भ्वा० पर० सक० सेट् । चेल्लति अचे-
ल्लीत् चिचेल्ल ऋदित् अचिचेल्लत् त ।


skd

k1=चेल्ल, L=12811
चेल्ल¦, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् ।) लद्वयान्तः । ऋ, अचि-
चेल्लत् । अस्य ऋदनुबन्धः कुटतेः कुटादिपाठ-
वन्निष्फलः वेदेषूच्चारणभेदार्थो वा । अयं कैश्चिन्न
मन्यते । इति दुर्गादासः ॥


Match 0401: vcp=चेष्ट, skd=चेष्ट

vcp

k1=चेष्ट, L=20125
चेष्ट¦ ईहायां भ्वा० आ० सक० सेट् । चेष्टते अचेष्टिष्ट ।
चिचेष्टे । अचचेष्टत्त अचिचेष्टत् न । चेष्टितः चेष्टा चेष्ट-
[Page2965-a+ 38]
मानः । “गङ्गायां हि न शक्नोमि वृहत्त्वाच्चेष्टितुं
चिरम्” मत्स्यपु० । “अतत्वरञ्च तान् योद्धुमचिचेष्टच्च
राघवौ” भट्टिः “एतचेष्टितभूमिषु” रघुः । “आस्ते शेते
चेष्टतेऽवतिष्ठति परिधावति” भाग० ५ । २६ । “यदा
स देवो जागर्त्ति तदेदं चेष्टते जगत्” मनुः ।
“चेष्टनस्पर्शनेऽनिलम्” मनुः । “तष्ट्रेव विहितं यन्त्रं
तथा चेष्टयितुर्वशे” भा० शा० ३३ अ० ।


skd

k1=चेष्ट, L=12812
चेष्ट¦, ङ ईहे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) ईहो व्यापारः । ङ, चेष्टते पठितुं
शिष्यः । इति दुर्गादासः ॥


Match 0402: vcp=च्यु, skd=च्यु

vcp

k1=च्यु, L=20206
च्यु¦ गतौ भ्वा० आत्स० सक० अनिट् । च्यवते अच्योष्ट ।
चुच्युवे । च्युतः । च्युतिः “यस्तु न च्यवते नित्यम्
यशसा वर्चसा श्रिया” भा० व० २१८ अ० । “अद्य ते
कतिचिद्रात्र्यश्च्युतस्यार्य्यकवेश्मनः” रा० अयो० ७२ । ५ ।
“न च्यवेयं स्वधर्म्मात्” भा० व० २८६ अ० । “अच्योष्ट
सत्वान्नृपतिश्च्युताशः” “च्युताशनायाः फलवद्विभूत्या”
भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योतार्थयुक्तगतौ ।


k1=च्यु, L=20207
च्यु¦ सहने सक० हसने अक० चु० उभ० सेट् । च्यावयति
अचि(चु)च्यवत् त । चु(चि)च्यावयिषति


skd

k1=च्यु, L=12863
च्यु¦, क हासे । सहने । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सकच्च-सेट् ।) अन्तःस्थाद्यो-
पधः । क, च्यावयति । इति दुर्गादासः ॥


k1=च्यु, L=12864
च्यु¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-अनिट् ।) अन्तःस्थाद्योपधः । ङ, च्यवते ।
इति दुर्गादासः ॥


Match 0403: vcp=च्युत, skd=च्युत् *

vcp

k1=च्युत, L=20208
च्युत¦ क्षरणे भ्वा० पर० अक० सेट् । च्योतात इरित् अ-
च्युत अच्योतीत् । चुच्योत । च्युतः । “इदं शोणित
मभ्यग्रं संप्रहारेऽच्युतत्तयोः” इदं कवचमच्योतीत्”
इति च भट्टिः ।


skd

k1=च्युत्, L=12865
च्युत्¦, इर क्षरणे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् । क्वचित् अकञ्च ।) अन्तःस्थादि-
युक्तः । इर्, अच्युतत् अच्योतीत् । क्षर इह
आसेचनम् । च्योतति घृतं वह्नौ यज्वा । आसिञ्च
तीत्यर्थः । इति दुर्गादासः ॥ (यथाच, भट्टिः ।
६ । २८ ।
“सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम् ।
इदं शोणितमभ्यग्रं सम्प्रहारेऽच्युतत्तयोः ॥”
“अच्युतत् गलितमकर्म्मकोऽत्र ।” इति तट्टीकायां
जयमङ्गलभरतौ ॥”)


Match 0404: vcp=च्युस, skd=च्युस

vcp

k1=च्युस, L=20212
च्युस¦ हानौ हसने चु० उभ० अक० सेट् । च्योसयति ते
अचुच्युसत् त ।


skd

k1=च्युस, L=12869
च्युस¦, क हानौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) क्वचित् पुस्तके हासे । अन्तः-
स्थादियुक्तः । क, च्योसयति । इति दुर्गादासः ॥


Match 0405: vcp=छद, skd=छद

vcp

k1=छद, L=20243
छद¦ संवृतौ अद० चु० उभ० सक० सेट् । छदयति ते अचिच्छदत् त


k1=छद, L=20244
छद¦ संवृतौ वा चु० पक्षे भ्वा० उभ० सक० सेट् । छाद-
यति ते छदति ते अचिच्छदत् त अच्छादीत्--अच्छदीत्
अच्छदिष्ट । ऊर्ज्जने बलाधाने जीवने चायं मित् ।
छदयति ते इति भेदः । छन्नः--छादितः । घे ह्रस्वः छदः ।
“अग्निमन्तश्छादयसि” अथ० ९, ३, १४, “अन्तं छाद-
येदाज्येन” कात्या० श्रौ० ४, ६, ५, “छादयन्निषुजालेन”
भा० आ० १३८३ अ० । उपसर्गपूर्ब्बकस्य तत्तदुपसर्ग-
द्योत्यार्थयुक्तसंवरणे “आच्छाद्य चार्च्चयित्वा च” मनुः ।


k1=छद, L=20245
छद¦ संवृतौ चु० उभ० सक० सेट् इदित् पाणि० । छन्द-
यति ते अचिच्छन्दत् त । छन्दः ।


skd

k1=छद, L=12907
छद¦, त् क संवृतौ । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) छदयति । इति दुर्गा-
दासः ॥ (यथा, कविरहस्ये । १६ ।
[Page2-466-b+ 52]
“छदयति सुरलोकं यो गुणैर्यञ्च युद्धे
सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च ॥”)


k1=छद, L=12908
छद¦, कि ञ संवृतौ । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-उभं-सकं-सेट् ।) कि ञ, छादयति
छादयते छदति छदते दिशंमेघः । आच्छा-
दयति इत्यर्थः । इति दुर्गादासः ॥


k1=छद, L=12909
छद¦, म कि ञ ऊर्ज्जने । ऊर्ज्जनं बलं जीवनञ्च ।
इति कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-उभं-
सकं-सेट् ।) छदयति पुत्त्रं पिता । जीवयति
बलवन्तं करोति वा इत्यर्थः । इति दुर्गादासः ॥


Match 0406: vcp=छप, skd=छप

vcp

k1=छप, L=20270
छप¦ गतौ वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
छम्पयति ते छम्पति अचच्छम्पत् त अच्छम्पीत् । चच्छम्प ।


skd

k1=छप, L=12925
छप¦, इ क सर्पे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इ क, छम्पयति । सर्पो गतिः ।
इति दुर्गादासः ॥


Match 0407: vcp=छम, skd=छम

vcp

k1=छम, L=20271
छम¦ भक्षणे भ्वा० पर० सक० सेट् । छमति अच्छमीत् ।
उदित् छमित्वा--छान्त्वा छान्तः । छमण्डः


skd

k1=छम, L=12926
छम¦, उ भक्षे । इति कविकल्पद्रुमः । (भ्वां-परं
सकं-सेट् । उदित्वात् क्त्रावेट् ।) छमति । उ,
छमित्वा छान्त्वा । इति दुर्गादासः ॥


Match 0408: vcp=छर्द्द, skd=छर्द्द

vcp

k1=छर्द्द, L=20273
छर्द्द¦ वमने चरा० उभ० सक० सेट् । छर्दयति ते अचच्छर्दत्
त । छर्दितः । छर्दिः ।


skd

k1=छर्द्द, L=12928
छर्द्द¦, क वमने । इति कविकल्पद्रुमः । (चुरां-परं-
सकं-सेट् ।) वमनं वान्तिः । क, छर्दयति अन्नं
लोकः । इति दुर्गादासः ॥ (तथाच, महा-
भारते । ५ । ९६ । ४२ ।
“स्वपन्ति च प्लवन्ति च छर्द्दयन्ति च मानवाः ॥”)


Match 0409: vcp=छष, skd=छष

vcp

k1=छष, L=20289
छष¦ बधे भ्वा० उभ० सक० सेट् । छषति ते अच्छा(च्छ)षीत्
अच्छषिष्ट । चच्छाष चच्छषे ।


skd

k1=छष, L=12942
छष¦, ञ वधे । इति कविकल्पद्रुमः । (भ्वां-उभं-
सकं-सेट् ।) ञ, छषति छषते । अयं कैश्चिन्न
मन्यते । इति दुर्गादासः ।


Match 0410: vcp=छिद, skd=छिद

vcp

k1=छिद, L=20341
छिद¦ द्वैधीकरणे रुधा० उभ० सक० अनिट् । छिनत्ति छिन्ते
इरित् । अच्छिदत्, अच्छेत्सीत् अच्छित्त । “न छिन्द्या-
न्नखलोमानि” “न च्छिन्द्यात् करजैर्नखम्” मनुः
“अच्छिन्दन्नुत्तमाङ्गानि” भा० व० १२ । ६३ अ० । भिदा-
दित्वात् अङ् छिदा । “कर्म्मस्थः पचतेर्भावः कर्म्मस्थाश्च
भिदादयः” इत्युक्तेः ततः कर्म्मकर्त्तरि प्रत्ययः छिद्यते
कटःस्वयमेव । छिदुरः स्वयंछिन्नः ।
अप + अपकृष्य छेदने “एतस्यै वा एषापच्छिद्यैषैव पुनर्भवत्यपि”
शत० व्रा० ५ । ३ । ४ । ९ ।
अव + विभागमेदे । स च दैशिकः कालिकश्च अवच्छेदशब्दे ४२० पृ० दृश्यम् ।
वि + अव + व्यावर्त्तने निरासने व्यवच्छेदः ।
आ + आकृष्य हरणे । (काडियालओया) अपहरणे “आ-
छिन्द्युरितरासु च” नारदः । “मिषतामाच्छिन्नत्ति
नः” कुमा० । सम्यक्छेदे च । “आच्छेत्स्याम्यहमेतस्य
धनुर्ज्यामपि चाहवे” भा० व० १९६ श्लो० ।
उद् + समूलनाशने । “किं वा रिपूंस्तव गुरु स्वयमुच्छिनत्ति”
रधुः “उच्छेत्तु प्रभवति यन्न सप्तसप्तिः” शकु० ।
परि + इयत्तया विभागे परिच्छेदः । “यशःपरिच्छेत्तुमि-
यत्तयालम्” रघु० । “परिच्छिन्नप्रभावर्द्धिर्न मया न च
विष्णुना” कुमा० ।
वि + विभागे भेदे च “विच्छिद्य तौ शरैर्वारौ” हरिवं०
[Page2999-b+ 38]
८५३० श्लो० । “यदर्द्धेविच्छिन्नं भवति कृतसन्धानमिव
तत्” शकु० ।


skd

k1=छिद, L=12989
छिद¦, इर ध ञ औ छेदे । इति कविकल्पद्रुमः ॥
(रुधां-उभं-सकं-अनिट् ।) छेदो द्विधाकरणम् ।
इर्, अच्छिदत् अच्छैत्सीत् । ध ञ, छिनत्ति
छिन्ते दात्रेण तृणं लोकः । औ, छेत्ता । इति
दुर्गादासः ।


Match 0411: vcp=छिद्र, skd=छिद्र

vcp

k1=छिद्र, L=20348
छिद्र¦ भेदने अद० चुरा० उभ० सल० सेट् । छिद्रयति ते
अचिच्छिद्रत् त । छिद्रितः छिद्रम् ।


skd

k1=छिद्र, L=12995
छिद्र¦, त् क भेदे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) भेद इह रन्ध्रकरणम् ।
छिद्रयति छिद्रापयति भाण्डं बालकः । इति
दुर्गादासः ॥


Match 0412: vcp=छुट, skd=छुट

vcp

k1=छुट, L=20373
छुट¦ छेदने वा चुरा० उभ० पक्षे तु० कुटा० पर० सक० सेट् ।
छोटयति ते छुटति । अचुच्छुतत् त अच्छुटीत् ।


skd

k1=छुट, L=13012
छुट¦, क शि छेदे । इति कविकल्पद्रुमः ॥ (चुरां
तुदां च-सकं-सेट् ।) क, छोटयति । शि,
छुटति । अच्छुटीत् । इति दुर्गादासः ॥


Match 0413: vcp=छुप, skd=छुप

vcp

k1=छुप, L=20377
छुप¦ स्पर्शे तु० पर० सक० अनिट् । छुपति अच्छापसीत् चुच्छोप ।


skd

k1=छुप, L=13014
छुप¦, श औ स्पर्शे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-अनिट् ।) श, छुपति । औ, छोप्ता ।
इति दुर्गादासः ॥


Match 0414: vcp=छुर, skd=छुर

vcp

k1=छुर, L=20380
छुर¦ छेदे भ्वा० पर० सक० मेट् । छोरति अच्छोरीत् । चुच्छोर


k1=छुर, L=20381
छुर¦ लेपने तु० कु० पर० सक० सेट् । छरति अच्छुरीत् ।
चुच्छोर छुरितः । “छुरितमिव वियद्घनैर्विचित्रैः” वृ०
स० २४० अ० । “कुसुमलवच्छुरितपर्य्यन्ते पर्य्यङ्कतले”
दशकु० । “मनःशिलाविच्छुरिता तिषेदुः” कमा०


skd

k1=छुर, L=13016
छुर¦, छेदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । छोरति । अच्छोरीत् ॥)


k1=छुर, L=13017
छुर¦, शि लोपे । इति कविकल्पद्रुमः । (तुदां-परं-
सकं-सेट् ।) शि, छुरति, अच्छुरीत् चुच्छोर ।
लोपश्छेदः । इति दुर्गादासः ॥


Match 0415: vcp=छृद, skd=छृद

vcp

k1=छृद, L=20389
छृद¦ सन्दीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
छर्दयति ते छर्दति अचिच्छृदत्--त अचच्छर्दत् त
अच्छदीत् ।


k1=छृद, L=20390
छृद¦ देवने दौप्तौ च अक० वसने सक० रुधा० उभ० सेट् ।
छणत्ति छृन्ते इरित् । अच्छृदत् अच्छर्दीत् । अच्छ-
र्द्दिष्ट छर्द्दिष्यति--छर्त्स्यति उदित् छर्दित्वा छृत्त्वा छृन्नः


skd

k1=छृद, L=13024
छृद¦, कि सन्दीपे । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-सकं-सेट् ।) सन्दीपो दीप्ती-
करणम् । कि, छर्द्दयति छर्दति दीपं लोकः ।
इति दुर्गादासः ॥


k1=छृद, L=13025
छृद¦, उ ञ ध इर् देवने । त्विषि । वमने । इति
कविकल्पद्रुमः ॥ (रुधां-उभं-सकं-सेट् । उदित्वात
क्त्वावेट् ।) उ, छिद्दित्वा छृत्त्वा । ञ ध, छृणत्ति
[Page2-496-a+ 52]
छृन्ते । इर्, अछृदत् अच्छर्द्दीत् । देवनं
जिगीषेच्छाव्यवहारस्तुतिद्युतिक्रीडागतयः । इति
केचित् । स्वमते तु क्रीडनमेव अन्यथा त्विषो
ग्रहणमनर्थकं स्यात् । त्विषि दीप्तौ । इति दुर्गा-
दासः ॥


Match 0416: vcp=छेद, skd=छेद

vcp

k1=छेद, L=20394
छेद¦ छेदने अद० चु० उभ० सक० सेट् । छेदयति ते अचि-
च्छेदत् त


skd

k1=छेद, L=13028
छेद¦, त् क छेदे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरां-परं-सकं-सेट् ।) अचिच्छेदत् । इति
दुर्गादासः ॥


Match 0417: vcp=छो, skd=छो

vcp

k1=छो, L=20406
छो¦ छेदने दि० पर० सक० अनिट् । छ्यति अच्छात् अच्छा-
सीत् । चच्छौ । छातः--छितः ।


skd

k1=छो, L=13036
छो¦, य लूनौ । इति कविकल्पद्रुमः ॥ (दिवां-परं-
सकं-अनिट् ।) लूनिश्छेदः । य, छ्यति धान्यं
लोकः । इति दुर्गादासः ॥


Match 0418: vcp=छ्यु, skd=छ्यु

vcp

k1=छ्यु, L=20412
छ्यु¦ गतौ भ्वा० आत्म० सक० अनिट् । छ्यवते अच्छ्योष्ट
णेश्चङि अचि(चु)च्छ्यवत् त । णेः सनि चु(चि)
च्छ्यावयिषति ते ।
इति वाचस्पत्ये छकारादिशब्दार्थनिरूपणम् ।


skd

k1=छ्यु, L=13041
छ्यु¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-सेट् ।) ङ, छ्यवते । इति दुर्गादासः ॥


Match 0419: vcp=जक्ष, skd=जक्ष

vcp

k1=जक्ष, L=20416
जक्ष¦ भक्षे मक० हासे अक० जक्षा० स्वपादि० प० सेट् ।
स्वपादिश्च रुदाद्यन्तर्गणस्तेन झलादेः सार्वधातुकस्य इट् ।
जक्षिति जक्षितः अभ्यस्तसंज्ञः तेन जक्षति ।
अजक्षीत् “उतेव स्त्रीभिः सह मोदमानो जक्षदुते
वापि भयानि पश्यन्” शत० व्रा० १४ । ७ । १ । १४ । “अश्नत्यां
कश्चिदश्नाति जक्षत्यां सह जक्षिति” भाग० ४ । २५ । ५७ ।
[Page3003-b+ 38]
“हविर्जक्षिति निःशङ्कोमखेषु मघवानसौ” जक्षिमो-
ऽनपराधेऽपि” भट्टिः । अस्यान्तःस्थादितां केचित्
मन्यन्ते । “यक्ष्यतामिति येऽप्युक्तास्ते वै यक्षास्व
यक्षणात्” विष्णुपु० यक्षनामनिरुक्तौ तथादर्शनात् ।


k1=जक्ष, L=20417
जक्ष¦ दाने भ्वा० इदित् आ० सक० सेट् । इदित्करणसामथ्यास
अनुपधस्यापि नुम् । जङ्क्षते अजङ्क्षिष्ट । मित् । अजङ्क्षि
अजाङ्क्षि (जा) जङ्क्षम् । इदित्करणात् जङ्क्षयते ।


skd

k1=जक्ष, L=13047
जक्ष¦, इ म ङ दाने । गतौ । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-सकं-सेट् ।) इ, जङ्क्ष्यते । न मध्य-
पाठे नैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
म, अजङ्क्षि अजाङ्क्षि जङ्क्षं जङ्क्षं जाङ्क्षं जाङ्क्षं
अनुबन्धबलादनुपधाया अपि दीर्घः । क्षमते तु
अत्र दीर्घविधिरुपधां नापेक्षते । ङ, जङ्क्षते ।
इति दुर्गादासः ॥


k1=जक्ष, L=13048
जक्ष¦, क्ष लु घ भक्षे । हासे । इति कविकल्प-
द्रुमः ॥ (अदां-परं-भक्षे सकं-हासे-अकञ्च-सेट् ।)
केचित्तु विष्णुपुराणे यक्षराक्षसोत्पत्तिप्रसङ्गे
यक्ष्यतामिति यैरुक्तं ते वै यक्षास्तु यक्षणादिति
भक्षणार्थस्यैव यक्षशब्दव्युत्पादनादेतमन्तः-
स्थादिं मन्यन्ते ॥ तत्र अमरटीकायां वर्ग्य-
[Page2-497-a+ 52]
जकारस्यान्तःस्थयकारश्छान्दसो द्रष्टव्य इत्युक्त्वा
वर्ग्यादिरयं निर्णीतः । क्ष, जक्षति । लु घ,
जक्षिति । इति दुर्गादासः ॥


Match 0420: vcp=जज, skd=जज

vcp

k1=जज, L=20483
जज¦ युद्धे भ्वा० पर० अक० सेट् । जजति अजाजीत्--अजजीत् जजाज जेजतुः


k1=जज, L=20484
जज¦ युद्धे भ्वा० प० अक सेट् इदित् । जञ्जति अजञ्जीत्
जजञ्ज “पृथुजयी असूर्य्येव जञ्जती” ऋ० १ । १६८ । ७ ।
कर्म्मणि जञ्ज्यते


skd

k1=जज, L=13092
जज¦, युधि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) जजति । युधि योधने । इति दुर्गादासः ॥


k1=जज, L=13093
जज¦, इ युधि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) इ, जञ्ज्यते । युधि योधने । इति
दुर्गादासः ।


Match 0421: vcp=जट, skd=जट

vcp

k1=जट, L=20491
जट¦ संहतौ भ्वा० पर० अक० सेट् । जटति अजाटीत्-
अजटीत् । जजाट जटतुः जटा ।


skd

k1=जट, L=13095
जट¦, संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) जटति केशः परस्परं लग्नः
स्यादित्यर्थः । इति दुर्गादासः ॥


Match 0422: vcp=जन, skd=जन

vcp

k1=जन, L=20538
जन¦ जनने जुहो० पर० अक० सेट् घटा० । जजन्ति ।
अजनीत् अजानीत् घटा० । जनयति जनितः
वि--अति परस्परजनने आत्म० । व्यतिजजन्ते । सार्वधातु-
कसधोरिट् व्यतिजज्ञिपे व्यतिजज्ञिध्वे


k1=जन, L=20539
जन¦ जनने दि० आ० अक० सेट् जायते अजनि अजनिष्ट ।
जजान जज्ञतुः ईदित् । जातः । घटा० । जनयति ।
उभयोरपि उपसर्गात् परयोस्तत्तदुपसर्गद्योत्यार्थयुक्त-
जनने तत्र ।
अति + अतिक्रम्य जनने सक० ।
अधि + आधिक्येन जनने । आधिपत्येन जनने च “तेजस
एव तदध्यापोजायन्ते । “व्राह्मणोजायमानोऽपि पृथि-
व्यामधिजायते” मनुः ।
अनु + पश्चाज्जनने अक० । “पुत्रिकायां कृतायां च यदि
पुत्रोऽनुजायते” मनुः । पश्चादुत्पत्त्या सादृश्य करणे
सक० । “असौ कुमारस्तमतोऽनुजातस्त्रिविष्टपस्येव
पतिं जयन्तः” रघु० ।
सम् + अनु + सम्यगनुजनमे सक० “पितॄन् समनुजायन्ते
नरा मातरमङ्गनाः” रामा० अयो० ३५ । २६ ।
अभि + अभिलक्ष्यीकृत्य जनने सक० “भवन्ति सम्पदं दैवीमभि-
जातस्य भारत!” । “अज्ञानञ्चाभिजातस्य पार्थ! सम्पद
मासुरीम्” गीता । सम्यग्जनने आभिमुख्येन
जनने अक० “शुचीनां श्रीमतां गेहे योगभ्रष्टोऽसि
जायते” “कामात् क्रोधोऽभिजायते” गीता ।
प्रति + प्रतिरूपजनने अक० । “प्रजापतिश्चरसि गर्भे त्वमेव
प्रतिजायसे प्रश्नो० ।
वि + विशेषेण जनने विरुद्धजनने विकारे च “पतिना
रहिता तस्मात् पुत्रं देवी व्यजायत” रामा० आदि०
७० अ० । गर्भमोचने सक० “यूनां मत्ता प्रथमं विजज्ञतुः”
ऋ० ९ । ६८ । ५ । “पशुस्तिष्ठन् गर्भं धृत्वानुप विश्य
विजायते” शत० ब्रा० ७ । ४ । १ । १ । “काममाविज-
नितीः सम्भवेम” तै० स० ३ । ५ । १ । ५ “तस्मात् व्यजायत”
रामा० बा० १ । ७० । “यक्षी पुत्रं व्यजायत” बा २७ । ८ ।


skd

k1=जन, L=13139
जन¦, ई म य ङ जनौ । इति कविकल्पद्रुमः ॥
(दिवां-आत्मं-अकं-सेट् ।) ई, जातः । म,
जनयति । य ङ, जायते जन्यते । जनिर्ज्जन्म ।
प्रादुर्भावे इति प्राञ्चः । प्रादुर्भावः स्फुटीभावः ।
प्राकाश्ये प्रादुराविः स्यादित्यमरः । बीजा-
दङ्कुरो जायते पत्रकाण्डादिभेदेन प्रकाशते
इत्यर्थः । प्रादुर्भावोऽसदुत्पत्तिरिति केचित् ।
घटो जायते । इति दुर्गादासः ॥


k1=जन, L=13140
जन¦, म लि र जनौ । इति कविकल्पद्रुमः ॥
(ह्वां-परं-अकं-सेट् ।) म, जनयति । लि, जजन्ति ।
रवैदिकः । इति दुर्गादासः ॥


Match 0423: vcp=जप, skd=जप

vcp

k1=जप, L=20630
जप¦ उच्चारणे वाचि च भ्वा० पर० सक० सेट् । जपति
अजापीत्--अजपीत् । जजाप जेपतुः । जप्त्वा । “एत-
दक्षरमेतां च जपन् व्याहृतिपूर्विकाम्” मनुः । “ततः
सप्रणवां सव्याहृतिकां गायत्रीं जपेत्” गोमि० “जपेत्
सप्तशतीं मध्ये” चण्डीशब्दे दृश्यम् ।
अभि + आभिमुख्येन जपे “चकार रक्षां कौशल्या मन्त्रैरभि-
जजाप च” रामा० अयो० २५ । ३० । सम्यक्कथने च
उप + भेदने । (काणफुसलनि देओया) “क्षत्तारं कुरुराजस्तु
शनैः कर्णमुपाजपत्” भा० वि० २२१६ “उपजप्यानु-
जपेत्” मनुः “उपजापः कृतस्तेन” माघः ।


skd

k1=जप, L=13212
जप¦, हृदुच्चारे वाचि । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् ।) जिह्वोष्ठादिव्यापार-
रहितं शब्दार्थयोश्चिन्तनं हृदुच्चारः । जपति
मन्त्रं साधकः । इति दुर्गादासः ॥


Match 0424: vcp=जभ, skd=जभ

vcp

k1=जभ, L=20641
जभ¦ मैथुने भ्वा० पर० सक० सेट् । जभति अजम्भीत् ।
जजम्भ जजम्भतुः जजभतुः । जभितः । मैथुनञ्च मैथुनेन
घर्षणम् । ता इमा जभितुं पापा उपक्रामन्ति मां प्रभो!”
भाग० ३ । २० । २७ । “जभितुं मैथुनेन घर्षयितुम्” श्रीधरः ।


k1=जभ, L=20642
जभ¦ मैथुने भ्वा० पर० अक० सेट् इदित् । जम्भति
धातूनामनेकार्थत्वात् भक्षणेऽपि “श्वा न्वस्य जम्भिषदपि”
ऋ० १० । ८६ । ४ । “जम्भिषत् भक्षयतु” भा० ।


k1=जभ, L=20643
जभ¦ जृम्भे चुरा० उभ० सक० इदित् । जम्भयति ते अज-
जम्भत् त । “जम्भयतमभितो रायतः शुनी” ऋ० १ । १८२ । ४
“हनु वृकस्य जम्भया” अथ० १९ । ४७ । ९ ।


k1=जभ, L=20644
जभ¦ जृम्भे आ० भ्वा० आत्म० सेट् । जभते अजम्भिष्ट जजम्भे जेभे ।


skd

k1=जभ, L=13217
जभ¦, जभने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) जभनं मैथुनम् । जभति युवा ।
इति दुर्गादासः ॥


k1=जभ, L=13218
जभ¦, इ जभने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) जभनं मैथुनम् । इ, जम्भ्यते ।
इति दुर्गादासः ॥


k1=जभ, L=13219
जभ¦, इ क नशि । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) नशीति अन्तर्भूतञ्यर्थत्वा-
न्नष्टीकरणे । इ क, जम्भयति पापं गङ्गा । इति
दुर्गादासः ॥


k1=जभ, L=13220
जभ¦, इ ङ जृम्भे । गात्रशैथिल्य इति यावत् ।
इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।)
इ, जम्भ्यते । ङ, जम्भते । प्रत्यूषकाले भुज-
गाङ्गनानां मुखेषु कामः प्रतिजृम्भतीव । इति
गणकृतानित्यत्वात् । इति दुर्गादासः ॥


k1=जभ, L=13221
जभ¦, ङ जृम्भे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) जृम्भो गात्रशैथिल्यमिति
गोविन्दभट्टः । ङ, जम्भते लोकः । नुण् जभो-
[Page2-512-c+ 52]
ऽचीत्यस्यैव नुण् आत्मनेपदप्रकरणे सूत्रविधान-
सामर्थ्यात् । इति दुर्गादासः ॥


Match 0425: vcp=जम, skd=जम

vcp

k1=जम, L=20645
जम¦ भक्षे भ्वा० पर० पर० सक० सेट् । जमति अजमीत् उदित्
जमित्वा जान्त्वा । अयञ्च धातुः नैगमे २ । १४ गत्यर्थक-
त्वेन । १ । १७ जमदिति ज्वलत्यर्थत्वेन चोक्तः । जामि-
शब्दनिरुक्तौ च ३ । ६ जमतेर्वा स्याद्गतिकर्म्मणो निर्ग-
मनप्राया भवति” जमदग्निशब्दनिरुक्तौ च १ । २४ । “जम-
दग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा” इत्युक्तम् ।


skd

k1=जम, L=13222
जम¦, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जमित्वा
जान्त्वा । इति दुर्गादासः ॥


Match 0426: vcp=जर्च, skd=जर्च्च *

vcp

k1=जर्च, L=20755
जर्च(र्छ)¦ उक्तौ तु० प० सक० सेट् । जर्च (र्छ)ति अज-
र्ची(र्छी)त्! जजर्च्च(र्च्छ) ।


skd

k1=जर्च्च, L=13303
जर्च्च¦, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) श, जर्च्चती जर्च्चन्ती ।
गुणस्थानरहितानां तुदादिपाठफलस्तु शत्र-
न्तानां आदीपोरिति नुणो विभाषा वेदेषूच्चारण-
भेदश्च । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥


Match 0427: vcp=जर्ज, skd=जर्ज्ज *

vcp

k1=जर्ज, L=20756
जर्ज¦ उक्तौ भर्त्सने च तु० प० सक० सेट् । जर्जति अजर्जीत् जजर्ज जर्जरः ।


skd

k1=जर्ज्ज, L=13305
जर्ज्ज¦, श वाच । भर्त्से । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) श, जर्ज्जती जर्ज्जन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥


Match 0428: vcp=जर्झ, skd=जर्झ

vcp

k1=जर्झ, L=20761
जर्झ¦ उक्तौ भर्त्सने च तु० पर० सक० सेट् । जर्झति
अजर्झीत् जजर्झ ।


skd

k1=जर्झ, L=13308
जर्झ¦, श भर्त्से । उक्तौ । इति कविकल्पद्रुमः ।
(तुदां-परं-सकं-सेट् ।) श, जर्झती जर्झन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥


Match 0429: vcp=जर्त्स, skd=जर्त्स

vcp

k1=जर्त्स, L=20766
जर्त्स¦ भर्त्सने उक्तौ रक्षणे च भ्वा० पर० सक० सेट् । जर्त्सति अजर्त्सीत् । जजर्त्स ।


skd

k1=जर्त्स, L=13313
जर्त्स¦, झर्झे । रक्षे । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् ।) रेफयुक्तः दन्त्यवर्गाद्यो-
पधः । जर्त्सति । झर्झा भर्त्सनमुक्तिश्च । इति
दुर्गादासः ॥


Match 0430: vcp=जल, skd=जल

vcp

k1=जल, L=20769
जल¦ आच्छादादने चुरा० उभ० सक० सेट् । जालयति ते
अजीजलत् त ।


k1=जल, L=20770
जल¦ तीक्ष्णीभवने जीवनोपयोगिक्रियायां च अक० भ्वा० पर० सेट् ।
जलति अजालीत् जजाल जेलतुः । ज्वलादि जलः जालः ।


skd

k1=जल, L=13315
जल¦, क पिधाने । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) पिधानमाच्छादनम् । क,
जालयति चन्द्रं मेघः । इति दुर्गादासः ॥


k1=जल, L=13316
जल¦, ज धान्ये । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् । अकं इति केचित् ।) ज, जालः
जलः । धीयते अनेनेति धानं तस्य भावः धान्यं
जीवनोपयोगिक्रिया । जलति लोकान् जलम् ।
जीवयतीत्यर्थः । धीयते आच्छाद्यते अनेनेति
धानं तस्य भावः धान्यं आच्छादनक्रिया ।
जलति जालेन मत्स्यान् जालिक इति वा ।
गोविन्दभट्टस्तु धनस्य भावः धान्यं समृद्धिः ।
जलति धनी समृद्धः स्यादित्यर्थ इत्याह । इति
दुर्गादासः ॥


Match 0431: vcp=जल्प, skd=जल्प

vcp

k1=जल्प, L=20988
जल्प¦ वाग्विशेषे उक्तौ च भ्वा० पर० सक० सेट् । जल्पति अजल्पीत् ।
जजल्प तत्र कथाभेदे “मयि जल्पति कल्पनाधिनाथे रघु-
नाथे मनुतां तदन्यथैव” इति अनुमानशिरोमणिः । कथा-
मात्रे “अनागमः प्रजानाञ्च प्रमादादिव जल्पतः” भा० स० २१
अ० “हसते जल्पते वैरी एकपात्रे च भुञ्जते” हरिवं० २० अ०
अत्र आर्षत्वात् पदव्यत्ययः, भुञ्जते इत्यत्र गणव्यत्ययश्च ।
अनु + कथनोत्तरकथने पश्चात् कथने तुल्यरूपकथने च “जल्प-
न्त्यामनुजल्पति” भाग० ४ । २५ । ५८ ।
अभि + आमिमुख्येन कथने “अन्योन्यमभिजल्पन्तः” रामा० आर० १ अ० ।
प्रति + प्रत्युत्तरकथने प्रतिरूपकथने च । “न चैवोक्ता नवा-
ऽनुक्ता हीनतः परुषा गिरः । भारत! प्रतिजल्पन्ति सदा
तूत्तमपुरुषाः” भा० स० ७० अ० ।
वि + अति + अन्योन्यकथने शब्दकर्म्मकत्वात् व्यतिहारे न तड् ।
व्यतिजल्पति” सि० कौ० ।


skd

k1=जल्प, L=13479
जल्प¦, वाचि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) अन्तःस्थतृतीयोपधः । जल्पति ।
इति दुर्गादासः ॥ (यथा, महाभारते । ७ ।
१४६ । १२ ।
“नारिं जित्वा विकत्थन्ते नच जल्पन्ति दुर्वचः ॥”)


Match 0432: vcp=जष, skd=जष

vcp

k1=जष, L=21007
जष¦ बधे भ्वा० उम० सक० सेट् । जषति ते अजाषीत्--अज-
षीत् अजषिष्ट । जजाष जेषतुःजेषे ।


skd

k1=जष, L=13496
जष¦, ञ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
सकं-सेट् ।) ञ, जषति जषते । परस्मैपदी-
त्यन्ये । इति दुर्गादासः ॥


Match 0433: vcp=जस, skd=जस

vcp

k1=जस, L=21008
जस¦ मोक्षणे दिवा० पर० सक० सेट् । जस्यति इरित् अज-
सत् अजासीत् अजसीत् जजास जेसतुः अजस्रम् ।
उदित् जसित्वा जस्त्वा । जस्तः ।


k1=जस, L=21009
जस¦ बधे अनादरे च चुरा० उभ० सक० सेट् । जासयति ते अजीजसत् व ।
उद् + हिंसने । एतद्योगे कर्म्मणि षष्ठी । “निजौजसो-
ज्जासमितुं जगद्द्रुहाम्” माथः । “धृत्या नाथस्य
वैदेहि! मन्योरुज्जासयात्मनः” भट्टिः ।


k1=जस, L=21010
जस¦ गतौ निघण्टुः भ्वा० पर० सक० सेट् । जसति अजा-
(ज)सीत् । जसिस्ताडने उपक्षये च माधवः । जसुरिः ।


k1=जस, L=21011
जस¦ रक्षणे चु० उभ० सक० सेट् इदित् । जंसयति ते अज
जंसत् त ।


skd

k1=जस, L=13497
जस¦, इ क रक्षणे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इ क, जंसयति । इति दुर्गा-
दासः ॥


k1=जस, L=13498
जस¦, उ इर् य मोक्षे । इति कविकल्पद्रुमः ॥
(दिवां-परं-सकं-सेट् । उदित्त्वात् क्त्रावेट् ।)
उ, जसित्वा जस्त्वा । इर्, अजसत् अजासीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । य,
जस्यति वत्सं गोपः । इति दुर्गादासः ॥


k1=जस, L=13499
जस¦, क वधे । अनादरे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) क, जासयति । इति
दुर्गादासः ॥


Match 0434: vcp=जागृ, skd=जागृ

vcp

k1=जागृ, L=21042
जागृ¦ निद्राभावे अदा० पर० अक० सेट् जक्षा० । जागर्त्ति
जाग्रति अजागरीत् । जागराम्--बभूव आस चकार
जजागार । अस्य णपि वृद्धिः तद्भिन्ने ञिति णिति
च गुणः विन्भिन्ने सर्वत्र आर्द्धधातुके गुणः । जागर्य्यते
अजागरि जागरयति कर्म्मणि अजागरि अजागारि इति
भेदः “कुसुमशरमुज्जागरयति” उमटः । जागरकः ।
जागृविः “जागर्त्ति लोको ज्वलति प्रदीपः” उद्भटः ।
इन्द्रियादिना बोधे प्रबोधे च । “या निशा सर्व-
भूतानां तस्यां जागर्त्ति संयमी । यस्या जाग्रति भूतानि
सा निशा पश्यतो मुनेः” गीता । “पन्नगगवीगुम्फेषु चा-
जागरीत्” मल्लि० ।


skd

k1=जागृ, L=13518
जागृ¦, क्ष लु जागरे । इति कविकल्पद्रुमः ॥
(अदां-परं-अकं-सेट् ।) क्ष, जाग्रति । लु,
जागर्त्ति । दिशो निरीक्षमाणस्य नास्ति जाग-
रतो भयमिति पचादित्वादनि जागर इवाचर-
तीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥


Match 0435: vcp=जि, skd=जि

vcp

k1=जि, L=21199
जि¦ जो अभिभवे भ्वा० पर० सक० अनिट् । जयति अजेषीत्
जिगाय जिग्यतुः जिगयिथ जिगेथ । जेता जीयात्
जेप्यति । जापयति--ते अजीजपत् त । जिगीषति ।
जेता जयी जितः जयः । “जयत्यतिवनो राभोलक्ष्मणश्च
महाबलः । राजा जयति सुग्रीवो राधवेणानुप कितः”
रामा० बहुकृत्वः प्रयोगः । “भर्वद्रव्याणि कुप्यञ्च यो
यज्जयात तस्य तत्” मनुः । “दुर्य्योघनो द्रौपदि! त्वामगै-
[Page3118-a+ 38]
षीत्” भा० स० ६५ अ० । “जिगाय तस्य हन्तारं स रामः
सार्बलौकिकः” भट्टिः “गर्जितानन्तरां घृष्टिं सौभाग्येन
जिगाय सा” कुमा० । “जीयात् पण्डितगर्वपर्वतपविः
श्रीवोपदेवकविः” मुग्धगो० अस्य तुबन्तुस्थाने तिवन्ती ।
जयति जयन्ति । “जयति जयति देवः” नाटकेषु
वहुस्थाने कञ्चुकाद्युक्तिः । “नवरसरुचिरां निर्मिति
मादधतो भारती कवेर्जयति” काव्यप्र० । जयश्च सर्वेभ्य
उत्कर्षस्तेन स्वापेक्षयाप्युत्कर्षबोधनात् तस्य नमस्कार-
व्यञ्जकता यथाह काव्यप० “जयत्यर्थेन च नमस्कार
आक्षिप्यते इति तामस्वि प्रणत इति” । अभिभव-
पूर्वकग्रहणे अयं द्विक० । दुह्याच् पज्दण्ड् रुधि प्रच्छि
चिब्रू शासु जिमन्ध् मुषाम् । कर्मयुक् स्यादकथितन्तथा
स्यान्नीहृकृष्वहाम्” इत्युक्तेः । शतं जयति देवदत्तम्” सि०
कौ० “इन्द्रं वाजं जापयत” यजु० ९ । ११ । “यदि त्यध्वर्य्यव
आजिं जापयेयुः” आश्व० । ९ । ८ । “इमाञ्च पृथिवीं कृत्-
स्मामेकाह्रा स व्यजीजपत्” भा० द्रे० ६२ अ० स्वार्थे णिच् ।
व्यजीजयत् इति षटि पुगभाव आर्षः । “गतिं जिरोषतः
मादौ रुरुहातेऽपिकामिकाम्” भाग० २ । १० । २५ । “अगा-
हताष्टादशतां जिगोषया” नैष० । जेगीयते । कर्मणि
अजीयत अजायि । “प्रागजीयत घृणा ततो मही” रघुः ।
अति + अतिशयेन जये “विराडियं सुपजा अत्यजैषीत्”
अथ० १४ । ३ । ७४ ।
वि + अति परस्परजये आत्म० । “व्यतिजिग्ये समुद्रोऽषि न धैर्य्यं तस्य गच्छतः” भट्टिः
अधि + आधिक्येम जये “सपत्नांश्चाधिजोयास्म” भट्टिः ।
अनु + अनुरूपजये पश्चाज्जये च । “कौशल्योऽन्वजयत्
महोम्” भा० शा० ३ । २४ अ० ।
अमि + आभिमुख्यन जये । “ते चान्द्रमसमेव लोसमभि-
जयन्ति” प्रश्नो पु० १ अधिगमे च “वेदश्रुतिभिराख्या-
नैरर्थानधिजिगोषति” भा० शा० ८४६५ ।
अव + अधरीकृत्य जये । “शरैर्पिध्वस्य तांश्चौरानवजित्य च
तद्धनम्” भा० आ० ७७६ । “अवजित्य सुशर्झाणं धनं
चादाय सर्वशः” भा० वि० ३३ अ० ।
परा + पराक्रमपूर्वकजये आत्म० । पराजयते । “खं परा-
जयमानोऽसावुन्नन्या पवनात्मजम्” भट्टिः । “पराजितेनापि
कृतौ हरस्य” कुमा० । ग्लानौ अक० तत्र “पराजेरसोढः”
पा० सहार्थस्यापाद्यनता । “अध्ययनात् पराजयते
ग्लायतीत्यर्थः सि० कौ० “तां पराजयुमानां सा प्रीते
रक्ष्यां दशाननात्” भट्टिः ।
[Page3118-b+ 38]
प्रति + प्रतिरूपजये । “अजाविकं मायया प्रत्यजैषीत्”
भा० द्रो० १३५७ श्लो० । “वय प्रतिजिगोपन्तस्तत्र तान्
समभिद्रुताः” ४३७६ शो० ।
वि + विशेषेण जये आत्म० बिजयते । “येब देवान् मनुष्यांञ्च
पार्थो विजयते मृधे” भा० वि० १३४५ श्लो० । “जगादाद्रि-
र्विजषीष्ठाः । “दैत्यं कुलं विजिग्ये” भट्टिः


skd

k1=जि, L=13620
जि¦, जये । अभिभवे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सकंच-अनिट् ।) जय उत्कर्षः स्वीका-
रश्च । उत्कर्षेऽकर्म्मकः । जयन्ति यमुनाकूले रहः-
केलयः । मखैरसङ्ख्यैरजयत् सुरालयमिति काद-
म्बरी । जयति शत्रुं बली । अनभिधानादस्मात्
तुवन्त्वोः प्रयोगाभावः । किञ्च तयोः स्थाने
तिवन्तीति । किञ्च तुपः स्थाने तातङ् दृश्यते ।
यथा, भावगम्यलयः कोऽपि जयताद्वागगोचरः ।
इति दुर्गादासः ॥


Match 0436: vcp=जिम, skd=जिम

vcp

k1=जिम, L=21241
जिम¦ भक्षे भ्वा० पर० सक० सेट् । जेमति अजेभात् । उदित्
जेमित्वा जान्त्वा जितः । “जेमनं लेप आहारः” अमरः


skd

k1=जिम, L=13658
जिम¦, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जिमित्वा
जिन्त्वा । इति दुर्गादासः ॥


Match 0437: vcp=जिरि, skd=जिरि

vcp

k1=जिरि, L=21242
जिरि¦ हिंसायां स्वा० पर० सक० सेट् । जिरिणोति अजिरा-
यीत् । अयं वैदिकः ।


skd

k1=जिरि, L=13659
जिरि¦, र न हिंसायाम् । इति कविकल्पद्रुमः ॥
(स्वां-परं-सकं-सेट् ।) रेफोपधः । र, वैदिकः ।
न, जिरिणोति । इति दुर्गादासः ॥


Match 0438: vcp=जिव, skd=जिव

vcp

k1=जिव, L=21244
जिव¦ प्रीणने भ्वा० पर० सक० सेट् इदित् । जिन्वति अजि-
ग्वीत् जिजिन्व इदित्त्वात् नोपधालोपः जिन्व्यते ।
“भूभिं पर्ज्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः” ऋ० १ ।
१६४ । ५१ । “इन्द्रेण जिन्वितो मणिरागमन्” अथ०
९ । ३१ । ७ । “रश्मिरसि क्षयस्य क्षयं जिन्व सवितृ-
प्रसूती” ताण्ड्य० ब्रा० १ । ९ । “अपां रेतांसि जिन्वति”
ऋ० ८ । ४४ । १६ । “यदा त्वं प्राण! जिन्वसि” ११ । ४ ।
१४ । वृद्धौ च अक० । वेदे अस्य क्वचित् आत्म० “स
जिन्वते जठरेषु प्रजज्ञीरन्” ऋ० ३ । २ । ११ । “जिन्वते
वर्द्धते” भा० । वेदे नमध्यस्यैव प्रयोगात् शब्दकल्पद्रुमे
अन्त्यस्थवान्तस्थले तस्य निवेशनात् जिम्बतीति प्रयोग-
दर्शनाच्च अओष्ठ्यत्वभ्रान्त्या मत्कृतशब्दस्तोममहानिधौ
जिम्बतीति औष्ठ्यान्ततया रूपप्रदर्शनं प्रामादिकमेब ।
कविकल्पद्रुमे अन्तःस्थवान्तमध्यं पाठात् धिविधातोरिव
न मध्यत्वस्योचितत्वात् ।


skd

k1=जिव, L=13660
जिव¦, इ प्रीणने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ह्नखी । इ, जिम्ब्यते । जिम्बति
लोकः पितरम् । इति दुर्गादासः ॥


Match 0439: vcp=जिष, skd=जिष

vcp

k1=जिष, L=21247
जिष¦ सेके भ्वा० पर० सक० सेट् । जेषति अजेषीत् ।
उदित् जेषित्वा जिष्ट्वा । जिष्टः ।


skd

k1=जिष, L=13663
जिष¦, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । उदित्त्वात् क्त्वा वेट् ।) उ, जेषित्वा
जिष्ट्वा । इति दुर्गादासः ॥


Match 0440: vcp=जीव, skd=जीव

vcp

k1=जीव, L=21293
जीव¦ प्राणने असुधारणे भ्वा० अक० प० सेट् । जीवति अजीवीत्
जिजीव । ऋदित् अजिजीवत् त जीवितं जीवनम् जीवः
जीविका । “संशयं पुनरारुह्य यदि जीवति पश्यति”
हितो० “यातः परमपि जीवेज्जीवितनाथो भवेतस्याः”
[Page3125-b+ 38]
सा० द० “ज्योग् जीवति” छा उ० । “शतं जीवन्तु शरदः”
ऋ० १० । १८ । १ । प्राणधारणञ्च प्राणधारणोयोगोपवृत्ति
धारणमपि “नक्षत्रैर्यश्च जीवति” मनुः । करणे सक० ।
“जीवेद्वैश्यस्य जीविकाम्” मनुः । जीवेत् कुर्य्यात्
अति + अतिक्रम्य जीवने सक० । “अत्यजीवदमरालकेश्वरौ” रघुः ।
अनु + पश्चाज्जीवने अनुरूपजीवने च सक० । “जीवन्तं त्वानु-
जीवन्तु प्रजाः सर्वा युधिष्ठिर!” भा० उ० ४५३५
श्लो० “यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे । अद्य
तामनुजीवामः” भा० द्रो० ४११ श्लो० ।
आ + वृत्तिकरणे उपभोगे च सक० । “आजीवन् स्वेच्छया
दण्ड्यो दाप्यस्तञ्चापि सोदयम्” याज्ञ० । “आजीवनुप-
भुञ्जानः” भिता० । “ययाजीवन्ति पुरुषं सर्वभूतानि
सञ्जय!” भा० उ० १३२ अ० ।
उद् + उच्छ्वासने अक० । “उदजीवत् सुमित्राभूर्भ्राताऽश्लिष्यत्त-
मायतम्” भट्टिः ।
प्रति + उद् + प्रतिरूपोज्जीवने ।
उप + आश्रित्य वर्त्तने सक० । “पूर्वयसे पुत्राः पितर-
मुपजीवन्ति उत्तरवयसे पुत्रान् पिता” शत० ब्रा० १२ । २ ।
३ । १ । “शेषास्तमुपजीवेयुर्यथैव पितरं तथा” मनुः ।
उपजीवी उपजीव्यः ।


skd

k1=जीव, L=13708
जीव¦, ऋ प्राणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) ऋ, अजीजिवत् अजिजीवत् ।
प्राणः प्राणधारणम् । जीवति लोकः । इति
दुर्गादासः ॥


Match 0441: vcp=जु, skd=जु

vcp

k1=जु, L=21375
जु¦ गतौ सौ० आत्म० सक० अनिट् । जवते । अजोष्ट ।
जुजुवे । “यद्वि मनसा जवते तद्वाचा वदति” तैत्ति०
स० ६ । १ । ७ । २ ।


skd

k1=जु, L=13769
जु¦, रंहसि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-अनिट् ।) रंहो वेगगतिः । जवति घोटकः ।
इति दुर्गादासः ॥


k1=जु, L=13770
जु¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-अनिट् ।) ङ, जवते । इति दुर्गादासः ॥


Match 0442: vcp=जुग, skd=जुग

vcp

k1=जुग, L=21376
जुग¦ त्यागे भ्वा० पर० सक० सेट् इदित् । जुङ्गति । अजुङ्गीत्
जुजुङ्ग । कर्म्मणि इदित्त्वात् जुङ्ग्यते ।


skd

k1=जुग, L=13771
जुग¦, इ त्यागे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) इ, कर्म्मणि जुङ्ग्यते । इति दुर्गादासः ॥


Match 0443: vcp=जुड, skd=जुड

vcp

k1=जुड, L=21384
जुड¦ प्रेरणे चु० उभ० सक० सेट् । जीडयति ते अजूजुडत् त ।


k1=जुड, L=21385
जुड¦ बन्धे (जोडादेअओया) । तुदा० कुटा०पर० सेट् । जुडति
[Page3142-a+ 38]
अजुडीत् जुजोड । घञि जुडः ।


k1=जुड, L=21386
जुड¦ गतौ तु० पर० सक० सेट् । जुडति अतोडीत् । जुजोट । धञि जोडः ।


skd

k1=जुड, L=13780
जुड¦, क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, जोडयति । नोदः प्रेर-
णम् । इति दुर्गादासः ॥


k1=जुड, L=13781
जुड¦, श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-
सेट् ।) श, जुडति जोडिता । इति दुर्गादासः ॥


k1=जुड, L=13782
जुड¦, शि बन्धे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) शि, जुडति अजुडीत् । तानु-
च्छृङ्खलतापन्नान् शृङ्खलेन जुडत्यसौ । जुजोड ।
इति दुर्गादासः ॥


Match 0444: vcp=जुत, skd=जुत

vcp

k1=जुत, L=21387
जुत¦ दीप्तौ भ्वा० आत्म० अक० सेट् । जोतते अजोतिष्ट ।
जुजुते । ऋदित् अजुजोतत् ।


skd

k1=जुत, L=13783
जुत¦, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) ऋ, अजुजोतत् । ङ,
जोतते । इति दुर्गादासः ॥


Match 0445: vcp=जुन, skd=जुन

vcp

k1=जुन, L=21388
जुन¦ गतौ तु० पर० सक० सेट् । जुनति अजोनात् । जुजोन ।


skd

k1=जुन, L=13784
जुन¦, श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) श, जुनति जोनिता । इति
दुर्गादासः ॥


Match 0446: vcp=जुल, skd=जुल

vcp

k1=जुल, L=21391
जुल¦ पेषणे चु० उभ० सक० सेट् । जोलयति ते अजूजुलत् त


skd

k1=जुल, L=13786
जुल¦, क पिषि । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, जोलयति । पिषि चूर्णीकरणे ।
इति दुर्गादासः ॥


Match 0447: vcp=जुष, skd=जुष

vcp

k1=जुष, L=21393
जुष¦ तृतौ अक० तर्के सक० वा चु० उभ०षक्षे भ्वा० पर० सेट् ।
जोषयति ते जोषति अजूजुषत् त अजोषीत् ।


k1=जुष, L=21394
जुष¦ हर्षे अक० सेवायां सक० तुदा० आ० सेट् । जुषते
अजोषिष्ट जुजुषे जुषमाणाः । ईदित् । जुष्टः । ञीत्
वर्त्तमाने क्त । जुष्टः । “पौलस्त्योऽजुषतशुचं विपन्न-
बन्धुः” भट्टिः “यत्र देवासो अजुषन्त विश्वे” यजु०
४ । १ । “इन्द्र! जुषस्व प्रवह” अथ० २ । ५ । १ । “अजा-
मेकाम्--अजोह्येत्येको जुषमाणोऽनुशेते” श्वेताश्वतंरोप० ।
“एषैव बुद्धिर्जुषतां सदात्मनाम्” भा० व० १२५९६ श्लो० ।
“सत्वं जुषाणाय भवाय देहिनात्” भाग० ८ । ५ । २३ ।
“परजुष्टनयान्निवर्त्तमानः” दीधितिः । आर्षे गणव्य
त्यसात् अददित्वम् । “देवा नाश्रद्दधानाद्दिहविर्जुषन्ति”
भा० व० १२७३ । आर्षत्वात् पदव्यत्ययः । “पारिजातगुणान्
मर्त्या जुषन्ति यदि नारद! । देवानां मानुषाणां च न
विशेषो भविष्यति” हरिवं० ७२७२ । लेटि जोजिषत्
“सुपेशसस्करति जोजिषद्धि” ऋ० २ । ३५ । १ “जुषी
प्रीतिसेवनयोः लेट्यडागमः । विकरणः सिप् । इडा-
गमश्च” भा० । प्राद्य पसर्गपूर्वकस्य प्रादिद्योत्यतत्तदर्थयुक्ते
सेवनादौ ।


skd

k1=जुष, L=13787
जुष¦, कि तर्के । तृप्तौ । इति कविकल्पद्रुमः ॥
(चुरां पक्षे भ्वां-परं-सकं-अकं च-सेट् ।) कि,
जोषयति जोषत्यन्यगुणं सुधीः । तर्कयतीत्यर्थः ।
इति दुर्गादासः ॥


k1=जुष, L=13788
जुष¦, श ङ ई ञि मुदि । सेवे । इति कविकल्प-
द्रुमः ॥ (तुदां-आत्मं अकं-सकं च-सेट् ।) पञ्चम-
स्वरी । श ङ, जुषते । ई ञि, जुष्टोऽस्ति ।
मुदि हर्षे । इति दुर्गादासः ॥


Match 0448: vcp=जूर, skd=जूर

vcp

k1=जूर, L=21411
जूर¦ वयोहानौ अक० बधे सक० दिवा० आत्म० सेट् । जूर्य्यते
अजूरिष्ट । ईदित् । जूर्णः । कोपे च “इच्छाविभङ्गा-
कुलमानसत्वात् भर्त्त्रे नखेम्यश्च चिरं जुजूरे” भट्टिः ।


skd

k1=जूर, L=13801
जूर¦, ङ य ई ज्यानौ । वधे । इति कविकल्पद्रुमः ॥
(दिवां-आत्मं-अकं-सकं-च-सेट् ।) दीर्घी । ङ
य, जूर्य्यते । ई, जूर्णः । ज्यानिर्गतबहुवयोभावः ।
इति दुर्गादासः ॥


Match 0449: vcp=जूष, skd=जूष

vcp

k1=जूष, L=21417
जूष¦ बधे भ्वा० उभ० सक० सेट् । जूषति ते अजूषीत् अजूषिष्ट
जूजूष षे । जूषः ।


skd

k1=जूष, L=13806
जूष¦, ञ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
सकं-सेट् ।) षष्ठस्वरी । ञ, जूषति जूषते ।
परस्मैपदीत्यन्ये । इति दुर्गादासः ॥


Match 0450: vcp=जृ, skd=जृ

vcp

k1=जृ, L=21420
जृ¦ न्थक्कारे भ्वा० पर० सक० अनिट् । जरति अजार्षीत् ।
जजार ।


skd

k1=जृ, L=13809
जृ¦, न्यक्कारे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अनिट् ।) न्यक्कारस्तिरस्करणम् । जरति
शत्रुं शूरः । इति दुर्गादासः ॥


Match 0451: vcp=जृभ, skd=जृभ

vcp

k1=जृभ, L=21421
जृभ¦ जृम्भे (हाइतोला) गात्रशैथिल्ये च भ्वा० आत्म० अक०
सेट् इदित् । जृम्भते अजृम्भिष्ट । जजृम्भे । “आत्मान-
माधाय मधुर्जजृम्भे” कुमा० जृम्भा जृम्भः । जृम्भितः ।
“जृम्भते मुहुरासीना बाला गर्भभरालसा” सा० द० ।


k1=जृभ, L=21422
जृभ¦ जृम्भणे भ्वा० आ० अक० सेट् । जृभते अजृभिष्ट
जजृभे । ईदित् । जृब्धः ।


skd

k1=जृभ, L=13810
जृभ¦, इ ङ जृम्भे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) सप्तमस्वरी । इ, जृम्भ्यते ।
ङ, जृम्भते । इति दुर्गादासः ॥


k1=जृभ, L=13811
जृभ¦, ङ ई जृम्भे । गात्रशैथिल्य इति यावत् ।
इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।)
ङ, जर्भते । ई, जृब्धः । इति दुर्गादासः ॥


Match 0452: vcp=जॄ, skd=जॄ

vcp

k1=जॄ, L=21428
जॄ¦ जरायां दिवा० पर० अक० सेट् जीर्य्यति इरित् ।
अजरत् अजारीत् । जीर्णः षित् । जरा । घटादि० ।
जरयति । “या न जीर्य्यति जीर्य्यतः” नीतभा० जीर्य्यते
रतृन् । जरन् । जजार । जरीता जीर्णः । “जरि-
तॄणां सतां भुवां सूतये” बामदेव्यगानमन्त्रः ।


k1=जॄ, L=21429
जॄ¦ जरायां वा चुरा० उभ० पक्षे क्य्रादि० प्वादि० अक० सेट् ।
घटा० । जरयति ते अजीजरत् त । जृणाति । इरत्
अजरत्--अजारीत् ।


skd

k1=जॄ, L=13818
जॄ¦, इर् ष म य ज्याने । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-अनिट् ।) इर्, अजरत् अजा-
रीत् । ष, जरा । म, जरयति । य, जीर्य्यति ।
ज्यानं गतबहुवयोभावः । इति दुर्गादासः ॥


k1=जॄ, L=13819
जॄ¦, गि कि ज्याने । इति कविकल्पद्रुमः ॥ (क्र्यां-
चुरांपक्षे भ्वां-च-परं-अकं-नेट् ।) गि, जॄणाति
जीर्णः जीर्णिः । कि, जारयति जरति । इति
दुर्गादासः ॥


Match 0453: vcp=जेष, skd=जेष

vcp

k1=जेष, L=21438
जेष¦ गतौ भ्वा० आत्म० सक० सेट् । जेषते अजेषिष्ट ऋदित्
अजिजेषत् त । “अपां तोकस्य तनयस्य जेषे” ऋ०
१ । ११० । ११ ।


skd

k1=जेष, L=13824
जेष¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऋ, अजिजेषत् । ङ, जेषते
जिजेषे । इति दुर्गादासः ॥


Match 0454: vcp=जेह, skd=जेह

vcp

k1=जेह, L=21439
जेह¦ यत्ने भ्वा० आत्म० अक० सेट् । जेहते अजेहिष्ट ।
ऋदित् अजिजेहत् त । “पात्रमृभवो जेहमानम्”
ऋ० १ । ११० । ५ “जेहमानं प्रयतमानम्” भा० । निरुक्ते
अस्य गतिकर्मतोक्ता “ददृशानपवेर्जेहमानस्य” ऋ०
१० । ३ । ६ । क्वचित् व्याप्त्यर्थताऽपि “सुगेभिररेणुभिर्जेह-
मानं पतत्त्रि” ऋ० १ । १६३ । ६ । “जेहमानं यज्ञदेशं व्याप्नु-
वत्” भा० । गत्यर्थकधातोः प्राप्त्यर्थकत्वात् प्राप्त्यर्थतापि ।
“ये तातृषुर्देवत्रा जेहमानाः” ऋ० १० । १५ । ९ । “जेह-
मानाः प्राप्ताः” भा० ।


skd

k1=जेह, L=13825
जेह¦, ङ ऋ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ङ, जेहते जिजेहे । ऋ,
अजिजेहत् । इति दुर्गादासः ॥


Match 0455: vcp=जै, skd=जै

vcp

k1=जै, L=21440
जै¦ क्षये भ्वा० पर० अक० अनिट् । जयति । अजासीत् । अओदित् जानः ।


skd

k1=जै, L=13826
जै¦, क्षये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
अनिट् ।) जायति । इति दुर्गादासः ॥


Match 0456: vcp=ज्ञा, skd=ज्ञा

vcp

k1=ज्ञा, L=21477
ज्ञा¦ बोधे क्य्रा० प्र० सक० अनिट् । जानाति अज्ञासीत् ।
जज्ञौ । ज्ञाता ज्ञानं ज्ञातिः ज्ञातः जज्ञिवान् ।
अनु + अनुमतौ अनुमतिश्च स्वथंप्रवृत्तस्य निषेधनाभावेन
स्वाभिमतत्वज्ञापनेन प्रवर्त्तनम् । “तं देवासो अनुजानन्तु
कालम्” तैत्ति० ब्रा० । “अनुपवेशे यद्वीर कृत-
वांस्त्वं ममाप्रियम् । सर्वं तदनुजानामि” भा० आ० २१३ अ०
अप + निह्नवे आत्म० । आत्मानमपजानानः शशमात्रोऽनय-
द्दिनम्” भट्टिः ।
अभि + सम्यग्ज्ञाने “भक्त्या मागभिजानाति यावान्यश्चास्मि
[Page3149-b+ 38]
तत्त्वतः” गीता । “अभिज्ञाश्छेदपातानाम्” कुमा० अभिज्ञा
च आद्यज्ञानम् अनुभवात्मकम् ।
प्रति + अभि + पूर्वदृष्टस्य वस्तुनः चक्षुरादिसन्निकर्षजे पूर्वसं-
स्कारोत्पन्ने स्मृतिभिन्ने ज्ञानभेदे यथा सोऽयं देवदत्तः
इत्यादि ज्ञानम् । “तं त्वं प्रत्यभिजानीहि स्वप्ने यं
दृष्टवत्यसि” हरिवं० १७६ अ० ।
सम् + अभि + प्रत्यभिज्ञाने “इग्द्रसेनां सह भ्रात्रा समभिज्ञाय
वाहुकः” भा० व० ७५ अ० ।
अव + अनादरे हीनत्वेन ज्ञाने च । “अवजानासि मां यस्मात्
ततस्ते न भविष्यति” रघुः । “अदेशकाले यद्दानमप्रात्रभ्येश्च
दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम्” गीता ।
“वसूनि देशांश्च विर्त्तयिष्यन् रामं नृपः संगिरमाण
एव । तयावजज्ञे” भट्टिः ।
आ + सम्यग्ज्ञाने नियोगे च “न हि मनसा ध्यायतः
कश्चनाजानाति” शत० ब्रा० ४ । ६ । ७ । ५ । “निथोगश्च
निकृष्टस्य भृत्यादेः ष्रवर्त्तनम् । स्वार्थे णिच तत्रार्थे ।
“आज्ञापय ज्ञातविशेष! पुंसाम” कुमा० । ज्ञा--प्रेरणे
चौरादिकस्येदं रूपमित्यन्ये ।
उप + आद्यज्ञाने “उप तज्ञ्जानीत यथा वयमिहाप्यसामेति”
शत० ब्रा० ६ । २ । ३ । ७ । “उपज्ञा ज्ञानमाद्यं स्यात्” अमरः ।
निस् + निर् + निश्चयात्मके ज्ञाने । “विद्युद्वै विद्युत्य वृष्टिमनु-
प्रविशति सान्तर्धीयते तां न निर्जानन्ति” ऐत० ब्रा० ।
परि + परितो ज्ञाने “इन्द्रो दक्षं परिजानादहीनम्” ऋ० १० ।
१३९ । ६ । “अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः” मनुः ।
प्र + प्रकृष्टज्ञाने । “यथा धर्मधर्मञ्च कार्य्य ञ्चाकार्य्यमेव च ।
अयथावत् प्रजानाति” “तस्य प्रज्ञा प्रतिष्ठिता” गीता ।
प्रति + प्रतिज्ञायां साध्यत्वेन पक्षनिर्देशे आत्मकर्त्तव्य-
त्वेन कथनभेदे च आत्म० । “साध्यनिर्देशः प्रतिज्ञा”
गौत० सू० । साध्यवत्त्वेन पक्षनिर्देशः प्रतिज्ञेति तदर्थः ।
“प्रतिजज्ञे बधं चापि सर्वक्षत्रस्य भारत!” भा० व० ११७
अ० ॥ “प्रतिज्ञाय वनवासमिमं गुरोः” रामा० २ । १०९
अ० । “तस्मै निशाचरेश्वर्य्यं प्रतिजज्ञे रघूत्तमः” रघुः ।
“कच्चिन्न पाने द्युते वा क्राडासु प्रमदासु च । प्रति-
जानन्ति पूर्वाह्लेव्ययं व्यसनजं तव” मा० स० ५ अ०
आर्षत्वात् पर० ।
वि + विशेषण ज्ञाने “ज्योतिर्वृणीत तमसो विजानन्” ऋ०
ऋ० ३ । ३९ । ७ । “आत्मानं चेथिजानीयादयमस्तीति पुरुषः”
शत० ब्रा० १४ । ७ । २ । १६ । “कथभेतद् विजानीयां त्व-
[Page3150-a+ 38]
मादौ प्रोक्तवानिति” गीता । शिल्पशास्त्रविषयके ज्ञाने
च “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” अमरः ।
ज्ञानमात्रे क्षणिकविज्ञानमिति बौद्धाः ।
सम् + सम्यग् ज्ञाने संज्ञायां चैतन्ये च आत्म० । संजानानान्
परिहरन् रावणानुचरान् बहून्” भट्टिः । “रविस्तु
संज्ञापयते लोकान् रश्मिभिरुल्वणैः” भा० शा ७१२७६७ ।
प्रतिज्ञायाम् आत्म० । “संजानीष्व स्वमीशा” च मुग्ध-
बोधम् ।


k1=ज्ञा, L=21478
ज्ञा¦ ज्ञपधात्वर्थे चुरा० उभ० सक० सेट् घटा० । ज्ञपयति ते अजिज्ञपत् त ।


k1=ज्ञा, L=21479
ज्ञा¦ प्रेरणे चुरा० उभ० सक० सेट् । ज्ञापयति ते अजिज्ञपत् त ।
अस्यैव रूपम् आज्ञापयतीत्यादि । “आज्ञापय ज्ञात-
विशेष! पुंसाम्” कुमा० ।


skd

k1=ज्ञा, L=13852
ज्ञा¦, क प्रेरणे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) प्रेरणमिह नियोजनम् । क, ज्ञाप-
यति भृत्यं स्वामी नियुक्तं करोतीत्यर्थः । इति
दुर्गादासः ॥


k1=ज्ञा, L=13853
ज्ञा¦, क म मारणे । आलोके । निशाणे । तोषणे ।
स्तुतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-
सेट् ।) कम, ज्ञपयति अज्ञपि अज्ञापि ज्ञपं ज्ञप
[Page2-547-a+ 52]
ज्ञापं ज्ञापम् । आलोको दर्शनप्रेरणम् । निशाणं
तिक्ष्णीकरणम् । तोषणं तुष्टीकरणम् । ज्ञप-
यति शत्रुं शूरो मारयतीत्यर्थः । ज्ञपयति रूपं
कामिनी षिड्गान् दर्शयतीत्यर्थः । ज्ञपयति
खड्गं कर्म्मकारः शाणयतीत्यर्थः । ज्ञपयति
गुरुं शिष्यस्तोषयतीत्यर्थः । स्तुतिः कैश्चिन्न
मन्यते । आलोको ज्ञानप्रेरणमित्यनुन्यास-
रक्षितौ । अतएव क्रमदीश्वरोऽपि जानाते-
र्घटादित्वं विभाषया मन्यते । तेन ज्ञपयितुं
बोधयितुमिष्यमाणो ज्ञीप्समान इति पाणिनीय-
वृत्तौ ज्ञानप्रेरणापि ह्नस्वे सनि ज्ञीप्समान इति
प्रसिद्धम् । एवं विज्ञप्तिरेषा मम जीवबन्धौ
इत्यादिषु च विज्ञापनमेवार्थः । इति दुर्गादासः ॥


k1=ज्ञा, L=13854
ज्ञा¦, ग बोधे । इति कविकल्पद्रुमः ॥ (क्र्यां-परं-
सकं-अनिट् ।) ग, जानाति । “सन्दर्भशुद्धिं
गिरां जानीते जयदेव एवेत्यत्र अनुपसर्गात्
फलवत्कर्त्तर्य्यात्मनेपदम् । ततोऽनुजज्ञे गमनं
सुतस्य इत्यत्रानुशब्दस्योपसर्ग प्रतिरूपकत्वेना-
नुपसर्गत्वात् ॥” इति दुर्गादासः ॥


Match 0457: vcp=ज्या, skd=ज्या

vcp

k1=ज्या, L=21515
ज्या¦ जरायां क्य्रा० प्वा० पर० अक० अनिट् । जिनाति अ-
ज्यासीत् । जिज्यौ जिज्यतुः । जिनः ।


skd

k1=ज्या, L=13871
ज्या¦, गि जरायाम् । इति कविकल्पद्रुमः ॥ (क्र्यां-
परं-अकं-अनिट् ।) जरा गतबहुवयोभावः ।
गि, जिनाति वृद्धः । जीनः । इति दुर्गादासः ॥


Match 0458: vcp=ज्यु, skd=ज्यु

vcp

k1=ज्यु, L=21520
ज्यु¦ गतौ न्धा० आत्म० सक० अनिट् । ज्यवते अज्योष्ट
जुज्युवे ।


skd

k1=ज्यु, L=13875
ज्यु¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-अनिट् ।) ङ, ज्यवते । इति दुर्गादासः ॥


Match 0459: vcp=ज्युत, skd=ज्युत

vcp

k1=ज्युत, L=21521
ज्युत¦ दीप्तौ भ्वा० पर० सक० सेट् । ज्योतति इरित् । अज्युतत् अज्योतीत् । जुज्योत ।


k1=ज्युत, L=21522
ज्युत¦ दीप्त्तौ भ्वा० आत्म० अक० सेट् । ज्योतते अज्योतिष्ट ।
जुज्युते । ऋदित् । अजुज्योतत् त । ज्योतिः ।


skd

k1=ज्युत, L=13876
ज्युत¦, इर् दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) इर्, अज्युतत् अज्योतीत् जुज्योत ।
इति दुर्गादासः ॥


k1=ज्युत, L=13877
ज्युत¦, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) अन्तःस्थादियुक्तः । ऋ,
अजुज्योतत् । ङ, ज्योतते चन्द्रः । इति दुर्गादासः ॥


Match 0460: vcp=ज्यो, skd=ज्यो

vcp

k1=ज्यो, L=21538
ज्यो¦ नियते उपनये व्रतोपदेशे ब्र भ्वा० आत्म० सक० अनिट् ।
ज्यवते अज्यास्त । जुज्ये ।


skd

k1=ज्यो, L=13892
ज्यो¦, ङ नियमे । व्रतादेशे । उपनीतौ । इति कवि-
कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं नियमार्थे-व्रता
देशादौ तु सकं-अनिट् ।) व्रतस्यादेशो व्रता
देशः । ङ, ज्यवते याज्ञिको नियमी स्यादित्यर्थः ।
[Page2-550-a+ 52]
ज्यवते पण्डितो जनं व्रतमुपदिशतीत्यर्थः ।
ज्यवते पुत्त्रं विप्रः उपनयतीत्यर्थः । इति दुर्गा-
दासः ॥


Match 0461: vcp=ज्रि, skd=ज्रि

vcp

k1=ज्रि, L=21568
ज्रि¦ अभिभवे भ्वा० पर० सक० अनिट् । ज्रयति अज्रौषीत् ।
जिज्राय जिज्रियतु “आ भानुना पार्थिवानि जृयांसि
महस्तोदस्य धृषता ततन्थ” ऋ० ६ । ६६ । “जिगादुपज्र-
यति सोरपीच्यं पदं यदस्य मतुथा अजीजनन्” ६ । ७१ । ५ ।


skd

k1=ज्रि, L=13917
ज्रि¦, अभिभवे । इति कविकल्पद्रुमः ॥ (भ्वां परं-
सकं-अनिट् ।) रेफोपधः । ज्रयति शत्रं बली ।
इति दुर्गादासः ॥


Match 0462: vcp=ज्री, skd=ज्री

vcp

k1=ज्री, L=21569
ज्री¦ वयोहानौ वा चुरा० उभ० पक्षे क्य्रा० प्वा० प० अक०
अनिट् । ज्राययति ते ज्रिणाति अजिज्रयत् त अज्रैषीत्


skd

k1=ज्री, L=13918
ज्री¦, गि कि ज्याने । गतबहुवयोभाव इति यावत् ।
इति कविकल्पद्रुमः ॥ (क्र्यां-चुरां पक्षे भ्वां-परं-
अकं-अनिट् ।) गि, ज्रीणाति ज्रीणः ज्रीणिः ।
कि, ज्राययति ज्रयति । गिकाभ्यामेव पाक्षिक-
चुरादित्वे सिद्धे कि पाठो भ्वादित्वार्थः । इति
दुर्गादासः ॥


Match 0463: vcp=ज्वर, skd=ज्वर

vcp

k1=ज्वर, L=21570
ज्वर¦ रोगे भ्वा० पर० अक० सेट् । ज्वरति अज्वारीत् ।
मित् । ज्वरयति ते ।


skd

k1=ज्वर, L=13919
ज्वर¦, म रोगे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) ज्वरति जनो धातुवैषम्यात् । म,
ज्वरयति । इति दुर्गादासः ॥


Match 0464: vcp=ज्वल, skd=ज्वल

vcp

k1=ज्वल, L=21598
ज्वल¦ दीप्तौ चलने च भ्वा० पर० अक० सेट् । ज्वलति
अज्वालीत् । घटा० ज्वलयति । ज्वला० ज्वलः
ज्वालः । “जज्वाल लोकस्थितये स राजा” भट्टिः ।
“जागर्त्ति लोको ज्वलति प्रदीपः सखीगणः पश्यति
कौतुकेन । मुहूर्त्तमात्रं कुस् नाथ! धर्य्यं बुभुक्षितः
कि द्विकरेण भुङ्क्ते” उद्भटः ।
[Page3182-a+ 38]
उदादिपूर्वकस्य तत्तदुपसर्गद्योत्यार्थ्युक्तदीप्तौ । उज्ज्वलः ।


skd

k1=ज्वल, L=13931
ज्वल¦, ज म चले । त्विषि । इति कविकल्पद्रुमः ॥
(भ्वां-परं-अकं-सेट् ।) वकारयुक्तः । ज,
ज्वालः ज्वलः । म, प्रज्वलयति । मित्त्वेऽपि ञौ
ज्वलह्वलह्मल इत्यादिना केवलस्य ह्नस्वविक-
ल्पनात् सोपसर्गस्यैव नित्यं ह्नस्वः । ज्वालयति
ज्वलयति प्रज्वलयति । त्विट् दीप्तिः । ज्वलति
वह्निः । इति दुर्गादासः ॥ (यथाह कश्चित् ।
“जागर्त्ति लोको ज्वलति प्रदीपः
सखीगणः पश्यति कौतुकेन ।
मुहूर्त्तमात्रं कुरु नाथ ! धैर्य्यं
बुभुक्षितः किं द्विकरेण भुङ्क्ते ॥”)


Match 0465: vcp=झट, skd=झट

vcp

k1=झट, L=21625
झट¦ संहतौ भ्वा० पर० अक० सेट् । झटति अझाटीत्--अझ-
टीत् । जझाट ।


skd

k1=झट, L=13951
झट¦, संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) झटति केशः । परस्मरं लग्नः
स्यादित्यर्थः । इति दुर्गादासः ॥


Match 0466: vcp=झम, skd=झम

vcp

k1=झम, L=21632
झम¦ भक्षे भ्वा० पर० सक० सेट् । झमति अझमीत् । ज-
झाम । उदित् झमित्वा--झान्त्वा । झान्तः ।


skd

k1=झम, L=13956
झम¦, उ भक्षे । इति कविकल्पद्रुमः । (भ्वां-परं-
मकं-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, झमित्वा
झान्त्वा । इति दुर्गादासः ॥


Match 0467: vcp=झर्च, skd=झर्च्च *

vcp

k1=झर्च, L=21638
झर्च¦ उक्तौ भर्त्सने च तुदा० पर० सक० सेट् । झर्चति
अझर्चीत् । जझर्च ।


skd

k1=झर्च्च, L=13964
झर्च्च¦, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) रेफोपधः । श, झर्च्चती
झर्च्चन्ती । गुणस्थानरहितानां तुदादिपाठफलन्तु
शत्रन्तानामादीपीरिति नुणो विभाषा वेदेषू-
च्चारणभेदश्च । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥


Match 0468: vcp=झर्च्छ, skd=झर्च्छ

vcp

k1=झर्च्छ, L=21639
झर्च्छ¦ उक्तौ भर्त्सनेच तुदा० प्रर० सक० सेट् । झर्छति
अझर्छीत् । जझर्छ ।


skd

k1=झर्च्छ, L=13965
झर्च्छ¦, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) श, झर्च्छती झर्च्छन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥


Match 0469: vcp=झर्झ, skd=झर्झ

vcp

k1=झर्झ, L=21640
झर्झ¦ उक्तौ भर्त्सने च तुदा० पर० सक० सेट् । झर्झति अझर्झोत् । जझर्झ ।


skd

k1=झर्झ, L=13966
झर्झ¦, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) श, झर्झती झर्झन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥


Match 0470: vcp=झष, skd=झष

vcp

k1=झष, L=21655
झष¦ बधे भ्वा० पर० सक० सेट् । झषति अझाषीत् अझषीत् । जझाष झषः ।


k1=झष, L=21656
झष¦ ग्रहणे पिधाने च भ्वा० उभ० सक० सेट् । झषति-
ते अझाषीत् अझषीत् अझषिष्ट । जझाष जझषे ।


skd

k1=झष, L=13982
झष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) आद्यस्वरी । झषति । षष्ठस्वरी चाय-
मिति केचित् । झूषति । इति दुर्गादासः ॥


k1=झष, L=13983
झष¦, ञ ग्रहे । पिधाने । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-सकं-सेट् ।) ञ, झषति झषते
वस्त्रं जनो गृह्णाति परिदधाति वेत्यर्थः । सप्तम-
स्वरादिरयमिति पूर्णचन्द्रत्रिलोचनरामाः ।
अर्षति अर्षते । इति दुर्गादासः ॥


Match 0471: vcp=झृ, skd=झॄ *

vcp

k1=झृ, L=21686
झृ¦ वयोहानौ दिवा० पर० अक० सेट् । झीर्य्यति अझारीत् जझार झरः ।


skd

k1=झॄ, L=14021
झॄ¦, ष य ज्याने । गतबहुवयोभाव इति यावत् ।
(दिवां-परं-अकं-अनिट् ।) इति कविकल्पद्रुमः ॥
ष, झरा । य, झीर्य्यति । इति दुर्गादासः ॥


Match 0472: vcp=झ्यु, skd=झ्यु

vcp

k1=झ्यु, L=21688
झ्यु¦ गतौ भ्वा० आत्म० सक० अनिट् । झ्यवते अझ्योष्ट । जुझ्युवे ।
इति वाचस्पत्ये झकारादिशब्दार्थसङ्कलनम् ।


skd

k1=झ्यु, L=14023
झ्यु¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-अनिट् ॥)


Match 0473: vcp=टक, skd=टक

vcp

k1=टक, L=21693
टक¦ बन्धे चु० उभ० सक० सेट् इदित् । टङ्कयति--ते अटट-
ङ्कत्--त । “टङ्कितेनोऽतिपाटने” काशी० गङ्गास्तवः ।
“नाकृष्टं न च टङ्कितम् न नमितम् नोत्थापितम्
स्थानतः” महाना० । उदु + उल्लेखे । उट्टङ्कितम् ।


skd

k1=टक, L=14031
टक¦, इ क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इ क, टङ्कयति । इति दुर्गा-
दासः ॥


Match 0474: vcp=टल, skd=टल

vcp

k1=टल, L=21717
टल¦ विप्लवे (टला) भ्वा०--पर० अक० सेट् । टलति अटा-
लीत टटाल टेलतुः । ज्वला० टलः टालः ।


skd

k1=टल, L=14052
टल¦, ज विक्लवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) ज, टालः टलः । विक्लवो विह्व-
लीभावः । इति दुर्गादासः ॥


Match 0475: vcp=टिक, skd=टिक

vcp

k1=टिक, L=21723
टिक¦ गतौ भ्वा० आ० सक० सेट् । टेकते अटेकिष्ट टिटिके ।
ऋदित् अटिटेकत् त ।


skd

k1=टिक, L=14057
टिक¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सवं-सेट् ।) ऋ, अटिटेकत् । ङ, टेकते ।
इति दुर्गादासः ॥


Match 0476: vcp=टिप, skd=टिप

vcp

k1=टिप, L=21728
टिप¦ नोदने चुरा० उभ० सक० सेट् । टेपयति--ते अटीटिपत्--त ।


skd

k1=टिप, L=14063
टिप¦, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, टेपयति । नुदि प्रेरणे । इति
दुर्गादासः ।


Match 0477: vcp=टीक, skd=टीक

vcp

k1=टीक, L=21730
टीक¦ गतौ भ्वा० आत्म० सक० सेट् । टीकते अटीकिष्ट । ऋदित् । अटिटीकत् त ।


skd

k1=टीक, L=14065
टीक¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः । (भ्वां-
आत्मं-सकं-सेट् ।) ऋ, अटिटीकत् । ङ, टीकते ।
इति दुर्गादासः ॥


Match 0478: vcp=ट्वल, skd=ट्वल

vcp

k1=ट्वल, L=21737
ट्वल¦ विप्लवे भ्वा० पर० अक० सेट् । ट्वलति अट्वालीत् ज्वला० ट्वलः ट्वालः ।
इति वाचस्पत्ये टकारादिशब्दार्थसङ्कलनम् ।


skd

k1=ट्वल, L=14072
ट्वल¦, ज विक्लवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) वकारयुक्तः । ज, ट्वालः ट्वलः ।
विक्लवो विह्वलीभावः । इति दुर्गादासः ॥


Match 0479: vcp=डप, skd=डप

vcp

k1=डप, L=21747
डप¦ संघाते (राशीकरणे) चु० आत्म०अक० सक० सेट् । डाप-
यते अडीडपत । चुरादित्वेऽपि डित्करणादफलवत्-
कर्त्तर्य्यपि आत्म० । तेनास्य ञित्करणसामर्थ्यात् पाक्षि-
कचुरादित्वम् पक्षे भ्वादित्वम् । डपते अडपिष्ट ।


k1=डप, L=21748
डप¦ संहतौ उक्तौ डपवत् इदित् । डम्पयते अडिडम्पत ।
पक्षे भ्वा० डम्पते अडम्पिष्ट ।


skd

k1=डप, L=14083
डप¦, इ क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं उभं च-सकं-सेट् ।) मूर्द्धन्य-
वर्गतृतीयादिः । इ क ङ, डम्पयते । ञ, डम्प-
यति डम्पयते । अयमात्मनेपदीत्यन्ये । संहती
राशीकरणम् । इति दुर्गादासः ॥


k1=डप, L=14084
डप¦, क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-उभं च-सकं सेट् ।) मूर्द्धन्यवर्ग-
तृतीयादिः । क ङ, डापयते । ञ, डापयति
डापयते । पुनःपाठान्नेदनुबन्धः । अयं आत्मने-
पदीत्यन्ये । संहती राशीकरणम् । इति दुर्गा-
दासः ॥


Match 0480: vcp=डब, skd=डब

vcp

k1=डब, L=21749
डब¦ लोकने चुरा० उभ० सक० सेट् । डम्बयति अडडम्बवत्
शब्दस्तोमे अस्य वा चुरादित्वोक्तिः प्रामादिकी ।


skd

k1=डब, L=14085
डब¦, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क,
डम्बयति । नोदः प्रेरणम् । इति दुर्गादासः ॥


Match 0481: vcp=डभ, skd=डभ

vcp

k1=डभ, L=21750
डभ¦ संधे चुरा० इदित् उभ० सेट् । डम्भयति ते अडडम्भत् त ।


skd

k1=डभ, L=14086
डभ¦, इ क ञ सङ्घे । इति कविकल्पद्रुमः ॥ (चुरां-
उभं-अकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क,
डम्भयति डम्भयते । अयमात्मनेपदीति केचित् ।
सङ्घो राशीकरणम् । इति दुर्गादासः ॥


Match 0482: vcp=डिप, skd=डिप

vcp

k1=डिप, L=21776
डिप¦ संहतौ बा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट् ।
डेपयति--ते डेपते ऋदित् आडिडेपत् त ।


k1=डिप, L=21777
डिप¦ प्रेरणे वा चु० उभ० पक्षे तुदा० पर० सक० सेट् ।
डेपयति--ते अडीडिपत्--त कुटा० डिपति अडिपीत् ।
दिवादित्वमपीच्छन्ति डिप्यतिं इरित् अडिपत् अडेपीत् ।


k1=डिप, L=21778
डिप¦ संहतौ वा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट् इदित् ।
डिम्पयति--ते डिम्पते । अडिडिम्पत्--त अडिम्पष्ट ।


skd

k1=डिप, L=14109
डिप¦, इ क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-उभं च-सकं-सेट् ।) मूर्द्धन्यवर्ग-
तृतीयादिः । इ क ङ, डिम्पयते । ञ, डिम्प-
यति डिम्पयते । अयमात्मनेपदीत्यन्ये । संहती
राशीकरणम् । इति दुर्गादासः ॥


k1=डिप, L=14110
डिप¦, क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-उभं-च सकं-सेट् ।) मूर्द्धन्यवर्ग-
तृतीयादिः । क ङ, डेपयते । ञ, डेपयति डेप-
यते । पुनःपाठान्नेदनुबन्धः । अयमात्मनेपदी-
त्यन्ये । संहती राशीकरणम् । इति दुर्गादासः ॥


k1=डिप, L=14111
डिप¦, शि क य इर् नुदि । इति कविकल्पद्रुमः ॥
(तुदां-चुरां-दिवां च-सकं-सेट् ।) शि, डिपति
अडिपीत् । क, डेपयति । य, डिप्यति । इर्
अडिपत् अडेपीत् । तुदाद्यन्तर्गणस्यैव कुटादि-
त्वमिति दिवादिपक्षे गुणः । दिवादिपक्षे पुषा-
दित्वान्नित्यं ङ इत्यन्ये । नुदि प्रेरणे । इति
दुर्गादासः ॥


Match 0483: vcp=डिब, skd=डिब

vcp

k1=डिब, L=21779
डिब¦ संघे प्रेरणे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्
इदित् । डिम्बयति--ते अडिडिम्बत् डिम्बति अडिम्बीत् ।


skd

k1=डिब, L=14112
डिब¦, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क,
डिम्बयति । नोदः प्रेरणम् । इति दुर्गादासः ॥


Match 0484: vcp=डिभ, skd=डिभ

vcp

k1=डिभ, L=21780
डिभ¦ हिंसे संहतौ वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।
इदित् । डिम्भयति--ते अडिडिम्भत्--त डिम्भति अडिम्भीत् ।


skd

k1=डिभ, L=14113
डिभ¦, इ क ञ सङ्घे । इति कविकल्पद्रुमः ॥
(चुरां-उभं-सकं-सेट् ।) इ क ञ, डिम्भयति
डिम्भयते । अयमात्मनेपदीति केचित् । सङ्घो
राशीकरणम् । इति दुर्गादासः ॥


Match 0485: vcp=डिम, skd=डिम

vcp

k1=डिम, L=21781
डिम¦ हिंसने सौ० पर० सक० सेट् । डेसति अडेमीत् ।


skd

k1=डिम, L=14114
डिम¦, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) डिण्डिमः । सौत्रधातुरयम् । इति
दुर्गादासः ॥


Match 0486: vcp=डी, skd=डी

vcp

k1=डी, L=21789
डी¦ नभोगतौ (ओडा) भ्वा० आ० अक० सेट् । डयते अडयिष्ट
डिड्ये डीनः । प्राद्युपसर्गभेदे खगगतिभेदाः खगगतिशब्दे
२४१४ पृ० दृश्याः ।
गतौ दिवा० आ० सक० निधण्टुः । डीयते ।


skd

k1=डी, L=14124
डी¦, ओ ङ य गतौ । नभोगतौ । इति कवि-
कल्पद्रुमः ॥ (दिवां-आत्मं-सकं अकं च-सेट् ।)
ओ, डीनः । ङ य, डीयते । इति दुर्गादासः ॥


k1=डी, L=14125
डी¦, ङ नभोगतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) ङ, डयते पक्षी । अस्यापि
निष्ठायां डीनः । इति कातन्त्राद्याः । धातु-
पारायणिकास्तु इम्निषेधे ओदनुबन्धडीङो
ग्रहणादस्मादिमि वक्तव्याद्गुणे डयित इत्याहुः ।
गोयीचन्द्रोऽपि । डयितः डयितवान् इत्युदा-
[Page2-574-c+ 52]
जहार । स्वमते तु डीत इत्येव । इति दुर्गा-
दासः ॥


Match 0487: vcp=ढुण्ढ, skd=ढुण्ढ

vcp

k1=ढुण्ढ, L=21816
ढुण्ढ¦ अन्वेषणे भ्वा० सक० पर० सेट् । ढुण्टति अढुण्ढीत् ।
डुढुण्ढ । ढुण्ढिः ।


skd

k1=ढुण्ढ, L=14149
ढुण्ढ¦, अन्वेषणे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) ढाद्यन्तो दन्त्यनोपधः । ढ-
योगान्मूर्द्धन्यः । तेन यगादौ तल्लोपे ढुढ्यत
इत्यादि । ढुण्ढति धनं लोकः । इति दुर्गादासः ॥


Match 0488: vcp=ढौक, skd=ढौक

vcp

k1=ढौक, L=21820
ढौक¦ प्रेरणे गत्याञ्च भ्वा० आत्म० सक० सेट् । ढौकते
अढौकिष्ट डुढोके । “तं विप्रदर्शं कृतधातयत्ना यान्तं
वने रात्रिचरी डुढौके” भट्टिः । “शकुन्तला वक्त्रं
ढौकते” शकु० । णिनि ढौकयति ते “राक्षसोऽतर्जयत्
सूतं पुनश्चाढौकयद्रथम्” भट्टिः । ऋदित् अडुढौकत् त ।
इति वाचस्पत्ये ढकारादिशब्दार्थसङ्कलनम् ।


skd

k1=ढौक, L=14152
ढौक¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) चतुर्द्दशस्वरी । ऋ, अडु-
ढौकत् । ङ, ढौकते । इति दुर्गादासः ॥
(आवृतौ । वदनं ढौकते । इति कालिदासः ॥)


Match 0489: vcp=णख, skd=णख

vcp

k1=णख, L=21822
णख¦ गतौ भ्वा० पर० सक० सेट् । णोपदेशत्वात् सति निमित्ते
णत्वम् । नखति प्रणखति । अनखीत्--अनाखीत् ।
ननाख नेखतुः । एवं णादिधातूनां गणपाठे णादि-
त्वं प्रयोगे नादित्वं सति निमित्ते णत्व्मिति बोध्यम् ।


skd

k1=णख, L=14156
णख¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) प्रणखति । इति दुर्गादासः ॥


Match 0490: vcp=णट, skd=णट

vcp

k1=णट, L=21823
णट¦ नृत्ये साभिनये नटकार्य्ये हिंसायामयं न णोपदेशी
भ्वा० षर० अक० सेट् । नटति प्रणटति अनाटीत् अन-
टीत् । ननाट नेटतुः । हिंसायात् प्रनटति । नटः
नाट्यम् ।


k1=णट, L=21824
णट¦ नटकृत्ये भ्वा० पर० अक० सेट् । नटति प्रणटति अनाटीत्-
अनटीत् ननाट नेटतुः घटा० । नटयति अनीनटत् ।

“नट नृत्ये । इत्थमेव पूर्वमपि पठितम् । तत्रायं
विवेकः । पूर्वपठितस्य नाट्यमर्थो यत्कारिषु नटव्यप-
देशो वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्तं नृत्यं
चार्थो यत्कारिषु नर्त्तकव्यपदेशः पदार्थाभिनयो नृत्यम्
गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ णटनताविति
पठन्ति । मतावित्यन्ते । णोपदेशपर्य्युदासवाक्ये भाष्य-
कृता नाटीति दीर्थपाठात् घटादिर्णोपदेश एव” सि० कौ०


skd

k1=णट, L=14157
णट¦, नृत्यहिंसयोः । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सकं च-सेट् ।) प्रणटति । णोपदेश-
विधौ वर्ज्जनेऽपि अस्य परस्य चेह पाठः
केषाञ्चिदनुरोधात् । अत्र नृत्यं साभिनयनर्त्तनम् ।
इति दुर्गादासः ॥


k1=णट, L=14158
णट¦, म नृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) म, प्रणटयति । नृताविति नृत्यते-
रौणादिककिप्रत्यये रूपम् । अत्र मिकारानु-
बन्धेनैवेष्टसिद्धे पूर्ब्बे नृत्यग्रहणमर्थभेदार्थम् ।
तेन पूर्ब्बे नृत्यं साभिनयनर्त्तनम् इह तु नृति-
रभिनयरहितनर्त्तनमिति । यथा पूर्ब्बस्य ।
[Page2-576-b+ 52]
स्फटिककटकभूतिर्नाटयत्येव शैलः । इति माघः ।
अस्य तु । नाट्येन केन नटयिष्यति दीर्घ-
मायुरिति मुरारिः । इति दुर्गादासः ॥


Match 0491: vcp=णद, skd=णद

vcp

k1=णद, L=21825
णद¦ अव्यक्तशब्दे भ्वा० पर० अक० सेट् । नदति प्रणदति
अनादीत् अनदीत् । ननाद नेदतुः नेदतुः । नादः नदन्
नदितुम् । सति निमित्ते एतत्पूर्ववर्त्तिनः न्युपसर्गस्य
णत्वम् । प्रणिनदति परिणिनदति ।
“वासवश्चानदद्घोरम् रुधिरञ्चाभ्यवर्षत” हरिवं० १८३ अ० ।
“नदति मही गम्भीरम्” वृ० स० ५४ अ० । “शब्दं घोरं
नदन्ति” भा० व० २६७ अ० “शिवाश्चैवाशिवान्नादान्नदन्ते”
हरिवं० १९३ अ० । आर्षस्तङ् । णिचि नादयति “नदय-
[Page3194-a+ 38]
न्नेति पृथिवीमुत द्याम्” ऋ०९ । ९७ । १३ । “आ सानु-
शुष्मैर्नदयन् पृथिव्याः” ऋ० ७ । ७ । २ । छान्दसो ह्रस्वः ।
लोके तु न ह्रस्वः । “नादयन्रथघोषेण सर्वाः सविदिशो
दिशः” भा० व० २५३३ श्लो० । अन्तर्भूतण्यर्थे तु अस्य
सकर्मकता “नृत्याबसाने नटरजराजो ननाद ढक्कां
नव पञ्च वारान्” शब्दे न्दुशेखरधृतवाक्यम् ।
अनु + नादेनानुकरणे सक० । “तथा च तेषां रुदतां महा-
त्मनां दिशं च खञ्चानुननाद निस्वनः” रामा० २ । १११ अ० ।
अभि + आभिमुख्येन शब्दकरणे । “पुत्रेति तन्मयतया तर-
वोऽभिनेदुः” भाग० १ । २ । २ ।
उद् + उच्चैःशब्दकरणे । “कालमेघैवोन्नदन्” भा० द्रो० ६८१४
प्रति + प्रतिशब्देन अनुकरणे सक० । “वयं प्रति नदन्तस्तान्”
भा० भी० ४५१८ ।


k1=णद, L=21826
णद¦ भाषे चु० उभ० सक्० सेट् । नादयति ते प्रणादयति
अनीनदत्--त । ननाद नेदतुः ।


skd

k1=णद, L=14159
णद¦, म्लिष्टोक्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) म्लिष्टोक्तिरव्यक्तशब्दः । नदति
घण्टा । इति दुर्गादासः ॥


k1=णद, L=14160
णद¦, क भाषि । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, नादयति । इति दुर्गा-
दासः ॥


Match 0492: vcp=णभ, skd=णभ

vcp

k1=णभ, L=21827
णभ¦ हिंसे भ्वा० आत्म० सक० सेट् । नभते प्रणभते ल्तृदित्
अनभत् अनभिष्ट । नेभे । “नभन्तामन्यकेषां ज्याका
अधिधन्वसु” ऋ० १० । १६३ । १ । “नभन्तां हिंसयन्ताम्”
भा० आर्षस्तङ् “नाभाकस्य प्रशस्तिभिः” निरुक्तधृता
ऋक् । वेदेऽस्य क्वचित् नुम् । “उन्नम्भय पृथिवीं भिन्धीदं
दिव्यं नभः” तैत्ति० स० २ । ४ । ८ । २ ।


k1=णभ, L=21828
णभ¦ हिंसे दिवा० क्य्रा० च पर० सक० सेट् । नभ्यति
प्रणभ्यति नभ्राति । अनाभीत्--अनभीत् । ननाभ नेभतुः ।


skd

k1=णभ, L=14161
णभ¦, ऌ ङ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऌ, अनभत् । ङ, नभते ।
इति दुर्गादासः ॥


k1=णभ, L=14162
णभ¦, य ग हिंसे । इति कविकल्पद्रुमः ॥ (दिवां-
क्र्यां-च-परं-सकं-सेट् ।) य, नभ्यति । ग
नभ्नाति । इति दुर्गादासः ॥


Match 0493: vcp=णम, skd=णम

vcp

k1=णम, L=21829
णम¦ शब्दे अक० नतौ सक० भ्वा० पर० अनिट् । नमति
प्रणमति अनं सीत् । ननाम नेमतुः नेमिथ नमन्थ ।
नतः नतिः नामः नत्वा नन्ता नम्यः आनाम्यः । अस्य
अमन्तत्वेन घटादित्वे प्राप्तेऽपि अनुपसर्गाद्वेति नियमात्
वा तथात्वम् । नमयति नामयति उपसर्गात्तु उन्नमय-
तीत्येव । नतिश्च स्वाकर्षबोधकव्यापारभेदः स च करशिरः
संयोगादिः स्वापकर्षबोधशालिनः कर्मता । नमति गुरुम्
ढुण्ढिशब्दे उदा० । ण्यग्भावे (नोया) अकर्म्म० । ततः
कर्मकर्त्तरि न यक्चिणौ नमते अनंस्त । “सुम्नेभिरस्मे
वसवो नमध्वम्” ऋ० ७ । ५६ । १७ । “एवे द्यूने युवतयो
ऽनमन्त” १० । ३० । ६ । न्यग्भावे “अनंसीद्भूर्भरेणास्य” भट्टिः ।
“उन्नमति नमति वर्षति गर्ज्जति मेघः करोति तिमि-
रौघप्त् । प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि”
मृच्छ० “नतभ्रुवो नव्यजनापनेयः” उद्भटः “पुष्पभारनता
लता” रामा० २ । ९६ अ० । “तवाभिधानाद् व्यथते
[Page3194-b+ 38]
नताननः” किरा० । यङि नंनम्यते । “नंनम्यमाना
फलदित्सयेव” भट्टिः ।
अभि + आभिमुख्येन नमने । “देवान् वै यज्ञो नाभ्यनमत्”
अव + न्यग्भावे अधोभवने (नीचे नोअओया) अक० । “त्व-
य्यादातुं जलमवनते” मेघ० । णिच् अवनमयति
“अवनामितमेढ्रस्य मेढ्रे” सुश्रु० । “शिरः सुकृष्णो
जग्राह स्वहस्तेनावनाम्य च” हरिवं० ६९ अ० ।
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे” भ० आ० १३४ अ० ।
आर्षो न ह्रस्वः आम्बभावश्चार्षः ।
उद् + ऊर्द्धगतौ उच्चभवने उत्थाने च अक० । “उन्नम्योन्नम्य
तत्रैव दरिद्राणां मनोरथाः । हृदयेषु विलियन्ते विध-
वास्त्रीस्तनाविव” पञ्चत० । “स्थितः सर्वोन्नतेनोर्वीम्” रघुः
अभि + उद् + आभिमुख्ये नोन्नतौ अक० । “अभ्युन्नताङ्गुष्ठ-
नखप्रभाभिः” कुमा० । “अभ्युन्नता परस्तादवगाढा
जघनगौरवात् पश्चात्” शुकु० ।
उप + प्राप्तौ सक० स्वयमुपस्थितौ अक० । “यं सत्रिया
दीक्षोपनमेत” । अभ्याशो ह यदेनं साधवो धर्मा
आ च गच्छेयुरुपच नमेयुः” छा० उ० । “यदा तु पर-
बाधयान्ध आत्मने नोपनमति” भाग० ५ । १४ । १४ श्लो० ।
“मत्संयोगः कथमुपनमेत् स्वप्नजोऽपि प्रियायाः”
मेघ० । “परलोकोपनतं जलाञ्जलिम्” कुमा० ।
परि + तुल्यरूपसत्तया वस्तुनोऽन्यथाभवने अक० आत्म० । यथा
दुग्धपरिणामः दधि मृत्परिणामः घटादिः । “तथा
तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशम्
गत्वा घटादिविषयाकारेण परिणमते” “समसत्ताककार्य्यो
त्पादः परिणामः इति” वेदा० प० । कर्मकर्त्तरि आत्मनेपद-
मित्यन्ये “परिणामस्वभावा हि गुणा नापरिणम्य
क्षणमवतिष्ठन्ते” सा० त० कौ० । गजानां तिर्य्यग्धन्तप्रहारे
सक० । “विष्के नागः पर्य्यणंसीत् स्व एव” माघः । पर्य्यणं-
सीत् तिर्य्यक् प्रजहारेत्यर्थः । “तिर्य्यग्दन्तप्रहारैस्तु गजः
परिणतो मतः” वैजयन्ती । शेषताप्राप्तौ अक० ।
“दिवसा परिणामरमणीयाः” शकु० । “ता एवौषधयः
कालपरिणामात् परिणतवीर्य्या भवन्ति” सुश्रु० । परि-
पाके च “आहारस्य सम्यक्परिणतस्य” सुश्रु० सम्यक्नमने
सक० । “यस्तं परिणमेच्च तत्” भा० उ० ११०७ ।
प्र + प्रकर्षेण नतौ । “प्रणमेद्दण्डवड्मूमौ” भाग० ६ । १९ । ९ ।
“प्रणेमुर्भुवि मूर्द्धभिः” भाग० ३ । ३ । २८ । “उरसा
शिरसा दृष्ट्या वचसा मनसा तथा । पद्भ्यां कराभ्यां
[Page3195-a+ 38]
जानुभ्यां प्रणामोऽष्टाङ्ग इष्यते” नृसिह पु० उक्ते
नतिभेदे च ।
प्रति + प्रतीपनतौ ।
वि + विशेषेण नतौ ।
वि + परि + भावस्य विकारभेदे अक० आत्म० “घट्भावविकारा
भवन्तीति वार्द्धायणिः । जायतेऽस्ति विपरिणमत वर्द्धते
अपक्षीयते नश्यतीति, जायत इति पूर्वभावस्यादिमाचष्टे
नापरभावमाचष्टे नो प्रतिषेधति । अस्तीत्युत्पन्नस्य सत्त्व-
स्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं,
वर्द्धत इति स्वाङ्गाभ्युच्चगं, सांयौगिकानां वाङ्गानां, वर्द्धते
विजयेनेति वा, वर्द्धते शरीरेणेति वा । अपक्षीयत इत्ये-
तेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिमा-
चष्टे न पूर्वभावमाचष्टे न प्रतिषेधति” निरु० १ । २ ।
अन्यविभक्त्यन्ततया श्रुतस्य शब्दस्य अन्यविभक्त्यन्ततया
परिकल्पने “कर्त्तरि शबित्यतः कर्तृग्रहणमनुवर्तते । तच्च
प्रथमया विपरिणम्यते” पा० सू० व्याख्या । “अर्थवशात्
विभक्तेर्विपरिणामः” परिभाषा ।
सम् + सम्यग्नतौ । “धीरः संनमेत बलीयसे” भा० उ०
११३० । “संनताः फलभारेण पुष्पभारेण च द्रुमाः”
रामा० आ० ३ । १६ अ० ।


skd

k1=णम, L=14163
णम¦, औ शब्दे । नतौ । इति कविकल्पद्रुमः । (भ्वां-
परं-अकं-नतौ सकं अकं च अनिट् ।) औ,
नन्ता । शब्दार्थो न भाषायाम् । नतिरिह
नमस्कारो नम्रीभावश्च । नमति गुरुं लोकः ।
नमन्ति फलिनो वृक्षाः । अमन्तेऽप्यस्य ज्वल-
ह्वलह्मलेत्यादिना केवलस्य ह्नस्वविकल्पनात्
सोपसर्गस्यैव नित्यं ह्नस्वः । नमयति नामयति
प्रणमयति । श्वपुच्छमवनामितं बधिरकर्णजापः
कुतः । इत्यादौ अवनमनं अवनामः घञ् ततो
अवनामं करोतीति ञौ रूपम् । इति दुर्गा-
दासः ॥


Match 0494: vcp=णय, skd=णय

vcp

k1=णय, L=21830
णय¦ गतौ रक्षणे च भ्वा० पर० सक० सेट् । नयति प्रणयति अनयीत् । ननाय नेयतुः ।


skd

k1=णय, L=14164
णय¦, ङ गतौ । रक्षे । इति कविकल्पद्रुमः ॥ (दिवां-
आत्मं-सकं-सेट् ।) ङ, नयते । इति दुर्गा-
दासः ॥


Match 0495: vcp=णर्द्द, skd=णर्द *

vcp

k1=णर्द्द, L=21831
णर्द्द¦ शब्दे भ्वा० पर० अक० सेट् । नर्द्दति अनर्द्दीत । ननर्द्द
प्रणर्द्दति । नर्द्दनम् नर्द्दतः ।
“दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्द्दं
नर्टतः सम्यक् तदा सूत्यं भविष्यति” भा० उ० १४० अ० ।
“उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा” १४२ अ० ।
“नर्दमानो महानादं प्रावृषीव वलाहकः” भा० भी०
१०१ अ० । “मत्ता नर्दन्तु कुञ्जराः” रामा० २ । १०५ अ० ।


skd

k1=णर्द, L=14165
णर्द¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) णोपदेशविधावस्य वर्ज्जनेऽपि इह पाठः
केषाञ्चिदनुरोधात् । प्रणर्दति । इति दुर्गादासः ॥


Match 0496: vcp=णल, skd=णल

vcp

k1=णल, L=21832
णल¦ बन्धे भ्वा० पर० सक० सेट् । नलति प्रणलति ।
अनालीत् । ज्वला० नलः नालः ।


skd

k1=णल, L=14166
णल¦, ज बन्धे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं
सेट् ।) ज, नालः नलः । नलति केशं लोकः
बध्नाति इत्यर्थः । गन्धे इति केचित् । गन्धो-
ऽदर्शनमिति गोविन्दभट्टः । इति दुर्गादासः ॥


Match 0497: vcp=णश, skd=णश

vcp

k1=णश, L=21833
णश¦ अदर्शने ध्वंसे च दिवा० पर० अक० सेट् । नश्यति प्रणश्यति
अनेशत् पा० अन्यमते नशत् अशान्तत्वे न णत्वम्
प्रनष्टः । “फलभोग्यो न नश्यति” “प्रनष्टखामिकं द्रव्यम्”
याज्ञ० । “चेष्टा वय्नेशन्निखिलास्तदास्याः स्मरेषुपातैरिवता
विधूताः” नैषध० “एतेन लुङुत्तमपुरुष एव नेशादेशोक्ति-
श्चिन्त्या “ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च”
हितो० “आ पाप! स्वयं नष्टः परानपि नाशयितु-
मिच्छसि” प्रबो० च० ।


skd

k1=णश, L=14167
णश¦, ऌ य ऊ नाशे । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अक वेट्-ॡरङ् वान् ।) नाशो दर्शना-
भावः । इति प्राञ्चः । लुक्कायनमिति सर्व्वस्वः ।
ऌ, अनेशत् अनशत् । य, नश्यति शत्रुस्तिरो-
भवति इत्यर्थः । ऊ, नशिष्यति नङ्क्ष्यति । इति
दुर्गादासः ॥


Match 0498: vcp=णस, skd=णस

vcp

k1=णस, L=21834
णस¦ कौटिल्ये भ्वा० आत्म० अक० सेट् । नसते प्रण-
मते । अनसिष्ट । नेसे


skd

k1=णस, L=14168
णस¦, ङ ह्वृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सकं च-सेट् ।) ह्वृतिरिह कुटिली-
भावस्तत्करणञ्च । ङ, नसते खलः कुटिलः
स्यादित्यर्थः । नसते लतांवायुः कुटिलांकरोती-
त्यर्थः । इति दुर्गादासः ॥


Match 0499: vcp=णह, skd=णह

vcp

k1=णह, L=21835
णह¦ बन्धने दिवा० उभ० सक० अनिट् । नह्यति--ते प्रणह्य-
ति--ते । अनात्सीत् अनद्ध ननाह नेहे । नद्ध्वा नद्धः नद्ध्री ।
“यथा युगं वरत्रया नह्यन्ति” ऋ० १० । ६० । ८ “खर्जूरी-
स्कन्धनद्धानाम्” रघुः । “अमृतोत्पादने नद्धो भुज-
गेनेव मन्दरः” रामा० सुन्द० २४ अ० ।
अपि + धारणे वा आदेरल्लोपः । पिनह्यति अपिनह्यति ।
“वितत्या शार्ङ्गं कवचं पिनह्य” भट्टिः । “आमुच्य
कम्बूपरिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले”
भा० वि० ११ अ० । विशेषेण बन्धने निबन्धने च ।
“पिनद्धां धूमजालेन प्रभामिव विभावसोः” भा० व० ६८ अ०
“बहुध तु पिनद्धार्ङ्गैर्हिमवच्छिखरैरिव” भा० आ०
१८५ अ० ।
अव + समन्ताद्बन्धने । “चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरी-
षयोः” मनुः ।
आ + सम्यग्बन्धने “वरत्रायां दार्व्यानह्य मानः” ऋ० १० । १०२ । ८
“आनद्धावरणैः कामैः” भा० भी० ११९ अ० । “आनह्यते
यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासां” सुश्रु०
परि + आ + परितो बन्धे सक० । “सोमपर्य्याणहनेन पर्य्या-
णह्यति” शत० व्रा० ३ । ३ । ४ । ६
उद् + उत्तोल्य बन्धने । “अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य
मज्जानमुन्नह्यति” “सास्रावमुन्नह्यति मांसपिण्डम्”
सुश्रु० अतिवन्धने च । “ते नेह शक्याः सहसा विजेतुं
वीर्य्योन्नद्धाः कृतवैरास्त्वया ते” भा० भी० ८१ अ० ।
सम् + उद् + समुग्बन्धने । “बल्मीकवत् सभन्नद्धमन्तः कुर्बन्ति
विद्रधिम्” सुश्रु० । पण्डित्याभिमाने गर्वे च “अतस्त्रिषु
समुन्नद्धौ पण्डितम्मन्यगर्वितौ” अमरः । तत्र पाण्डित्यमाने
“अश्रुतश्च समुन्नद्धौ डरिद्रश्च महामनाः” भा० उ० ३२ अ० ।
गर्वे “अर्थं महान्तमासाद्य विद्यामैश्वर्य्यमेव वा ।
विचरत्यसमुन्न्द्धो यः स पण्डित उच्यते” भा० उ०
३२ अ० । समुद्नवे च “परोक्षेण समुन्नद्धप्रणयोतकण्ठ्य
कातरः” भाग० १ । १५ । ४
उप + उपरिबन्धने । “विस्रावयेत् स्विन्नमतन्त्रितश्च शुद्धं व्रणं
चाप्युपनाहयेत्तु” सुश्रु० । उपानद् क्विपि पूर्वस्वरदीर्घः ।
नि + निवन्धने । “इषधिः पृष्ठे निनद्धः” ऋ० ६ । ७५ । ५
परि + परितो बन्धने । “न तां बध्री परिणहेच्छतचर्मा
भहातनुम्” भा० आ० २९ अ० । विस्तारे “परिणाहो
[Page3196-a+ 38]
विशाकता” अमरः । “कपाटवक्षाः परिनद्धकन्धरः”
रघुः । क्विपि घञि परे वा दीर्थः परी(रि) णाहः ।
सम् + सम्यग्बन्धने कवचादिधाऋअणे च ।
“श्लथद्दुकूलं कवरीं च विच्युतां संनह्यतीं वामकरेण
वलगुना” भाग० ८ । १२ । १६ । “कवचेन महार्हेण सम-
नह्यद्वृहन्नलाम्” भा० वि० ३७ अ० ।


skd

k1=णह, L=14169
णह¦, य ञ औ बन्धे । इति कविकल्पद्रुमः ॥
(दिवां-उभं-सकं-अनिट् ।) य ञ, नह्यति
नह्यते । औ, अनद्ध । इति दुर्गादासः ॥


Match 0500: vcp=णास, skd=णास

vcp

k1=णास, L=21836
णास¦ ध्वनौ भ्वा० आत्म० अक० सेट् । नासते प्रणासते
अनासिष्ट ननासे । ऋदित् अननासत्--त ।


skd

k1=णास, L=14172
णास¦, ऋ ङ ध्वाने । शब्द इति यावत् । इति कवि-
कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) ऋ,
अननासत् । ङ, नासते । इति दुर्गादासः ॥


Match 0501: vcp=णिक्ष, skd=णिक्ष

vcp

k1=णिक्ष, L=21837
णिक्ष¦ चुम्बने भ्वा० पर० सक० सेट् । निक्षति प्रणिक्षति ।
कृत्सु वा णत्वमिति पाणिनिः । सर्वत्र वा णत्वम् मुग्ध०
“निक्ष दर्भ सपत्नान् मे” अथ० १९ । २९ । १ आर्षगनपदयो-
र्वात्यागः । “याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पुष्टीः”
अथ० ९ । ८ । १५ “प्रणिक्षिष्यति नो भूयः प्रनिन्द्या-
स्मान् मधून्ययम्” भट्टिः । “किमीदिनं प्रत्यञ्चमर्चिषा
जातवेदो विनिक्ष्य” अथ० ९ । ३ । २५
वि + नाशने “शिशीते शृङ्गे रक्षमे विनिक्षे” ऋ० ५ । २ । ९
“विनिक्षे नाशाय” भा० आर्षस्तङ् ।


skd

k1=णिक्ष, L=14173
णिक्ष¦, चुम्बने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) निक्षति । इति दुर्गादासः ॥


Match 0502: vcp=णिज, skd=णिज

vcp

k1=णिज, L=21838
णिज¦ शोधने अदा० आत्म० सक० सेट् इदित् । निङ्क्ते
प्रणिज्क्ते अनिञ्जिष्ट निनिञ्जे । शुद्धौ अक० ।
“अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः” अथ० ।
३ । ५ । २ । (निजः शुद्धः) “यस्य नास्ति निजा प्रज्ञा केवलं तु
बहुश्रुतः” भा० स० ५४ अ० । “बुद्धिः सततमन्वेति
च्छायेव पुरुषं निजा” भा० व० ३० अ० । “सुज-
न्मनस्तस्य निजेन तेक्षसा” रघुः । निजेन शुद्धेन ।


k1=णिज, L=21839
णिज¦ शोधने सक० शुद्धौ अक० जु० उभ० अनिट् । नेनेक्ति
प्रणेनेक्ति । नेनिजानि नेनिक्ते अनेन्क् अनेनिजम्
अनेनिक्त इरित् अनिजत् अनैक्षीत् अनिक्त ।
“शाल्मली फलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः” मनुः
“सूरो निनिक्त रश्मिभिः ऋ० १० । १३२ । ६
अव + समन्तात् जलप्रोक्षणेन शोधने । “यद्द्यस्य क्रूरमभूत्
तद्ध्यस्या एतदहार्षीत्तस्मात् पाणी अवनेनिक्ति” । शत०
ब्रा० १ । २ । ५ । २३ ।
“अथोदपन्धषमादाबापनेजयति! असाववनेनिक्ष्वेत्येव
यजमानस्य पितरमसावयनेनिक्ष्येति पितामहमसाव-
वनेनिक्ष्वेति प्रपितापहं तद्यवा शिष्यतेऽभिषिञ्चेदेवं
तत्” शत० ब्रा० २ । ४ । २ । १६ । “अवनेविक्ष्य दास्तमानं पिण्डं
भोक्तुमात्मीगौ षाष्णी षोभयेति” भा० । पिण्डदानार्थ-
मसृतकुशे जलप्रोक्षणे तत् प्रकारः श्रा० ष० उक्तो यथा
[Page3196-b+ 38]
“प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् । अपः क्षिपेन्
मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः द्वितीयञ्च तृतीयञ्च
मधयदेशाग्रदेशयोः” इत्याभ्युदयिकप्रकरणीयछन्दोग-
परिशिष्टवचनेन आभ्युदयिके निस्तिलत्वाभिधानेनान्यत्र
सतिलत्वप्रतीतेः पुष्पयुक्तत्वञ्च । “सपुष्पं जलमादाय
तेषां पृष्ठे पृथक् पृथक् । अप्रदक्षिणं नेनिज्याद्गोत्र-
नामानुमन्त्रितम्” इति ब्रह्मपुराणवचनात् “अपसलवि
पितृतीर्थेन प्रदेशिन्यङ्गष्ठयोरन्तरा अपसलवि “अप-
सव्यं वा तेन पितृभ्यो निदधातीति” भट्टभाप्यधृतगृह्या-
न्तरात् अपसव्यशब्देन पितृतीर्थमुच्यते अस्मादेव
वचनात् तथा च मनुः प्राचीनावीतिना सम्यगपसव्य-
मतन्त्रिणा” इत्यादि तत्र तु मण्डलोपरि असाविति
सम्बोधनविभक्त्या सर्वत्र नामनिर्देश इति भट्टभाष्यम्
अतएव प्रागुक्तछन्दोगपरिशिष्टे आद्यमामन्त्र्य पूर्व-
वदित्युक्तं आद्यं पितरं पूर्ववत् “गोत्रनामभिरामन्त्र्य
पितॄनर्घ्यं प्रदापयेत्” इतिवत् । पितुरवनेजनं मूलदेशे
पितामहप्रपितामहयोस्तु अवनेजनमध्यदेशाग्रदेशयोः
द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः” इति छन्दोग-
प्ररिशिष्ठात् मातामहादीनामप्येवम् । “मातामह-
प्रभृतीस्तु एतेषामेव वामतः” इति छन्दोगपरिष्ठात् ।
एतेषां पितॄणां वामत इत्याभ्यु दयिकपरम् । अन्यत्र
तु दक्षिणतः कर्त्तुर्वामोपचारत्वट् । अतएव पार्वणे
प्रागुक्तब्रह्मपुराणे “अप्रदक्षिणं नेनिज्यादित्युक्तम् । तेन
सतिलपुष्पोदकपात्रं वामहस्ताद्दक्षिणहस्तेन वामान्वा-
रन्धेन मृहीत्वा अमुकगौत्र! पितरमुकदेषशर्मन्नप-
नेनिक्ष्य ये चात्र त्वाक्मनुयांश्च त्वमनु तस्मै ते स्वधा” इति
पितृतीर्थेनावनेजयेत् । “अप उपस्पृश्य जलं स्पृष्ट्वा
एवं पूर्बोक्तरीत्या पितामहाय प्रतितामहाय पिण्ड-
दानसूत्रं जलस्पर्शन सूत्रञ्च पूर्ववत् व्याख्येयम्” । पिण्ड-
पितॄयज्ञे तत्प्रकारः कात्या० श्रौ० ४ । १ । १० । उक्तो यथा
“उदपात्रेणावनेजयत्यपसव्यं सव्येन बोद्धरणसानर्थ्या
दसाववनेनिक्ष्येति यजमानस्य पितृप्रभृति त्रीन्” सू० ।
“उदकस्य पात्रसुदपात्रं पूर्णपात्रादि तेनाध्यर्य्युः
यजमानस्य पितृप्रभृति पितुरारभ्य त्रीन् पुरुषान्
पितृषितामहप्रपितामहान् अपसव्यं यथा स्याद्दस्तस्य
स्तव्यप्रदेशाद्दक्षिनैकदेशेनोदकनिनयनं यथा स्यात्
तषाङ्गष्ठप्रदेशिन्योरन्तरालेन अवनेजयति अवनि-
क्षान् शुचीन् करोति पिण्डदानाय । असाविति
[Page3197-a+ 38]
सम्बुद्द्यान्तगोत्रनामादेशपूर्वकम् अमुकगोत्र! यजमानस्य
पितरसुकशर्मन्नवनेनिक्ष्वेति रेखायामूलमध्याग्रप्रदेशेषु
दक्षिणसंस्थमवनेजनं कार्य्यम् । अग्रेण देवानां होमः
कनिष्ठिकाप्रदेशेन मनुष्याणाम्, उद्धरणं परिवेषणापर-
पर्य्यायम् अङ्गुष्ठप्रदेशिन्योरन्तरालमेव पितॄणां परिशिष्यते
अत इदमाह अपसव्यमिति” कर्कः । “अवनेज्य पूर्ववन्नीविं
विस्रंस्य नमो व इत्यञ्जलिं करोति” कात्या० श्रौ० १५ ।
निजेः शुद्ध्यर्थकस्य णिचि अवनेजयतीति । अवनेज्येति
प्रयोग इति बोध्यम् । शोधनम्परत्वे नेनिज्यादिति
अवनेजने चन तन्त्रता यथाह छन्दोगप० “अर्ष्ये
ऽक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः
स्यात् स्वधावाचन एव च” अवनेजनशब्दे ४२९ पृ० कृत्य
प्रदीपोक्तं मातृपक्षीयावनेजनविधानं छन्दोगेतरविषयम्
अन्यवेदिनामाभ्युदयिकादिविषयञेति बोध्यम् ।
निर् + निःशेषेण क्षालनेन शोधने “पात्राणि निर्णेनिजानि”
शत० ब्रा० १ । ३ । १ । २ “पात्राणि निर्णेनिक्ते” तैत्ति० स० ।
“अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते” मनुः “तोय-
निर्णिक्तपाणिः” रघुः “तेषामपेततृष्णानां निर्णिक्तानां
शुभात्मनाम्” भा० शा० २७१ अ० ।


skd

k1=णिज, L=14174
णिज¦, इ ल ङ शुद्धौ । इति कविकल्पद्रुमः ॥ (अदां
आत्मं-सकं सेट्-इदित् ।) शुद्धिरिह शुद्धीकरणम्
इ, कर्म्मणि निञ्ज्यते । ल ङ, प्रणिङ्क्ते । दक्षिणी
यानां विप्राणां समूहः इति हलायुधः । इति
दुर्गादासः ॥


k1=णिज, L=14175
णिज¦, लि इर् ञ औ पोषे । शुद्धौ । इति कवि-
कल्पद्रुमः ॥ (ह्वां-उभं-सकं-अनिट् ।) लि ञ-
नेनेक्ति नेनिक्ते । इर्, अनिजत् अनैक्षीत् । औ,
नेक्ता । इति दुर्गादासः ॥


Match 0503: vcp=णिद, skd=णिद

vcp

k1=णिद, L=21840
णिद¦ सन्निधाने अक० निन्दने सक० भ्वा० उभ० सेट् ।
नेदति--ते प्रणेदति--तै । अनेदीत् अनेदिष्ट निनेदनिनिदे ।


k1=णिद, L=21841
णिद¦ कुत्सने भ्वा० पर० सक० सेट् इदित् । निन्दति प्रणि-
न्दति अनिन्दीत् । कृत्सु वा णत्पमिति पाणिनिः ।
सर्वत्र वा णत्वम् मुग्ध०
“निनिन्द रूपं हृदयेन पार्वती” कुमा० । “निन्दन्तस्तव
सामर्य्यम्” गीता । “अनिन्द्यं निन्दते यो हि”
भा० व० २५२ अ० । आर्षस्तङ् । “न निन्दा निन्द्यं
निन्दति किन्तु विधेयं स्तौति” भीमांसा ।


skd

k1=णिद, L=14176
णिद¦, इ कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट्-इदित् ।) निंसनिन्दनिक्षां णोपदेश-
फलं चिन्त्यम् । णत्वविकल्पने स्वरूपग्रहणात् ।
केचित्तु कृतिविकल्पमिच्छन्ति त्यादौ तूपसर्गा-
दसमासे उपसर्गात् समासे त्यादौ नित्यमित्यर्थः ।
यथा, प्रणिन्दकः प्रनिन्दकः । प्रणिन्दति । भट्टौ
तु त्यादावपि विकल्पो दृश्यते । इ, कर्म्मणि
निन्द्यते । निन्दति दुष्टं लोकः । इति दुर्गा-
दासः ॥


k1=णिद, L=14177
णिद¦, ऋ ञ सन्निधौ । कुत्सने । इति कविकल्प-
द्रुमः ॥ (भ्वां-उभं-अकं-कुत्सने-सकं-सेट्-
ऋदित् ।) सन्निधिः सन्निकर्षः । ऋ, अनिनेदत् ।
ञ, नेदति नेदते दयालुं दीनः । निनिदुः । इति
दुर्गादासः ॥


Match 0504: vcp=णिल, skd=णिल

vcp

k1=णिल, L=21842
णिल¦ दुर्बोधे तुदा० पर० सक० सेट् । निलति प्रणिलति ।
अनेलीत् निनेल ।


skd

k1=णिल, L=14178
णिल¦, श गहने । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) ह्नस्वी । गहनं दुर्ब्बोधः । श,
निलति शास्त्रं कुधीः दुःखेन जानातीत्यर्थः ।
इति दुर्गादासः ॥


Match 0505: vcp=णिव, skd=णिव

vcp

k1=णिव, L=21843
णिव¦ सेके भ्वा० पर० सक० सेट् । इदित् । निन्वति ।
अनिन्वीत् । निनिन्च ।


skd

k1=णिव, L=14179
णिव¦, इ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । इदित् ।) ह्नस्वी । इ, निन्व्यते । इति
दुर्गादासः ॥


Match 0506: vcp=णिश, skd=णिश

vcp

k1=णिश, L=21844
णिश¦ समाधौ भ्वा० पर० सक० सेट् । नेशति प्रणेशति अनेशित् निनेश ।


skd

k1=णिश, L=14180
णिश¦, शीले । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) शीले समाधौ । नेशति योगी । निनि-
शतुः । इति दुर्गादासः ॥


Match 0507: vcp=णिष, skd=णिष

vcp

k1=णिष, L=21845
णिष¦ सेके भ्वा० पर० सक० सेट् । नेषति प्रणेषति अणेषीत् ।
निनेष ।


skd

k1=णिष, L=14181
णिष¦, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । उदित्वात् क्त्रावेट् ।) उ, नेषित्वा
निष्ट्वा । इति दुर्गादासः ॥


Match 0508: vcp=णिस, skd=णिस

vcp

k1=णिस, L=21846
णिस¦ चुम्बने अदा० आत्म० सक० सेट् इदित् । {??} प्रणिंस्ते
अनिंसिष्ट निनिंसे । कृत्सु वा णत्वमिति पापिर्यनः ।
सर्वत्य वा णत्वम सग्ध० । निंस्ते दन्तच्चब्दं न व” भट्टिः ।
[Page3197-b+ 38]
“अभि स्रु चः क्रमते दक्षिणावृत्ये या अस्य धाम प्रथमं
ह निंसते” ऋ० १ । १४४ । १ “अभि स्वरन्ति बहवो मनीषिणो
राजानमस्य भुवनस्य निंसते” ९ । ८५ । ३


skd

k1=णिस, L=14182
णिस¦, इ ङ ल चुम्बने । इति कविकल्पद्रुमः ॥
(अदां-आत्मं-सकं-सेट् ।) ल ङ, निंस्ते । इ,
निंस्यते । इति दुर्गादासः ॥


Match 0509: vcp=णी, skd=णी

vcp

k1=णी, L=21847
णी¦ प्रापणे भ्वा० उभ० द्विक० अनिट् । नयति प्रणयति
अनैषीत्” । प्रधाने कर्म्मणि लादयः । अजा ग्रामं नीयते ।
अनेष्ट निनाय निनयिथ निनेथ निन्ये नेता न्येष्यति ते
नेतव्यः । नेयः नीतः नीतिः नीत्वा विनीय ।
“सर्वान्नेष्यामि वः सदा । वृजिनात्तारयिष्यामि” भा०
आ० ६०५२ श्लो० “गमनाय मतिं चक्रे ताश्चैनं नित्यु-
रङ्गनाः” रामा० बा० ९ अ० । “नयिष्यामि च वाहि-
नीम्” रामा० ५ । ९१ । अ० । आर्ष इट् । “दैवेन
किलयस्यार्थः स नीतोऽपि विपद्यते” भा० वि० २० अ० ।
यापने च “निनाय सात्यर्थहिमोत्किरानिलाः । सहस्य
रात्रीरुदवासतत्पराः” कुमा० ।
सम्मानने आत्म० “शास्त्रे नयते शास्त्रस्थं सिद्धान्तं शि-
ष्येभ्यः न्प्रापयतीत्यर्थः तेन च सम्माननं फलितम्” सि० कौ०
ज्ञाने निश्चये आत्म० । “तत्त्वं नयते निश्चिनोति” सि० कौ०
अति + अतिक्रम्य नयने । “न स्वर्गं लोकमतिनयेत्” छा० उ०
वि + अति अपवाहने सक० । “व्यतिनीय कालमुपसदां
चतुर्थम्” आश्वा० श्रौ० १२ । ८ । ३५ । “व्यतिनीय अपोह्य” नारा०
अनु + स्वाभीष्टप्रवेशनाय सान्त्ववाक्यादिप्रयोगे सक० । “भवतो-
ऽनुनयाम्येवं पुरूराज्येऽभिषिच्यताम्” भा० आ० ८४ अ० ।
“प्रणिपातेन सान्त्वेन दानेन च महायशाः । ऋत्बिजो-
ऽनुनयामास” भा० आ० २२३ अ० । आर्ष आमुः ।
“अनुनीता त्वमस्माभिश्चिरं सान्त्बेन मैथिलि!” रामा०
सु० २५ अ० ।
अप + अपहरणे अन्यत्रनयने “यत्र संसप्तकाः पाथैमपनिन्थू-
रणाजिरात्” भा० आ० ५३० श्लो० ।
अभि + २९२ पृ० अभिनयशब्दोक्तार्थे सक० । “गीतानि
रम्याणि जगुः प्रहृष्टा कान्ताभिनीतानि मनोहराणि”
हरि० ८४४८ अ० । “तदुक्तेमभिक्नीयाभियुक्तैः” वेदा० सा०
आभिमुख्येन नयने च । “दृष्ट्वा शरं ज्यामभिनीयमानम्”
भा० व० ७६९ श्लो० । प्रधाने कर्म्मणि शानच् ।
अव + अधोनयने । “मन्थे सम्पातमवनयेत्” छा० उ० ।
“ऋवोषो अत्रिमवनीतसुन्निन्थथुः” ऋ० १ । ११६ । ८ ।
आ + दूरस्थस्यान्तिकप्रापणे । “दूरादिन्द्रमनयन्ना सुतेन” ऋ०
७ । ३३ । २ “रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्” भा० द्रो०
१४७ अ० । “पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान्
[Page3198-a+ 38]
क्रतुषु क्रियावान्” (पुरीमृष्यशृङ्गः) संयोजने च
“तप्ते पयसि दध्यानयति सा वैशदेव्यामिक्षा भवति” श्रुतिः
अभि + आ + आभिमुख्येन नयने “दधिमधुसर्पिरातपवर्ष्या
आपो ऽभ्यानीय” ऐत० ब्रा०
परि + आ + परित आनयने । “पाञ्चालराजं द्रुपदं गृहीत्वा
रणमूर्द्धनि । पर्य्यनयत भद्रं वः सा स्यात् परम-
दक्षिणा” भा० आ० १३८ अ० ।
प्रति + आ + प्रतिकूलतया आनयने गतस्य पुनराननयने “प्रत्या-
नेष्यति शुत्रुभ्यो वन्दीमिव जयश्रियम्” कुमा०
उद् + ऊर्द्धं नयने “किं स्विदादित्यमुन्नयति” भा० व० १७३
अ० । “रेतोधाः पुत्र उन्नयति नरदेव! यमक्षयात्”
भा० आ० ७४ अ० । उद्भावने लिङ्गदर्शनेनानुमाने च
“नीचासन्तमुदनयः परावृजम्” ऋ० २ । १३ । १२ ।
उत्सञ्जने उत्क्षेपे आत्म० । “दण्डमुन्नयते उत्क्षिपती-
त्यर्थः” सि० कौ० ।
उप + उपस्थापने “उपनिन्थुर्महाभागं दुहितृत्वेन जाह्न-
वीम्” हरिवं० १४२१ । “महत्या सेनया राजा दमयन्तो-
मुपानयत्” भा० व० ३०६३ श्लो० । दिव्जानामसाधारणे
संस्कारभेदे आत्म० । आचार्य्यः शिष्यमुपनयते । “गर्भा-
ष्टमेऽष्टमे वाऽव्दे ब्राह्मनस्थोपनायनम्” “उपनीय ददद्
वेदानाचार्य्यः स उदाहृतः” मनुः । “आचार्य्य उप-
नयमानो ब्रह्मचारिणम्” अथ० ११ । ५ । ३ “तथेति तं
होपनित्ये” शत० ब्रा० ११ । ५ । ३ । १३ । “समिधमाहर
उप त्वा नेष्ये” छा० उ० । स च संस्कारः वेदार्हता
प्रयोजकः । तस्य परगामिफलकत्वात् परस्मैपदे प्राप्ते
सम्मानोत्सञ्जनाचार्य्यकरणेत्यादिना पा० तङ् विहितः ।
“न हि उपनयनमात्रेणाचार्य्यत्वं किन्तु तत्पुर्वकाध्यापनेन
“उपनीय दददु वेदान् आचार्य्यः स उदाहृतः इति
स्मृतेः” इत्याशयेन उपनयनपूर्वकेनाध्यापनेन हि उप
नेतरि आचार्य्यतं क्रियते इति” सि० कौ० उक्तम् । “यस्य
प्रपितामहादेर्नानुस्मर्य्यते उपनयनम्” आपस्तम्बः भृतिदानेन
समीपप्रापणे आत्म० । “कर्म्मकरानुपनयते भृतिदानेन
स्वसमीपं प्रापयतीत्यर्थः” सि० कौ०
नि + उत्सर्जने । “उदकं निनयेच्छेषं शनैः पिण्डान्तिके
पुनः” मनुः । “निनयेत् उत्सृजेत्” कुल्लू० । “ओष-
धिभ्यो वृष्टिं निनयति” तैचि० २ । ४ । ९२३ । नितरा
नयने च “पूर्णपात्रमन्तर्वेदि निनयति” तैत्ति० १ । ७ । ५ । ३
“दासी कुम्भं वहिर्ग्रामान्निनयेयुः स्वबान्धवाः । पतितस्य
[Page3198-b+ 38]
बहिः कुर्य्युः सर्वकार्य्येषु चैव तम्” “चरितव्रत आयाते
निनयेरन्नवं घटम्” याज्ञ० ।
निर् + निश्चये अवधारणे तदभावाप्रकारकत्वे सति तत्
प्रकारके ज्ञानभेदे । “देवःपतिर्विदुषि! नैषधराजगत्या
निर्णीक्यते न किम्, न व्रियते भवत्या” नैष० “पुरावृत्तकथो-
द्गारैः कथं निर्णीयते परः” हितो० ।
परा + पुनरानयने गतस्य पुनः स्वस्थानप्रापणे “पुनः कृत्यां
कृत्याकृते हस्तगृह्य पराणय” अथ० ५ । १४ । ४ ।
परि + परितो नयने “तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु
तच्चरैः” मनुः । प्रदक्षिणीकरणे “तौ दम्पतीः त्रिः
परिणीयं वह्निम्” कुमा० । “अगृह्णां यच्च ते पाणिमग्निं
पर्य्यणयं च यत्” रामा० अयो० ४२ अ० । विवाहरूप
संस्कारभेदे च “वरयित्वा यथान्यायं मन्त्रवत् परि-
णिय च” भा० आ० ६१३४ श्लो० । “सर्वाः परिणयेत्
विप्रः” स्मृतिः “परिणेष्यति पार्वतीं यदा” कुमा० ।
वि + क्षेपे उपसम्पत्तौ प्रवेशने विधाने च “प्रणीतः
संस्कृताग्नौ ना यज्ञपात्रन्तरे स्त्रियाम् । त्रिषु क्षिप्तोप-
सम्पन्नविहितेषु प्रवेशिते” मेदि० । तत्र क्षेपे “तेन
सम्यक् प्रणीतानि शरक्जालानि भागशः” भा० भी० ८७ अ० ।
विधाने “प्रणोय दारिद्र्यदरिद्रतां नृपः” नैष० ।
“मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते” सुग्ध० “स एव
“धर्मो मनुना प्रणीतः” रघुः “यदि न प्रणय्द्दण्डं राजा
दण्डेष्वतन्त्रितः” मनुः ।
अग्निसंस्कारभेदे । “अग्निपणयनं कृत्वा” स्मृतिः ।
अग्न्याधेय शब्देदृश्यम् “महाध्वरे वह्निरभिप्रणीतः” भट्टिः ।
उपसम्पत्तिः स्नेहभेदः । प्रणयः । प्रणयिजनः । “प्रणयस्व
यथाश्रद्दं राजन्! किं कारवाणि ते” भा० व० २१६० श्लो० ।
“सञ्चये च विनाशान्ते मरणान्ते च जीविते । “संयोगे
च वियोगान्ते को नु विप्रणयेन् मनः” भा० शा० ३८९१
श्लो० “भक्तिप्रोतिप्रणयसहितं मानदम्भाद्युपेतम्” उद्ध० दू०
प्रति + पुनः प्रापणे यतो गतिस्तत्रैव पुनर्नयने ।
“प्रतिनेतुमयोध्याम्” रामा० २ । ९० अ० । “तेभ्यः
एनान् प्रतिनयामि बद्ध्वा” अ० ८ । ८ । १० “भद्रं न सर्व-
मेतद्वित्तं गृहं प्रतिनेतुं युज्यते” पञ्चत० ।
वि + अपसरणे “अहं हि ते विनेष्यामि युद्धश्रद्धामितःपरम्”
भा० उ० ३४७५ श्लो० । भारमेनं विनेष्यामि पाण्ड-
वानां महात्मनाम्” भा० भी० ५० अ० । शिक्षाविशेषे
“विनितैस्तु व्रजेन्नित्यमाशुगैः” “नाविनितैर्ब्रजेद्धुर्यैः”
[Page3199-a+ 38]
मनुः । “तपस्विसंसर्गविनीतसत्त्वे” (तपोवने) “वन्यान्
विनेष्यन्निव दुष्टसत्वान्” रघुः । “स्वधर्माच्चलितान् राजा वि-
नीय स्थापयेत् पथि” याज्ञ० आनुकूल्यार्थमनुनये विनयः ।
ऋणादेर्निर्यातने आत्म० । करं विनयते राज्ञे देयं
भागं परिशोधयतीत्यर्थः” सि० कौ० । व्यये विनियोगे
आत्म० । शतं विनयते धर्म्मार्थं विनियुङ्क्ते इत्यर्थः
सि० कौ० । अपनयने कर्तृशरीरभिन्ने कर्मणि
कर्त्तृस्थे क्रियाफले आत्म० । क्रोधं विनयते अपगमयति
क्रोधापसारणफलस्य चित्तप्रसादस्य कर्तृस्थत्वात् “स्व-
रितञितः” इत्येव सिद्धे नियमार्थमिदं तेनेह न गण्डं
विनयति, गण्डस्य शरीरावयवत्वात् कर्तृस्थत्वेऽपि
न तङ् । कर्त्तृस्थे इत्युक्तेः गुरोः क्रोधं विनयतित्येव ।
सम् + संयोजने । “ब्रह्मण्यात्मानं संनयन्” भाग० ६ । १० । १
“ओषधिभ्योऽध्यात्मन् समनयन्” तैत्ति० व्रा० २ । ५ । ३ । ३ स्था-
पने च “कंसे पृषदाज्यं संनीय” वृह० उ० ६ । ४ । २४ मिश्रणे
“दधिमधुहविषा धृतं संनीय” वृह० उ० वैदिकहविः ।
संस्कारभेदे सांनाय्यं हविः “नासोमया संनयेत्” तैत्ति०
स० २ । ५ । ५ । १ ।


skd

k1=णी, L=14183
णी¦, ञ प्रापणे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
द्विकं-अनिट् ।) णोपदेशपाठो नादित्वेन
प्राग्वन्न इति णत्वार्थः । प्रणयति । एवं सर्व्वत्र ।
प्रापणमिह ञ्यन्तस्य रूपम् । तथा च । नृणाति
लम्भयति च वेहत्यपि नयत्यमू । इति क्रिया-
निर्घण्टः ॥ ञ, नयति नयते गांवनं गोपः प्रापय-
तीत्यर्थः । इति दुर्गादासः ॥


Match 0510: vcp=णील, skd=णील

vcp

k1=णील, L=21848
णील¦ नीलताकरणे भ्वा० पर० सक० सेट् । नीलति प्रणी-
लति अनीलीत् । निनील


skd

k1=णील, L=14184
णील¦, वर्णे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सकं च-सेट् ।) वर्ण इह कृष्णवर्णीभावस्तत्-
करणञ्च । नीलति पत्रं तमालस्य । नीलति
सूत्रं तन्त्रवायः । इति दुर्गादासः ॥


Match 0511: vcp=णीव, skd=णीव

vcp

k1=णीव, L=21849
णीव¦ स्थौल्ये भ्वा० पर० सक० सेट् । नीवति प्रणीवति
अनीवीत् निनीव ।


skd

k1=णीव, L=14185
णीव¦, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) नीवति लोकः स्यूलः स्यादित्यर्थः ।
इति दुर्गादासः ॥


Match 0512: vcp=णु, skd=णु

vcp

k1=णु, L=21850
णु¦ स्तुतौ अदा० पर० सक० वेट् । नौति प्रणौति अनावीत्-
अनौषीत् नुनाव नुनुविथ नुनुविव । नोता नविता
नविष्यति नोष्यति नोतव्यं नवितव्यं नुतः । नुतिः
नुत्वा प्रणुत्य । “येन नुवन्तमहिंसं पिणक्” ऋ०
६ । १७ । १० । “द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती
तन्मिथुनं नुनाव” कुमा० । “सादरं नैमि तं भक्त्या
श्रीगोपीजनवल्लभम्” स्क० पु० । “सैन्यं नीलं नुनाव
च” भट्टिः । णिच् नावयति णिच् सन् । नुनावयिषति
सन् नुण्णूषते यङ् नोनूयते ।
आ + सम्यग्स्तवने आत्म० । “पतत्त्रिणः शुभामन्दमानु-
बानास्त्वजिह्लदन्” भट्टिः ।
प्र + प्रकर्षेण स्तवभे “एददेवं विद्वानक्षरं प्रणौति” छा० उ० ।


k1=णु, L=21851
णु¦ गतौ भ्वा० आत्म० सक० अमोट् निघण्टुः । गवते नवते
इत्यादि गतिकर्मसु मिरुक्तोक्तेः नवते । “अभीनवन्ते
अदूहः प्रियमिन्द्रस्य काम्यम्” ऋ० ९ । १० । १ ।
“अभीनवन्ते अभिगच्छन्ति” भा० । “हरिं नवन्ते अवता
[Page3199-b+ 38]
उदन्यवः” ऋ० ९ । ८६७२७ “नवन्ते गच्छन्ति” भा० ।
“गावो न धेनवोऽनवन्त” १० । ९५ । ६


skd

k1=णु, L=14186
णु¦, ल स्तुतौ । इति कविकल्पद्रुमः ॥ (अदां-परं-
सकं-सेट् ।) ल, नौति । इति दुर्गादासः ॥


Match 0513: vcp=णुद, skd=णुद

vcp

k1=णुद, L=21852
णुद¦ प्रेरणे तुदा० उभ० सक० अनिट् । नुदति--ते प्रणुदति
अनौस्मीत् अनुत्त । नुनोद नुनुदे नोत्ता नोत्स्यति ते
नोदनम् नोत्तुम् । नुन्नः नुत्तः । “मन्दं मन्दं
नुदति पवनश्चानुकूलो यथा त्वाम्” मेघ० । खण्डने
अपसारणे च नुनुदे तनुकण्डु पण्डितः” नैष० । अद-
स्त्वया नुन्नमनुचमं तमः” माघः । “प्रणुद्यान्मे
वृजिनं देवदेवः” हरिवं १३१ अ० । “विधिना संप्रणु-
दितः” भा० व० १ अ० । अनुदात्तेत्त्वेऽपि इट् आर्षः ।
नोदं करोतीति णिच् । नोदयति नोदितः नोद्यमानः ।
“ते नोद्यमाना विधिवत् बाहुकेन हयोत्तमा” भा० व०
७१ अ० । “अङ्कुशाङ्गुष्ठनोदिताः” भो० १९ अ० ।
धातुपाठे स्वरित्सु णुद प्रेरण इति पाठेऽपि पुन-
स्तथैबोत्तरत्र पाठः कर्त्रभिप्राये क्रियाफलेऽपि परस्मै-
पदार्थः” सि० कौ० ।
अप + अपसारने “जरां रोगमपनुद्य शरिरात्” साङ्ख्या० गृ०
“आच्छाद्य च महाबाहुर्वलात्तृष्णानपानुदत्” भा० आश्व०
६२ अ० । “अलक्ष्मीं व्यपनोत्स्यथ” भा० व० ११५ अ० ।
“अभिद्रवार्जुन! क्षिप्रं कुरून् द्रोणदापानुद” भा० द्रो०
१९० अ० ।
परा + अपसारणे “तन्न पराणुद विभो! कश्मलं मानसं
महत्” भाग० ३ । ७ । ७ श्लो० ।
प्र + प्रकर्षेण नोदने चालने च । “स शत्रुसेनां तरसा प्रणुद्य”
भा० वि० ६४ अ० । अपसारणे “ततोऽन्धकारं प्रणुदन्नुद-
तिष्ठत चन्द्रमाः” भा० व० ३३ अ० ।
वि + विशेषणे नोदने । “चोदयामास तानश्वात् विनुन्नाद्भीष्म-
सायकैः” भा० भी० ४८४६ श्लो० । णिजन्तस्य दुःखा-
द्यपसारणे “लक्ष्मीविर्नोदयति येन दिगन्तलम्बी” रघः
मल्लिनाथस्तु तत्करोतीत्यर्थे नामधातुरयमित्याह ।
“पुष्पं फलं चार्त्तवमाहरस्व । विनोदयिष्यन्ति नवाभि-
षङ्गादु” रघुः । “कथं वा देवी सरुजत्वात् विनोद्यते”
मालविकाग्नि० । “लोलं विनोदय मनः सुमनोलतासु” ।
सा० द० ।


skd

k1=णुद, L=14187
णुद¦, ञ श औ प्रेरणे । इति कविकल्पद्रुमः ॥
(तुदां-उभं-सकं-अनिट् ।) ञ श, नुदति नुदते
शरं योधः । औ, नोत्ता । इति दुर्गादासः ॥


Match 0514: vcp=णू, skd=णू

vcp

k1=णू, L=21853
णू¦ स्तुतौ तु० कु० सक० प० सेट् । नुवति प्रणुवति अनुवीत् नुनाव
“समिन्द्रगर्दभं मृण नुवन्तं पापयामुया” ऋ० १ । २९ । ५
“महामनूषत श्रुतम्” ऋ० १ । ६ । ६ “अबुषत स्तुतबन्तः
आर्षः इडभावः । अयं ह्रस्वान्त इति षिररुचिः । नुव-
[Page3200-a+ 30]
मानाश्च मर्त्ताः” ऋ० १ । १९०१ नवमानास्तुवानाः” भा०
वेदे आत्म० गणव्यात्यासश्च ।


skd

k1=णू, L=14188
णू¦, शि स्तवने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ह्नस्वान्तोऽयमिति वररुचिः । शि,
नुवति । अनुवीत् । इति दुर्गादासः ॥


Match 0515: vcp=णेद, skd=णेद

vcp

k1=णेद, L=21854
णेद¦ सन्निधाने उभ सक० सेट् । नेदति--ते प्रनेदति--ते ।
अनेदीत् अनेदिष्ट निनेद निनेदे ।


skd

k1=णेद, L=14189
णेद¦, ऋ ञ सन्निधौ । कुत्सने । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-अकं-सकं च-सेट् ।) सन्निधिः सन्नि-
कर्षः । ऋ, अनिनेदत् । ञ, नेदति नेदते
दयालुं दीनः । निनेदुः । इति दुर्गादासः ॥


Match 0516: vcp=णेष, skd=णेष

vcp

k1=णेष, L=21855
णेष¦ गतौ भ्वा० आत्म० सेट् । नेषते प्रणेषते । अनेषिष्ट
ऋदित् अनिनेषत्--त ।
एते घातवः नादिका अपि सति हेतौ णत्वार्थं गणे
णोपदेशितया पठिताः प्रयोगे तु दन्त्यनादय एव पुनः
प्रादियोगे णत्वमुपयान्ति । नन्दनाथनाधनक्क नृनाटिधात
यस्तु णोपदेशत्वाभावात् निमित्तेऽपि न णत्वमुपयान्तीति भेदः


skd

k1=णेष, L=14190
णेष¦, ऋ ङ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऋ, अनिनेषत् । ङ, नेषते
निनेषे । व्रजो गतिः । इति दुर्गादासः ॥ * ॥
एते धातवः स्वभावतो दन्त्यनादयो णोपदेशेन
मूर्द्धन्यणाद्याः ॥


Match 0517: vcp=तक, skd=तक

vcp

k1=तक, L=21860
तक¦ हासे अक० सहने सक० भ्वा० पर० सेट् । तकति
अताकीत्--अतकीत् । तताक तेकेतुः । निरुक्ते अयं
गतिकर्मसु पठितः । कर्मणि भावे च । यत् न ण्यत् ।
तक्यं सहनीयम् ।


k1=तक, L=21861
तक¦ दौस्थ्ये कृच्छ्रजीवने पा० इदित् प० भ्वा० सेट् । तङ्कति अतङ्गीत् ततङ्क तङ्का आतङ्का ।


skd

k1=तक, L=14194
तक¦, सहने । हासे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-हासे अकं-सेट्) तकति । इति दुर्गा-
दासः ॥


k1=तक, L=14195
तक¦, इ दौस्थ्ये । इति कविकल्पद्रुमः (भ्वां-परं-
अकं-सेट् ।) दौस्थ्यं दुःखेन जीवनम् । इ,
तङ्क्यते दरिद्रेण दुःखेन जीव्यते इत्यर्थः ।
तङ्कति दीनः दुःखेन जीवति इत्यर्थः । इति
दुर्गादासः ॥


Match 0518: vcp=तक्ष, skd=तक्ष

vcp

k1=तक्ष, L=21879
तक्ष¦ कार्श्ये तनूकरणे (चाँचा छोला) व्यापारे वा भ्वा०
पक्षे स्वा० प० सक० वेट् । तक्षति तक्ष्णोति तक्षन्ति
तक्ष्णुवन्ति अतक्षीत् अताक्षीत् ततक्ष । तक्षिष्यति
तक्ष्यति । तष्टा तक्षणम् तष्टः तक्ष्य तष्ट्वा प्रकाष्ठतट् ।
“दारवाणाञ्च तक्षणम्” मनुः “चषालं ये अश्वयूपाय
तक्षति” ऋ० । १ । १६२ । ६ “बाह्याशकलमपतक्ष्णुवन्ति” शत०
ब्रा० ३ । ७ । १ । ८ ।


skd

k1=तक्ष, L=14203
तक्ष¦, त्वचो ग्राहे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) त्वचो ग्राहश्चर्म्मणो ग्रहणम् ।
तक्ष त्वचने इति प्राञ्चः । त्वचनं संवरणमिति
रमानाथः । तक्षति कायं वर्म्मणा भटः । इति
दुर्गादासः ॥


k1=तक्ष, L=14204
तक्ष¦, ऊ कार्श्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-वेट् ।) ऊ, तक्षिष्यति तक्ष्यति । कार्श्यं
कृशकरणम् । तक्षति काष्ठं तक्षा । इति
दुर्गादासः ॥


k1=तक्ष, L=14205
तक्ष¦, ऊ न तक्षे । इति कविकल्पद्रुमः ॥ (स्वां-
परं-सकं-वेट् ।) तक्षः कृशकरणम् । ऊ, तक्षि-
ष्यति तक्ष्यति । न, तक्ष्णोति काष्ठं तक्षा । इति
दुर्गादासः ॥


Match 0519: vcp=तग, skd=तग

vcp

k1=तग, L=21889
तग¦ स्खलने कम्पे च अक० गतौ सक० भ्वा० सक० सेट्
इदित् । तङ्गति अतङ्गीत् ततङ्ग तङ्गनम् तङ्गा तङ्गितः ।


skd

k1=तग, L=14211
तग¦, इ स्खलने । कम्पे । गतौ । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-अकं-गतौ तु सकं-सेट् ।)
इ, कर्म्मणि तङ्ग्यते । इति दुर्गादासः ॥


Match 0520: vcp=तट, skd=तट

vcp

k1=तट, L=21900
तट¦ उच्छ्राये भ्वा० पर० सक० सेट् । तटति अताटीत्--अतटीत् । तताट तेटतुः । तटम् ।


k1=तट, L=21901
तट¦ आहतौ चु० उभ० सक० सेट् । ताटयति--ते अतीतटत् त ।


skd

k1=तट, L=14217
तट¦, उच्छ्राये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) उच्छ्राय उच्चीभावः । तटति
पुलिनम् । इति दुर्गादासः ॥


k1=तट, L=14218
तट¦, क आहतौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, ताटयति । इति दुर्गा-
दासः ॥


Match 0521: vcp=तड, skd=तड

vcp

k1=तड, L=21909
तड¦ दीप्तौ अक० आहतौ सक० चु० उभ० सेट् । ताडयति
ते अतितडत् त । “लालयेत् पञ्च वर्षाणि दश वर्पाणि
ताडयेत्” चाणक्यः “शिष्ट्यर्थं ताडयेत्ततः” मनुः
ताडना । ताडनम् ताडितः । “श्रोतुर्वितन्त्रीरिव ताड्य-
माना” कुमा० । “दुन्दुभिस्ताडितोऽसौ” वेणीसं० ।


k1=तड, L=21910
तड¦ आहतौ भ्वा० आत्म० सक० सेट् इदित् । तण्डते अत-
ण्डिष्ट । ततण्डे ।


skd

k1=तड, L=14225
तड¦, इ ङ आहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) इ, तण्ड्यते । ङ, तण्डते ।
इति दुर्गादासः ॥


k1=तड, L=14226
तड¦, क त्विषि । आहतौ । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सकं च-सेट् ।) क, ताड-
यति । त्विषि दीप्तौ । इति दुर्गादासः ॥


Match 0522: vcp=तत्र, skd=तत्र

vcp

k1=तत्र, L=21970
तत्र¦ धारणे चु० आत्म० सक० सेट् इदित् । तन्त्रयते
अतितन्त्रत इदित्करणं वेदे स्वरविशेषार्थम् ।


k1=तत्र, L=21971
तत्र¦ कुटुम्बधारणे भ्वा० प० अक० सेट् चान्द्राः । तन्त्रति
अतन्त्रीत् ततन्त्र । “इतराभ्योऽपि दृश्यन्ते” पा० इत्युक्तेः
प्रथमाद्यर्थे त्रल् । तत्र भवान् तत्र भवन्तमित्यादि ।


skd

k1=तत्र, L=14277
तत्र¦, इ क ङ धारणे । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-सकं-सेट् ।) आदिमध्ययोस्तकारः
शेषो रेफयुक्तः । धारणं धरणम् । भाषायामस्य
विस्तारणे प्रायः प्रयोगः । इ क ङ, तन्त्रयते
तन्तून् तन्त्रवायः । इति दुर्गादासः ॥


Match 0523: vcp=तन, skd=तन

vcp

k1=तन, L=22015
तन¦ विस्तृतौ तना० उभ० सक० सेट् । तनोति तनुते अतानीत्
अतनीत् अतत--अतनिष्ट ततान तेनतुः तेने । उदित्
तनित्वा तान्त्वा । ततः वितानः । “तनोति भानोः
परिवेषकैतवात्” नैष० । “आचार्य्यस्तनुते विवृतिमिमां
दायभागस्य” । दायभागटीका “ततान सोपानपरम्परा-
मिव” रघुः । “यस्य तस्य विना षष्ठीं तेनेति करणं
विना” उद्भटः । “तेनिरेऽभिरुचितेषु तरुण्यः” माघः

“स तमीं तमोभिरभिगम्य तताम्” माघः “तन्वता
प्रथमतादृशि रागम्” माघः ।
अति + अतिशयविस्तारे । अतितत् । “तन्ततोऽतितता-
तितुत्” माघः ।
वि + अति + व्यतितहारेण विस्तारे आत्म० “वियति व्यत्यत-
न्वातां मूर्त्ती हरिपयोनिधी” भट्टिः ।
अधि + आरोप्य विस्तारे । “धनुरधितनोति” शत० ब्रा० ५ । ३ । ५ । ७ अ० ।
अनु + सन्ततविस्तारे पश्चाद्विस्तारे च “परिपाल्यानुतनुयादेष-
धर्मः सनातनः” भा० शा० १३३ अ० ।
अप + अधोविस्तारे । अपतानकः ।
अव + सन्ततविस्तारे “विशालमूलावततं पवनाम्भोदधारिणम्”
हरिवं० ८८ अ० ।
आ + दीर्घतया विस्तारे । आतानः (टाना देओया) सम्यग्-
[Page3219-a+ 38]
विस्तारे च “मौर्वी धनुषि चातता” रघुः । यदुत
पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्य्यमेवातनुत”
भाग० ५ । २४ । २२ “इदं ते लोभान्धस्य चेष्टितं चेतसि
चमत्कारमातनोति” प्रवोध० च० ।
वि + आ + विशेषेण विस्तारे । “व्यातेने किरणावलीमुदयनः” किरणावली ।
उद् + ऊर्द्ध्वतो विस्तारे उत्तानः ।
प्र + प्रकर्षेण विस्तारे । “फलं प्रकल्प्य पूर्वं हि ततो यज्ञः
प्रतायते” भा० शा० ९६१३ श्लो० । “तदुरीकृत्य कृति-
भिर्वाचस्पत्यं प्रतायते” माघः । पक्षे प्रतन्यते ।
वि + विशेषेण विस्तारे वितानः (पडान देओया) “यथा लूता
आतानवितानाभ्यामिति” वेदान्तप्र० ।
सम् + सम्यग्विस्तारे सन्तानः सन्ततिः सन्ततम् “सन्तता
शुशुभे भूमिः” रामा० स० १४ अ० ।


k1=तन, L=22016
तन¦ उपकारे श्रद्धायां आघाते च वा० चुरा० उभ० पक्षे भ्वा०
सक० शब्दे अक० सेट् । तानयति ते तनति अतीतनत् त
अतानीत् अतनीत् । व्युपसर्गात् दैर्घ्ये अक० दीर्घीक-
रणे सक० । वितानयति दीर्घो भवति दीर्घं करोति
वा । “वितानयति यः कीर्त्तिं वितनत्यमलं यशः” कवि-
रहस्यम् “अयं वेदे गणव्यात्यसात् दिवा० “घोषा घोषा-
दिन्द्राय तन्यति ब्रुवाणः” ऋ० ६ । ३८ । २ । “तन्यति
शब्दं करोति” भा० । चौरादिकस्य अदन्तत्वमिति तन-
यित्नुशब्दार्थे माधवः तनयित्नुशब्दे दृश्यम् ।


skd

k1=तन, L=14293
तन¦, उ कि उपकृतौ । श्रद्धाषाते । शब्दोपतापयोः ।
इति कविकल्पद्रुमः ॥ (चुरां पक्षे भ्वां-परं-अकं-
सकं च-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, तनित्वा
तत्वा । कि, तानयति तनति । उपकृतिरुप-
कारः । अघातो हिंसावर्ज्जनम् । सुनीतिरिति
गोविन्दभट्टः । उपसर्गार्द्दैर्घके । दैर्घकं दीर्घी-
करणम् । वितानयति यः कीर्त्तिं वितनत्यमल-
यशः । इति हलायुधः । इति दुर्गादासः ॥


k1=तन, L=14294
तन¦, द ञ उ विस्तृतौ । इति कविकल्पद्रुमः ॥
(तनां-उभं-सकं-सेट् । उदित्वात् क्त्वावेट् ।)
द ञ, तनोति तनुते पुण्यं ऋषिः । उ, तनित्वा
तत्वा । इति दुर्गादासः ॥


Match 0524: vcp=तन्च, skd=तन्च

vcp

k1=तन्च, L=22063
तन्च¦ गतौ भ्वा० पर० सक० सेट् । तञ्चति अतञ्चीत् । ततञ्च
ततचतुः तक्तः । तच्यते । उदित् । तञ्चित्वा तक्त्वा ।


k1=तन्च, L=22064
तन्च¦ सङ्कोचे रुधा० पर० सक० सेट् । पाणिनीयगणे अन्ज
साहचर्य्यादयं वेडेव वोपदेवगणे उदित्करणं प्रामादि-
कम् किन्तु ऊदिदेव । तनक्ति अतञ्चीत् अताङ्क्षीत् ।
ततञ्च । “तनच्मि व्योम विस्तृतम्” भट्टिः ।
आ + आतञ्चनशब्दोक्तार्थेषु (दम्बलदेओया) “इन्द्रस्य त्वा भागं
सोमेनातनच्मि” यजु० १ । ४ । “उद्वाथातनक्ति प्राग्घुत-
शेषेणेन्द्रस्यत्वेति” कात्या० श्रौ० ४ । २ । २३ “तां दुग्धस्थालीमुत्त-
[Page3222-a+ 38]
रत उद्वास्य प्राग्घुतशेषेण पूर्वदिने कृताग्निहोत्रशेषेण दध्ना
दुग्धमातनक्ति अवशिष्टं दधि दुग्धमध्ये प्रक्षिपति
दधित्वसम्पत्त्यर्थम्” कर्कः । १ भयहेतुकसङ्कोचे च न्यङ्क्वा०
कुत्वम् आतङ्कः । आतङ्क्यम् ।


skd

k1=तन्च, L=14327
तन्च¦, उ इतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) उ, तञ्चित्वा तक्त्रा । इति दुर्गादासः ॥


k1=तन्च, L=14328
तन्च¦, उ घ सङ्कुचि । इति कविकल्पद्रुमः ॥ (रुधां-
परं-अकं-सेट् ।) उ, तञ्चित्वा तक्त्रा । ध,
तनच्मि व्योम विस्तृतम् । इति दुर्गादासः ॥


Match 0525: vcp=तन्ज, skd=तन्ज

vcp

k1=तन्ज, L=22065
तन्ज¦ सङ्कोचे रुधा० पर० सक० । पाणिनीयगणे (तन्चू)
इत्यत्र तन्ज् इति पाठान्तरम् अयमूदित्त्वात् वेडेव ।
तनक्ति अतञ्जीत् अताङ्क्षीत् । ततञ्ज ।


skd

k1=तन्ज, L=14329
तन्ज¦, उ घ सङ्कोचे । इति कविकल्पद्रुमः ॥ (रुधां-
परं-अकं-सेट् ।) उ, तञ्जित्वा तक्त्वा । ध, तनज्मि
व्योम विस्तृतम् । इति दुर्गादासः ॥


Match 0526: vcp=तप, skd=तप

vcp

k1=तप, L=22121
तप¦ उपतापे सक० ऐश्वर्य्ये अक० दि० आ० अनिट् । तप्यते अतप्त ।
तेपे तप्ता तप्स्यते तप्तः तप्तिः ।
अव + अधस्तासे । अवतप्तेनकुलस्थितम्” सि० कौ० ।
आ + सम्यक्तापे । आतप्तजाम्बूनदभूषिताङ्गः” हरिवं ९ अ०
अनु + सन्तततापे अनुशोचने च । “अनुतप्ये भृशं तात! तव
घोरेण कर्मणा” भा० व० १३७२० श्लो० । “अन्वतप्यत
धर्मात्मा पुत्रं संचिन्त्य तापसम्” रामा० अयो० ४ अ० ।
“वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः” भा० व० २७ अ०


k1=तप, L=22122
तप¦ दाहे चु० उभ० सक० सेट् । तपयति-ते अतीतपत्-त ।
“संप्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति”
उद्भटः । “न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया”
हितो० “कोऽत्र भूमिवलये जनान् मुधा तापयन् सुचि-
रमेति सम्पदम्” माघः ।
अव + अधोभागे तापने “अथावताप्य पृथिवीं पूषा दिवससं-
क्षये । जगामास्तं सहस्रांशुः” भा० उ० १८० अ० ।


k1=तप, L=22123
तप¦ दाहे भ्वा० उभ० सक० सेट् । ज्वलने निरु० तपति--ते
अतापीत्--अतपीत् अतपिष्ट । तताप तेपे तपिष्यति ते
“वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः” भा० अनु०
१४ अ० । “त्वमेकैकस्तपसे जातवेदाः” भा० आ० २३२ अ०
“तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च” गीता
“तमस्तपति घर्मांशौ” शकु० । तपःकर्म्मकत्वेऽस्य
कर्त्तर्य्यपि यक् तङ च तप्यते तपस्तापसः ।
अभि + पर्य्यालोचने “पृथिवीमन्तरिक्षं दिवं ताल्लॐका-
नभ्यतपत्” ऐत० व्रा० अभ्यतपत् पर्य्यालोचितवान् ।
उद् + दीप्तौ अक० आत्म० स्वाङ्गकर्मकत्वे सक० आत्म० “उत्त
पते दीप्यते इत्यर्थः” सि० कौ० । पाणिमुत्तपते ।
स्वाङ्गेत्युक्तेः प० मैत्रस्य पाणिमुत्तपति” अन्यकर्मणि तु
प० । उत्तपति सुवर्णं विलापयतीत्यर्थः” सि० कौ० ।
[Page3230-b+ 38]
“तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः” भट्टिः ।
“करणं कुसुमेषुरुत्तपति यद्विशिखः” माघः ।
उप + पीडाजन्यतापे “आहिताग्निश्चेदुपतपेत्” आश्व० गृ०
४ । १ । १ । उपतपेत् व्याधिभिरुत्पीड्येतेत्यर्थः ।
नि + नितरां तापे । “तदाहुर्निशोचति नितपति वर्षिष्यति
वा” छा० उ० ।
निस् + निःशेषेण तापे पौनः पुन्य न तापे षत्वम् । “दग्धै-
कदेशा बहवो निष्टप्ताश्च तथापरे” भा० आ० २२६ अ० ।
निष्टपति सुवर्णम् आसेवने तु नष त्वं निस्तपति सुवर्णं
सुवर्णकारः । “यस्तु सूर्य्येण निष्टप्तं गाङ्गेयं पिबते
जलम्” भा० आनु० २२६ अ० । षत्वे उभयतका ग्रहणम् ।
प्र + प्रकर्षेण तापे विक्रमहेतुके तापे च “भासस्तवोग्राः
प्रतपन्ति विष्णो!” गीता “सूर्य्यः प्रतपतां श्रेष्ठः”
भा० वि० ४२ श्लो० “भास्करात प्रतपिष्यतः” भा० व०
१९० अ० “द्वितीयस्येव सूर्य्यस्य युगान्ते प्रतपिष्यतः” भा०
व० २२ अ० ।
वि + उत्तापवत् सर्वम् । “रविर्वितपतेऽत्यर्थम्” भट्टिः दीप्यते
इत्यर्थः पाणिं वितपते मैत्रस्य पाणिं वितपति सुवर्णं
वितपतीत्यादि । “वितपन्नरातिम्” अथ० १२ । २ । ४५
सम् + सम्यक्तापे । “दत्त्वापि च धनं काले सन्तपत्युः-
कारिणे” भा० शा० १६४ अ० ।


skd

k1=तप, L=14367
तप¦, क दाहे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, तापयति । अयमात्मनेपदीत्येके ॥
इति दुर्गादासः ॥


k1=तप, L=14368
तप¦, ङ ञ दाहे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-उभंच-सकं-सेट् ।) ङ, तपते । ञ,
तपति तपते । अयमात्मनेपदीत्यन्ये । इति दुर्गा-
दासः ॥


k1=तप, L=14369
तप¦, औ दवैश्ययोः । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-सकं-अकंच-
अनिट् । दिवादिपक्षे आत्मं ।) दव उप-
तापः । “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ,
अताप्सीत् । य ङ, तप्यते धनी ईश्वरः स्यादि-
त्यर्थः । औ, अतप्त । दिवादिपक्षे ऐश्वर्य्य एव
इत्यन्ये । इति दुर्गादासः ॥


k1=तप, L=14370
तप¦, य ङ औ दवैश्ययोः । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-सकं-अकंच-
अनिट् । दिवादिपक्षे आत्मं ।) दव उप-
तापः । “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ,
अताप्सीत् । य ङ, तप्यते धनी ईश्वरः स्यादि-
त्यर्थः । औ, अतप्त । दिवादिपक्षे ऐश्वर्य्य एव
इत्यन्ये । इति दुर्गादासः ॥


Match 0527: vcp=तम, skd=तम

vcp

k1=तम, L=22186
तम¦ खेदे अक० इच्छायां षक० दिवा० शभा० पर० सेट् ।
ताम्यति । इरित् अतमत्--अतनीत् । तताम तेमतुः उदित् ।
तमित्वा तान्त्वा तान्तः । “यस्ताम्यति विसंज्ञश्च शेते”
सुश्रु० । “ताम्येयुः प्रच्युताः पृथ्य्या यथा पूर्णां नदीं
नराः । अवगाढाह्यपिद्धांसः” भा० शा० ९०३० श्लो० ।
“यदा वै तान्तः प्राणं लभतेऽथ संजिहीते” शत० ब्रा०
४ । ३ । ३ । ११ । “न मा तमन्न श्रमोन्नत तन्द्रत्” ऋ०
२ । ३० । ७ लुङि रूपम् ।
उद् + उत्कर्षेण खेदे । “तस्योत्ताम्यतो बाणमुज्जहार
बलादहम्” रामा० अयो० ६५ अ० ।
नि + अतिशयार्थे अक० । नितान्तम् । “नितान्तदीर्घैर्जनिता
तपोभिः” “गोरोचनाक्षेपनितान्तगौरे” कुमा० ।
परि + भृशं खेदे । “संतप्तवक्षाः सोऽत्यर्थं दूयनात् परिता-
म्यति” सुश्रु० ।


skd

k1=तम, L=14412
तम¦, उ इर् भ य खेदे । इच्छायाम् । इति कवि-
कल्पद्रुमः ॥ (दिवां-परं-अकं-सेट् ।) उ,
तमित्वा तान्त्वा । इर्, अतमत् अतमीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । भ य,
ताम्यति लोकः उत्तप्तः स्यादित्यर्थः । इति
दुर्गादासः ॥


Match 0528: vcp=तम्ब, skd=तम्ब

vcp

k1=तम्ब, L=22222
तम्ब¦ गतौ भ्वा० पर० सक० सेट् । तम्बति अतम्बीत् । ततम्ब


skd

k1=तम्ब, L=14452
तम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) ओष्ठ्यवर्गशेषोपघः । तम्बति । इति
दुर्गादासः ॥


Match 0529: vcp=तय, skd=तय

vcp

k1=तय, L=22226
तय¦ गतौ रक्षणे च भ्वा० आ० सक० सेट् । तयते अतयिष्टतेये ।


skd

k1=तय, L=14454
तय¦, ङ गतौ । रक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ङ, तयते । इति दुर्गा-
दासः ॥


Match 0530: vcp=तर्क, skd=तर्क

vcp

k1=तर्क, L=22310
तर्क¦ दीप्तौ अक० आकाङ्क्षायाञ्च वितर्के सक० चुरा० उभ० सेट् ।
तर्कयति ते अतितर्कत् त “एतत्तर्कय चक्रवाकहृदयाश्वा-
साय” प्रसन्नरा० । “तथा तर्कयामि यथानेनाचिरप्रव्रजि-
तेन भवितव्यम्” मृच्छ० । “दक्षिणेनाथ वामेन कतरेण
स्विदस्यति । इति मां सङ्गताः सर्वे तर्कयिष्यन्ति
शत्रवः” भा० वि० ६१ अ० ।
वि + उत्प्रेक्षायां “तन्नूनं मृत्युमाप्स्यतीति वितर्कयामि”
पञ्चत० ।


skd

k1=तर्क, L=14523
तर्क¦, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) क, तर्कयति । वितर्कणेऽप्ययम् ।
(अत्र सकं ।) तर्कयत्यन्यगुणं सुधीः । इति
दुर्गादासः ॥


Match 0531: vcp=तर्ज, skd=तर्ज्ज *

vcp

k1=तर्ज, L=22328
तर्ज¦ भर्त्सने भ्वा० पर० सक० सेट् । तर्जति अतर्जीत् ततर्ज ।


k1=तर्ज, L=22329
तर्ज¦ भर्त्सने चुरा० आ० सक० सेट् । तर्जयते अततर्जत । तर्जा
तर्जना “सीतामभ्यर्थ्य तर्जितः” “तया तु तर्जिताः सर्वा मुखै-
र्भीमा यथागतम्” । “राक्षसोऽतर्जयत्सूतं पुनश्चाढौक-
यद्रथम्” भट्टिः । बालं पुनर्गात्रसुखं गृह्णीयान्न चैनं तर्ज-
येत्” सुश्रुतः । आर्षत्वात् पदव्यत्ययः ।


skd

k1=तर्ज्ज, L=14539
तर्ज्ज¦, भर्त्सने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) तर्ज्जति । इति दुर्गादासः ॥


k1=तर्ज्ज, L=14540
तर्ज्ज¦, क ङ भर्त्से । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं सकं-सेट् ।) क ङ, तर्ज्जयते । भर्त्स-
स्तर्ज्जनम् । तामतर्ज्जयदम्बरे । इति रघुप्रयो-
गस्तु तर्ज्वनं तर्ज्जः । तर्ज्जं करोतीति ञौ साध्यः ।
इति दुर्गादासः ॥


Match 0532: vcp=तर्द्द, skd=तर्द *

vcp

k1=तर्द्द, L=22337
तर्द्द¦ हिंसायां भ्वा० पर० सक० सेट् । तर्दति अतर्द्दीत् ।
ततर्द्द । “सेहे कपो रथाश्वांश्च रिपोस्ततर्द शाखिना” ।
“सुग्रीवः प्रघसं नेभे बहून्रामस्ततर्द च” भट्टिः ।


skd

k1=तर्द, L=14548
तर्द¦, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) तर्दति । इति दुर्गादासः ॥


Match 0533: vcp=तर्ब, skd=तर्ब

vcp

k1=तर्ब, L=22345
तर्ब¦ गतौ भ्वा० पर० सक० सेट् । तर्बति अतर्बीत् । ततर्ब ।


skd

k1=तर्ब, L=14554
त(र्ब्ब)र्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) रेफोपधः । तर्बति । इति दुर्गा-
दासः ॥


Match 0534: vcp=तल, skd=तल

vcp

k1=तल, L=22355
तल¦ प्रतिष्ठायां वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् ।
तालयति ते तलति । अतीतलत् त अतालीत् ।
तालयाम् बभूय आस चकार । तताल तेलतुः तलम् ।


skd

k1=तल, L=14561
तल¦, कि प्रतिष्ठितौ । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-अकं-सेट् ।) कि, तालयति तलति
व्रतम् । संपूर्णं स्यादित्यर्थः । इति दुर्गादासः ॥


Match 0535: vcp=तस, skd=तस

vcp

k1=तस, L=22404
तस¦ अलङ्कारे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्
इदित् । तंसयति ते तंसति अततंसत्--त अतंसीत् ।
ततंस “प्रतिजानामीति ते पिता गर्भे मुष्टिमतंसयत्” यजु०
२३ । २४ अवतंसः उत्तंसः । भ्वादित्वपक्षे अस्य आत्मने-
पदित्वं केचिदिच्छन्ति तंसते अतंसिष्ट ।


k1=तस, L=22405
तस¦ उत्क्षेपे दिवा० पर० सक० सेट् । तस्यति इरित्
अतसत् अतसीत् अतासीत् । ततास तेसतुः । उदित्
तसित्वा तस्त्वा । तस्तः “यस्य तस्य विना षष्ठीं
तेनेति करणं विना” उद्भटः ।


skd

k1=तस, L=14598
तस¦, इ कि अलङ्कृतौ । इति कविकल्पद्रुमः ॥
(चुरां-पचे भ्वां-परं-सकं-सेट् ।) इ, कर्म्मणि
[Page2-602-b+ 52]
तंस्यते । कि, तंसयति तंसति हारो जनम् ।
इति दुर्गादासः ॥


k1=तस, L=14599
तस¦, य उ इर उत्क्षेपे । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् । उदित्वात् क्त्वावेट् ।) य,
तस्यति धूलिं वायुः । उ, तसित्वा तस्त्वा ।
इर्, अतसत् । अतासीत् । अतसीत् । अस्मात्
पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥


Match 0536: vcp=ताय, skd=ताय

vcp

k1=ताय, L=22559
ताय¦ पालने विस्तारे च भ्वा० आत्म० सक० सेट् । तायते
अतायि--अतायिष्ट । तताये । ऋदित् । णिच् अतता-
यत्--त । तायितः तातिः “उभौ मायां व्यातायेताम्”
भट्टिः । “सरसि संताय्यमाने” यजु० ३९ । ५ । घञ् । तायः
वृषा० आंद्युदात्तः । ल्युट्--तायनम् “वृत्तिसर्गंतायनेषु
क्रमः” पां० ।


skd

k1=ताय, L=14721
ताय¦, ऋ ङ पालने । सन्ततौ । इति कविकल्प-
द्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) सन्ततिर्विस्तारः ।
ऋ, अततायत् । ङ, तायते विद्यां सुधीः ।
इति दुर्गादासः ॥


Match 0537: vcp=तिक, skd=तिक

vcp

k1=तिक, L=22692
तिक¦ गतौ भ्वा० आत्म० सक० सेट् । तेकते अतेकिष्ट ऋदित्
णिच् अतितेकत् त । तितेके ।


k1=तिक, L=22693
तिक¦ आस्कन्दे बधे च भ्वा० पर० सक० सेट् । तिक्लोति अतेकीत् । तितेक ।


skd

k1=तिक, L=14816
तिक¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऋ, अतितेकत् । ङ, तेकते ।
इति दुर्गादासः ॥


k1=तिक, L=14817
तिक¦, न आस्कन्दे । वधे । इति कविकल्पद्रुमः ॥
(स्वां-परं-सकं-सेट् ।) न, तिक्नोति । इति
दुर्गादासः ॥


Match 0538: vcp=तिग, skd=तिग

vcp

k1=तिग, L=22725
तिग¦ हिंसायाम् आस्कन्दे च भ्वा० पर० सक० सेट् । तिन्नोति
अतेगीत् । तितेग । “अग्निं र्जम्भैस्तिगितैरत्ति” ऋ०
१ । १४३ । ५ । “तिगितैर्निशितैः” भा० ।


skd

k1=तिग, L=14848
तिग¦, न हिंसायाम् । आस्कन्दे । इति कविकल्प-
द्रुमः ॥ (स्वां-परं-सकं-सेट् ।) न, तिग्नोति ।
आस्कन्दः कैश्चिन्न मन्यते । इति दुर्गादासः ॥


Match 0539: vcp=तिघ, skd=तिघ

vcp

k1=तिघ, L=22732
तिघ¦ घातने भ्वा० पर० सक० सेट् । तिघ्नोति अतेधीत् । तितेघ ।


skd

k1=तिघ, L=14851
तिघ¦, न घातने । इति कविकल्पद्रुमः ॥ (स्वां-परं-
सकं-सेट् ।) न, तिघ्नोति । तिघ घाते इति
जौमराः पठन्ति । तेन तदर्थकल्पनमेवोचितम् ।
ततश्च घातनमिति हन्त्यर्थस्य पाक्षिकचुरादि-
त्वेन हन्तेः स्वार्थे ञौ रूपम् । हननमित्यर्थः ।
किञ्च । हिंसनपाठेनैवेष्टसिद्धे घातनपाठो हिंसा-
प्रेरणार्थः स्यान्न वेति काकदन्तान्वेषणवद्बिफलं
त्रयाणामेव कातन्त्राद्यसम्मतत्वात् । इति दुर्गा-
दासः ॥


Match 0540: vcp=तिज, skd=तिज

vcp

k1=तिज, L=22734
तिज¦ क्षान्तौ क्षमायां स्वार्थे सन् निशाने न सन् भ्वा० आत्म०
सक० सेट् । तितिक्षते तेजते । अतितिक्षिष्ट अतेजिष्ट ।
“आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत!” गीता
“हिमं घृणिं तितिक्षिष्यते” शत० ब्रा० ३ । १ । २ । १४ ।
“अतिवादांस्तितिक्षेत” मनुः “आपस्ते पादं तितिक्षन्ता-
मलमापस्तितिक्षितुम्” भा० शा० ८१७० अ० “तिति-
क्षन्ते अभिशस्तिं जना नाम” ऋ० ३ । ३० । १ ।


skd

k1=तिज, L=14852
तिज¦, क शिते । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, तेजयति । शितं तीक्ष्णी-
करणम् । इति दुर्गादासः ॥


k1=तिज, L=14853
तिज¦, ङ क्षान्तौ । निशाने । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-सकं-सेट् ।) क्षान्तिः सहनम् ।
ङ, तितिक्षते दुःखं दीनः । तेजते । तत्र तिबा-
दयो न प्रयुज्यन्ते । इति रमानाथः । इति दुर्गा-
दासः ॥


Match 0541: vcp=तिप, skd=तिप

vcp

k1=तिप, L=22769
तिप¦ रक्षणे भ्वा० आत्म० सक० सेट् । तेपते अतेपिष्ट अतिप्त ।
तितेपे । ऋदित् अतितेपत्--त ।


skd

k1=तिप, L=14888
तिप¦, ऊ ऋ ङ च्युति । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-अकं-वेट् ।) ऊ, तेपिष्यते तेप्स्यते ।
ऋ, अतितेपत् । ङ, तेपते तितिपे । च्युत् क्षर-
णम् । इति दुर्गादासः ॥


Match 0542: vcp=तिम, skd=तिम

vcp

k1=तिम, L=22770
तिम¦ आर्द्रीमावे भ्वा० पर० अक० सेट् । तेमति अतेमीत् । तितेम ।


k1=तिम, L=22771
तिम¦ आर्द्रीकरणे दिवा० पर० सक० सेट् । तिम्यति अतेमीत् ।
तितेम । “वानरान् तिम्यतोऽवलोक्य” हितो० “ति-
मिताश्चाभवन् सर्वे तत्र ते हरियूथपाः” रामा० सुन्द०
१ स० । “नद्यश्च तिमितोदकाः” रामा० अर० ५४ स० ।
तेमनम् ।


skd

k1=तिम, L=14889
तिम¦, क्लेदने । आर्द्रीभाव इति यावत् । इति
कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ॥)


k1=तिम, L=14890
तिम¦, य क्लेदने । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अकं-सेट् ।) य, तिम्यति । तितेम । क्लेदन-
मार्द्रीभावः । इति दुर्गादासः ॥


Match 0543: vcp=तिल, skd=तिल

vcp

k1=तिल, L=22806
तिल¦ गतौ भ्वा० पर० सक० सेट् । तेलति अतेलीत् । तितेल ।


k1=तिल, L=22807
तिल¦ स्नेहे तु० पर० अक० अनिट् । तिलति अतेलीत् ।
तितेल ।


k1=तिल, L=22808
तिल¦ स्नेहे चुरा० उभ० अक० सेट् । तेलयति ते अतीतिलत् त ।


skd

k1=तिल, L=14920
तिल¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ह्रस्वी । तेलति । इति दुर्गादासः ॥


k1=तिल, L=14921
तिल¦, क श स्निहि । इति कविकल्पद्रुमः ॥ (चुरां-
तुदां च-परं-अकं-सेट् ।) स्निहि स्निग्धीभावे ।
क, तेलयति । श, तिलति तैलेनाङ्गम् । इति
दुर्गादासः ॥


Match 0544: vcp=तिल्ल, skd=तिल्ल

vcp

k1=तिल्ल, L=22846
तिल्ल¦ गतौ भ्वा० पर० सक० सेट् । तिल्लते अतिल्लीत् । तितिल्ल ।


skd

k1=तिल्ल, L=14953
तिल्ल¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) लद्वयान्तः । ह्रस्वी । तिल्लति ।
इति दुर्गादासः ॥


Match 0545: vcp=तीम, skd=तीम

vcp

k1=तीम, L=22883
तीम¦ क्लेदने दिवा० पर० अक० सेट् । तीम्यति अतीमीत् । तितीम ।


skd

k1=तीम, L=14989
तीम¦, य क्लेदने । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अकं-सेट् ।) य, तीम्यति तितीम । क्लेदन-
मार्द्रीभावः । इति दुर्गादासः ॥


Match 0546: vcp=तीर, skd=तीर

vcp

k1=तीर, L=22884
तीर¦ पारगतौ कर्म्मसमाप्तौ च अद० चुरा० उभ० अक० सेट् ।
तीरयति ते अतितीरत् त ।


skd

k1=तीर, L=14990
तीर¦, त् क कर्म्मणां समाप्तौ । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-परं-सकं-सेट् ।) कर्म्मणामिति
स्पष्टार्थः । अतितीरत् व्रतं लोकः समापित-
वानित्यर्थः । इति दुर्गादासः ॥


Match 0547: vcp=तीव, skd=तीव

vcp

k1=तीव, L=22907
तीव¦ स्थौल्ये भ्वा० पर० अक० सेट् । तीवति अतीवीत् । तितीव ।


skd

k1=तीव, L=15005
तीव¦, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) तीवति । इति दुर्गादासः ॥


Match 0548: vcp=तु, skd=तु

vcp

k1=तु, L=22920
तु¦ वृत्तौ (वृद्धौ पा०) अक० हिंसायां पूर्त्तौ च सक० अदा० पर०
अनिट् । तौति तवीति । अतौषीत् । अत्र “नाभ्यस्तस्याचि-
पिति सार्वधातुके” ७ । ३ । ८७ । “सूत्रतः सार्वधातुके इत्य-
[Page3320-b+ 38]
स्यानुवृत्तिसम्भवेऽपि “तुरुस्तुशम्यमः सार्वधातुके” ७ । ३ । ९५
पा० सूत्रे “पुनः सार्वधातुकग्रहणमपिदर्थमिति” सि० कौ० ।
तेन “उतो वृद्धिर्लुकि हलि” ७ । ३ । ८९ पा० सूत्रात् हलीत्यस्य
“ब्रुवईट्” ७ । ३ । ९३ पा० सूत्रात् “ईटः यङो वा” सू० वेत्यस्य
चानुवृत्तिः न पितीत्यस्य तेन तुवीतः तुतः तुवीथः तुथः ।
अचि तु न । तुवन्ति । मुग्धबोधकृत्तुहलोत्यस्यानुवृत्तिवत्
पितीत्यस्यानुवृत्तिरिति वभ्राम” तेन तन्मते तुत इत्येव
इति भेदः । तुताव । वेदे तुजादि० अभ्यासदीर्घः । “स तूताब
नैनमश्नीत्यंहतिरग्ने!” ऋ० १ । ९४ । २ “ब्रह्मा तूतोदिन्द्रो
गातुमिष्मन्” ऋ० २ । २० । ५ । तु वृद्धावित्यस्य लङि बहुलं
छन्दसि विकरणस्य श्लुः । अडागमाभावश्च” भा० ।


skd

k1=तु, L=15015
तु¦, ल वृत्तौ । हिंसायाम् । पूर्त्तौ । इति कविकल्प-
द्रुमः ॥ (अदां-परं-अकं-सकं च-सेट् ।) ल,
तौति तवीति । इति दुर्गादासः ॥


Match 0549: vcp=तुज, skd=तुज

vcp

k1=तुज, L=22951
तुज¦ दीप्तौ चुरा० उभ० अक० सेट् इदित् । तुञ्जयति--ते अतु-
तुञ्जत् । तुञ्ज्यते ।


k1=तुज, L=22952
तुज¦ प्रापणे हिंसायाञ्च भ्वा० पर० सक० बले अक० सेट्
इदित् । तुञ्जति अतुञ्जीत् । तुतुञ्ज तुतुञ्जतुः । “तुञ्जे
तुञ्जेय उत्तरे स्तोमाः” ऋ० १ । ७ । ७ । इमामृवमधिकृत्य
“तुञ्जतेर्दानकर्म्मणः तुञ्जे तुञ्जे दाने दाने” इति ६ । १७
निरुक्तोक्तेः । दाने च ।


k1=तुज, L=22953
तुज¦ हिसायां भ्वा० पर० सक० सेट् । तोजति अतोजीत् ।
तुतोज । वेदे तुजादि० अभ्यासस्य दीर्घः । तूतुजानः ।
प्रेरणे च “आ वां तोके तनये तूतुजानाः” ऋ० ७ । ६७ ।
६ । “प्रावत्तोके तनये तूतुजाना” ७ । ८४ । ५ । “तूतु-
जानाःप्रेर्य्यमाणाः” भा० । “अस्मा इमु प्रभया तूतुजानः”
निरु० ६ । २० धृता ऋक् ।


skd

k1=तुज, L=15038
तुज¦, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) तोजति । इति दुर्गादासः ॥


k1=तुज, L=15039
तुज¦, इ प्राणे । बले । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सकं च-सेट् ।) पञ्चमस्वरी । इ,
तुञ्ज्यते । प्राणो जीवनम् । हिंसायाच्ञायामिति
कश्चित् । इति दुर्गादासः ॥


k1=तुज, L=15040
तुज¦, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सकं च-सेट् ।) पञ्चमस्वरी ।
इ क, तुञ्जयति । भा दीप्तिः । षट्टार्थो निके-
तनहिंसाबलदानानि । इति दुर्गादासः ॥


Match 0550: vcp=तुड, skd=तुड

vcp

k1=तुड, L=22958
तुड¦ भेदे तु० कुटा० पर० सक० सेट् । तुडति अतुडीत् तुतोड ।


k1=तुड, L=22959
तुड¦ निष्पीडने भ्वा० आ० सक० सेट् इदित् । तुण्डते अतु-
ण्डिष्ट । तुतुण्डे । तुण्ड्यते ।


k1=तुड, L=22960
तुड¦ द्विधाकरणे भ्वा० पर० सक० सेट् । तोडति अतोडीत्
ऋदित् । अतुतोडत्--त ।


skd

k1=तुड, L=15043
तुड¦, इ ङ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) पञ्चमस्वरी । इ, तुण्ड्यते ।
ङ, तुण्डते । वधो निष्पीडनमिति रमानाथः ।
तुण्डते पान्थं पिकः । इति दुर्गादासः ॥


k1=तुड, L=15044
तुड¦, ऋ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) पञ्चमस्वरी । ऋ, अतुतोडत् ।
वधो द्बिधाकरणमिति गोविन्दभट्टः । तोडति
मल्लो मल्लाङ्गं भिनत्तीत्यर्थः । इति दुर्गादासः ॥


k1=तुड, L=15045
तुड¦, शि भेदे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) शि, तुडति अतुडीत् तुतोड ।
उपहनने इति कश्चित् । इति दुर्गादासः ॥


Match 0551: vcp=तुड्ड, skd=तुड्ड

vcp

k1=तुड्ड, L=22962
तुड्ड¦ अनादरे भ्वा० पर० सक० सेट् । तुड्डति अतुड्डीत् ।
अयं द्वोपध इत्यन्ये तन्मते क्विपि तुद्--डोपधत्वे तुड्
इति भेदः ।


skd

k1=तुड्ड, L=15046
तुड्ड¦, नादरे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) पञ्चमस्वरी डद्वयान्तः । नादरः
अनादरः । तुड्डति । फलाभावान्न ऋदनुबन्धः ।
इति दुर्गादासः ॥


Match 0552: vcp=तुण, skd=तुण

vcp

k1=तुण, L=22963
तुण¦ कुटिलीकरणे तु० पर० सक० सेट् । तुणति अतोणीत् ।
तुतोण ।


skd

k1=तुण, L=15047
तुण¦, श जैह्म्ये । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) जैह्म्यमिह कुटिलीकरणम् । श,
तुणति तृणं वायुः । तोणिता । इति दुर्गादासः ॥


Match 0553: vcp=तुत्थ, skd=तुत्थ

vcp

k1=तुत्थ, L=22976
तुत्थ¦ स्तुतौ अद० चु० उभ० सक० सेट् । तुत्थयर्ति ते अतुतुत्थत्--त ।


skd

k1=तुत्थ, L=15058
तुत्थ¦, त् क स्तृतौ । इति कविकल्पद्रुमः ॥ (अदन्त
चुरां-परं-सकं-सेट् ।) आद्ये पञ्चमस्वरः शेषो
दन्त्यवर्गाद्ययुक्तस्थकारः । तुत्थयति तुत्थापयति ।
स्तृतिराच्छादनम् । इति दुर्गादासः ॥


Match 0554: vcp=तुद, skd=तुद

vcp

k1=तुद, L=22980
तुद¦ व्यथने तुदा० उभ० मक० अनिट् । तुदति ते अतौत्सीत् ।
अतुत्त तुतोद तुतुदे “तुतुदे गदयाचचारीन्” । “अतौत्-
सीत् गदयाङ्गदम्” भट्टिः । “इषुभिरिव मानसं कामिनां
तुदति कुसुमचापः” ऋतु० । “यथा तदति मर्म्भाणि”
भा० स० २५३० ।


skd

k1=तुद, L=15063
तुद¦, ञ श औ व्यथे । इति कविकल्पद्रुमः ॥
(तुदां-उभं-सकं-अनिट् ।) ञ श, तुदति तुदते ।
औ, तोत्ता । व्यथ इह ञ्यन्तस्य रूपम् ।
तुदोद गदया चारिम् । इति भट्टिः ॥ विधु-
न्तुदः । इति दुर्गादासः ॥


Match 0555: vcp=तुन्प, skd=तुन्प

vcp

k1=तुन्प, L=22995
तुन्प¦ बवे भ्वा० सक० पर० सेट् । तम्पति अतुम्पीत् । तुतुम्प तुतुम्पतुः तुतुम्पिथ ।


k1=तुन्प, L=22996
तुन्प¦ बधे सक० क्लेशे अक० तु० पर० सेट् । तुपति--तुम्पति
अत्(पी)म्पीत् । त्तु(प)म्प तुतु(प)म्पतुः त्तुपिथ तुत्म्पिथ


skd

k1=तुन्प, L=15081
तुन्प¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) तुम्पति । इति दुर्गादासः ॥


k1=तुन्प, L=15082
तुन्प¦, श वधे । क्लेशे । इति कविकल्पद्रुमः ॥
(तुदां-सकं-अकं च-सेट् ।) श, तुपति तुतुम्प ।
[Page2-633-b+ 52]
तुप प श तुन्प श क्लिशि वधे इत्येताभ्यामेव
तुम्पति तुपतीति सिद्धौ तुन्प वधे इत्यस्य
भ्वादौ पाठस्तु वेदे शबन्तस्य शान्तस्य चोच्चा-
रणभेदार्थः । इति दुर्गादासः ॥


Match 0556: vcp=तुन्फ, skd=तुन्फ

vcp

k1=तुन्फ, L=22997
तुन्फ¦ बधे भ्वा० पर० सक० सेट् । तुम्फति अतम्फीत् ।
तुतुम्फ तुतुफ(म्फ)तुः । तुतुम्फिथ ।


k1=तुन्फ, L=22998
तुन्फ¦ बधे सक० क्लेशे अक० तुदा० पर० सेट् । तुफति तु-
म्फति अतु(तु)म्फोत् । तुतु(तु)म्फ तुतुफ(म्फ)तुः तुतुफिथ
तुत्म्पिथ ।


skd

k1=तुन्फ, L=15083
तुन्फ¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) तुम्फति । इति दुर्गादासः ॥


k1=तुन्फ, L=15084
तुन्फ¦, श वधे । क्लेशे । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-अकं च-सेट् ।) श, तुफति
तुतुम्फ । इति दुर्गादासः ॥


Match 0557: vcp=तुप, skd=तुप

vcp

k1=तुप, L=22999
तुप¦ बधे भ्वा० पर० सक० सेट् । तोपति अतोपीत् । तुतोप ।


k1=तुप, L=23000
तुप¦ बधे सक० क्लेशे अक० तुदा० मुचादि० पर० सेट् । तुम्पति
अतोपीत् । तुतोप । पारस्क० मुट् । प्रस्तुम्पति ।


k1=तुप, L=23001
तुप¦ अर्द्दने चुरा० उभ० सक० सेट् इदित् । तुम्पयति ते
अतुतुम्पत्--त् । तुम्य्यते ।


skd

k1=तुप, L=15085
तुप¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) तोपति । इति दुर्गादासः ॥


k1=तुप, L=15086
तुप¦, इ क अर्द्दने । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) पञ्चमस्वरी । इ क, तुम्प-
यति । अर्द्दनं वधः । इति दुर्गादासः ॥


k1=तुप, L=15087
तुप¦, प श क्लेशे । वधे । इति कविकल्पद्रुमः ॥
(तुदां-परं-अकं-सकं च-सेट् ।) प श, तुम्पति
तुतोप । इति दुर्गादासः ॥


Match 0558: vcp=तुफ, skd=तुफ

vcp

k1=तुफ, L=23002
तुफ¦ बधे सक० क्लेशे अक० तु० मुचा० पर० सेट् । तुम्फति अतोफीत् । तुतोफ ।


k1=तुफ, L=23003
तुफ¦ बधे भ्वा० पर० सक० सेट् । तोफति अतोफीत् । तुतोफ ।


skd

k1=तुफ, L=15088
तुफ¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) तोफति । इति दुर्गादासः ॥


k1=तुफ, L=15089
तुफ¦, प श क्लेशे । वधे । इति कविकल्पद्रुमः ॥
(तुदां-परं-अकं-सकं च-सेट् ।) प श, तुम्फति
तुतोफ । इति दुर्गादासः ॥


Match 0559: vcp=तुब, skd=तुब

vcp

k1=तुब, L=23004
तुब¦ अर्द्दने वा चुरा० उभ० सक० पक्षे भ्वा० पर०
सेट् इदित् । तुम्बयति--ते तुम्बति अतुतुम्बत्--त अतु-
म्बीत् ।


skd

k1=तुब, L=15090
तुब¦, इ कि अर्द्दे । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-सकं-सेट् ।) तवर्गाद्यादिः । पञ्चम-
स्वरी । इ, तुम्ब्यते । कि, तुम्बयति तुम्बति ।
अर्द्दो वधः । इति दुर्गादासः ॥


Match 0560: vcp=तुभ, skd=तुभ

vcp

k1=तुभ, L=23005
तुभ¦ हिंसे भ्वा० आत्म० ऌङि उभ० सक० सेट् । तोभते । ऌदित् । अतुभत् अतोमिष्ट । तुतुभे ।


k1=तुभ, L=23006
तुभ¦ हिंसायां दिवा० क्य्रा० च पर० सक० सेट् । तुभ्यति
तुभ्राति अतोभीत् । तुतोभ “संक्रुद्धो मुष्टिनातुभ्नाद-
ङ्गदोऽनु महोदरम्” “अश्वान् विभीषणोऽतुम्नात्” भट्टिः ।


skd

k1=तुभ, L=15091
तुभ¦, ऌ ङ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऌ, अतुभत् । ङ, तोभते ।
इति दुर्गादासः ॥


k1=तुभ, L=15092
तुभ¦, य ग हिंसे । इति कविकल्पद्रुमः ॥ (दिवां-
क्र्यां च-परं-सकं-सेट् ।) य, तुभ्यति । ग,
तुभ्नाति । तुतोभ । इति दुर्गादासः ॥


Match 0561: vcp=तुर, skd=तुर

vcp

k1=तुर, L=23023
तुर¦ त्वरणे जुहो० पर० अक० सेट् । तुतोर्त्ति अतोरीत् ।
तुतोर । वैदिकोऽयम् धातुः । “अपामिवेदूर्मयस्तर्तुराणाः”
ऋ० ९ । ९५ । ३ । ताच्छील्ये चानश् । अभ्यासस्यातोऽत्त्वं च
“सहिष्ठे तुरतस्तुरस्य” ऋ० ६ । १८ । ४ । “अर्को वा यत्तुरते” तै-
स० २ । २ । १२ । ४ । वेदे गणव्यत्ययः पदव्यत्ययश्च । अस्यादन्त
चुरादित्वमपि । तुरयति । “तुरयन्न जिष्यः” ऋ० ४३८ । ७


skd

k1=तुर, L=15109
तुर¦, लि र वेगे । इति कविकल्पद्रुमः ॥ (ह्वां-
परं-अकं-सेट् ।) ह्रस्वी । लि, तुतोर्त्ति । र,
वैदिकः । वेगः शीघ्रगमनम् । अदादिवर्ज्ज-
धातुभ्यः शपो विधानेनैव सिद्धे अदादेः शपं
विधाय तल्लुक्करणं निष्ठायां भावादिढे वोदुङो-
ऽव्वत इत्यनेन गुणार्थमिति चतुर्भुजः । तेन
तोरितं तुरितमिति । तन्मते रुदेरपि रोदितं
रुदितमिति स्यात् । इति दुर्गादासः ॥


Match 0562: vcp=तुर्व, skd=तुर्व्व *

vcp

k1=तुर्व, L=23062
तुर्व¦ हिंसायां भ्वा० पर० सक० सेट् । तूर्वति अतूर्वीत् । तुतुर्वतुः
“वृत्रं यादिन्द्र तूर्वसि” ऋ० ८ । ९९ । ६ । “तूर्वणे
सहस्तच्छ्रेष्ठमश्विनोरवः” ऋ० ८ । ९ । १३ । तूर्वणे ।
हिंसने” भा० ।


skd

k1=तुर्व्व, L=15136
तुर्व्व¦, ई हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) ह्रस्वी । तूः तुरौ तुरः । ई,
तूर्णः । इति दुर्गादासः ॥


Match 0563: vcp=तुल, skd=तुल

vcp

k1=तुल, L=23068
तुल¦ उन्माने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।
तोलयति ते तोलति अतूतुलत् त । “पतिष्यति क्षितौ-
भानुः पृथिवीं तोलयिष्यते” भट्टिः । तुलयतीति तु तुला-
शब्दात्णिच् । “अन्तःसारं घनतुलयितुं नानिलः शक्ष्यति
त्वाम्” “अन्तस्तीयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रामादास्त्वांथन! तुलयितुमलं यत्र तैस्तैर्विशेषैः” मेघ० ।
“तुलयति स्म विलोचनतारकाः” माघः । “नक्तन्दिनैस्तुलि-
तकृत्रिमभक्तिशोभाः” रघुः ।
उद् + उत्क्षिप्य तोलते । उत्तोलयति


skd

k1=तुल, L=15138
तुल¦, कि उन्मितौ । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-सकं-सेट् ।) उन्मितिः परि-
माणम् । कि, तोलयति तोलति काञ्चनं बणिक् ।
त्वदीयं सौन्दर्य्यं तुहिनगिरिकन्ये ! तुलयितुमिति
शङ्करोक्तम् । तुलां करोति इति ञौ साध्यम् ।
इति दुर्गादासः ॥


Match 0564: vcp=तुष, skd=तुष

vcp

k1=तुष, L=23105
तुष¦ तोषे आनन्दभेदे दि० ष० ऌदित् अक० सेट् । तुष्यति
अतुषत् । तुतोष । ञीदित् वर्त्तमाने क्तः तुष्टः ।
तुष्टिः । तोषः “तुष्य द्रौपदि! मा क्रुघ” भा० व०
११०९ श्लो० “तुष्यन्ति च रमन्ति च” भा० आनु०
१२७६ श्लो० “तुतोष पश्यन् वितृणान्तरालाः” भट्टिः ।


skd

k1=तुष, L=15162
तुष¦, ऌ य औ ञि तुष्टौ । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-अनिट् ।) ऌ, अतुषत् । य,
तुष्यति । औ, तोष्टा । ञि, तुष्टोऽस्ति । इति
दुर्गादासः ॥


Match 0565: vcp=तुस, skd=तुस

vcp

k1=तुस, L=23124
तुस¦ ध्वनौ भ्वा० पर० सक० सेट् । तोसति अतोसीत् ।
तुतोस ।


skd

k1=तुस, L=15174
तुस¦, ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) तोषति । इति दुर्गादासः ॥


Match 0566: vcp=तुह, skd=तुह

vcp

k1=तुह, L=23127
तुह¦ अर्द्दने बधे भ्वा० पर० सक० सेट् । तोहति । इरित्
अतुहत् अतोहीत् । । तुतोह ।


skd

k1=तुह, L=15177
तुह¦, इर् अर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) इर्, अतुहत् अतोहीत् ।
अर्द्दनमिह वधः । इति दुर्गादासः ॥


Match 0567: vcp=तूड, skd=तूड

vcp

k1=तूड, L=23134
तूड¦ अनादरे भ्वा० पर० सक० सेट् । तूडयति अतूडीत् ।
तुतूड । ऋदित् । णिच् अतुतूडत् त ।


skd

k1=तूड, L=15180
तूड¦, ऋ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) षष्ठस्वरी । ऋ, अतुतूडत् ।
इति दुर्गादासः ॥


Match 0568: vcp=तूण, skd=तूण

vcp

k1=तूण, L=23135
तूण¦ सङ्कोचे अद० चुरा० उभ० सक० सेट् । तूणयति ते ।
अतुतूणत् त ।


k1=तूण, L=23136
तूण¦ सङ्कोचे चु० उभ० सक० सेट् । तूणयति ते अतूतुणत् त ।


k1=तूण, L=23137
तूण¦ पूरणे चु० आ० सक० सेट् । तूणयते, अतूतुणत् त ।


skd

k1=तूण, L=15181
तूण¦, क सङ्कोचे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) दन्त्यवर्गाद्यादिः । क, तूणयति
चक्षुः सङ्कुचितं स्यादित्यर्थः । इति दुर्गादासः ॥


k1=तूण, L=15182
तूण¦, क ङ पूरणे । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) क ङ, तूणयते । इति दुर्गा-
दासः ॥


k1=तूण, L=15183
तूण¦, त् क सङ्कोचे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-अकं-सेट् ।) दीर्घी मूर्द्धन्योपधः ।
अतुतूणत् । इति दुर्गादासः ॥


Match 0569: vcp=तूल, skd=तूल

vcp

k1=तूल, L=23168
तूल¦ पूरणे चुरा० आ० सक० सेट् । तूलयते अतूतुलत ।


k1=तूल, L=23169
तूल¦ इयत्तापरिच्छेदे निष्काशने भ्वा० पर० सक० सेट् ।
तूलति अत्लीत् । तुतूल ।


skd

k1=तूल, L=15199
तूल¦, क ङ पूरणे । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) दीर्घी । क ङ, तूलयते । इति
दुर्गादासः ॥


k1=तूल, L=15200
तूल¦, क निष्कर्षे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) दीर्घी । निष्कर्ष इह इयत्ता-
परिच्छेदः । क, तूलयति काञ्चनं बणिक् । इति
दुर्गादासः ॥ (क्वचित् तूल कि निष्कर्षे इति
पाठोऽपि दृश्यते । कि, तूलति तूलयति ॥)


Match 0570: vcp=तूष, skd=तूष

vcp

k1=तूष, L=23185
तूष¦ तुष्टौ भ्वा० पर० सक० सेट् । तूषति अतूषीत् । तुतूष ।


skd

k1=तूष, L=15221
तूष¦, तुष्टौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) षष्ठस्वरी । तूषन्ति कुलदेवताः । इति
दुर्गादासः ॥


Match 0571: vcp=तृक्ष, skd=तृक्ष

vcp

k1=तृक्ष, L=23195
तृक्ष¦ गतौ भ्वा० पर० सक० सेट् । तृक्षति अतृक्षीत् ततृक्ष ।


skd

k1=तृक्ष, L=15227
तृक्ष¦, इत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा-पर-
सकं-सेट् ।) सप्तमस्वरी । तृक्षति । इत्यां गतौ ।
इति दुर्गादासः ॥


Match 0572: vcp=तृण, skd=तृण

vcp

k1=तृण, L=23201
तृण¦ भक्षे तना० उभ० सक० सेट् । तृणोति तर्णोति तृणुते-
तर्णुते । अतर्णीत् अतर्णिष्ट । उदित् तर्णित्वा--तृण्ट्वा ।


skd

k1=तृण, L=15230
तृण¦, द ञ उ भक्षे । इति कविकल्पद्रुमः ॥ (तनां-
उभं-सकं-सेट् । क्त्वावेट् ।) द ञ, तृणोति
तर्णोति तृणुते तर्णुते । उ, तर्णित्वातृत्वा । इति
दुर्गादासः ॥


Match 0573: vcp=तृद, skd=तृद

vcp

k1=तृद, L=23280
तृद¦ हिंसायां भ्वा० प० सक० सेट् । तर्द्दति अतर्दीत् ततर्द्द । प्रतर्द्दनः ।


k1=तृद, L=23281
तृद¦ अनादरे रु० उभ० सक० सेट् । तृणत्ति तृन्ते । इरित् अत-
र्द्दीत् अतृदत् अतर्द्दिष्ट । उदित् तर्द्दित्वा तृत्त्वा । “भूतिं
तृणद्मि यक्षाणाम्” भट्टिः “ऋतस्य श्लोको वधिरा
ततर्द” ऋ० ४ । २३ । ८ “ततर्द तरसा विष्णुर्वाणैः
शत्रुबलार्द्दनः” हरिवं० १३४ अ० । “सेहे कपीरथाश्वांश्च
रिपोस्ततर्द शाखिना” “अतर्दीच्चैव शूलेन कुम्भकर्णः
प्लवङ्गमान्” भट्टिः ।


skd

k1=तृद, L=15282
तृद¦, उ ञ ध इर् । अनादरे । हिंसे । इति कवि-
कल्पद्रुमः ॥ (रुधां-उभं-सकं-सेट् । उदित्वात्
क्त्वावेट् ।) उ, तर्द्दित्वा तृत्त्वा । ञ ध, तृणत्ति
तृन्ते । इर, अतृदत् अतर्द्दीत् । इति दुर्गादासः ॥


Match 0574: vcp=तृन्प, skd=तृन्प

vcp

k1=तृन्प, L=23283
तृन्प(म्प)¦ प्रीणने तु० पर० सक० सेट् । तृपति तृम्पति अ-
तृग्मीत् अतृपीत् । ततृम्प ततृप ।


skd

k1=तृन्प, L=15283
तृन्प¦, श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां
परं-सकं-सेट् ।) प्रीणनमिह प्रीतीभावः । श,
तृपति तृम्पति वा लाभाल्लोकः । ततृम्प । इति
दुर्गादासः ॥


Match 0575: vcp=तृन्फ, skd=तृन्फ

vcp

k1=तृन्फ, L=23284
तृन्फ(म्फ)¦ प्रीणने तु० प० सक० सेट् । तृफति तृम्फति
अतृम्फीत् अतृफीत् ततृम्फ ततृफ ।


skd

k1=तृन्फ, L=15284
तृन्फ¦, श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) श, तृफति तृम्फति । ततृम्फ ।
इति दुर्गादासः ॥


Match 0576: vcp=तृन्ह, skd=तृन्ह

vcp

k1=तृन्ह, L=23285
तृन्ह¦ हिंसे त० प० सक० सेट् क्ता वेट् । तृंहति ऌदित्
अतृहत् । ततृंह ततृहतुः ततृंहतुः ।


skd

k1=तृन्ह, L=15285
तृन्ह¦, ऊ श हिंसे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-वेट् ।) सप्तमस्वरी । ऊ, अतृंहीत्
अतृङ्क्षीत् । श, तृहति । इति दुर्गादासः ॥


Match 0577: vcp=तृप, skd=तृप

vcp

k1=तृप, L=23286
तृप¦ प्रीणने स्वा० पर० सक० सेट् । तृप्नोति अतर्पीत् । ततर्प ।


k1=तृप, L=23287
तृप¦ सन्दीपने प्रीणने च वा चुरा० उभ० पक्षे भ्वा० पर०
सक० सेट् । तर्पयात ते तर्पति अततर्पत्त अतीतृपत् त ।
अतर्पीत् । ततर्प ततर्पथ ।


k1=तृप, L=23288
तृप¦ प्रीणने दि० पर० सक० वेट् इरित् । तृप्यति अतर्पीत् अत्रा-
प्सीत्--अर्ताप्सीत्--अतृपत् । ततर्ष ।


k1=तृप, L=23289
तृप¦ प्रीणने तु० पर० सक० सेट् । तृपति अतर्पीत् ।
“तृपत्सोमं पाहि” ऋ० २ । ११ । १५ ।


skd

k1=तृप, L=15286
तृप¦, कि सन्दीपने । प्रीणने । इति कविकल्पद्रुमः ॥
(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) कि, तर्पयति
तर्पति । योऽग्नित्रयं तर्पयतीति हलायुधः ।
इति दुर्गादासः ॥


k1=तृप, L=15287
तृप¦, न प्रीणने । इति कविकल्पद्रुमः ॥ (स्वां-परं-
सकं-सेट् ।) प्रीणनं प्रीतीकरणम् । न, तृप्नोति
पितरं पुत्त्रः । ततर्प । इति दुर्गादासः ॥


k1=तृप, L=15288
तृप¦, प श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) प श, तृम्पति ततर्प । इति
दुर्गादासः ॥


k1=तृप, L=15289
तृप¦, ञि ऌ य ऊ प्रीणने । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-सकं च-वेट् ।) ञि, तृप्तोऽस्ति । ऌ,
अतृपत् । अस्य ऌदित्वेऽपि कृषमृशस्पृशेत्यादि-
विशेषविधानात् पक्षे ट्यांसिस्तेन अतार्प्सीत्
अत्राप्सीत् अतर्पीदित्यपि । य, तृप्यति । ऊ,
तर्पिष्यति तर्प्स्यति । प्रीणनमिह प्रीतीभावः
प्रीतीकरणञ्च । स्यन्दीनि तृप्यतु मधूनि पिब-
न्निवायमिति श्रीहर्षः । पितॄनतार्प्सीन्नृपरक्ततोयै-
रिति भट्टिः । इति दुर्गादासः ॥


Match 0578: vcp=तृफ, skd=तृफ

vcp

k1=तृफ, L=23298
तृफ¦ प्रीणने तुदा० पर० सक० सेट् । तृफति अतर्फीत् ।
ततर्फ । तृफतेरपि कलच् इत्युज्ज्वलदत्तः । दुर्गादासस्तु
अयं मुचादित्वभ्रान्त्या तृम्फतीत्युदाजहार । तच्चिन्त्यं
पा० मुचादिमध्ये तृफधातोरनुत्कीर्त्तनात् उज्ज्वलदत्तेन
तृफते रिति निर्द्देशाच्च । मुचादयश्च सि० कौ० १५६२ आदौ
दृश्याः । तृम्फादिशब्दे दृश्यः ।


skd

k1=तृफ, L=15295
तृफ¦, प श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) प श, तृम्फति ततर्फ । इति
दुर्गादासः ॥


Match 0579: vcp=तृष, skd=तृष

vcp

k1=तृष, L=23302
तृष¦ तृष्णायां दिवा० पर० सक० सेट् । तृष्यति इरित् अतृषत्
अतर्षीत् । ततर्ष । “तृषित्वेवानिशं स्वादु पिबन्तं सरितां
पयः” । “मुमूर्च्छुर्ववमूरक्तं ततृषुश्चोभये भटाः” “रक्त-
मश्च्योतिषुः क्षुण्णाः क्षताश्च कपयोऽतृषन्” भट्टिः ।


skd

k1=तृष, L=15298
तृष¦, इर् य तृञि षि । इति कविकल्पद्रुमः ॥
(दिवां-परं-सकं-सेट् ।) इर्, अतृषत् अत-
र्षीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये ।
य, तृष्यति । ञि, तृषितोऽस्ति । तृट् आकाङ्क्षा ।
तथा च । इच्छाकाङ्क्षा स्पृहेहा तृट् वाञ्छा
लिप्सा मनोरथः । इत्यमरसिंहः । तदुप-
स्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णयेति
रघुः । तृष्यति धनं लोकः । तृषि पिपासाया-
मिति प्राञ्चः । तृष्यति तोयं पान्थः । इति
रमानाथः । इति दुर्गादासः ॥


Match 0580: vcp=तृह, skd=तृह

vcp

k1=तृह, L=23317
तृह¦ हिंसे तु० पर० सक० वेट् । तृहति अतर्हीत् अतृक्षत् ।


k1=तृह, L=23318
तृह¦ हिंसे वा चु० उ० पक्षे रुधा० पर० सक० वेट् ।
तर्हयति ते तृणेढि अततर्हत् त अतीतृहत् त अतर्हीत्
अतृक्षत् । “तृणेढु रामः सह लक्षणेन” भट्टिः ।


skd

k1=तृह, L=15309
तृह¦, ध ऊ श हिंसे । इति कविकल्पद्रुमः ॥ (रुधां-
तुदां च-परं-सकं-वेट् ।) सप्तमस्वरी । ध,
तृणेढि । (यथा, भट्टिः ।
“तृणेटु रामः सह लक्षणेन ॥”)
ऊ, अतर्हीत् अतृक्षत । श, तृहति । इति
दुर्गादासः ॥


Match 0581: vcp=तॄ, skd=तॄ

vcp

k1=तॄ, L=23319
तॄ¦ तरणे प्लवने अभिभवे च भ्वा० प० सक० सेट् । तरति अ-
तारीत् । ततार । “तरति ब्रह्महत्यां योऽश्वमेधेन
यजते” तरति शोकमात्मविद्” श्रुतिः शत० ब्रा० १४ । ७ । १ । २२
“ततार ताराधिपखण्डधारी” कुमा० “क्रमेण
तस्मिन्नथ तीर्णदृक्पथे” नैष० । तेरतुः । तरीरिता
तरि(री)ष्यति । तीर्य्यात् । तरीतुं तरितुं तीर्त्त्वा
तीर्य्यते । तारयति तितीर्षति । “तितीर्षुर्दुस्तरं
मोहात्” रघुः । “ताञ्च तर्तुं प्रयच्छामीमित्यत्रार्षः इडभावः ।
अति + अतिक्रम्य गमने । “खर्गानतितरन्ति ते” हितो० ।
“न यस्य कश्चातितितर्त्ति मायाम्” भाग०८ । ५ । ३० । यङ्-
लुङोरूपम् ।
वि + अति + विशेषेण अतिक्रमे । “यदा ते मोहकलिलं बुद्धि-
र्व्यतितरिष्यति” गीता ।
अभि + उल्लङ्घने । “कथं नाभ्यतरामस्तां पाण्डवानामनीकिनीम्” भा० द्रो० २८० ।
अव + अवनमने । “अथोरुदेशादवतार्य्य पादम्” कुमा० ।
अवतारः । “अवतरतः सिद्धिपरं शब्दस्य मनोरथस्य वा”
मालविकाग्नि० ।
उद् + उत्थाने अक० । “सपल्वलोत्तीर्णवराहयूथम्” रघुः ।
उल्लङ्घने सक० । “उदतारीदुदन्वन्तम्” “उदतारिषु-
रम्भोधिम्” भट्टिः ।
निस् + निःशेषेण तरणे । “कथञ्च निस्तरेयास्मात्” भा० व० १५५६६ श्लो० ।
वि + दाने । “तडिल्लेखालक्ष्मीर्वितरति पताकावलिरियम्”
“ज्योत्स्ना शङ्कामिह वितरति” १ किरा० ।
सम् + सम्यक् तरणे (साँतार देओया) ।


skd

k1=तॄ, L=15310
तॄ¦, तर । अभिभवे । प्लुत्याम् । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-सकं-प्लतौ अकं-सेट् ।) तरः ।
प्लवनपूर्ब्बकदेशान्तरगमनम् । प्लुतिर्म्मज्जना-
भावः । तरति नदीं भेलया पान्थः । तरति
सकलदुःखं वामनं भावयद्यः । तरति शुष्क-
काष्ठं जले मज्जति नेत्यर्थः ॥ इति दुर्गादासः ॥


Match 0582: vcp=तेप, skd=तेप

vcp

k1=तेप, L=23349
तेप¦ कम्पे, च्युतौ च भ्वा० आ० अक० सेट् । तेपते अते-
पिष्ट । तितेपे । ऋदित् । अतितेपत् त ।


skd

k1=तेप, L=15330
तेप¦, ऋ ङ कम्पे । च्युतौ । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-अकं-सेट् ।) ऋ, अतितेपत् । ङ,
तेपते वृक्षः । तितेपे । इति दुर्गादासः ॥


Match 0583: vcp=तेव, skd=तेव

vcp

k1=तेव, L=23353
तेव¦ क्रीडने भ्वा० आ० अक० सेट् । तेवते अतेविष्ट । तितेवे । ऋदित् अतितेवत् त ।


skd

k1=तेव, L=15334
तेव¦, ऋ ङ देवने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) देवनमिह क्रीडा । ऋ,
अतितेवत् । ङ, तेवते । तेवते बालः कन्दूकै-
र्नित्यमिति हलायुधः । देवनमिह रोदनमिति
भट्टमल्लः । इति दुर्गादासः ॥


Match 0584: vcp=तोड, skd=तोड

vcp

k1=तोड, L=23421
तोड¦ अनादरे भ्वा० पर० सक० सेट् । तोडति अतोडीत् । ऋदित् । णिच् अतुतोडत् त ।


skd

k1=तोड, L=15381
तोड¦, ऋ नादरे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) ऋ, अतुतोडत् । नादरो-
ऽनादरः । इति दुर्गादासः ॥


Match 0585: vcp=त्यज, skd=त्यज

vcp

k1=त्यज, L=23495
त्यज¦ हानौ दाने च भ्वा० सक० पर० अनिट् । त्यजति
अत्याक्षीत् तत्याज । त्यक्तव्यं त्याज्यम् त्यागः त्यक्तं त्यक्त्वा
त्यागी । “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्” चाणक्यः
“योऽत्याक्षीत् संयुगं भयात्” भा० द्री० ९५ अ०
“तं तत्याजाहितं पुत्रम्” रामा० २ । ३६ अ० । “नैव
नीलिवर्णेन कदाचित् त्यज्यते” पञ्चत० । (शूराः) “मदर्थे
त्यक्तजीविताः” गीता “प्रतिरोद्धा गुरोश्चैव त्यक्ताग्नि-
र्वार्द्धुषिस्तथा” मनुः “न माता न पिता न स्त्री न
पुत्रस्त्यागमर्हति” मनुः “त्याज्यं दोषवदित्येके कर्म प्राहु-
र्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे”
गीता “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः”--मनुः
“चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु” वृ० स० ६० अ० ।
वेदे तु नि० । णलि तित्याज “यस्तित्याज सचि विदं सखा-
यम्” ऋ० १० । ७१ । ६ । त्यागश्च स्वत्वध्वं सानुकूलव्यापारः न
ममेदमित्याकारः । स च मूर्त्तद्रव्याणामेव भवति अमूर्त्त-
जीवनादेर्वियोजनरूपः । उपसर्गपूर्वकस्य तत्तदुपसर्गद्यो-
त्यार्थयुक्तत्यागे इति भेदः ।


skd

k1=त्यज, L=15422
त्यज¦, औ हानौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-अनिट् ।) औ, अत्याक्षीत् । हानि-
र्वर्ज्जनम् । त्यजति दुष्टलोकं जनः । इति दुर्गा-
दासः ॥


Match 0586: vcp=त्रक, skd=त्रक

vcp

k1=त्रक, L=23503
त्रक¦ गतौ भ्वा० आत्म० सक० सेट् । त्रकते अत्रकिष्ट । तत्रके ।


skd

k1=त्रक, L=15430
त्रक¦, इ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) दन्त्यवर्गादिः । इ, त्रङ्क्यते ।
ङ, त्रङ्कते । इति दुर्गादासः ॥


Match 0587: vcp=त्रग, skd=त्रग

vcp

k1=त्रग, L=23506
त्रग¦ गतौ भ्वा० पर० सक० सेट् इदित् । त्रङ्गति अत्रङ्गीत् ।
तत्रङ्ग । अयं दिवा० धातुपाठः । त्रङ्ग्यति ।


skd

k1=त्रग, L=15431
त्रग¦, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) इ, त्रङ्ग्यते । इति दुर्गादासः ॥


Match 0588: vcp=त्रद, skd=त्रद

vcp

k1=त्रद, L=23508
त्रद¦ चेष्टायां भ्वा० पर० अक० सेट् इदित् । त्रन्दति अत्र-
न्दीत् । तत्रन्द ।


skd

k1=त्रद, L=15433
त्रद¦, इ चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) दन्त्यवर्गाद्यादिः । इ, त्रन्द्यते
तत्रन्द । इति दुर्गादासः ॥


Match 0589: vcp=त्रप, skd=त्रप

vcp

k1=त्रप, L=23509
त्रप¦ लज्जायां भ्वा० आ० अक० वेट् । त्रपते अत्रपिष्ट अत्रप्त
त्रेपे । णिच् वा घ० । त्रपयति त्रापयति । षित् त्रपा ।
“कान्तया कान्तसंयोगे किमकारि नवोढया । अत्रापि
च क्रिया प्रश्नोत्तरा गुप्ता न बुध्यते” विदग्धमुख० ।
“अपेक्षाभिक्षायामपि किमपि चेतस्त्रपयति” शान्तिश० ।
अप + अन्यतो लज्जायाम् “तस्माद्बलैरपत्रेपे” भट्टिः । “लज्जा
सापत्रपान्यतः” अमरः ।


skd

k1=त्रप, L=15434
त्रप¦, ऊ ष मि ङ ह्रियि । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-अकं-वेट् ।) ऊ, अत्रपिष्ट अत्रप्त ।
ष, त्रपा । मि, त्रपयति त्रापयति । ङ, त्रपते ।
ह्रियि लज्जायाम् । इति दुर्गादासः ॥


Match 0590: vcp=त्रस, skd=त्रस

vcp

k1=त्रस, L=23536
त्रस¦ गतौ ग्रहे निषेधे च चुरा० उभ० सक० सेट् । त्रसयति
ते अतित्रसत् त ।


k1=त्रस, L=23537
त्रस¦ भासे बा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट्
इदित् । त्रिंसयति ते त्रंसति अतत्रंसत् त अत्रंसीत् ।


k1=त्रस, L=23538
त्रस¦ भये वा दिबा० पक्षे भ्वा० पर० अक० सेट् । त्रसति अत्रा-
सीत् अत्रसीत् त्रत्रास फणा० त्रेसतुः तत्रसतुः ।
ईदित् त्रस्तः । तस्य दिवादित्वे सार्वधातुके श्यन् ।
त्रस्यति । “त्रस्यन्ती चलशफरीविघट्टितोरुः” माघः “त्रस-
त्तुराद्रिसुताससंभ्रमस्वयंग्रहाश्लेघसुखेन निष्क्रियाम्”
“मुहुरत्रसद्भिरपि यत्र गौरवात्” माघः । “त्रस्यन् वै जा-
यमानेभ्यः” भट्टिः । “ततो रामेति चक्रन्दुस्त्रेसुः
परिदिदेविरे” भट्टिः “कपेरत्रासिषुर्नादान् मृगाः
सिंहध्वनेरिव” भट्टिः । “राक्षसस्य न चात्रासीत् प्रनष्टु-
मयतिष्ट च” भट्टिः ।
उद् + उत्कटत्रासे । “बालानुत्त्रासयन्ति ह” हरिवं० ३२७७ ।


skd

k1=त्रस, L=15459
त्रस¦, क धृतौ । ग्रहे । निषेधे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) एतदाद्याश्चत्वारो रेफ-
युक्ताद्याः । क, त्रासयति मृगं व्याधः वधति
गृह्णाति निराकरोति वा इत्यर्थः । इति दुर्गा-
दासः ॥


k1=त्रस, L=15460
त्रस¦, इ कि भासि । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-अकं-सेट् ।) इ, त्रंस्यते । कि,
त्रंसयति त्रंसति । भासि दीप्तौ । इति दुर्गादासः ॥


k1=त्रस, L=15461
त्रस¦, ई ण भये । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् । ईदित्वात् अनिड्निष्ठः ।) ई,
त्रस्तः । ण, त्रेसतुः तत्रसतुः । त्रसति । इति
दुर्गादासः ॥


k1=त्रस, L=15462
त्रस¦, य ई भये । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अकं-सेट् । ईदित्वादनिड्निष्ठः ।) य,
त्रस्यति । ई, त्रस्तः । इति दुर्गादासः ॥


Match 0591: vcp=त्रा, skd=त्रा

vcp

k1=त्रा, L=23547
त्रा¦ पालने अदा० आ० सक० अनिट् क्रमदीश्वरः । त्राते
अत्रात । “कान्तारे ब्राह्मणान् गाश्च यः परित्राति
कौशिकः!” भा० अनु० ७३ अ० । आर्षत्वात् पदव्यत्ययः ।


skd

k1=त्रा, L=15471
त्रा¦, ङ पालने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-अनिट् ।) त्रै ङ पालन इत्यत्र
कैश्चिददादौ त्रा पठ्यते । इति क्रमदीश्वरः ॥
इति कविकल्पद्रुमटीकायां दुर्गादासः ॥


Match 0592: vcp=त्रुट, skd=त्रुट

vcp

k1=त्रुट, L=23870
त्रुट¦ छेदने वा दिवा० पक्षे तुदा० कु० पर० अक० सेट् । त्रुट्यति
त्रुटति अत्रु(त्रो) टीत् । तुत्रोट । छेदश्चात्र अबयवद्विधा-
भाव मात्रम् “यावन्मे दन्ता न त्रुट्यन्ति” हितो० “त्रुटितं
पयोधरतटे हारं पुनर्योजय” सा० द० । “त्रुटित इव
मुक्तामणिसरः” उत्तर० ।
वि + विरुजीकरणे सक० । “कण्टकैरेना विरुजेयुः” कात्या०
श्रौ० २३ । ३ । २२ । “विरुजेयुः वित्रुट्येयुः” स० व्याख्या ।


k1=त्रुट, L=23871
त्रुट¦ छेदने चुरा० आ० सक० सेट् । त्रोटयते अतुत्रुटत ।


skd

k1=त्रुट, L=15660
त्रुट¦, क ङ छिदि । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-दिवां-तुदां-परं-अवयव-
द्बिधाभावमात्रे अकं-छेदनमात्रे सकं-सेट् ।)
द्बौ दन्त्यवर्गप्रथमादी । क ङ, त्रोटयते । य,
त्रुट्यति त्रोटिष्यति । तुदाद्यन्तर्गणस्यैव कुटा-
दित्वमिति । दिवादिपक्षे न कुटादित्वम् । शि,
त्रुटति अत्रुटीत् । शेषस्तु विदीर्णभावेऽपि ।
यथा, त्रुट्यद्भीमधनुःकठोरनिनद इति महा-
नाटकम् । मयूग्वनखरत्रुटत्तिमिरकुम्भिकुम्भ-
स्थले । क्वचिल्लूनीभावेऽपि यथा । आवृणुते
यदि वक्षस्त्रुट्यति वासस्तदा जघने इत्युद्भटः ।
इति दुर्गादासः ॥


k1=त्रुट, L=15661
त्रुट¦, यशि छिदि । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-दिवां-तुदां-परं-अवयव-
द्बिधाभावमात्रे अकं-छेदनमात्रे सकं-सेट् ।)
द्बौ दन्त्यवर्गप्रथमादी । क ङ, त्रोटयते । य,
त्रुट्यति त्रोटिष्यति । तुदाद्यन्तर्गणस्यैव कुटा-
दित्वमिति । दिवादिपक्षे न कुटादित्वम् । शि,
त्रुटति अत्रुटीत् । शेषस्तु विदीर्णभावेऽपि ।
यथा, त्रुट्यद्भीमधनुःकठोरनिनद इति महा-
नाटकम् । मयूग्वनखरत्रुटत्तिमिरकुम्भिकुम्भ-
स्थले । क्वचिल्लूनीभावेऽपि यथा । आवृणुते
यदि वक्षस्त्रुट्यति वासस्तदा जघने इत्युद्भटः ।
इति दुर्गादासः ॥


Match 0593: vcp=त्रुन्प, skd=त्रुन्प

vcp

k1=त्रुन्प, L=23875
त्रुन्प(म्प)¦ बधे भ्वा० पर० सक० सेट् । त्रुम्पति अत्रुम्पीत् ।
नोपधत्वेक्विपि त्रुप् त्रु पौ मोपधत्वे त्रुन् त्रुम्पौ इति
भेदः ।


skd

k1=त्रुन्प, L=15665
त्रुन्प¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) त्रुम्पति । इति दुर्गादासः ॥


Match 0594: vcp=त्रुन्फ, skd=त्रुन्फ

vcp

k1=त्रुन्फ, L=23876
त्रुन्फ(म्फ)¦ बधे म्बा० पर० सक० सेट् । त्रुम्फति अत्रु-
म्फीत् । नीपधत्वे क्विपि त्रुप् त्रुफौ मोपधत्वे त्रुन्
त्रुम्फौ इति भेदः ।


skd

k1=त्रुन्फ, L=15666
त्रुन्फ¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) त्रुम्फति । इति दुर्गादासः ॥


Match 0595: vcp=त्रुप, skd=त्रुप

vcp

k1=त्रुप, L=23877
त्रुप(फ)¦ बधे भ्वा० पर० सक० सेट् । त्रोप(फ)ति अत्रोपी(फी)त् । तुत्रोप (फ)


skd

k1=त्रुप, L=15667
त्रुप¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) त्रोपति । इति दुर्गादासः ॥


Match 0596: vcp=त्रै, skd=त्रै

vcp

k1=त्रै, L=23882
त्रै¦ प्रालने भ्वा० आ० सक० अनिट् । त्रायते अत्रास्त । त्राणः
त्रातः । “मृत्योरात्मानं त्रायते” शत० ब्रा० २ । २ । ४ । ७ ।
“गायन्तं त्रायते यस्मात् गायत्त्री तेन कीर्तिता” स्मृतिः
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः” मनुः ।
“ज्ञातेयं कुरु सौमित्रे! भयात् त्रायस्व राघवम्”
भट्टिः ।


skd

k1=त्रै, L=15673
त्रै¦, ङ पालने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-अनिट् ।) दन्त्यवर्गाद्यादिः । ङ, त्रायते ।
चक्रिंस्त्राहीत्याद्यौ त्राहीति त्रायते त्रा विच्
पश्चात् त्रा इवाचरतीति क्वौ साध्याम् । कैश्चिद-
दादौ त्रा पठ्यते । इति क्रमदीश्वरः । इति
दुर्गादासः ॥


Match 0597: vcp=त्रौक, skd=त्रौक

vcp

k1=त्रौक, L=23938
त्रौक¦ गत्यां चुरा० आ० सक० सेट् । त्रौकयते ऋदित्
अतुत्रौकत ।


skd

k1=त्रौक, L=15685
त्रौक¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) चतुर्द्दशस्वरी । रेफमध्यः ।
ऋ, अतुत्रौकत् । ङ, त्रौकते । इति दुर्गादासः ॥


Match 0598: vcp=त्वक्ष, skd=त्वक्ष

vcp

k1=त्वक्ष, L=23988
त्वक्ष¦ तनूकरणे भ्वा० पर० सक० सेट् त्वक्षति अत्वक्षीत् । “त्वष्टा
तूर्णमश्नुते इति नैरुक्तास्त्रिषेर्वा स्यात् त्वक्षतेर्वा स्यात्”
[Page3400-b+ 38]
निरुक्ते ८ । १२ उक्तत्वात् तथा धातुरस्तीति गम्यते ।
“प्रत्वक्षाणो अतिविश्वा महांसि” ऋ० १० । ४४ । १ । “प्रत्व-
“क्षाणः प्रकर्षेण तनूकुर्वन्” भा० ।


skd

k1=त्वक्ष, L=15714
त्वक्ष¦, त्वचोग्राहे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) त्वचो ग्राहश्चर्म्मणो ग्रहणम् ।
त्वक्ष त्वचने इति प्राञ्चः । त्वचनं संवरणमिति
रमानाथः । त्वक्षति कायं वर्म्मणा भटः । इति
दुर्गादासः ॥


k1=त्वक्ष, L=15715
त्वक्ष¦, ऊ कार्श्ये । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-वेट् ।) ऊ, त्वक्षिष्यति त्वक्ष्यति । कार्श्यं
कृशीकरणम् । त्वक्षति काष्ठं तक्षा । इति दुर्गा-
दासः ॥


Match 0599: vcp=त्वग, skd=त्वग

vcp

k1=त्वग, L=23995
त्वग¦ गतौ भ्वा० सक० पर० सेट् ईदित् । त्वङ्गति अत्वङ्गीत्
तत्वङ्ग ।


skd

k1=त्वग, L=15721
त्वग¦, इ कम्पे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-गतौ सकं-सेट् ॥)


Match 0600: vcp=त्वच, skd=त्वच् *

vcp

k1=त्वच, L=24003
त्वच¦ संवरणे तु० पर० सक० सेट् । त्वचति अत्वाचीत् अत्वचीत् । तत्वाच । त्वक् ।


skd

k1=त्वच्, L=15729
त्वच्¦, श वृत्याम् । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) वकारयुक्तः । दन्त्यवर्गाद्यादिः ।
श, त्वचती त्वचन्ती । वृतिः संवरणम् । त्वचति
कवचेन देहं वीरः । इति दुर्गादासः ॥


Match 0601: vcp=त्वन्च, skd=त्वन्च

vcp

k1=त्वन्च, L=24016
त्वन्च¦ गतौ भ्वा० पर० सक० सेट् । त्वञ्चति अत्वञ्चीत् ।
त्वत्वञ्च । उदित् । त्वञ्चित्वा त्वक्त्वा । त्वक्तः


k1=त्वन्च, L=24017
त्वन्च¦ सङ्कोचे रुधा० पर० सक० वेट् । त्वनक्ति अत्वा-
ङ्क्षीत् मतान्तरे उदित् । क्त्वा वेट् । अन्यत्र सेट् । त्वक्तः ।


skd

k1=त्वन्च, L=15737
त्वन्च¦, उ इतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् । क्त्वावेट् ।) वकारयुक्तादिः । उ,
त्वञ्चित्वा त्वक्त्वा । इतिर्गतिः । इति दुर्गादासः ॥


k1=त्वन्च, L=15738
त्वन्च¦, उ ध सङ्कोचे । इति कविकल्पद्रुमः ॥ (रुधां-
परं-सकं-सेट् । क्त्वावेट् ॥)


Match 0602: vcp=त्वर, skd=त्वर

vcp

k1=त्वर, L=24024
त्वर¦ वेगे भ्वा० आत्म० अक० सेट् । त्वरते अत्वरिष्ट ।
घटा० । णिच्--त्वरयति । षित् त्वरा । ञीत् त्वरितो-
ऽस्ति । “गच्छावः सहितौ तत्र ममापि त्वरते मनः”
रामा० आर० ७८ स० । “यस्य वा त्वरते बुद्धिः”
भा० स० १५५ श्लो० “दूता हि त्वरयन्ति माम्” रामा०
बा० “अतत्वरच्च तान् योद्धुम्” भट्टिः ।


skd

k1=त्वर, L=15740
त्वर¦, ञि ष म ङ स्यदे । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-अकं-सेट् ।) ञि, त्वरितः तूर्णो-
ऽस्ति । वा रुषामहृषत्वरसंघुषास्वनिभ्यो निष्ठायां
वेमत्वेऽपि वेदेषूच्चारणभेदार्थमेतदनुबन्धमन्ये
मन्यन्ते । ष, त्वरा । म, त्वरयति । ङ, त्वरते ।
स्यद इह शीघ्रमनुष्ठानम् । नानुनेतुमबलाः स
तत्वरे । इति दुर्गादासः ॥


Match 0603: vcp=त्विष, skd=त्विष

vcp

k1=त्विष, L=24045
त्विष¦ दीप्तौ भ्वा० उभ० अक० अनिट् । त्विषति ते । अत्वि-
क्षत् अत्विक्षत । तित्वेष तित्वषे । त्विक्षीष्ट । “ओजस्त-
दस्य तित्विषे” ऋ० ८ । ६ । ५ । “समच्यन्त वृजनाति
[Page3403-a+ 37]
त्विष्वन्त यत्” ऋ० ५ । ५४ । १२ । “अग्निरिव मन्यो!
त्विषितः सहस्व” ऋ० १० । ८४ । २ ।


skd

k1=त्विष, L=15753
त्विष¦, औ ञ भासे । इति कविकल्पद्रुमः ॥ (भ्वां-
उभं-दाने-सकं-अन्यत्र अकं-अनिट् ।) औ,
अत्विक्षत् । ञ, त्वेषति त्वेषते । भासो दीप्तिः ।
अवान्निवासे दाने च त्विषौ ञ अनुवर्त्तते । औ,
अवात्विक्षत् । ञ, अवत्वेषति अवत्वेषते । जनो
निवसति ददाति दीप्यते वा इत्यर्थः । इति
दुर्गादासः ॥


Match 0604: vcp=त्सर, skd=त्सर

vcp

k1=त्सर, L=24055
त्सर¦ छद्मगतौ भ्वा० पर० सक० सेट् । त्सरति त्सारीत् ।
“यस्त्रा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम्” अथ०
८ । ६ । ८ । “यो हैनं पाप्मा मायया त्सरति न हैनं सो-
ऽभिभवति” शत० ब्रा० ११ । १ । ६ । १२ ।


skd

k1=त्सर, L=15757
त्सर¦, छद्मगतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सकं च-सेट् ।) दन्त्यवर्गाद्यस्याधो-
दन्त्यसकारः । त्सरति धूर्त्तः छलेन गच्छती-
त्यर्थः । इति दुर्गादासः ॥ (यथा, अथर्व्ववेदे ।
८ । ६ । ८ ।
“यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति
जाग्रतीम् ॥”)


Match 0605: vcp=थुड, skd=थुड

vcp

k1=थुड, L=24063
थुड¦ संवृतौ तु० कु० पर० सक० सेट् । थुडति अथुडीत् ।
तुथोड ।


skd

k1=थुड, L=15762
थुड¦, शि संवृतौ । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) शि, थुडति । अथुडीत्
तुथोड । इति दुर्गादासः ॥


Match 0606: vcp=थुर्व्व, skd=थुर्व्व

vcp

k1=थुर्व्व, L=24067
थुर्व्व¦ बधे भ्वा० पर० सक० सेट् । थूर्वति अथूर्वीत् । तुथूर्व ।


skd

k1=थुर्व्व, L=15764
थुर्व्व¦, ई वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) पञ्चमस्वरी । थूः थुरौ थुरः ।
ई, थूर्णः । इति दुर्गादासः ॥


Match 0607: vcp=दक्ष, skd=दक्ष

vcp

k1=दक्ष, L=24094
दक्ष¦ वृद्धौ शीघ्रार्थे च भ्वा० आत्म० अक० सेट् । दक्षते अद-
क्षिष्ट । ददक्षे । दक्षः । “त्वमिनो शतहिमासि दक्षसे”
ऋ० २ । १ । ११ ।


k1=दक्ष, L=24095
दक्ष¦ हन्त्यर्धे (गतौ बधे च) भ्वा० आत्म० सक० सेट् । दक्षते
अदक्षिष्ट ददक्षे । मित् तत्करणसामर्थ्यात् अनुपधाया
अपि दीर्घे चिणि० अदाक्षि अदक्षि णमुलि
दक्षं दक्षम् दासं दाक्षमिति रूपं षित भावे अ । दक्षा ।


skd

k1=दक्ष, L=15783
दक्ष¦, ङ स्यदे । वृद्धौ । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-सकं-सेट् ।) स्यद इह शीघ्रकर-
णम् । ङ, दक्षते धनमुद्योगी । शीघ्रमुत्पाद-
यति इत्यर्थः । इति दुर्गादासः ॥ (सामर्थ्ये
अकर्म्मकोऽयम् । यथा, ऋग्वेदे । २ । १ । ११ ।
“तमिळा शतमिहासि दक्षसे ॥”
“दक्षसे दानाय समर्था भवसि ॥” इति तद्भाष्ये
सायनः ॥)


k1=दक्ष, L=15784
दक्ष¦, ष म ङ हन्त्यर्थे । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-सकं-सेट् ।) म, अदक्षि अदाक्षि ।
दक्षं दक्षम् । दाक्षं दाक्षम् । मानुबन्धबला-
दनुपधयोरपि दीर्घः । स्वमते तु दीर्घविधि-
रुपधां नापेक्षते । ष, दक्षा । सेमक्तात् सरो-
रित्यनेनैवेष्टसिद्धेऽस्य षानुबन्धस्त्वरपर्य्यन्तघटा-
दिभ्यो ङ इति प्राचीनमतानुवादार्थः । ङ,
दक्षते । हन्त्यर्थे गतिवधयोः । इति दुर्गादासः ॥


Match 0608: vcp=दघ, skd=दघ

vcp

k1=दघ, L=24166
दघ¦ त्यागे पालने च भ्वा० पर० सक० सेट् इदित् । दङ्घति
अदङ्घीत् । ददङ्घ ।


k1=दघ, L=24167
दघ¦ घातने स्वा० पर० सक० सेट् दघ्नोति अदाघीत्--अद-
घीत् । ददाघ देघतुः । गतौ दिवा० निघण्टुः । दष्यति
इति भेदः । “पश्चा स दघ्या यो अघस्य” ऋ० १ । १२३ ।
५ । “दध्याः गच्छतु पुरुषव्यत्ययः” भा० । “पश्चाद्दष्य-
रथ्यो विभागे” ऋ० ७ । ५६ । २१ ।


skd

k1=दघ, L=15824
दघ¦, इ त्यागे । अवने । इति कविकल्पद्रुमः ॥
(भ्वां-परं सकं-सेट् ।) इ, दङ्घ्यते । अवनं
रक्षणम् । इति दुर्गादासः ॥


k1=दघ, L=15825
दघ¦, न घातने । इति कविकल्पद्रुमः ॥ (स्वां-
परं-सकं-सेट् ।) न, दघ्नोति । दघ घाते ।
[Page2-673-b+ 52]
इति जौमराः पठन्ति । तेन तदर्थकल्पनमेवो-
चितम् । ततश्च घातनमिति हन्त्यर्थस्य पाक्षिक-
चुरादित्वेन स्वार्थे ञौ रूपं हननमित्यर्थः । किञ्च
हिंसनपाठेनैवेष्टसिद्धे घातनपाठो हिंसाप्रेर-
णार्थः स्यान्न वेति काकदन्तान्वेषणवद्बिफलं
त्रयाणामेव कातन्त्राद्यसम्मतत्वात् । इति दुर्गा-
दासः ॥


Match 0609: vcp=दण्ड, skd=दण्ड

vcp

k1=दण्ड, L=24168
दण्ड¦ दण्डपातने दमने च अद० चुरा० उभ० सक० सेट् । दण्डयति
ते अददण्डत्--त । दण्डः दण्ड्यः दण्डनीयः दण्डितः ।
ग्रहणपूर्वकशासने द्विक० । “प्रजाः शतं दण्डयति
राजा । दुहा० गोणे कर्म्मणि लकारादयः । गर्गाः
शतं दण्ड्यन्ते । दण्डशब्दे उदा० “अदण्ड्यान् दण्डयन्
राजा दण्ड्यांश्चैवाप्यदण्डयन्” मनुः ।


skd

k1=दण्ड, L=15826
दण्ड¦, त् क तत्पाते । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) तत्पातस्तद्दण्डपातनम् ।
क, दण्डयति दण्डापयति अपराधिनं राजा ।
इति दुर्गादासः ॥


Match 0610: vcp=दद, skd=दद

vcp

k1=दद, L=24240
दद¦ दाने धृतौ च भ्वा० आ० सक० सेट । ददते अददिष्ट
दददे । “विटविटपममुं ददस्व तस्यै” माघः ।


skd

k1=दद, L=15875
दद¦, ङ दाने । धृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ङ, ददते । इति दुर्गा-
दासः ॥


Match 0611: vcp=दध, skd=दध

vcp

k1=दध, L=24251
दध¦ दाने धारणे च आ० भ्वा० सक० सेट् । दधते अदधिष्ट ।


skd

k1=दध, L=15886
दध¦, ङ ददे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-सेट् ।) ङ, दधते । ददे दानधृत्योः ।
आदध्यादन्धकारे रतिमतिशयिनीमिति मयूर-
भट्टोक्तम् । गणकृतानित्यात् अस्यैव ढीपरस्मैपद-
साध्यत्वमिति रमानाथः । वस्तुतस्तु डु धाञ्लि
धारणे इत्यस्यैव ख्यां साध्यम् । इति दुर्गादासः ॥


Match 0612: vcp=दन्भ, skd=दन्भ

vcp

k1=दन्भ, L=24375
दन्भ¦ दम्भे स्वा० पर० अक० सेट् । दम्नोति अदम्भीत् ।
दम्भित्वा दब्ध्वा । दब्धः । सनि वेट् इडभावपक्षे नलोपे
धीप्सति धिप्सति दिदम्भिषति ।


k1=दन्भ, L=24376
दन्भ¦ संघाते चुरा० आत्म० अक० सेट् । दम्भयते अददम्भत ।


skd

k1=दन्भ, L=15968
दन्भ¦, उ न दम्मे । इति कविकल्पद्रुमः ॥ (स्वां-
परं-अकं-सेट् । उदित्त्वात् क्त्वावेट् ।) दम्भः
परवञ्चनहेतुव्यापारः । उ, दम्भित्वा दब्ध्वा । न,
दभ्नोति खलश्छलयति इत्यर्थः । इति दुर्गा-
दासः ॥


k1=दन्भ, L=15969
दन्भ¦, क ङ संघाते । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) क ङ, दम्भयते । सङ्घातो
राशीकरणम् । इति दुर्गादासः ॥


Match 0613: vcp=दन्श, skd=दन्श

vcp

k1=दन्श, L=24377
दन्श¦ हिंसने रदकरणकव्यापारभेदे दंशने (कामडान)
भ्वा० पर० सक० अनिट् । दशति अदाङ्क्षीत् ददंश । “करौ
निरोद्धुर्दशति स्म केवलम्” “कटुकीटान् दशतः सतः
क्वचित्” नैष० । दृष्टः दंष्ट्वा ।


skd

k1=दन्श, L=15970
दन्श¦, औ दंशने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-अनिट् ।) औ, अदाङ्क्षीत् । दशति
विम्बफलं शुकशावकः । दंशनमित्यनुस्वारहीनं
पठित्वा तन्निर्द्देशात् अनटि नकारलोप इत्याहुः ।
अतएव दशनो दन्तः । नाहिर्द्दंशयते कञ्चि-
द्विद्यया गरुडाख्यया । इति हलायुघः । भट्ट-
मल्लमते दंशनमिह सन्नाहः । तेन अदंशयन्न-
वहितशौर्य्यदंशनास्तनूरयं नय इति वृष्णिभू-
भृतः । इति माघः । तनूः कवचवृताश्चक्रुरि-
त्यर्थः । अत्र परस्मैपदं चिन्त्यमिति वल्लभः ।
वस्तुतस्तु दंशं फरोतीति ञौ साध्यम् । इति
दुर्गादासः ॥


Match 0614: vcp=दभ, skd=दभ

vcp

k1=दभ, L=24378
दभ¦ प्रेरणे चु० उभ० सक० सेट् इदित् । दम्भयति ते अदद-
म्भत् त ।


skd

k1=दभ, L=15971
दभ¦, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इ क, दम्भयति । नोदः
प्रेरणम् । इति दुर्गादासः ॥


k1=दभ, L=15972
दभ¦, क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, दाभयति । इति दुर्गादासः ॥


Match 0615: vcp=दम, skd=दम

vcp

k1=दम, L=24381
दम¦ शमे दण्डे च दिवा० शमा० अक० सेट् । दाम्यति
[Page3468-b+ 38]
अदमत्--अदमीत् ददाम देमतुः । णिच् दमयति ते
अदिदमत् त ट्वित् दमथुः दमितः दान्तः । उदित्
दमित्वा दान्त्वा । “यमो दाम्यति राक्षसान्” “जानु-
भ्यामदमच्चान्यान्” “दमित्वाप्यरिसंघातान्” “अदान्तां
स्त्रिदशैरपि” भट्टिः । दमः दम्यः दमनः ।


skd

k1=दम, L=15974
दम¦, भ य उ इर् शमे । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अकं-सकञ्च-सेट् । उदित्वात् क्त्वावेट् ।)
भ य, दाम्यति । उ, दमित्वा दान्त्वा । इर्,
अदमत् अदमीत् । अस्मात् पुषादित्वात् नित्यं
ङ इत्यन्ये । शमः शान्तीभावः । दाम्यति मुनिः ।
शम इतिपदस्य ञ्यन्तस्यापि सम्भवे शान्ती-
करणेऽप्ययमिति धातुप्रदीपः । दमित्वाप्यरि-
सङ्घातान् । इति दुर्गादासः ॥


Match 0616: vcp=दय, skd=दय

vcp

k1=दय, L=24407
दय¦ गतौ बधे, दाने पालने च भ्वा० आत्म० सक० सेट् ।
दयते अदयिष्ट अदयिढ्वम् अदयिध्वम् अदयिद्ध्वम् । दयाम्
बभूव आस चक्रे । “न वा पलायाञ्चक्रे विर्दयाञ्चक्रे
न राक्षसः” भट्टिः दया दयितः । “व्रजन्ति तेषां दयसे न
कस्मात्” । “स चापि रुधिरैर्मर्त्तः स्वेषामप्यदयिष्ट न” भट्टिः


skd

k1=दय, L=15994
दय¦, ञि ङ ग्रहणे । गतौ । वधे । दाने । अवने ।
इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।)
अवनं पालनम् । ञि, दयितोऽस्ति । ङ दयते
दीनं दयालुः । तेषां दयसे न कस्मात् । अत्र
कर्म्मणि षष्ठी । इति दुर्गादासः ॥


Match 0617: vcp=दरिद्रा, skd=दरिद्रा

vcp

k1=दरिद्रा, L=24427
दरिद्रा¦ दुर्गतौ अदा० स्वपा० पर० अक० सेट् । दरि-
द्राति जक्षा० दरिद्रति अदरिद्रीत्--अदरिद्रासीत् । दरि-
[Page3472-a+ 38]
द्रामास बभूव चकार ददरिद्र ददरिद्रौ इत्येके ।
दरिद्रिता दरिद्र्यात् । दरिद्रिष्यति । दरिद्राणः ।
सनि । दिदरिद्रिषति दिदरिद्रासति ।


skd

k1=दरिद्रा, L=16013
दरिद्रा¦, क्ष लु दुर्गत्याम् । इति कविकल्पद्रुमः ॥
(अदां-परं-अकं-सेट् ।) दुर्गतिरकिञ्चनीभावः ।
क्ष लु, उपर्य्युपरि पश्यन्तः सर्व्व एव दरिद्रति ।
इति दुर्गादासः ॥


Match 0618: vcp=दल, skd=दल

vcp

k1=दल, L=24479
दल¦ भेदे भ्वा--पर० अक० भेदने सक० सेट् । दलति अदालीत्
णिचि वा घटा० दलयति दालयति । ददाल देलतुः दलितः ।
दला “ददाल भूर्नभोरक्तं गोष्पदप्रं बवर्ष च” “ददाल
भूः पुपूरे द्यौः कपीनामपि निखनैः” “अदालिषुः
शिलादेहे चूर्ण्यभूवन् महाद्रुमाः” भट्टिः “दलति
शतधा यन्न हृदयम्” अमरु० ।


k1=दल, L=24480
दल¦ भेदने चुरा० उभ० सक० सेट् । दालयति--ते अदीदलत् त ।
“मुष्टिनाऽदालयत्तस्य” “दालयत्यष्टौ कुलक्ष्माभृतः”
अनर्घरा० । भेदश्चेह द्विधाकरणं विकमनञ्च तत्रविकसने
। “दरविदलितमल्लीवल्लिचञ्चत्परागे” गीतगो० ।


skd

k1=दल, L=16059
दल¦, क भेदे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, दालयति गात्रं वाणः । इति
दुर्गादासः ॥


k1=दल, L=16060
दल¦, मि भेदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अकं च सेट् ।) मि, दलयत्यष्टौ कुलक्ष्मा-
भृतः । इति मुरारिः । दालयति । भेदो विदा-
रणम् । दलति कुठारः काष्ठम् । क्वचिद्विदीर्णी-
भावे विकसने चायम् । श्रीमद्राघवबाहुदण्ड-
विदलत्कोदण्डचण्डध्वनिरिति महानाटकम् ।
दरविदलितमल्लीवल्लिचञ्चत्परागेति जयदेवः ।
इति दुर्गादासः ॥


Match 0619: vcp=दव, skd=दव

vcp

k1=दव, L=24504
दव¦ गतौ भ्वा० पर० सक० सेट् इदित् । दन्वति अदन्वीत् ।
ददन्व । क्विपि दन् ।


skd

k1=दव, L=16080
दव¦, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) इ, दन्व्यते । व्रजो गतिः । इति
दुर्गादासः ॥


Match 0620: vcp=दश, skd=दश

vcp

k1=दश, L=24511
दश¦ दीप्तौ चु० उभ० अक० सेट् इदित् । दंशयति--ते अददंशत्--त ।


k1=दश, L=24512
दश¦ दंशने चुरा० आत्म० सक० सेट् इदित् । दंशयते अददंशत


skd

k1=दश, L=16086
दश¦, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् । इ क, दंशयति । त्विषि दीप्तौ ।
इति दुर्गादासः ॥


k1=दश, L=16087
दश¦, इ क ङ दर्शे । दंशने । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-सकं-सेट् ।) इ क ङ, दंशयते ।
दर्शो दर्शनम् । इति दुर्गादासः ॥


Match 0621: vcp=दस, skd=दस

vcp

k1=दस, L=24618
दस¦ उत्क्षेपे उपक्षपे च अपक्षये अक० दि० पर० सक० सेट् ।
दस्यति । इरित् अदसत् अदासीत्--अदसीत् । उदित् ।
दसित्वा दस्त्वा । “तेषां दिशोऽदस्यन्” तै० स० १ । ६ । १
१ । ३ “त्वां त्सारी दसमानो भगमीट्टे तक्ववीये” ऋ० १ ।
१३४ ५ । आर्षस्तङ् गणव्यत्ययश्च “मा ते प्राण उप-
दसन्” अथ० ५ । ३० । १५ “अब्रह्मताविदसाम” यजु० १० । २२


k1=दस, L=24619
दस¦ दर्शने दंशने च चु० आ० सक० सेट् इदित् । दंस-
यते अददंसत दंसशब्दे दृश्यम् ।


skd

k1=दस, L=16137
दस¦, इ क भासि । इति कविकल्पद्रुमः ॥ (चुरां-
परं-अकं-सेट् ।) इ क, दंसयति दंसति । भासि
दीप्तौ । इति दुर्गादासः ॥


k1=दस, L=16138
दस¦, इ ङ क दृशौ । दंशे । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-सकं-सेट् ।) दृशिरिति पश्यतेरौ-
णादिककिप्रत्यये रूपम् । इ ङ क, दंसयते फलं
शिशुः पश्यति दशति वेत्यर्थः । भट्टमल्लमते दंश
इह सन्नाहः । इति दुर्गादासः ॥


k1=दस, L=16139
दस¦, य उ इर् उत्क्षेपे । इति कविकल्पद्रुमः ॥
(दिवां-परं-सकं-सेट् । उदित्त्वात् क्त्वावेट् ।)
य, दस्यति धूलिं वायुः । उ, दसित्वा दस्त्वा ।
इर्, अदसत् अदासीत् । अस्मात् पुषादित्वात्
नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥


Match 0622: vcp=दह, skd=दह

vcp

k1=दह, L=24628
दह¦ दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित् । दंहयति
ते अददंहत् त ।


k1=दह, L=24629
दह¦ दाहे भस्मीकरश्चे सक० भ्वा० प० अनिट् । दहति अधाक्षीत्
ददाह देहतुः । दग्धा दह्यात् धक्ष्यति । दग्धः
दग्धिः दग्ध्वा दग्धव्यः दहनीयः दाह्यः । दाहः
दहनम् । दाहयति अददीहत् दिधक्षति
“उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्”
हितो० “क्रुद्धं कुलं धक्ष्यति विप्रबह्निः” भट्टिः वृक्षान-
ङ्गारकारीव मैनान् धाक्षीः समूलकान्” भा० स० । ६० अ०
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः” सा० द० “देहं
धारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग०
“दग्धव्योऽसौ कटाग्निना” सनुः । “कर्म्मणि दह्यते
अदाहि देहे । “दह्यते च कुलं सर्वम्” चाणक्यः । “देहे
लङ्का मतेश्वरा” भट्टिः दंदह्यते । “दंदह्यमानां शोकेन”
भट्टिः ।


skd

k1=दह, L=16147
दह¦, औ दाहे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अनिट् ।) औ, अधाक्षीत् । दाहो भस्मी-
करणम् । दहत्यग्निः काष्ठम् । इति दुर्गादासः ॥


k1=दह, L=16148
दह¦, इ क दीप्तौ । दाहे । इति कविकल्पद्रुमः ॥
(चुरां-परं-दीप्तौ अकं-दाहे सकं-सेट् ।) इ क,
दंहयति । इति दुर्गादासः ॥


Match 0623: vcp=दा, skd=दा

vcp

k1=दा, L=24644
दा¦ दाने भ्वा० पर० सक० सेट् ण इत् । यच्छति प्रणियच्छति
अदात् । ददौ ददतुः । देयात् । दास्यति । देयम्
दानीयं दातव्यं दत्तः दातुम् दत्त्वा ।


k1=दा, L=24645
दा¦ दाने जुहो० उभ० सक० सेट् । ददाति दत्ते प्रणिददाति ।
दद्यात् ददीत । ददातु ददतु देहि दत्ताम् दत्स्व ।
अददात् अदत्त । अदात् अदित । ददौ ददिथ--ददाथ
ददिव । ददे ददिषे । दाता देयात् दासीष्ट । दास्यति ।
कर्मणि दीयते अदायि अदायिषाताम्--अदिषाताम् ।
दासीष्ट--दायिषीष्ट दास्यते--दायिष्यते । दापयति ।
दित्सति देदीयते । दातव्यः दानीयः देयम् । दाता ।
दानं दायः दत्तं प्रत्तम् । दातुं दत्तिः दत्त्वा प्रदाय ।
ददत् ददानः । ददिवान् । “यो ददाति स कुकूदः”
अमरः । “मूर्ध्नि मूर्द्धाभिषिक्तस्य ददति स्म विधानतः”
रामा० अयो० २६ स० “दद्याच्चैवासनं स्वकम्” “सोऽन्त-
र्दशाहात् तद्द्रव्यं दद्याच्चैवाददीत वा” मनुः । “देहि
युद्धं नरपते! ममाद्य रणमूर्द्धनि” भा० उ०१९३ अ०
“ददौ स दश धर्माय” मनुः । “अवकाशं किलोदन्वान् रामा-
याभ्यर्थितो ददौ” रघुः । “पाण्डवानां सभामध्येऽदुर्यो धन-
उपागतः । तस्मै गाञ्च हिरण्यञ्च” विदग्धमू० । “न दा-
स्यामि समादातुं सोमं कस्मैचिदप्यहम्” भा० आ० ३४ अ०
“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे” गीता “देयं
दारसुतादृते” याज्ञ० । “दत्तभुक्तफलं धनम्” दाय-
भागधृतभारतम् “दत्तात्मा तु स्वयं दत्तः” मनुः “सुता
ददे तस्य सुताय मैथिली” भट्टिः । “आददानः परक्षेत्रात्”
न दण्डं दातुमर्हति” “स ज्ञेयः दत्त्रिमः सुतः” मनुः
“तेषां दत्त्वा तु तृप्तेषु सपवित्रं तिलोदकम्” स्मृतिः ।
“अदित्सन्तं दापयति प्रजानन्” यजु० ९ । २४ । “दायादानपि
दापयेत्” मनुः । “तेषामशीतिं यानानि रत्नपूर्णानि
दापय” रामा० अयो० ३२ स० । “स दाप्यः पथमं दमम्”
याज्ञ० “अस्मभ्यमिन्न दित्ससि” ऋ० १ । १७० । ३ “दित्सन्तं
भूयो यजमानश्चिकेत” ऋ० २ । १४ । १० ।
अति + अतिक्रम्य दाने अत्यन्तदाने च । “न जीवन्तमति-
ददाति” कात्या० ४ । १ । २७ । “अतिद बलिर्बद्धः” चाण०
अनु + पञ्चाद्दाने तुल्यरूपदाने प्रतिनिधित्वेन च । “न
दूढ्ये अनुददासि वामम्” ऋ० १ । १९० । ५ । “सूराश्चदस्मा अनु
दादपस्याम्” ७ । ४५ । २ “यः शर्धते नानददाति शृध्याम् २ ।
१२ । २०
अभि + आभिमुख्येन दाने “तथैव चैनमुक्त्वा वामपार्ष्णिमभ्य-
दात्” भा० व० १९७ अ० गद्यम् ।
अव + अधोदाने अवत्तम् आदिकर्मणि तु वा तादेशः
यथाह सि० कौ० “अवदत्तं विदत्तञ्च प्रदत्तञ्चादिकर्मणि
[Page3511-b+ 38]
सुदत्तमनुदत्तञ्च निदत्तमिति वेष्यते” चशब्दाद्यथाप्राप्तम् ।
आ + ग्रहणे “दद्याच्चैवाददीत वा” । “शुभां विद्या
माददीतावरादपि” मनुः । “स्वं चादास्यामि भूयोऽह
पाप्मानं जरया सह” भा० आ० ८४ अ० । “शरीरमात्तं
मृत्युना” छा० उ० “आददानः परक्षेत्रात्” मनुः ।
अप + आ + अपेक्ष्य ग्रहणे । “मृत्पिण्डमपादाय महा-
वीरं करोति” शत० ब्रा० १४ । १ । २ । १७
उद् + आ + उदस्य ग्रहणे “उदादाय पृथिवीं जीवदानुम्”
यजु० १ । २८ ।
उप + आ + सामीप्येन ग्रहणे “उपात्तविद्यो गुरुदक्षिणार्थी” रघुः ।
परि + आ + परिवर्त्त्य ग्रहणे “पर्य्याददानं चास्त्राणि भीम-
धन्वानमर्जुनम्” भा० उ० ४८ अ० “तस्मिन्निधीनादधोत-
प्रज्ञां पर्य्याददीत च” भा० शा० ८६ अ० ।
प्रति + आ + प्रतिग्रहणे दत्तस्य पुनर्ग्रहणे च । “शुभाशुभं
कर्मकृतं यदन्यत्तदेव प्रत्याददते स्वदेहे” भा० शा० २०२
अ० “न चाहं शक्तः शापं प्रत्यादातुम्” भा० आ० ३ अ०
वि + आ + अङ्गादेःप्रसारणे आत्म० स्वाङ्गप्रसारणे तु पर० । “व्या-
दायास्यं महारक्षस्तौ दृष्ट्वाऽथ ह्यधावत” हरिवं० ३१७
अ० । “भक्षयत्येष मां रुद्रो व्यात्तास्यो दारुणाकृतिः
भा० व० ६४ अ० । “नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं
दीप्तविशालनेत्रम्” गीता ।
परि + उपरिस्थापने । “त्रिते दुःष्वप्न्यं सर्वमाप्ते परिदद्मसि”
ऋ० ८ । ४७ । १५ “परिदद्मसि उपरि दद्मः वयं त्रिताः
परित्यजामः इत्यर्थः । अथवा त्रिते मयि यद्दुष्वप्न्यं
दृष्टं तत् स्वर्णकाराय भालाकाराय वा परिदद्मसि
अस्मत्तोऽपि निष्कृष्य तयोरुपरि स्थापयामः” भा०
प्र + विधानादिना प्रकर्षेण च दाने । “प्रदानं स्वाम्यकारणम्०
मनुः । “प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्” भट्टिः ।
“नष्टं विनष्टं कृमिभिः श्वहतं विषमे स्थितम् । हीनं
पुरुषकारेण प्रदद्यात् पालएव तु” मनुः ।
अनु + प्र + पश्चात् प्रदाने । “एते श्वासानुप्रदाना अथोषाश्च
विवृण्वते । कण्ठम्” शिक्षा ।
प्रति + प्र + प्रत्यर्पणे गृहीतस्य पुनरर्प्रणे “राज्य प्रतिप्रदा
स्यामि” भा० उ० ५५२५ श्लो० ।
सम् + प्र + सत्कारेण प्रदाने । “तदर्हमासनं तस्मै सम्प्रदाय
यथाविधि । गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च” भा०
स० ५ अ० । “अहन्यहनि चाप्येवं याचतां सम्प्रदीयते” भा०
व० ८५३१ श्लो० । अविच्छेदेन शिष्टानामाचारे च, सम्प्रदायः ।
[Page3512-a+ 38]
प्रति + प्रतिरूपदाने प्रत्यर्पणे च । “सत्यङ्कारकृतं द्रव्यं
द्विगुणं प्रतिदापयेत्” याज्ञ० । “प्रतिदास्यामि भगवन्!
पुंलिङ्गं तव सुव्रत!” भा० उ० १९३ अ० ।
“शिष्यव्यतिक्रमं वीक्ष्य निवर्त्य गुरुरागतः । अशपत्
पततां देहो निमे! पण्डितमानिनः । निमिः प्रति-
ददौ शापं गुरवे धर्मवर्जिने । तवापि पततां देहो
लोभाद्धर्ममजानतः” भाग० ९ । १३ । ५


k1=दा, L=24646
दा¦ लवने अदा० प० सक० अनिट् पित् तेन न घुसंज्ञा ।
दाति अदासीत् दायात् । “अग्निर्ह दाति रोमा पृथिव्याः”
ऋ० १० । ६५ । ४ “दाति छिनत्ति दाप् लवने अदादित्वाच्छपो
लुक्” भा० । “कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनु-
पूर्वं वियूय” १० । १३१ । २ “स हि ष्मा धन्वाक्षितं दाता न
दात्या पशुः” ५ । ७ । ७ “अहिंसन्तु ओषधीर्दान्तु पर्वन्”
अथ० १२ । ३ । ३१ “वर्हिर्देवसदनं संदामि” कात्या० श्रौ०
कर्कधृतश्रुतिः ।


skd

k1=दा, L=16160
दा¦, दाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
अनिट् ।) दा तु दाने दान दाने प्रसिद्धोऽयम् ।
अस्यैव यच्छादेशः । यच्छति । इति दुर्गादासः ॥


k1=दा, L=16161
दा¦, डु ञ लि दाने । इति कविकल्पद्रुमः ॥ (ह्वां-
उभं-सकं-अनिट् ।) डु, दत्रिमम् । ञ लि,
ददाति दत्ते । इति दुर्गादासः ॥


k1=दा, L=16162
दा¦, ल लूनौ । इति कविकल्पद्रुमः ॥ (अदां-
परं-सकं-अनिट् ।) ल, दाति । लूनिश्च्छेदः ।
केचित्तु दाप लवने इति पठित्वा पित्त्वाद्दा-
संज्ञाभावे यगादौ दायते इत्यादि मन्यन्ते ।
स्वमते तु पित्त्वाभावाद्दासंज्ञायां दीयते इत्येव ।
इति दुर्गादासः ॥


Match 0624: vcp=दान, skd=दान

vcp

k1=दान, L=24700
दान¦ आर्जये ऋजूकरणे सक० उभ० भ्वा० स्वार्थे सन् ।
छेदने तु न सन् । दीदांसति ते अदीदांसीत् अदीदां
मिष्ट छेदने तु दानति ते । अदानीत् अदानिष्ट दीदां-
सयाति दानयति । दीदांसति काष्ठ ऋजूकरोतीत्यर्थः
दानति काष्ठं छिनत्तीत्यर्थः ।


skd

k1=दान, L=16194
दान¦, ञ आर्जवे । छिदि । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-सकं-सेट् ।) ऋजुरवक्रस्तस्य भाव
[Page2-699-c+ 52]
आर्ज्जवं ऋजुकरणम् । ञ, दीदांसति दीदां-
सते काष्ठं वर्द्धकिः ऋजु करोतीत्यर्थः । ऋजु-
भावः इति विद्यानिवासः । दीदांसति साधुः ।
ऋजुः स्यादित्यर्थः । छेदे दानति दानते । इति
वोपदेवः । तत्र तिबादयो न स्युरिति रमानाथः ।
इति दुर्गादासः ॥


Match 0625: vcp=दाय, skd=दाय

vcp

k1=दाय, L=24742
दाय¦ दाने भ्वा० आत्म० सक० सेट् । दायते अदायिष्ट अदा-
यिढ्वम् अदायिध्वम् । ऋदित् णिच् अददायत--त ।


skd

k1=दाय, L=16221
दाय¦, ऋ ङ दाने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) ऋ, अददायत् । ङ, दायते ।
इति दुर्गादासः ॥


Match 0626: vcp=दाश, skd=दाश

vcp

k1=दाश, L=24829
दाश(स)¦ हिंसने स्वा० पर० सक० सेट् । दाश्नो(स्नो)ति
अदाशी(सी)त् अयं वैदिकः । “यस्ते दाश्नीति नम
उक्तिभिः” ऋ० ८ । ४ । ६ “दाशद्दाशुषे हन्ति वृत्रम्”
ऋ० २ । १ । ९४ “यस्मै त्वं सुद्रविणो ददाशो अनागास्त्व-
मदिते!” ऋ० १ । ९४ । १५


k1=दाश, L=24830
दाश¦ दाने चु० उभ० सक० सेट् । दाशति--ते ऋदित् अदिदा-
शत्--त । “स वा एतेभ्यस्तत् पुरोऽदाशयत् तस्मात् पुरो-
डाशः” शत० ब्रा० १ । ६ । २ । ५


k1=दाश, L=24831
दाश¦ दाने भ्वा० उभ० सक० सेट् । दाशति ते अदाशीत् अदा-
शिष्ट ऋदित् णिच् अदिदाशत्--त । “यस्तुभ्यं दाशान्न तमं
हो अश्नवत्” ऋ० २ । २३ । ४ “तुभ्यं दाशतः स्यामः” ७ । १४ । ३


skd

k1=दाश, L=16289
दाश¦, ऋ ङ क दाने । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) द्बितीयस्वरी । ऋ, अद-
दाशत् । क ङ, दाशयते । इति दुर्गादासः ॥


k1=दाश, L=16290
दाश¦, ऋ ञ दाने । इति कविकल्पद्रुमः ॥ (भ्वां-
उभं-सकं-सेट् ।) ऋ, अददाशत् । ञ, दाशति
दाशते । इति दुर्गादासः ॥


k1=दाश, L=16291
दाश¦, न र हिंसने । इति कविकल्पद्रुमः ॥ (स्वां-
परं-सकं-सेट् ।) द्वितीयस्वरी । न, दाश्नोति ।
र वैदिकः । इति दुर्गादासः ॥


Match 0627: vcp=दास, skd=दास

vcp

k1=दास, L=24852
दास¦ --दाने भ्वा० उभ० सक० सेट् । दासति ते अदासीत् अदा-
सिष्ट । ऋदित् णिच् अददासत् त । हनने च “यो नः
कदाचिदपि दासति द्रुहः” ऋ० ७ । १०४ । ७ । दासति हन्ति”
भा० “स्वादिगणीयोऽप्येष दाशधातौ दृश्यः ।


skd

k1=दास, L=16300
दास¦, ऋ ञ दाने । इति कविकल्पद्रुमः ॥ (भ्वां-
उभं-सकं-सेट् ।) ऋ, अददासत् । ञ, दासति
दासते । इति दुर्गादासः ॥


k1=दास, L=16301
दास¦, र न वधे । इति कविकल्पद्रुमः ॥ (स्वां-परं-
सकं सेट् ।) र वैदिकः । न, दास्नोति । इति
दुर्गादासः ॥


Match 0628: vcp=दिन्भ, skd=दिन्भ

vcp

k1=दिन्भ, L=24975
दिन्भ¦ सघाते चु० आत्म० अक० सेट् । दिग्भयते अदिदिम्भत


skd

k1=दिन्भ, L=16366
दिन्भ¦, क ङ संघाते । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) क ङ, दिम्भयते । सङ्घातो
राशीकरणम् । इति दुर्गादासः ॥


Match 0629: vcp=दिभ, skd=दिभ

vcp

k1=दिभ, L=24977
दिभ¦ नीदने चु० उभ० सक० सेट् इदित् । दिम्भयति--ते अदिदिम्भत्--त ।


skd

k1=दिभ, L=16367
दिभ¦, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इ क, दिम्भयति । नोदः प्रेर-
णम् । इति दुर्गादासः ॥


Match 0630: vcp=दिम्प, skd=दिम्प

vcp

k1=दिम्प, L=24978
दिम्प¦ संघाते चुरा० उभ० सक० सेट् । दिम्पयति ते अदिदि-
म्पत्--त ।


skd

k1=दिम्प, L=16368
दिम्प¦, ञ क संघाते । इति कविकल्पद्रुमः ॥ (चुरां-
उभं-सकं-सेट् ।) ओष्ठ्यवर्गशेषोपधः । तृतीय-
[Page2-711-a+ 52]
स्वरी । ञ क, दिम्पयति दिम्पयते । सङ्घातो
राशीकरणम् । एषः कैश्चिन्न मन्यते । इति
दुर्गादासः ॥


Match 0631: vcp=दिव, skd=दिव

vcp

k1=दिव, L=24984
दिव¦ प्रीतौ भ्वा० पर० सक० सेट् इदित् । दिन्वति अदिन्वीत् ।


k1=दिव, L=24985
दिव¦ जिगोषायां क्रीडायां च अक० पणे व्यवहारे इच्छायां
स्ततौ च सक० दिवा० पर० सक० सेट् । अस्य करणस्य वा कर्म-
संज्ञा । अक्षैरक्षान् वा दीव्यति अदेवीत् दिदेव । देवित्वा
द्यूत्वा देवनं दिदिवान् दुद्यूवान् “अदीव्यद्रौद्रमत्युग्रम्”
भट्टिः । “उवाच दीव्याव पुनर्वहुवित्तं मयाऽर्जितम्”
भा० व० ७८ अ० “दिव्यामि शकुने! त्वया” भा० स० ७४ अ०
“ततस्तु भाते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः वा० व० ६१ अ० ।
“तदाऽदेवीत् पाण्डवीऽजातशत्रुः” भा० स० ६५ अ० । आर्षे
[Page3585-b+ 38]
तु क्वचित् तङ् । “प्रव्रज्यायेव दीव्येत विना दुर्द्यूतदे-
विनम्” भा० वि० १८ अ० “अक्षानुखा पुनर्द्यूतमेहि
दीव्यस्व भारत!” भा० स० ७४ अ० । “के तत्रान्ये कितवा
दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः” ५६० श्लो०
“दिवस्तदर्थस्य” पा० व्यवहारक्रीडार्थत्वेऽस्य कर्म्मणि
षष्ठी शतस्यदीव्यति । तदर्थस्य किं ब्राह्मणं दीव्यति स्तौती
त्यर्थः सि० कौ० । द्यूतं जिगीषायामन्यत्र आद्यूनः
जिगीषाशून्य इत्यर्थः । टिदेविषति दुद्यूषति देवयति ते
अदिदिवत् त । “तेनादुद्यूषयद्रामं मृगेण मृगलोच-
ना” भट्टिः । देदिवीति देद्योति
उपसर्गपूर्वस्य तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे ।


k1=दिव, L=24986
दिव¦ कूजने चु० आत्म० सक० सेट् । देवयते अदिदेवत ।


k1=दिव, L=24987
दिव¦ अर्द्दे चु० उभ० सक० सेट् । देवयति ते अदीदिवत् त ।


skd

k1=दिव, L=16372
दिव¦, इ प्रीतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) इ, दिन्व्यते । प्रीतिरिह प्रीती-
करणम् । दिन्वति लोकः पितरम् । इति दुर्गा-
दासः ॥


k1=दिव, L=16373
दिव¦, क अर्द्दे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, देवयति । अर्द्द इह पीडन-
मिति मैत्रेयः । यातनं गमनं वेति रमानाथः ।
इति दुर्गादासः ॥


k1=दिव, L=16374
दिव¦, क ङ परिकूजने । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-अकं-सेट् ।) क ङ, परिदेवयते
कश्चित्तस्य राष्ट्रे न दुःखितः । इति हलायुधः ।
इति दुर्गादासः ॥


k1=दिव, L=16375
दिव¦, य उ जिगीषेच्छयोः । पणौ । द्युतौ । क्रीडा-
याम् । गतौ । इति कविकल्पद्रुमः ॥ (दिवां-
परं-अकं-सकं-च सेट् । उदित्त्वात् क्त्वावेट् ।)
य, दीव्यति । उ, देवित्वा द्युत्वा । दीव्यमानं
शितान् वाणान् । इति भट्टौ ताच्छील्ये शतुः-
शानः । पणिर्व्यवहारः स्तुतिश्च । व्यवहारस्तु
क्रयविक्रयरूपः । द्युतावेवाकर्म्मकः । क्रीडा-
यान्तु दीव्यतेः करणस्य नित्यं कर्म्मत्वम् । तत्र
तृतीयाविभक्तिरेव विभाष्यते । इति साम्प्र-
दायिकम् । तेन अक्षा दीव्यन्ते छात्रेण इति
कर्म्मणि प्रत्ययः स्यात् । अक्षैर्दीव्यते छात्रे-
णेति भावे प्रत्ययो न स्यात् अक्षैर्देवयति छात्रेण
गुरुरित्यत्राप्यञ्यन्तस्य कर्त्तुः कर्म्मत्वं न स्यात् ।
तेनादुद्यू षयद्रामं मृगेण मृगलोचना । इति
भट्टौ तु तेनेतिकरणं दुद्यूषेरेव न तु दीव्यतेः ।
तेनाकर्म्मकत्वात् राममित्यञ्यन्तकर्त्तुः कर्म्म-
त्वम् । इति दुर्गादासः ॥


Match 0632: vcp=दिश, skd=दिश

vcp

k1=दिश, L=25071
दिश¦ दाने आज्ञापने कथने च तु० उभ० सक० अनिट् । दिशति
ते अदिक्षत् त दिदेश देष्टा दिष्टः दिष्टिः । दिष्ट्वा आदिश्य
“साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः”
मनुः । दाने “इष्टां गतिं तस्य सुरा दिशन्ति” भा०
आनु० १८४३ श्लो० आज्ञापने “महादेवेन दिष्टं ते पुत्रजन्म
नराधिप!” भा० व० १०६ अ० । “दिदेश तस्मै प्रयतां
तनूजाम्” कुमा० ।
अति + स्वविषयमुल्लङ्घ्यान्यविषये उपदेशे सक० अतिदेशशब्दे
१०० पृ० दृश्यम् । “यथाकालोपपाते तद्दैवते तद्दैवतं
हुत्वा तद्वातिदिश्यानेन जुहुयात्” कात्या० श्रौ० २५ ।
२ । ४ उपदेशे च । “इत्यर्चितः स भगवानतिदिश्यात्मनः
पदम्” भाग० ४ । ९ । २८ ।
अनु + पश्चात्कथने । “यज्ञं देवेभ्योऽनुदिशति” तैत्ति० स०-
१ । ५ । ४ । ३ “रामश्चाप्यनुदिश्यताम्” रामा० लङ्का० ८९ स०
अप + छलने यथार्थाह्नवे अपदेशशब्दे दृश्यम् । “पश्चिम-
क्रतुविदा पुरोधमा रोगशान्तिमपदिश्य मन्त्रिणः ।
सम्भृते शिखिनि गूढमादधुः” “तस्य निर्दयरतिश्रमा-
लसाः मित्रकृत्यमपदिश्य पार्श्वगाः” रघुः ।
वि + अप + संज्ञाभेदे “भ्रातरं राजराजानं महेश्वरसखं
प्रभुम् । धनेश्वरं व्यपदिशन्” भा० व० २८० अ० । “मित्रं च
मां व्यपदिशस्यपरं च यासि” मृच्छक० “ईश्वर इति
व्यपदिश्यते” वेदा० सा० “निमित्तसद्भावाद्विशिष्टोऽपदे-
शोऽमुख्यव्यवहारोव्यपदेशः” परिभाषेन्दुशेखरोक्तेऽर्थे ।
अभि + अभिमुखीकृत्योपदेशे । “यां यामभ्यदिशत् सैनमकाम-
यत” पञ्चभीष्मब्रा० १२ । ११ ।
आ + आज्ञायाम् उपदेशे “अथात आदेशो नेति” वृ० उ०
“आदिक्षदादीप्तकृशानुकल्पम्” भट्टिः । आदेशशब्दे
२१९ पृ० उक्ते अर्थे च “धातोः स्थाने इवादेशम्”
रघुः ।
[Page3597-b+ 38]
अनु + आ + पश्चादादेशे उपदेशे च अन्वादेशशब्दे २१९ पृ०
उक्ते अर्थे च ।
प्रति + आ + निराकरणे “प्रत्यादेशो निराकृतिः” अमरः “ऋजु
प्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा” “अन्तः
शरीरेष्वपिंयः प्रजानां प्रंत्यादिदेशाविनयं विनेता”
रघुः “किमहमेतं जलधरममयं न प्रत्यादिशामि” विक्र०
वि + आ + विशेषेणादेशे । “समीरणः प्रेरयिता भवेति
व्यादिश्यते केन हुताशनस्य” कुमा०
सम् + आ + सम्यगादेशे । “समादिदेशैकवधूर्भवित्री” कुमा० ।
उद् + स्वरूपकथने “उद्देशीलक्षणं विभागः परीक्षा चेति”
न्यायसमयः । उद्देशशब्दे ११७० उक्तेऽर्थे च । तच्छब्दे
उदा० प्रश्ने उद्देशकशब्दे दृश्यम् ।
उप + अनुशासने उपदेशशब्दे १२१० पृ० उक्तेऽर्थे च । “उप-
दिशति कामिनीनां यौवनमद एव ललितानि” सा० द०
“उपदिष्टमिहेच्छामि तापस्यं वीतकलमषाः” भा० उ० १७४ अ०
प्रति + उप + उपदेशस्य प्रतिरूपोपदेशे “व्याघिं प्रति प्रत्युपदे-
क्ष्यामः” सुश्रु० “यद्यत्प्रयोगविषये भाविकमुपदिश्यते
मया तस्यै । तत्तद्विशेषकरणात् प्रत्युपदिशतीव मे
वाला” माला० मि
निर् + निर्णयेन देशने कथने च “अतुषत् पीठमासन्ने निर-
दिक्षच्च काञ्चनम्” भट्टिः उच्चांरणे च “निर्दिश्यमान-
स्यादेशा भवन्ति” व्या० परिभाषा “षष्ठ्यन्तं निर्दिश्यमा-
नमुच्चार्यमाणम्” नागेशभट्टः ।
प्रति + निर् + प्रकृतानुरूपनिर्देशे । “तदिति प्रकृतं भावलक्षणं
प्रतिनिर्दिश्यते” । येन पदेन उद्देशस्तेनैव पदेन पनः-
कथने । उद्देश्यप्रतिनिर्द्देश्ययोरेकपटप्रतिपाद्यत्वेऽपि न
कथितपदत्वदोषः अन्यपदेन निर्द्देशे तु प्रत्युत भग्नप्रक्रम-
तादोषः यथाह सा० द० “एवमुक्तो मन्त्रिमुख्यैरावणः
प्रत्यभाषत” अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव
वक्तुमुचितं तेन रावणः प्रत्यवोचतेति पाठो युक्तः ।
एवञ्च सति न कथितपदत्वदोषः तस्योद्देश्यप्रति-
निर्देश्यव्यतिरिक्तविषयत्वात् । इह हि वचनप्रति-
वचनयोरुद्देश्यप्रतिनिर्देश्यत्वं यथा
“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र ।
यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योऽर्थ इव
प्रतिभासमानः प्रतीतं स्थगयति । यथा वा
“ते हिमालयमामन्त्र्य पुनःप्रेक्ष्य च शृलिनम् । सिद्ध-
ञ्चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” अत्र अश्मै-
[Page3598-a+ 38]
इति इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःश-
ब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन । यथा वा
“उद्वन्वच्छिन्ना भूः स च पतिरपां योजनशतम्” अत्र
“मिता भूः पत्यापां स च पतिरपामिति” युक्तः पाठः ।
प्रति + प्रतिरूपदेशने । “भुजगगतिप्रतिदेशितात्मकृत्यः” भा०
शा० ३६७ अ०
सम् + सम्यक्कथने सम्यक्तयादेशे वाचा कथने च “अभिदूति
काचिदिति संदिदिशे” माथः “ननु सन्दिशेति सुदृशो-
दितया त्रपया न किञ्चन किलाभिदधे” माघः “ददौ
स दयितां भ्रात्रे मालाञ्चाग्र्यां हिरण्मयीम् । राज्यं
सन्दिश्य भोगांश्च ममार व्रणपीडितः” भट्टिः “अथ
विश्वात्मने गौरी सन्दिदेश मिथः सखीम्” कुमा० ।


skd

k1=दिश, L=16434
दिश¦, औ ञ श ओचे । इति कविकल्पद्रुमः ॥
(तुदां-उभं-सकं-अनिट् ।) औ, अदिक्षत् ।
ञ श, दिशति दिशते । ओच इति उचिर्य्य
समवायने इत्यस्य अलि रूपम् । धातूनाम-
[Page2-713-c+ 52]
नेकार्थत्वादोच इह दानमाज्ञापनं वा । दिदेश
कौत्साय समस्तमेवेति रघुः । कथनेऽप्ययम् ।
धर्म्मं दिशति देशिकः । इति दुर्गादासः ॥


Match 0633: vcp=दिह, skd=दिह

vcp

k1=दिह, L=25085
दिह¦ लेपने अदा० उभ० सक० अनिट् । देग्धि दिग्धे अधि-
क्षत् अधिक्षत--अदिग्ध अधिक्षन्त अदिहत । । दिदेह
दिदिहे । देग्धा धेक्ष्यति दिग्धः । “अदिहंश्चन्दनैः
शभैः” भट्टिः । “स चन्दनोशीरमृणालदिग्धः” भट्टिः ।
उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तलेपने । प्रणिदेग्धि
“दन्तास्तपसाभिदिग्धाः” अथ० ५ । १८ । ८ “दन्तरजसाव-
देग्धि” कौ० त० ब्रा० ३१ “कवचैः शोणितादिग्धैः” भा० भी०
३३८४ श्लो० “ऊर्जं वा एतं रसं पृथिव्या उपदीका
उद्दिहन्ति यद्बल्मीकम्” तै० आ० ५ । २ । ८ “लोहानां च
मणीनां च मलपङ्कोपदिग्धता” काम० नी० “शिरोगलं
कफोपदिग्धम्” सुस्रु० “यथाधो भूमौ निदिग्धं तदमुया
स्यादेवं तत्” शत० ब्रा० १ । ७ । २ । १३


skd

k1=दिह, L=16444
दिह¦, ल ञ औ लिपि । इति कविकल्पद्रुमः ॥
(अदां-उभं-अकं-सकं च-अनिट् ।) दिह उप-
चये इति प्राञ्चः । उपचयो वृद्धिस्तत्करणञ्च ।
ल ञ, देग्धि दिग्धे देहः प्रतिदिनमुपचितः
स्यादित्यर्थः । देग्धि सौधं सुधया लेपकः ।
उपचितं करोतीत्यर्थः । औ, अधिक्षत् इति
दुर्गादासः ॥


Match 0634: vcp=दी, skd=दी

vcp

k1=दी, L=25086
दी¦ क्षये दि० आत्म० अक० अनिट् । दीयते अदास्त । दिग्ये
ओदित् दीनः । उपसर्गपूर्वकस्य तत्तदुपसर्पद्योत्यार्थक्षये
“अध श्येनो जवसा निरदीयम्” ऋ० ४ । २७ । १ “आपी
नप्त्रे वृतमन्नं वहन्तीः स्वयमत्कैः परिदीयन्ति यह्वीः”
ऋ० २ । ३५ । १४


skd

k1=दी, L=16445
दी¦, ओ ङ य क्षये । इति कविकल्पद्रुमः ॥ (दिवां-
आत्मं-अकं-सेट् ।) ओ, दीनः । ङ य, दीयते ।
इति दुर्गादासः ॥


Match 0635: vcp=दीक्ष, skd=दीक्ष

vcp

k1=दीक्ष, L=25087
दीक्ष¦ मौण्ड्ये यागे उपनयने नियमब्रतयोरादेशे च भ्वा०
आ० सक० सेट् । दीक्षते अदीक्षिष्ट । दिदीक्षे दीक्षि-
ष्यते । “दीक्षस्व सह रामेण त्वरितं तुरगाध्वरे” भट्टिः
“यज्ञादुह वा एष पुनर्जायते यो दीक्षते” ऐत० व्रा० २ । २२
“कथं नोमध्येऽदीक्षिष्ट” ऐत० ब्रा० २ । १९ “ब्रह्मसत्रेण
दीक्षिष्यमाणः” भाग० ३ । १ । ६ क्वचित् वेदे पदत्ययः
“ते ह देवयजनं दिदीक्षुः पञ्चमी० ब्रा० २४ । १८ णिच् ।
दीक्षयति “राजानं दीक्षयामासुः सर्पसत्रात्यये तदा” भा०
आ० २०१७ श्लो० ।


skd

k1=दीक्ष, L=16446
दीक्ष¦, ङ मौण्ड्ये । इज्यायाम् । ह्योऽर्थे । इति कवि-
कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-ह्योऽर्थे अकं-सकं
च-सेट् ।) मौण्ड्यं मुण्डितमस्तकीभावः । इज्या
यजनम् । ह्योऽर्थो नियमव्रतादेशोपनीतयः ।
ङ, दीक्षते वटुर्मुण्डितमस्तकः स्यादित्यर्थः ।
दीक्षते जनो यजतीत्यर्थः । दीक्षते याज्ञिको
नियमी स्यादित्यर्थः । दीक्षते पण्डितो जनं
व्रतमुपदिशतीत्यर्थः । दीक्षते पुत्त्रं विप्रः उप-
नयतीत्यर्थः । इति दुर्गादासः ॥


Match 0636: vcp=दीधी, skd=दीधी

vcp

k1=दीधी, L=25103
दीधी¦ देवने दीप्तौ च अदा० जक्षा० आत्म० अक० सेट् ।
दीधीते अदीधिष्ट । दीध्ये दीध्याञ्चक्रे । दीधिता
दीधिष्यते दीधितिः । “दीधीवेवीसमः कश्चिद्गुणवृद्ध्यो-
रभाजनम्” सा० द० ।


skd

k1=दीधी, L=16456
दीधी¦, र ङ लु क्ष देवने । दीप्तौ । इति कविकल्प-
द्रुमः ॥ (अदां-आत्मं-अकं-सेट् ।) दीर्घमध्यः ।
र वैदिकः । ङ लु, दीधीते । क्ष, अदीधयुः । बहुलं
ब्रह्मणीति परस्मैपदे अनुस्सिद्बेरिति अन् उस्
णुरुस्यठ्यामिति गुणः । इति दुर्गादासः ॥


Match 0637: vcp=दीप, skd=दीप

vcp

k1=दीप, L=25108
दीप¦ दीप्तौ दि० आत्म० अक० सेट् । दीप्यते अदीपि--अदीपिष्ट ।
दिदीपे दीप्तः । णिच् अदीदिपत्--त अदिदीपत् त ।
दीप्तिः । दीपनं दीपकः दीप्रः । “दीप्यमानः स्वतेजसा”
मनुः । “पुनर्दिदीपे मददुर्द्दिनश्रीः” रघुः “देवाहवेष्व-
दीपिष्ट” “सधूमदीप्ताग्निरुचीनि रेजुः” भट्टिः “ततः
शकुनयो दीप्ताः मृगाश्च क्रूरभाषिणः” हरिवं० १७१ अ० ।
“हिंस्रेषु दीप्रास्त्रधरः कुमारः” भट्टिः “यावत् कर्माणि
दीप्यन्ते तावत् संसारवासनाः” कुलार्ण० । उपसर्गपूर्वकस्य
तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे “आदिक्षदादीप्तकृशा-
नुकल्पम्” भट्टिः “यस्य यद्रेतसः प्रथममुददीप्यत” ऐत० ब्रा
३ । ३४ “क्रुध्यन्ति परिदीप्यन्ति भूमिजस्याधिष्ठिते” भा०
शा० २०३६ श्लो० आर्षः पदव्यत्ययः । “ते शराः खस-
मुत्थेन प्रदीप्ताश्चित्रभानुना” भा० उ० १८१ अ०


skd

k1=दीप, L=16461
दीप¦, ई ङ य ऋ दीपने । इति कविकल्पद्रुमः ॥
(दिवां-आत्मं-अकं-सेट् ।) दीपनमुज्ज्वली-
भावः । ई, दीप्तः । ङ य, दीप्यते निशि चन्द्रमाः ।
ऋ, अदीदिपत् अदिदीपत् । इति दुर्गादासः ॥


Match 0638: vcp=दु, skd=दु

vcp

k1=दु, L=25249
दु¦ गतौ भ्वा० पर० अक० अनिट् । दवति अदौषीत् केचित्तु
वेडयमित्याहुस्तेन अदावीदित्यपि । दुदाव वेट् कत्वेऽपि
लिटि नित्येट् दुदुविव । दूनः । “पित्तेन दूने रसने
सितापि” नैष० ।


k1=दु, L=25250
दु¦ उपतापे स्वा० प० सक० सेट् । उपतापःपीडनम् । दुनोति-
अदावीत् अदौषीत् लिटि नित्येट् दुदुविव । दुतः । “मृ-
दुतया दुतया” माघः । “दुनोति निर्गन्धतया स्म चेतः”
कुमा० “स भस्मसाच्चकारारीन् दुदाव च कृतान्तवत्” भट्टिः
“मृदु दूयेत यदङ्गमर्पितम्” रघुः कर्मकर्तरि रूपं दू--स्येदे
दैवादिकस्य वा रूपम् ।


skd

k1=दु, L=16600
दु¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
अनिट् ।) दवति । इति दुर्गादासः ॥


k1=दु, L=16601
दु¦, टु ओ न उपतापे । इति कविकल्पद्रुमः ॥
(स्वां-परं-सकं-अकं च-अनिट् ।) टु, दवथुः ।
ओ, दूनः । न, दुनोति । उपताप इहोपतप्ती-
भावः उपतप्तीकरणञ्च । मन्मथेन दुनोमीति
जयदेवः । वर्णप्रकर्षे सति कर्णिकारं दुनोति
निर्गन्धतया स्म चेतः । इति कालिदासः ।
इति दुर्गादासः ॥


Match 0639: vcp=दुःख, skd=दुःख

vcp

k1=दुःख, L=25252
दुःख¦ दुःखकरणे कण्ड्रा० पर० अक० सेट् । दुःख्यति अदुः-
ख्यीत् अदुःखीत् ।


k1=दुःख, L=25253
दुःख¦ तत्क्रियायाम् अद--चु० उभ० अक० सेट् । दुःखयति ते अदुदुःखत् त ।


skd

k1=दुःख, L=16605
दुःख¦, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥
(अदन्त चुरां-परं-सकं-सेट् ।) विसर्गमध्यः ।
“काले तडिल्लताजाले घनपीनपयोधरे ।
कान्तः सर्व्वगुणोपेतो बालेन्दुः खे न लभ्यते ॥”
इति विन्दुच्युतकम् । अस्यार्थः । तडिल्लतासमूह-
वति घनस्थूलमेधे काले कमनीयः सर्व्वगुणोपेतो
बालेन्दुः खे आकाशे न लभ्यते पक्षे हे बाले
सर्व्वगुणोपेतः कान्तः पतिर्दुःखेन लभ्यते । दुःख-
यति दुःखापयति । मूर्द्धन्यषमध्यः । इति केचित् ।
तत्कृतिर्दुःखकरणम् । इति दुर्गादासः ॥


Match 0640: vcp=दुर्व, skd=दुर्व्व *

vcp

k1=दुर्व, L=25505
दुर्व¦ बधे भ्वा० पर० सक० सेट् । दूर्वति अदूर्वीत् । ईदित् । दूर्त्तः


skd

k1=दुर्व्व, L=16722
दुर्व्व¦, ई वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् । ईदित्त्वात् निष्ठायामनिट् ।) पञ्चम-
स्वरी । दूः दुरौ दुरः । ई, दूर्णः । इति दुर्गा-
दासः ॥


Match 0641: vcp=दुल, skd=दुल

vcp

k1=दुल, L=25547
दुल¦ उत्क्षेपे (दोलान) चुरा० उभ० सक० सेट् । दोलयति ते
अदूदुलत् । “नारी पदद्वयं स्थाप्य कान्तस्योरुद्वयोपरि ।
कटिं चेद्दोलयेदाशु बन्धः कन्दर्पशृङ्खलः” रतिमञ्जरी
“आन्दोलत् क दोलने” कविकल्पद्रुमः । अस्य वा चुरा-
रत्वमपि । दुल--कि “दुलिः अम्बादुली नितत्नीरभ्र-
यन्ती” तैत्ति० ४ । ४ । ५ । १ दुलीति उत्क्षिपन्तीत्यर्थः ।


skd

k1=दुल, L=16735
दुल¦, क उत्क्षेपे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, दोलयति धूलिं वायुः ।
इति दुर्गादासः ॥


Match 0642: vcp=दुष, skd=दुष

vcp

k1=दुष, L=25566
दुष¦ वैकृते दिवा० पर० अक० अनिट् । दुष्यति इरित् अदुषत्
अदुक्षत् दुदोष दोष्टा दोक्ष्यति । “श्मशानेष्वपि तेजर्स्व
पावको नैव दुष्यति” मनुः । “मेदं प्रजापते रेतोऽदुषत्”
ऐत० ब्रा० ३ । ३३ “राङ्कवे पट्टसूत्रे च सूचीविद्धं न
दुष्यति” स्मृतिः । वैकृतञ्च यस्य यथास्वरूपं तद्वैपरीत्ये,
यथा हेतोः साध्यानुमापकत्वं तद्वैपरीत्ये दुष्टत्वम्
अशुद्धत्थञ्च । यथा मलादिना वस्त्रादेरशुद्धत्वम् । अशु-
द्धिश्च स्वरूपतः यथा मालिन्यादिना, शास्त्रविध्युल्ल-
ङ्घने दुरदृष्टजनकत्वेन वा । यथा नीलीवस्त्रादिधारणादेः
शास्त्रनिषिद्धत्वात् तद्धारणे दुरदृष्टोत्पत्तेः तस्य दुष्टत्वम् ।
एवमन्यत्राप्युह्यम् “दुषधातोरिवास्माकं दोषसम्पत्तये
गुणः” उद्भटः दोषः । दुष्टः । “अनेकदोषदुष्टोऽपि कायः
कस्य न वल्लभः” पञ्चर० दोषी । णिचि । दूषयति
चित्तविकारे तु दोषयति दूषयति वा चित्तम् । “न च
किञ्चिदेवांशं काव्यस्य दूषयन्तः श्रुतिकट्वादयो दोषाः,
किं तर्हि सर्वमेव काव्यम्” सा० द० । “दोषोविचारसुलभो
यदि दूष्यते तद् व्याख्या मम प्रथममेव न दूषणीया”
काव्यप्र० व्या० महेश्वरः “यः सौहृदे पुरुषं स्थाप-
यित्वा पश्चादेनं दूषयते स बालः” भा० स० ६२ अ०
“यथा क्रतुषु विप्राणां सोमपानं न दूषितम्” कुला-
[Page3649-a+ 38]
र्णवतन्त्रम् । दूषयन् दूषणीयः दूषितः दूषयित्वा संदूष्य ।
उपसर्गपूर्वकः तत्तदुपसर्गद्योत्यार्थयुक्तविकारे


skd

k1=दुष, L=16742
दुष¦, ईर् य औ वैकृते । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-अनिट् ।) वैकृतमशुद्धीभावः ॥
इर्, अदुषत् अदुक्षत् । अस्मात् पुषादित्वान्नित्यं
ङ इत्यन्ये । य, दुष्यति लोकः पापात् । औ,
दोष्टा । इति दुर्गादासः ॥


Match 0643: vcp=दुह, skd=दुह

vcp

k1=दुह, L=25610
दुह¦ बधे भ्वा० पर० सक० सेट् । दोहति इरित् अदोहीत् अदुहत् । दुद्रोह दुहितः ।


k1=दुह, L=25611
दुह¦ दोहने अन्तःस्थितद्रवद्रव्यस्याकर्षणेन बहिर्निस्मारणे
उभ० अदा० द्विक० अनिट् । दोग्धि दुग्धे दुह्यात् अधोक्
अदुग्ध । अधुक्षत् अदुग्ध अधुक्षन्त अधुक्ष्मह्नि अदुह्महि
दुदोह । दुदोहिथ दुदुहिव दुदुहे । दुह्यात् धोक्ष्यति ते ।
दोग्धव्यं दुह्यं दोह्यम् । दोग्धा द्रोहनं दुग्धम् । दोग्धुम्
दुग्ध्वा संदुह्य । “यं सर्वशैलाः परिकल्प्य वत्सं मेरो
स्थिते दोग्धरिंदोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम्” कुमा० “यः पयो दोग्धि पा-
षाणम्” “पयोवटीध्रीरपि गा दुहन्ति” भट्टिः एक-
कर्माविवक्षायाम् अस्यैककर्मकत्वमपि “दुदोह यज्ञसिद्ध्यर्थ
मृग्मसुःसामलक्षणम्” मनुः “दुग्ध्वा पयः पत्रपुटे मदीयम्”
रघुः । निःसारणमात्रे च “दुग्धेऽस्मै सर्वं कामं यो
वाचो दोहः” छा० उ० “न कर्मफलमाप्नोति योऽधर्मं
दोग्धुमिच्छति” भा० व० ११६५ श्लो० “यत्र धर्मदुघा
भूमिः सर्बकासदुघा सती । दोग्धि स्माभीप्सितानर्थान्
यजमानस्य सर्वदा” माग० ४ । १९ । ७ दुधुक्षति । अस्य
गौणकर्मणि ककारादि “प्रधानकर्मण्याख्येवे त्वादी-
[Page3653-b+ 38]
नाहुर्द्विकर्मणाम् । अपधाने दुहादीनां ण्यन्ते कर्तुश्च
कर्मणः” इत्युक्तेः । “तेषु तेषु तु पात्रेषु दुह्यमाना
वसुन्धरा” हरिवं० ८१ श्लो० अस्य कर्मकर्त्तरि गौणक-
र्मणः कर्तृत्वविवक्षायाम् केवलं तङ् न यक् । गौःपयो
दुग्धे । वा चिण् । अदोहि अधुक्षत अदुग्ध सि० कौ०


skd

k1=दुह, L=16764
दुह¦, इर् अर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् ।) इर्, अदुहत् अदोहीत । अर्द्दन-
मिह वधः । इति दुर्गादासः ॥


k1=दुह, L=16765
दुह¦, ल ञ औ दुहि । इति कविकल्पद्रुमः ॥ (अदां-
उभं-सकं-अनिट् ।) धुक् दोहनम् । तच्च
व्यक्तीकरणमिति धातुपारायणिकाः । ञ ल,
दोग्धि दुग्धे गां दुग्धं गोपः । स्वयं प्रदुग्धास्य
गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीति
किराते वसूनीति कर्म्मणो विद्यमानतया कर्म्म-
कर्त्तृत्वाभावात् स्खलितमित्येके । दुहादेरप्रधान-
कर्म्मविषये कर्म्मकर्त्तृत्वे प्रधानकर्म्मप्रयोगो दुर्नि
वारः । इति कुलचन्द्रः ॥ स्वमते तु अतएवा-
नयोर्ढेऽपि ढवत्त्वमिति वचनात् पचदुहोः कर्म्मणि
विद्यमानेऽपि कर्म्मकर्त्तृत्वम् । इति दुर्गादासः ॥


Match 0644: vcp=दू, skd=दू

vcp

k1=दू, L=25618
दू¦ खेदे दिवा० आत्म० अक० सेट् । दूयते अदविष्ट । दुदुवे । ओ-
दित् दूनः कविकल्पद्रुमः पा० दुनोतेरेव नत्वदीर्घौ
इति भेदः । “तया हीनं विधातर्मां कथं पश्यन् न दूयसे”
रघुः । “न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति” माघः ।
उपत्तप्तीकरणे सक० “दूयते दीनं खलजनः” दुर्गादासः ।


skd

k1=दू, L=16769
दू¦, ओ ङ य खेदे । इति कविकल्पद्रुमः ॥ (दिवां-
आत्मं-अकं-सकं च-सेट् ।) खेद इह उप-
तप्तीकरणमुपतप्तीभावश्च । ओ, दूनः । ङ य,
दूयते दैन्यं जनम् । इति चतुर्भुजः । मां कथं
पश्यन्न दूयसे इति रघुः । इति दुर्गादासः ॥


Match 0645: vcp=दृ, skd=दृ

vcp

k1=दृ, L=25666
दृ¦ आदरे तु० आ० सक० अनिट् । द्रियते अदृत । अयमाङ्
पूर्व एव प्रयुज्यते । “निपीय यस्य क्षितिरक्षिणः
कथां तथाऽऽद्रियन्ते न बुधाः सुधामपि” नैष०
आदृतः आदरः । “दरादराभ्यां दरकम्पिनी पपे” नैष०
“न जातहार्द्देन न विद्विषादरः” किरा० “आदृत्यस्तेन
वृत्येन” भट्टिः ।


k1=दृ, L=25667
दृ¦ बधे स्वादि० पर० सक० अनिट् । दृणोति अदार्षीत् ददार
स्वादिगणे छन्दसीत्यधिकारे “विक्षि जिरि दाश दृ--हिं-
सायाम्” पा० उक्तेः छान्दसोऽयम् । “क्षिणोतिर्भाषा-
यामपीत्येके” सि० कौ० उक्तेः अन्यस्यापि क्वचिद्भाषायां
प्रयोग इति गम्यते मत्स्यघातिनि धीवरे दाशशब्दप्र-
योगात् ।


skd

k1=दृ, L=16808
दृ¦, ङ श आदरे । इति कविकल्पद्रुमः । (तुदां-
आत्मं-सकं-अनिट् ।) आदरः प्रीत्या सम्भ्रमः ।
ङ श, द्रियते गुरुं लोकः । मानुबन्धोऽयमि-
त्येके । इति दुर्गादासः ॥


Match 0646: vcp=दृन्फ, skd=दृन्फ

vcp

k1=दृन्फ, L=25750
दृन्फ¦ क्लेशे तु० प० अक० सेट् । दृफति दृम्फति अदृम्फीत् ।
क्लेशने सक० । दृन्फूः सर्पजातिः


skd

k1=दृन्फ, L=16863
दृन्फ¦, प श उत्क्लेशे । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) दन्त्यवर्गतृतीयादिः ।
सप्तमस्वरी । प श, दृम्फति । श, दृफति चौरं
राजा क्लिश्नातीत्यर्थः । ददृम्फ ददर्फ । इति
दुर्गादासः ॥


Match 0647: vcp=दृप, skd=दृप

vcp

k1=दृप, L=25753
दृप¦ बाधने तु० पर० सक० सेट् । दृपति अदर्पीत् । ददर्प । कन्दर्पः


k1=दृप, L=25754
दृप¦ सन्दीपने वा चुरा० उम० पक्षे भ्वा० पर० सक० सेट् । दर्प-
यति ते दर्पति । अदीदृपत्--त अददर्पत्--त अदर्पीत् ।


k1=दृप, L=25755
दृप¦ हर्षे गर्वे च अक० दिवा० वेट् दृप्यति “दृप्यद्दानयदूयमा-
नदिविषद्दुर्वारदुःखोपमाम्” गीतगो० इरित् अदृपत्
अद्राप्सीत् अदर्पीत् केचिदिमं ऊदितं मन्यन्ते दर्पि-
ष्यति द्रप्स्यति अस्य रधादित्वात् वेट्कत्वम् । तेन
रूपे न वैलक्षण्यम् दर्पः दृप्तः । ञीत् दृप्तः । शब्द-
स्तोमे ऊदित्त्वोक्तिः मतभेदेन ।


skd

k1=दृप, L=16866
दृप¦, कि सन्दीपने । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे-भ्वां-परं-सकं-सेट् ।) कि, दर्पयति दर्पति ।
इति दुर्गादासः ॥


k1=दृप, L=16867
दृप¦, ञ य ऊ इर् हर्षे । गर्व्वे । इति कविकल्प-
द्रुमः ॥ (दिवां-उभं-अकं-वेट् ।) ञ, दृप्तो-
ऽस्ति । य, दृप्यति । ऊ, दर्पिष्यति दर्प्स्यति ।
इर्, अदृपत् अद्राप्सीत् अद्रार्प्सीत् अदर्पीत् ।
इति दुर्गादासः ॥


k1=दृप, L=16868
दृप¦, श वाधने । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) श, दृपति दर्पिता । वाधनं
विहतिः । इति दुर्गादासः ॥


Match 0648: vcp=दृफ, skd=दृफ

vcp

k1=दृफ, L=25758
दृफ¦ क्लेशे तुदा० मुचादि० अक० पर० सेट् । दृम्फति अद-
र्भीत् क्लेशने सक० । राजा चौरं दृम्फति क्लिश्नातीत्यर्थः ।


skd

k1=दृफ, L=16871
दृफ¦, प श उत्क्लेशे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं--सेट् ।) प श, दृम्फति । श, दृफति
चौरं राजा क्लिश्नातीत्यर्थः । ददर्फ । इति
दुर्गादासः ॥


Match 0649: vcp=दृभ, skd=दृभ

vcp

k1=दृभ, L=25760
दृभ¦ ग्रथने वा चुरा० उभ० पक्षे तु० पर० सक० सेट् । दर्भयति
ते दृमति अदीदृभत्--तं अददर्भत् त अदर्भीत् । ईदित् ।
दृब्धः दृब्धवान् । दर्भः


k1=दृभ, L=25761
दृभ¦ भये वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् । दर्भयति--ते
दर्भति । अदीदृभत् त अददर्भत् त । अदर्भींत् ईदित्
दृब्धः दृब्धवान् ।


skd

k1=दृभ, L=16873
दृभ¦, ई कि भये । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-अकं-सेट् ।) कि, दर्भयति दर्भति । ई,
दृब्धः । रमानाथस्तु दृ भी इति घातुद्वयं मत्वा
दारयति दरति भाययति भयति इत्याह ।
इति दुर्गादासः ।


k1=दृभ, L=16874
दृभ¦, श ई कि गुम्फने । इति कविकल्पद्रुमः ॥
(तुदां-चुरां पक्षे भ्वां-सकं-सेट् ।) श, दृभति ।
ई, दृब्धः । कि, दर्भयति दर्भति । गुम्फनं ग्रन्थ-
नम् । इति दुर्गादासः ॥


Match 0650: vcp=दृश, skd=दृश

vcp

k1=दृश, L=25765
दृश¦ वाक्षुषज्ञाने भ्वा० पर० सक० अनिट् । पश्यति इरित्
अदर्शत् अद्राक्षीत् । ददर्श ददर्शिथ दद्रष्ठ ददृशिव
द्रष्टा दृश्यात् द्रक्ष्यति । दर्शनीयं द्रष्टव्यं दृश्यः द्रष्टा
दृष्टः द्रष्टुं दृष्टिः दृक् दृष्ट्वा प्रदृश्य । “तुतोष पश्यन्
वितृणान्तरालाः” भट्टिः पश्यतो हरः । “न तु मां
शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते
चक्षुः पश्य से योगमैश्वरम्” । “अपश्यद् देवदेवस्य
शरीरे पाण्डवस्तदा” गीता “ददर्श दूनः स्थलपद्मिनीं
नलः” नैष० मानसज्ञाने च “शान्तोदान्त उपरतस्तितिक्षुः
श्रद्धावान् समाहितीभूत्वा आत्मन्यात्मानं पश्यति”
श्रुतिः “आत्मा वा अरे द्रष्टव्यः” वृ० उ० श्रुतिः णमुल्
“तं विप्रदर्शं कृतघातयत्ना” भट्टिः “दृशेरनालोचने
कङ् च” पा० कर्त्तरि कङ् अन्यादृशः कीदृशः चात्
क्विन् क्स च अन्यादृक् अन्यादृक्षः । श पश्यः “अपास्य
पश्यं निजदृश्यखेटात्” नील० ता० “उग्रम्पश्या-
कुलेऽरण्ये” भट्टिः दर्शयति ते अददर्शत् अदीदृशत् त ।
णिचि कर्मणः कर्तृत्वे तङ् दर्शयते भवो भक्तान्
भक्तैर्वा आत्मानमिति शेषः । एवं विषये दृशेः कर्तुर्वा
कर्मसंज्ञा “सीतां रामेण चात्मानमदर्शयत लक्ष्मणम्”
मुग्धबो० सनि तङ् दिदृक्षते । “दिदृक्षमाणः परितः
ससीतं रामं यदा नैक्षत लक्षणञ्च” । भट्टिः दिदृक्षा कर्मणि
दृश्यते “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्”
श्रुतिः “जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः”
मनुः “अदर्शि सङ्कोप्य कदाप्यवीक्षितः” “रूपमदर्शि
धृतोऽसि यदर्थम्” नैष० अस्यार्षे क्वचित्तङपि । “यं यं
हि ददृशे सेयं तं तं मेने नलं नृपम्” भा० व० २२०२ श्लो० ।
दर्शनयोग्ये प्रकाशे च अक० “मधुरात्मानमदर्शयत् पुरः”
कुमा० । दर्शनार्थत्वे तङ् स्यादिति बोध्यम् ।
अनु + अनुरूपदर्शने “रथे विलग्नाविव चन्द्रसूर्यौ घनान्तरेणा-
नुददर्श लोकः” भा० वि० १६९ श्लो० दृशिशब्दे पात० सूत्रे
[Page3670-b+ 38]
उदा० दृश्यम् । “बहुविधमनुदृश्य चार्थहेतोः कृ-
पणमिहार्यमनार्यमाश्रयन्तम्” भा० शा० १७९ अ०
अभि + आभिमुख्येन समन्ताद्वा दर्शने “तदा प्रभृति कौ-
न्तेय! नरा गिरिमिमं सदा । नाशक्नुवन्नभिद्रष्टुं कुत
एवाघिरोहितुम्” भा० व० ९९८२ श्लो०
अव + नीचतया दर्शने “यथा जलस्थ आभासः स्थल-
स्थेनावदृश्यते । स्वाभासेन यथा सूर्यो जलस्थेन दिवि-
स्थितः” भाग० ३ । २७ । १२
आ + आभिमुख्येन समन्ताद्वा दर्शने आदर्शः । “उत्कलादा-
र्शितपथः कलिङ्गाभिमुखो ययौ” रघुः ।
उद् + नीचस्थस्योच्चतया दृष्टौ उत्प्रेक्षणे च
उप + सामीप्येन दर्शने । “चतुष्पाद् व्यवहारोऽयं विवा-
देषूपदर्शितः” याज्ञ० ।
नि + दृष्टान्ततया साम्मुख्येन वा दर्शने । “द्रष्टुमिच्छामि ते
रूपमैश्वरं त्वं निदर्शय” भा० आश्र० १५८८ श्लो०
निदर्शनालङ्कारः “निदर्शयामास विशेषदृश्यम्” रघुः
परा + विपरीतदर्शने यस्य यथारूपं ततोऽन्यरूपेण दर्शने
“धूममग्निं परादृश्या मित्राहृत्स्वा दधतां भयम्” अथ०
८ । ८ । २ । “त्रीन् स्तनानुपेयुस्तं पराददृशुः । द्वौ स्तना
उपेयुस्तन्नेदीयसः पराददृशुः” शत० ब्रा० ९ । ५ । १ । ३ । ४ ।
परि + परितः समन्ताद्वा दर्शने “परिदृष्टानि तीर्थानि गङ्गा-
चैव मया नृप!” भा० आश्र०७३ अ० परिच्छिन्नतया
दर्शने च । “बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः
परिदृष्टो दीर्घसूक्ष्मः” पा० सू० । दीर्घसूक्ष्मशब्दे ३६१
४ पृ० दृश्यम् ।
प्र + सम्यग्दर्शने “मनसैव प्रदीपेन महानात्मा प्रदृश्यते”
भा० आश्व० १९ अ० “अहो त्वयाद्य विप्रेषु भक्तिरागः
प्रदर्शितः” भा० अनु० ७२११ श्लो० एकदेशदर्शने च ।
प्रदर्शनार्थमिदमुक्तम् । “योगेश्वरत्वं कृष्णेन यत्र राज्ञां
प्रदर्शितम्” भा० आ० ५१० श्लो० ।
प्रति + तुल्यरूपदर्शने “कृताभ्यङ्गः शोणितेन रुद्रवत् प्रत्य-
दृश्यत” भा० भी० ४६७९ श्लो० “निमित्तलक्षणं ज्ञानं
शाकुनं स्वप्नदर्शनम् । अवश्यं सुखदुःखेषु नराणां
प्रतिदृश्यते” रामा० अयो० ५८१५ श्लो०
वि + विशेषेण दर्शने “विदर्शयन्तोविविधान् भूयश्चित्रांश्च नि-
र्झरान्” रामा० अयो० ४८ अ० १३ श्लो०
सम् + सम्यग्दर्शने “संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विना-
शनम्” भा० शा० १०६८ श्लो०


skd

k1=दृश, L=16878
दृश¦, इर् औ प्रेक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-अनिट् ।) इर्, अदर्शत् अद्राक्षीत् ।
औ, द्रष्टा । प्रेक्षश्चाक्षुषज्ञानम् । पश्यति चन्द्रं
लोकः । ततः स ददृशे च तौ इति व्यतीहारे
आत्मनेपदम् । कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे
भागरथि ! स्वं वपुरिति गणकृतानित्यत्वात् ।
इति दुर्गादासः ॥


Match 0651: vcp=दृह, skd=दृह

vcp

k1=दृह, L=25803
दृह¦ वृद्धौ भ्वा० पर० अक० सेट् । दर्हति अदर्हीत् ददर्ह । अय-
मिदिच्च तत्र दृंहति अदृंहीत् । “तमेतैः स्तोमैः सप्त-
दशैरदृं हन्” ताण्ड० वा० ४ । ५ । ९ इदित्त्वात् नलोपाभावः
दृंह्यते दृंहितः “दिशे दृंह दृंहिता दृंहणेन” तैत्ति०
२ । ८३ । ८ “दृंहणाय खनामसि” अथ० ६ । १३६ । १ अनि-
दितस्तु दृह्यते दृहितः इत्यादि ।


skd

k1=दृह, L=16900
दृह¦, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) सप्तमस्वरी दर्हति । इति दुर्गादासः ॥


k1=दृह, L=16901
दृह¦, इ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) सप्तमस्वरी । इ, दृंह्यते । इति
दुर्गादासः ॥


Match 0652: vcp=दॄ, skd=दॄ

vcp

k1=दॄ, L=25804
दॄ¦ भये भ्वा० पर० सक० सेट् । दरति अदारीत् घटा० णिच्
दरयति । ददार दरीता दरिता । दीर्णः ।


k1=दॄ, L=25805
दॄ¦ विदारे दिवा० पर० सक० सेट् । दीर्यति अदारीत् । ददार
दरीता दरिता दीर्णः ।


k1=दॄ, L=25806
दॄ¦ विदारे क्य्रा० प्वा० पर० अक० सेट् । दृणाति अदारीत् दरीता दरिता । दीर्णः । भगन्दरः


skd

k1=दॄ, L=16903
दॄ¦, गि भियि । इति कविकल्पद्रुमः ॥ (क्र्यां-परं-
अकं-सेट् ।) गि, दृणाति दीर्णः दीर्णिः । भियि
भये । इति दुर्गादासः ॥


k1=दॄ, L=16904
दॄ¦, म भियि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) म, दरयति । भियि भये । इति दुर्गा-
दासः ॥


k1=दॄ, L=16905
दॄ¦, य गि विदारे । इति कविकल्पद्रुमः ॥ (दिवां-
क्र्यां च-परं-सकं-सेट् ।) य, दीर्य्यति । गि,
दृणाति दीर्णः दीर्णिः । इति दुर्गादासः ॥


Match 0653: vcp=दे, skd=दे

vcp

k1=दे, L=25807
दे¦ पालने भ्वा० आत्म० सक० अनिट् । दयते अदास्त ददे
दाता दास्यते दातुम् दत्तः ।


skd

k1=दे, L=16906
दे¦, ङ पालने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-अनिट् ।) ङ, दीनान् यो दयते नित्यम् ।
इति हलायुधः । इति दुर्गादासः ॥


Match 0654: vcp=देव, skd=देव

vcp

k1=देव, L=25809
देव¦ देवने भ्वा० आत्म० अक० सेट् । देवते अदेविष्ट । अ-
देविढ्वम् अदेवि(द्ध्व) ध्वम् दिदेवे ऋदित् । देवयति ते अदि
देवत् त । देवनमिह रोदनमिति भट्टमल्लः ।
परि + विलापे । “विलापः परिदेवनम्” अमरः । “खर-
दूषणयोर्भ्रात्रोः पर्य्यदेविष्ट सा पुरः” भट्टिः ।


skd

k1=देव, L=16909
देव¦, ऋ ङ देवने । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) देवनमिह क्रीडा । ऋ,
अदिदेवत् । ङ, देवते बालः कन्दुकैर्नित्यमिति
हलायुधः । देवनमिह रोदनमिति भट्टमल्लः ।
इति दुर्गादासः ॥


Match 0655: vcp=दै, skd=दै

vcp

k1=दै, L=26151
दै¦ शोधने भ्वा० पर० सक० शुद्धौ अक० अनिट् पित् तेन न
घुसंज्ञा । दायति अदासीत् ददौ दायात् दायते दातः ।
दातिः ।
अव + श्वेतीभावे अक० आवदाय्ति शुक्लीभवति “अवदातः सितौ गौरः” अमरः ।


skd

k1=दै, L=17076
दै¦, प शोधने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अनिट् ।) पित्त्वाद्दासंज्ञाभावे यगादौ
दायते इत्यादि । शोधनमिह शुद्धीकरणम् ।
दायति ताम्रमम्लेन लोकः । अवपूर्ब्बः शुक्ली
भावे (अत्र अकर्म्मकः ।) श्विन्दते श्वेतते त्रीणि
स्युः शुक्लत्वेऽवदायति । इति भट्टमलः । इति
दुर्गादासः ।


Match 0656: vcp=दो, skd=दो

vcp

k1=दो, L=26230
दो¦ छेदे दिवा० पर० सक० अनिट् । द्यति अदात् दितः दितिः ।


skd

k1=दो, L=17122
दो¦, य छेदे । इति कविकल्पद्रुमः ॥ (दिवां-परं-
सकं-सेट् ।) य, शिरोऽवद्यति विद्बिषां यः ।
इति दुर्गादासः ॥


Match 0657: vcp=द्यु, skd=द्यु

vcp

k1=द्यु, L=26326
द्यु¦ अभिसर्पणे अदा० पर० सक० अनिट् । द्यौति अद्यौषीत् ।
दुद्याव । “गुहाया निरगात् बाली सिंहो मृगमिव
द्युवन्” भट्टिः ।


skd

k1=द्यु, L=17197
द्यु¦, ल अभिसर्पणे । इति कविकल्पद्रुमः ॥ (अदां-
परं-सकं-अनिट् ।) अभिसर्पणं आभिमुख्येन
गमनम् । ल, द्यौति सिंहो मृगानिव । इति
दुर्गादासः ॥


Match 0658: vcp=द्युत, skd=द्युत् *

vcp

k1=द्युत, L=26334
द्युत¦ दीप्तौ भ्वा० अक० आत्म० सेट् । द्योतते ॡदित्त्वात् अङि
प० अद्युतत् अद्योतिष्ट । दिद्युते । द्योतनः “अद्युतच्चन्द-
माभृशम्” भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्ते
द्योतने । “व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी”
माघः । “विदुद्युते बाडवजातवेदमाम्” माघः २ शोभायाञ्च
“पद्मैरनन्वीतबधूमुखद्युतः” माघः णिचि द्योतयति
प्रकाशने व्यञ्जनावृत्त्या बोधने च द्योत्यार्थः व्यङ्ग्यर्थे


skd

k1=द्युत्, L=17202
द्युत्¦, ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) ऌ, अद्युतत् । ङ, द्योतते
दिद्युते । इति दुर्गादासः ॥


Match 0659: vcp=द्यै, skd=द्यै

vcp

k1=द्यै, L=26367
द्यै¦ न्यक्करणे भ्वा० सक० अनिट् । द्यायति अद्यासीत् दद्यौ


skd

k1=द्यै, L=17226
द्यै¦, न्यक्वरणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अनिट् ।) अन्त्यस्थाद्ययुक्तः । द्यायति दुष्टं
लोकः । इति दुर्गादासः ॥


Match 0660: vcp=द्रम, skd=द्रम

vcp

k1=द्रम, L=26385
द्रम¦ गतौ भ्वा० पर० सक० सेट् । द्रमति अद्रमीत् द्रद्राम “वान
रा दद्रमुश्चाथ संग्रामं च शशंसिरे” भट्टिः यङि
दंद्रम्यते “दंद्रम्यमाणः परियन्ति मूढाः” कठोप० । दंद्रमणः


skd

k1=द्रम, L=17241
द्रम¦, गतौ । इति कविकल्पद्रुमः । (भ्वां-परं-सकं-
सेट् ।) दन्त्यवर्गतृतीयादिः । द्रमति । इति
दुर्गादासः ॥


Match 0661: vcp=द्रा, skd=द्रा

vcp

k1=द्रा, L=26424
द्रा¦ स्वप्ने पलायने अदा० अक० अनिट् । द्राति अद्रासीत् ।
दद्रौ पलायनं बहुलायासेन गतिः तत्र सक० । “मतयो-
दस्म दद्रुः” ऋ० १ । ६२ । ११ । द्रापयति “एष वै तं द्रापयति
यं दिद्रापयिषति” शत० ब्रा० ९ । १ । १ । २४ । अप + अप-
सरणे “अप द्राह्यवीरहः” अथ० ६ । १४ । ३ “माप द्रा-
न्त्वरातयः” ६ । १२९ । १
नि + मेध्यानाडीसंयोगरूपनिद्रायाम् अक० । “तदा निद-
द्रावुपपल्वलं खगः” नैष० ।
प्र + प्रकर्षेण पलायने प्रद्राणः


skd

k1=द्रा, L=17256
द्रा¦, ल स्वप्ने । पलायने । इति कविकल्पद्रुमः ॥
(अदां-परं-अकं-अनिट् ।) स्वप्नो निद्रा । निपूर्ब्ब
एव निद्रायामिति रमानाथः । ल, निद्राति
निद्रालुः । द्राति चौरः पलायते इत्यर्थः । इति
दुर्गादासः ॥


Match 0662: vcp=द्राक्ष, skd=द्राक्ष

vcp

k1=द्राक्ष, L=26426
द्राक्ष¦ काङ्क्षायां भ्वा० पर० सक० सेट् इदित् । द्राङ्क्षति अद्रा-
ङ्क्षीत् । दद्राङ्क्ष दद्राङ्क्षतुः ।


skd

k1=द्राक्ष, L=17258
द्राक्ष¦, इ काङ्क्षे । घोररुते । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-अकंच-सेट् ।) रेफयुक्तः । घोर-
रुतमिह तिरश्चामेव घोरशब्दः । इ, द्राङ्क्षति
काकः । नमध्यपाठेनैवेष्टसिद्धे एतस्य इदनुबन्धो
वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥


Match 0663: vcp=द्राख, skd=द्राख

vcp

k1=द्राख, L=26429
द्राख¦ शोषणे सक० अलमर्थे अक० भ्वा० पर० सेट् । द्राखति
अद्राखीत् । ऋदित् णिचि चङि अदद्राखत् त । दद्राख
अयं बधेऽपि ।


skd

k1=द्राख, L=17260
द्राख¦, ऋ ओखार्थे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) दन्त्यवर्गतृतीयादिः । रेफ-
युक्तः । ऋ, अदद्राखत् । ओखार्थे शोषाल-
मर्थयोः । इति दुर्गादासः ॥


Match 0664: vcp=द्राघ, skd=द्राघ

vcp

k1=द्राघ, L=26430
द्राघ¦ आयासे शक्ता भ्रमे च भ्वा० पर० अक० सेट् । द्राघति
अद्राघीत् । ऋदित् णिचि चङि अदद्राघत् त । दद्राघ
केचित् अस्य इदित्त्वमपीच्छन्ति द्राङ्घति अद्राङ्घीत् ।


skd

k1=द्राघ, L=17261
द्राघ¦, ऋ ङ श्रमायामशक्तिषु । इति कविकल्प-
द्रुमः ॥ (भ्वां-परं-अकं-दीर्घीकरणे सकं-सेट् ।)
श्रमः खेदः । आयामो दीर्घीकरणम् । शक्तिः
सामर्थ्यम् । ऋ, अदद्राघत् । ङ, द्राघते जनः
खेद्यते इत्यर्थः । द्राघते वस्त्रं जनो दीर्घं करोति
इत्यर्थः । द्राघते घावितुं वाजी समर्थः स्यादि-
त्यर्थः । इति दुर्गादासः ॥


Match 0665: vcp=द्राड, skd=द्राड

vcp

k1=द्राड, L=26435
द्राड¦ विभेदे भ्वा० आ० सक० सेट् । द्राडते अद्नाडिष्ट । दद्राडे


skd

k1=द्राड, L=17264
द्राड¦, ऋ ङ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) रेफयुक्तः । ऋ, अदद्राडत ।
ङ, द्राडते । शीर्णौ विभेदे । इति दुर्गादासः ॥


Match 0666: vcp=द्राह, skd=द्राह

vcp

k1=द्राह, L=26450
द्राह¦ जागरे भ्वा० आत्म० अक० सेट् । द्राहते अद्राहिष्ट
दद्राहे ऋदित् णिच् चङि अदद्राहत् त ।


skd

k1=द्राह, L=17281
द्राह¦, ऋ ङ जागरे । निक्षेपे । इति कविकल्प-
द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) ऋ, अद-
द्राहत् । ङ, द्राहते । इति दुर्गादासः ॥


Match 0667: vcp=द्रु, skd=द्रु

vcp

k1=द्रु, L=26452
द्रु¦ गतौ भ्वा० पर० सक० अनिट् । द्रवति स्वार्थे चङ् अदु-
द्रवत् । णिचि चङि तु अदि(दु)द्रवत् त । दुद्रवे ।
गतिश्चेह संयोगानुकूलव्यापारः द्रवद्रव्याणां दूरप्रसरण-
रूपं स्यन्दनं च “द्रवत्वात् स्यन्दनम्” कणा० सूत्रम्
“स्यन्दनं द्रव्यत्वादसमवायिकारणादुत्पद्यते । तथा हि
पतितानामपां विन्दूर्ना परस्परं संयोगेन महत्
जलस्रोतोयज्जायते तस्य यत् स्यन्दनं दूरप्रसरणं तत्
द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणाद-
प्सु समवायिकारणेषु” उप० वृत्तिः णिचः सनि दि(दु)-
द्रावयिषति । तत्र गतौ “समुद्रमेवाभिमुखा द्रवन्ति”
गीता “ततः किरीटी सहसा पाञ्चालान् समरेऽद्रवत्”
भा० आ० ५४ ७८ श्लो० “तं दुद्रावाद्रिणा कपिः” भट्टिः


k1=द्रु, L=26453
द्रु¦ अनुतापे स्वा० पर० सक० अनिट् । द्रुणोति अद्रौषीत् ।
बध च “स भस्मसात् चकारारीन् दुद्राव च कृतान्तवत्”
भट्टिः ।


skd

k1=द्रु, L=17282
द्रु¦, स्रुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अनिट् ।) द्रवति । इति दुर्गादासः ॥


k1=द्रु, L=17283
द्रु¦, र न उपतापे । इति कविकल्पद्रुमः ॥ (स्वां-
परं-अकं सकं च-अनिट् ।) र, वैदिकः । न,
द्रुणोति । उपताप इह उपतप्तीभावः उपतप्ती-
करणञ्च । इति दुर्गादासः ॥


Match 0668: vcp=द्रुड, skd=द्रुड

vcp

k1=द्रुड, L=26457
द्रुड¦ मज्जने तु० कु० पर० सक० सेट् । द्रुडति अद्रोडीत् । दुद्रोड । द्रुडः ।


skd

k1=द्रुड, L=17287
द्रुड¦, मज्जने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) रेफयुक्तः । मज्जनमिति मस्जधातो
रूपम् । द्रोडति प्रस्तरो जले । दुद्रोडिषति ।
इति दुर्गादासः ॥


k1=द्रुड, L=17288
द्रुड¦, शि मज्जने । इति कविकल्पद्रुमः ॥ (तुदां-
परं-अकं-सेट् ।) शि, द्रुडति अद्रुडीत् दुद्रोड ।
एषः कैश्विन्न मन्यते । क्रमदीश्वरस्तु कुटादिमेव
मन्यते । इति दुर्गादासः ॥


Match 0669: vcp=द्रुण, skd=द्रुण

vcp

k1=द्रुण, L=26458
द्रुण¦ कुटिलीभवने तु० पर० अक० सेट् कुटादि । द्रुणति
अद्रुणीत् । दुद्रोण । गतौ कुटिलीचरणे हिंसा-
याञ्च सक० पा० ।


skd

k1=द्रुण, L=17289
द्रुण¦, श जैह्म्ये । गतौ । वधे । इति कविकल्पद्रुमः ॥
(तुदां-परं-सकं-सेट् ।) दन्त्यवर्गतृतीयादिः ।
श, द्रुणति दुद्रोणिषति । जैह्म्यं कुटिलीकर-
णम् । इति दुर्गादासः ॥


Match 0670: vcp=द्रुह, skd=द्रुह

vcp

k1=द्रुह, L=26492
द्रुह¦ अनिष्टचिन्तने दिवा० पर० सक० वेट् । द्रुह्यति अद्रोहीत्-
[Page3788-a+ 38]
अध्रुक्षत् । द्रोहिता द्रोग्धा द्रोढा द्रोहिष्यति ध्रोक्ष्यति ।
ध्रुक् ध्रुट् । “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः”
पा० कोपविषयस्य सम्प्रदानता । शत्रवे द्रुह्यति । उपसृ-
ष्टस्य तस्य सम्प्रदानस्य कर्मता भृत्यमभिद्रुह्यति । “न
यजमानाय द्रुह्यति” शत० ब्रा० २ । ३ । ४ । ३८ । “मा द्रुमेभ्यो
महाभाग! दीनोभ्यो द्रोग्धुमर्हसि!” भाग० ६ । ४ । ७ “नाभि
द्रुह्यति भृत्येभ्यः” भाग० ४ । २० । ३ आर्षत्वात् न कर्मता ।
“मातरञ्चाभिद्रुह्यन्ति मनसा कर्मणा च ये” भा० शा०
“भवांस्तानभिद्रुह्येत” कामन्दकी० अत्र तङ् असाधुः ।


skd

k1=द्रुह, L=17316
द्रुह¦, ऌ य ऊ जिघांसे । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-वेट् ।) जिघांस इहानिष्टा-
चरणमिति विद्यानिवासः । ऌ, अद्रुहत् । य,
द्रुह्यति खलः साधवे । ऊ, द्रोहिष्यति ध्रोक्ष्यति ।
इति दुर्गादासः ॥


Match 0671: vcp=द्रू, skd=द्रू

vcp

k1=द्रू, L=26499
द्रू¦ गतौ बधे च स्वा० क्य्रा० च उ० सक० सेट् । द्रूणोति द्रूणुते
द्रूणाति द्रूणीते अद्रावीत् अद्रविष्ट । दुद्राव । दुद्रविथ ।
द्रविता द्रविष्यति ।


skd

k1=द्रू, L=17321
द्रू¦, न ग ञ वधे गतौ । इति कविकल्पद्रुमः ॥
(स्वां-क्र्यां च-उभं-सकं-सेट् ।) न ञ, द्रूणोति
द्रूणुते । ग ञ, द्रूणाति द्रूणीते । इति दुर्गादासः ॥


Match 0672: vcp=द्रेक, skd=द्रेक

vcp

k1=द्रेक, L=26503
द्रेक¦ स्वने उत्साहे च भ्वा० आत्म० अक० सेट् । द्रेकते अद्रे-
किष्ट । ऋदित् णिचि चङि अदिद्रेकत् त ।


skd

k1=द्रेक, L=17325
द्रेक¦, ऋ ङ स्वनोत्साहे । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-अकं-सेट् ।) तवर्गतृतीयादिः । रेफ-
युक्तः । द्वावर्थौ । उत्साहो वृद्धिरिति चन्द्रः ।
औन्नत्यमिति क्षीरस्वामी । ऋ, अदिद्रेकत् ।
ङ, द्रेकते लोकः शब्दायते उत्सहते वेत्यर्थः ।
स्वनेनोत्साहः स्वनोत्साहः । इति केचित् ।
तन्मते शब्देनोत्सहते इत्यर्थः । इति दुर्गादासः ॥


Match 0673: vcp=द्विष, skd=द्विष

vcp

k1=द्विष, L=26786
द्विष¦ वैरे अदा० उभ० सक० अनिट् । द्वेष्टि द्विष्टे--अद्विषन्-
अद्विषुः । अद्विक्षत् त दिद्वेष दिद्विषे । “यः सर्वत्रानाभि-
स्नेहस्तत्तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि” “न
द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते” गीता “ततोऽद्विषु
र्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः” भट्टिः “संवत्सरं
प्रतीक्षेत द्विषन्तीं योषितं पतिम्” मनुः आर्षत्वात् नुम् ।


skd

k1=द्विष, L=17498
द्विष¦, ल ञ औ वैरे । इति कविकल्पद्रुमः ॥ (अदां-
उभं-सकं-अनिट् ।) ल ञ, द्वेष्टि द्विष्टे । औ,
अद्विक्षत् । द्विषन्ति मन्दाश्चरितं महात्मनाम् ।
इति कुमारः । इति दुर्गादासः ॥


Match 0674: vcp=धक्क, skd=धक्क

vcp

k1=धक्क, L=26886
धक्क¦ नाशने चुरा० उभ० सक० सेट् । धक्कयति--ते अदधक्कत्--त ।


skd

k1=धक्क, L=17557
धक्क¦, क नाशने । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) कोपधः । नाशनं नष्टीकर-
णम् । क, घक्कयति पापं गङ्गा । इति दुर्गादासः ॥


Match 0675: vcp=धण, skd=धण

vcp

k1=धण, L=26893
धण¦ शब्दे भ्वा० प० अक० सेट् । धणति अधाणीत् अधणीत् । दधाण ।


skd

k1=धण, L=17563
धण¦, ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) धणति मृदङ्गः । इति दुर्गादासः ॥


Match 0676: vcp=धन, skd=धन

vcp

k1=धन, L=26895
धन¦ धान्योत्पादने जुहो० पर० सेट् । दधन्ति अधानीत्
अधनीत् दधान । गृहीतकर्मकत्वात् अकर्मकत्वम् । तेन
दधन्ति भूमिः धान्यमुत्पादयतीत्यर्थः, वैदिकोऽयम् ।


k1=धन, L=26896
धन¦ शब्दे भ्वा० पर० अक० सेट् । धनति अधानीत् अधनीत् ।


skd

k1=धन, L=17565
धन¦, रवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) धनति मृदङ्गः । इति दुर्गादासः ॥


k1=धन, L=17566
धन¦, लि र धान्ये । इति कविकल्पद्रुमः ॥ (ह्वां-
परं-अकं-सेट् ।) धान्यमिह धान्यक्रिया । र,
वैदिकः । लि, दधन्ति भूमिर्धान्यमुत्पादयति
इत्यर्थः । इति दुर्गादासः ॥


Match 0677: vcp=धम, skd=धम

vcp

k1=धम, L=26992
धम¦ ध्माने सौ० पर० सक० सेट् । धमति अधमीत् दधाम ।
“वायुना धम्यमानोऽत्र द्वश्यतेऽग्निः क्वचित् क्वचित्”
भा० व० २९५ अ० । “ते बाहुभ्यां धमितमग्निमात्मनि”
ऋ० १ । २४ । ७ “अयं बधेऽपि वरुणाऽधमत्” ताण्डब्रा० ।
“विक्रम्य विधमिष्यामि निवर्त्तध्वं महामुराः” हरिवं०
२५१ अ० ।


skd

k1=धम, L=17637
धम¦, ध्माने । ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) धमति । सौत्रधातुरयम् ।
इति दुर्गादासः ॥


Match 0678: vcp=धव, skd=धव

vcp

k1=धव, L=27159
धव¦ गतौ भ्वा० प० सक० सेट् इदित् । धन्वति अधन्वीत् ।
इदित्त्वात् कर्मणिधन्व्यते धन्वधातोस्तु धव्यते इति भेदः ।


skd

k1=धव, L=17733
धव¦, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) इ, धन्व्यते । व्रजो गतिः । इति
दुर्गादासः ॥


Match 0679: vcp=धा, skd=धा

vcp

k1=धा, L=27174
धा¦ धारणे पोषणे दाने च जुहो० उभ० सक० अनिट् ।
दधाति धत्ते धत्से दध्यात् दधातु धेहि अदधात्
अथश्च । अधात् अधित । दधौ दधे । दथिथ दधाथ ।
दधिव धाता धास्यति । धीयते अधायि अधायिषाताम्
अधिषाताम् । हितः हित्वा हितिः । “त्वं
मुग्धाक्षि! विनैच कञ्चुलिकया धत्से मनोहारिणीम्”
सा० द० । “इमं नो यज्ञममृतेषु धेहि” ऋ० ३ । २१ । १
“तत्र त्वा देवा सविता दधातु” ऋ० १० । १७ । ४
“धर्मे दध्यात् सदा मनः” मनुः । “निवेशाय मनो
दधुः” भा० ब० ६५ अ० । “न नाशमधिगच्छेयुरिति
मे धीयते मतिः” भा० विरा० २८ अ० । “हिंस्वाहिंस्रे
मृदुक्रूरे धर्माधर्मावृतानृते । यद् यस्य सोऽदधात् सर्गे
तत्तस्य स्वयमाविशत्” मनुः । “यश्चापमाश्मनप्रख्यं
सेषुं धक्षेऽन्यदुर्वहम्” भट्टिः । “गामधास्यत् कथं नागो
मृणालमृदुभिः फणैः” कुमा० धापयति धित्सति ।
“स्वं वव्रिं कुह धित्सथः” ऋ० १ । ४६ । ९
अति + अतिक्रम्य धारणे अतिशयधारणे च “आयुर्यत्ते अति-
हितं पराचैः” अथ० ७ । ५३ । ३ ।
अधि + आधिक्येन धारणे “यन्नार्षदाय श्रवो अध्यधत्तम्”
ऋ० १ । ११७ । ८ ।
अनु + पश्चाद्धारणे । “अथान्यान् (तण्डुलान) हुताखाश्वत्थीषु
समित्सु अनुदधीरन्” लाट्या० ४ । ९ । १४ ।
अन्तर् + आच्छादने वस्त्वन्तरेण व्यवधाने । “उदुम्बरशाखा-
मन्तर्धायाभिषिञ्चति” ऐ० व्रा० ८ । ७ । तिरोधाने “ते
चान्तर्दधिरे नागाः” भा० आ० १२९ अ० ।
अपि + तिरोधाने आच्छादने । “धनेनाधर्म्मलब्धेन यच्छिद्र-
मपिधीयते” भा० उ० ३४ अ० । वा अतो लोपः “पिधान-
मपिधानम्” अमरः ।
अभि + कथने “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वा-
चकः” का० प्र० । “गणनव्यवहारे तु हेतुः संख्याभि-
धीयते” नाषा० ।
प्रति + अभि + प्रत्युत्तरकथने । “मया च प्रत्यभिहितं देवका-
र्य्यार्थदर्शनात्” भा० उ० १९ अ० ।
अव + मनःसंयोगविशेषे अभिनियेशे “अवधानपरे चकार सा”
कुमा० । अधःस्थापने पातने च “यां ते कृत्यां कूपे अवदधुः”
अथ० ५ । ६१ । ७ । “त्रितः कूपेऽवहितः” ऋ० १ । १०५ । १७
[Page3868-a+ 38]
वि + अव + आच्छादने (ढाकौ) अपवारणे । “प्रेक्ष्य स्थितां
सहचरीं व्यावधाय देहम्” रघुः । “व्यवदधाति दर्भ-
पिञ्जूलानि” सांख्यब्रा० १८ । ८ । “अन्तर्द्धा व्यवधा पुंसि
अन्तर्द्धिरपवारणम्” अमरः । “उदयाचलव्यवहितेन्दु
वपुः” माघः ।
आ + आरोहे आरोपणे स्थापने च । स्वद्रव्यस्य ऋणशोधन
कालपर्य्यन्तं धनिकसमीपे स्थापने आधिः आहितः ।
अग्न्यादेः संस्कारभेदे अग्न्याधानम् । “जनपदे न गदः
पदमादधौ” रघुः । “आदध्यात् संभारान् दर्भान्
दीर्घान् गर्भाश्च” वृ० स० ४८ । “गर्भमाधत्त राज्ञी”
रघुः । “ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्ममादधे”
भा० व० २९२ अ० ।
अति + आ + मर्य्यादातिक्रमेण धारणे । “कार्य्यमत्याहितं
भविष्यति” प्रबोधच० । “यदि स्यादिह गोविन्दो नैत-
दत्याहितं भवेत्” हरिवं० १७१ अ० ।
अनु + आ + पश्चादाधाने । यदेकस्य निहितं द्रव्यं तेनापि
अनु पश्चादन्यस्य हस्ते स्वामिने देहीति समयेन समर्पणे
च । अन्वाहितशब्दे दृश्यम् ।
अभि + आ + साम्मुख्येन स्थापने “अभ्यादध्युश्च काष्ठानि
तत्र दह्येत पापकृत्” मनुः ।
उप + आ + धर्मचिन्तायाम् “उपाधिर्ना धर्मचिन्ता” काम० ।
सामीप्येनाधाने अग्न्युत्पाते मेदि० । “अग्न्युत्पात
उपाहितः” अमरः । संयोजने च अमरः । “तस्य
निष्क उपाहित आस” शत० ब्रा० ११ । ४ । १ । १
निर् + आ + निराकरणे “यः क्रव्यादं निरादधत्” अथ०
१२ । २ । ३९ ।
परि + आ० परितः स्थापने । “ऋचा कुम्भीमध्यग्नौ श्रयाम्या
सिञ्चोदकमवधेह्येनम् । पर्य्याधत्ताग्निना” अथ० ९ । ५ । ५
वि + आ + विशेषेनाधौ पीडायाम् । व्याधिः “यद्यात्मना
प्रजया वा व्याधीयेत” श्रुतिः “एतद्वै परमं तपो
यद्व्याहितस्तप्यते” शत० व्रा० १४ । ८ । ११ । १
सम् + आ + पूर्वमाक्षिप्तस्य दोषस्य निराकरणे “समाहितः समा-
धिस्थेऽप्युक्तसिद्धान्त आहित” मेदि० उक्तेः च सिद्धान्तो-
क्त्या दोषसमाधाने । सम्यक्चित्तस्य ईश्वरादौ संस्थापने
समाधिः । “अथ चित्तं समाधातुं न शक्नोषि मयि
स्थिरम्” गीता । सम्यगारोपणे “सोऽहं भारं समा-
धास्ये त्वयि त्वं बोदुमर्हसि” मा० द्रो० ११ अ० ।
“तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः” रघुः ।
[Page3868-b+ 38]
आविस् + आविर्भवने प्रकाशने “आविर्हितस्त्वनुयुगं स हि
सत्यवत्याम्” भाग० २ । ७ । ३ ।
उप + सामीप्येन स्थापने उपलक्षणतया स्थापने च । “क्रिया
हि वस्तूपहिता प्रसीदति” रघुः । “एतदुपहितचैतन्यम्”
येदा० सा० । “यदिन्द्रियैस्तूपहितं पुरस्तात् प्राप्तान् गुणान्
न स्वरते चिराय” भा० शा० ७४१७ श्लो० । छलने स्व-
रूपप्रच्छादने उपधयश्छद्मकैतवमित्यमरीक्तेः ।
तिरस् + अन्तर्द्धाने प्रच्छादने । “इति वाहृत्य विबुधान् विश्व-
योनिस्तिरोदधे” कुमा० ।
नि + स्थापने अज्ञातस्वामिकतया द्रव्यस्य स्थितौ स्थापने च “अनि-
धायैव तद्द्रव्यमाचन्तः शुचितामियात्” मनुः । “शिरसि
निदधानोऽञ्जलिपुटम्” सा० द० । “अलं प्रयत्नेन वा तत्र मा
निधाः पदं पदव्यां सगरस्य सन्ततेः” रघुः । “यस्तु पश्ये-
न्निधिं राजा पुराणं निहितं क्षितौ” मनुः ।
प्र + नि + ऐकाग्र्येण मनसः स्थापने । “ईश्वरप्रणिधानाद्वा”
पात० सू० । “प्रणिधानं भक्तिविशेषः” भा० । प्रेरणे च
“नीधिं प्रति प्रणिहिते तु करे प्रिथेण” सा० द० । मनो-
ऽभिवेशने च “किष्किन्ध्याद्रिगुहां गन्तुं मनः प्रणिदधे
द्रुतम्” भट्टिः ।
प्रति + नि + तुल्यरूपतया करणादौ प्रतिनिधिः । “द्रव्ये-
ऽविद्यमाने यत् सामात्यतमं मन्येत तत्प्रतिनिदध्यात्”
सा० श्रौ० ३ । २० । ९ प्रतिनिधिशब्दे दृश्यम् ।
सम् + नि + सम्यग्निधाने । “मेघेषूर्द्ध्वं सन्निधत्ते प्राणानां
पवनः पतिः । तच्च मेघगतं वारि शक्रो वर्षति भारत ।”
भा० अमु० ६ त० । “दूरादाहृत्य समिधः संनिदध्याद्वि-
हायसि” मनुः । नैकट्येन सम्बन्धे “समवेशं न कुर्वीत
नोच्चैः सन्निहितो हसेत्” भा० वि० ४ अ० । “गुरो
र्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्” मनुः । “अस्मिन्
लतामण्डपे सन्निहितया त्वया भाव्यम्” शकु० । “भग-
वान् हरिरद्यापि तत्रत्यानां निजजननां वात्सल्येन
सन्निधाप्यत इच्छारूपेण” भाग० ५ । ७ । ८ । नैकट्येन
स्थापने तु सक० । “स चाहं सहसख्या धनमित्रेण तत्र
संन्यधिषि” दशकुमा० ।
परि + वेष्टने आच्छादने । “यं परिधिं पर्य्यधात्” यज०
२ । १७ । “येनेन्द्रस्य वृहस्पतिर्वासः पर्य्यधात्” पञ्चभी०
२ । २ “वासश्च परिधावैकम्” भा० वि० ९ अ० । “परि-
हिते प्रातरनुवाके” आ० श्रौ० ६ । ९ । १ । “दृष्टिं परिदधे
कृष्णे रौहिणेये च दारुणाम्” हरिवं० ७ । अ० ।
[Page3869-a+ 38]
वि + परि + परिवर्त्तनेन आच्छादने । “आचान्तः पुनराचामेत्
वासो विपरिधाय च” याज्ञ० ।
पुरस् + अग्रतः स्थापने । पुरोहितः । “तुरासाहं पुरोधाय
धाम स्वायम्भुवं ययुः” कुमा० ।
प्र + प्रकर्षेण धारणे । “दिशश्चतस्रः सहसा प्रधापिताः”
भाग० २० अ० । प्रधानम् ।
प्रति + प्रक्षेपे “तदग्ने चक्षुः प्रतिधेहि रेभे” ऋ० १० । ८७ । १२ ।
प्रतीकारार्थे विधाने “दुष्टदैवतनाशाय वज्रो ध्यान
समाधिना । सर्वत्राक्षतविक्षेपात् शान्तिकं प्रतिधास्यति”
शतरुद्र० प्रतिविधाने ।
वि + करणे “तस्य तस्याचलां श्रद्धां तामेब विदधाम्यहम्” गीता ।
“विदधाति विभज्येह फलं पूर्वकृतं नृणाम्” भा० व०
यच्चान्यदपि कर्त्तव्यं तद्विधत्स्व महामते” स० ७६ अ० ।
कर्त्तव्यतयोपदेशे “यज्ञशिष्टाशनं ह्येतत् मतामन्नं वि-
धीयते” मनुः । “चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिः”
शब्द० श० विधिशब्दे दृश्यम् । “न पैतृयाज्ञियो होमो
लौकिकेऽग्नौ विधीयते” मनुः ।
अनु + वि + तुल्यरूपावरणे पश्चात्करणे च । “आनुपूर्व्येण ह
विषां दैवत उच्चैरुपांशुतायां चाध्वर्युमनुविदधीत”
सांख्य० श्रौ० १३१ । ३ “वृत्तिं च तेभ्योऽनुविधाय काञ्चित्”
भा० उ० ३६ अ० । “उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।
करोति कुर्वतः कर्म छायेवानुविधीयते” भा० शा० १८१ ।
“इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते” गीता ।
प्रति + वि + प्रतिरूपाचरणे “क्षिप्रमस्मिन्नरव्याघ्र चारः प्रति-
विधीयताम्” रामा० सुन्द० प्रतीकारे च “क्षिप्रमेव कस्मान्न
प्रतिविहितमार्य्येण” मुद्रारा० चन्द्रगुप्तोक्तिः “न पारितं
प्रतिविधा तुम्” तत्रैव चाणक्योक्तिः ।
त्रद् + आदरे विश्वासे च । “श्रद्दधाति क इवेह न साक्षात्” नैष० ।
सम् + सम्यग्विधाने योजने श्लेषणे अभिसन्धौ । “मनस्येतानि
सन्घाय मनसा सम्प्रधारयेत्” भा० आश्व० ४२ अ० ।
“यथा सूच्या वासः संदध्यात्” ऐ० व्रा० ८३ । ४८ ।
“धनुष्यमोधं समधत्त सायकम्” कुमा० । “संदधे धनुषि
वायुदैवतम्” रघुः । “भवति कृतसन्धानमिव तत्”
शकु० । मेलने “सकृद्दुष्टं यो हि मित्रं पुनः सन्धातु-
मिच्छति” चाणक्यः ।
अति + सम् + अतिशयेन शक्त्यादिना व्यथने संयोजने । “त्वया
चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजन-
सार्थः” शकु० ।
[Page3869-b+ 38]
अनु + सम् + अनुसन्धाने विचारजन्यज्ञानभेदे अनुचिन्तने
“आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्के-
णानुसन्धत्ते स धर्मं वेद नेतरः” मनुः । अन्वेषणे च
“दुर्गमनुसन्धेहि” हितो० ।
अभि + सम् + तात्पर्य्ये अभिलाषभेदे । “अभिसन्धाय तु फलं
दम्मार्थमपि चैव यत्” गीता । “भवन्तमभिसन्धाय
जिघांसन्ति भवत् प्रियम्” भा० शा० ३१०५ श्लो० । “श्राद्धानि
चैव कुर्वन्ति फलकामाः सदा नराः । अभिसन्धाय
पितरं पितुश्च पितरं तथा” हरिवं० १६ अ० “गूढाभिसन्धिः
शङ्कते” जगदीशः । “अभिसन्ध्यादिषु चैवम्” शा० सू० ।
प्रति + सम् + प्रतिरूपसन्धाने । “प्रतिसन्धाय चास्त्राणि तेऽन्यो-
न्यस्य विशाभ्पते! । मुमुचुः पाण्डवाश्चैव कौरवाश्च
महामृधे” भा० भी० ७५ अ० । “पश्यतः प्रतिसन्धाय
विध्यतः सव्यसाचिनः” भा० वि० ६१ अ० ।


skd

k1=धा, L=17745
धा¦, डु ञ लि धारणे । पुष्टौ । दाने । इति कवि-
कल्पद्रुमः ॥ (ह्वां-उभं-सकं-अनिट् ।) डु, हित्रि-
मम् । ञ लि, दधाति धत्ते । धारणं धरणम् ।
दाने, द्विषता विहितं त्वयाथवेति किराते
विहितं दत्तमित्यर्थः । इति दुर्गादासः ॥


Match 0680: vcp=धाव, skd=धाव

vcp

k1=धाव, L=27309
धाव¦ जवे शुद्धौ अक० शुद्धीकरणे संमार्जने च सक० भ्वा०
उभ० सेट् । स्वरितेत् पा० । धावति धावते अधावीत्
अधाविष्ट दधाव--वे । सार्वधातुके परतः वेगगतौ
सर्त्त्यादेशस्तु पर० । अनेनैवोपपत्तौ तदादेशविधानं
वेगगतौ सरतेः सार्वधातुके प्रयोगवारणार्थं
शब्दस्तोमे आत्मनेपदत्वोक्तिः मुद्रादोषात् । “गच्छति
पुरःशरीरं घावति पश्चादसंस्थितं चेतः” शकु० । “रेतः
सिक्तमधावत्” ऐ० ब्रा० । “अधावीच्चारिसंमुखम्” भट्टिः ।
“यथा पराञ्चं धावन्तमनुलिप्सेत” शत० ब्रा० ३ । २ । १ । ३६ ।
“दिवस्पृष्टे धावमानं सुपर्णम्” अथ० १३ । २ । ३७ “सततं
धावमानश्च चिन्तमानो विशाम्पते!” भा० व० १८८ अ० ।
जवे अस्य न उदित्त्वम् तेन धावित्वा धावित इत्यादि
“दिशश्चतस्रः सहसा प्रधाविताः” भा० श० २० अ० ।
“वनान्तरे तोयमिति प्रधाविताः” । ऋतुसं० अन्यत्रार्थे
उदित् धावित्वा धौत्वा धौत इत्यादि । “बाह्योद्यानस्थित्
हरशिरश्चन्द्रिकाधौतहर्म्या” “धौतापाङ्गं हरशशि-
रुचा” मेघ० । “तुषारस्रुतिधौतरक्तम्” कुमा० ।
प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गद्योतार्थयुक्ते धावने ।


skd

k1=धाव, L=17843
धाव¦, उ ञ जवे । मृजि । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-अकं-शुद्धीकरणे सकं-सेट् । उदि-
त्वात् क्तावेट् ।) उ, धावित्वा धौत्वा । ञ,
धावति धावते । जवः शीघ्रगतिः । पाशपाणिः
पुनस्तत्र यमदूतोऽपि धावतीति हलायुधः ।
मृट् शुद्धिभावः शुद्धीकरणञ्च । धावति ताम्र-
मम्लेन शुध्यतीत्यर्थः ।
‘दधावद्भिस्ततश्चक्षुः सुग्रीवस्य विभीषणः ।’
अस्य जवे निष्ठाया अप्रयोगः । धौतं वासः ।
इति दुर्गादासः ॥


Match 0681: vcp=धि, skd=धि

vcp

k1=धि, L=27315
धि¦ धृतौ तु० पर० सक० अनिट् । धियति अधैषीत् । दिधाय ।


skd

k1=धि, L=17851
धि¦, श धृतौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-अनिट् ।) श, धियति । इति दुर्गादासः ॥


Match 0682: vcp=धिक्ष, skd=धिक्ष

vcp

k1=धिक्ष, L=27318
धिक्ष¦ सन्दीपने सक० क्लेशे जीवने अक० भ्वा० आत्म० सेट् ।
धिक्षते अधिक्षिष्ट दिधिक्षे ।


skd

k1=धिक्ष, L=17856
धिक्ष¦, ङ सन्दीपे । क्लेशे । जीवे । इति कविकल्प-
द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) तृतीयस्वरी ।
ङ, धिक्षते वह्निः सन्दीप्यते इत्यर्थः । जनः
क्लिश्यति जीवतीति वा अर्थः । इति दुर्गा-
दासः ॥


Match 0683: vcp=धिव, skd=धिव

vcp

k1=धिव, L=27329
धिव¦ प्रीणने गतौ च सक० स्वा० पर० सेट् इदित्
सार्वधातुके धिः आदेशः । धिनोति अधिन्वीत् दिधिन्व ।
इदित् धिन्व्यते । “धान्यमसि धिनुहि देवान्” यज० १ । २०
“भर्गगृहिणीं रुधिरैर्धिनोमि” प्रबोधच० । “धिनोति
नास्मान् जलजेन पूजा” नैष० ।


skd

k1=धिव, L=17859
धिव¦, इ न प्रीतौ । गतौ । इति कविकल्पद्रुमः ॥
(स्वां-परं-सकं-सेट् ।) प्रीतिरिह प्रीतीकर-
णम् । इ, धिन्व्यते । न, धिनोति हव्येन हिरण्य-
रेतसमिति किराते । गतिः कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥


Match 0684: vcp=धिष, skd=धिष

vcp

k1=धिष, L=27330
धिष¦ रवे जु० पर० अक० सेट् । दिधेष्टि अधेषीत् दिधेष ।
वैदिकोऽयम् । “सूरींश्चिद्यदि धिषा वेषि जनान्” ऋ०
१ । १७३ । ८ “धिषा यदि धिषण्यन्तः सरण्यान्त्सदन्तो
अद्रिमौशिजस्य गोहे” ऋ० ४ । २१ । ६ ।


skd

k1=धिष, L=17860
धिष¦, र लि रवे । इति कविकल्पद्रुमः ॥ (ह्वां-
परं-अकं-सेट् ।) र, वैदिकः । लि, दिधेष्टि ।
रवः शब्दः । इति दुर्गादासः ॥


Match 0685: vcp=धी, skd=धी

vcp

k1=धी, L=27336
धी¦ अनादरे आराधने च दिवा० आत्म० सक० अनिट् ।
धीयते अधेष्ट । दिध्ये ओदित् धीनः । “सत्यं परं
धीमहि” भाग० १ । १ । १ कातन्त्रमतेऽस्य ओदित्त्वं नास्ति
धीत इति । वेदे तु न ओदित् “धीतः विश्वान्यश्विना-
युधं प्रधीतान्यगच्छम्” ऋ० ८ । ८ । १० “सखीयते संधीत-
मश्नुतम्” ८ । ४० । ३ । आधारे अक० इत्यन्ये ।


skd

k1=धी, L=17866
धी¦, ओ ङ य आराधे । नादरे । इति कविकल्प-
द्रुमः ॥ (दिवां-आत्मं-सकं-अनिट् ।) अनादर
इति कातन्त्रादौ । ओ, धीनः । ङ य, धीयते
खलं लोकः । इति दुर्गादासः ॥


Match 0686: vcp=धु, skd=धु

vcp

k1=धु, L=27364
धु¦ कम्पने अक० चालने सक० स्वादि० उभ० अनिट् । धुनोति धुनुते
पर० सिचि इट् मुग्ध० । अधावीत् पा० निट् दुधाव दुधुविथ
दुधोथ दुधुविव दुधुवे । धोष्यति “धूनोति चम्पकवनानि
धुनोत्यशोकम्” कविरहस्यम् । अयं दीर्घान्तोऽपि स
वेट् प० सिचि नित्येट् पा० अधावीत् अधविष्ट अधोष्ट
क्त्यादिनियमात् किति लिठि नित्यमिट् दुघु-
विव । थलि तु दुधविथ दुधोथ । धविष्यति ते धोष्यति
ते । उमयोः धू(धु)तः । “धून्वन् सर्वपथीनं खे वितानं
पक्षयोरसौ” “तानधावीत् समारूढान्” मट्टिः ।
“अधं धुन्वन्ति कार्तस्न्येन” भाग० ६ । १ । १५ । णिचि
धावयति दीर्धान्तस्य धूनयति “आ धेनवो धुनयन्ता-
मशिश्वीः” ऋ० ३ । ५५ । १६ । “ह्रस्वश्छान्दसः” भा० “नि-
शान्तनारीपरिधानधूननस्फुटागसाऽप्यूरुषु लोलचक्षुषः”
माघः । दोधूयते तत्र कस्पने चलने “दोधूयमानाश्च
महापताकाः” भा० भी० ६० अ० ।
उपसर्गपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुते कम्पने चालने च


skd

k1=धु, L=17889
धु¦, ञ न कम्पे । इति कविकल्पद्रुमः ॥ (स्वां-उभं-
सकं-अनिट् ।) ञ न, धुनोति धुनुते । कम्प
इह ञ्यन्तस्य रूपम् । धुनोति चम्पकवनानि
धुनोत्यशोकं वायुरिति हलायुधः । इति दुर्गा-
दासः ॥


Match 0687: vcp=धुक्ष, skd=धुक्ष

vcp

k1=धुक्ष, L=27366
धुक्ष¦ सन्दीप्तौ क्लेशे जीवने च अक० आत्म० । धुक्षते अधु-
[Page3894-a+ 38]
क्षिष्ट दुधुक्षे । णिचि धुक्षयति ते “निर्वाणभूयिष्ठमथास्य
वीर्यं संधुक्षयन्तीव वपुर्गुणेन” “करेण भानोर्बहुलावसाने
संधुक्ष्यमाणेव शशाङ्कलेखा” कुभा० “सत्वं समदुधुक्षच्च”
भट्टिः ।


skd

k1=धुक्ष, L=17891
धुक्ष¦, ङ सन्दीपने । क्लेशे । जीवे । इति कविकल्प-
द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) पञ्चमस्वरी ।
ङ, धुक्षते वह्निः सन्दीप्यते इत्यर्थः । धुक्षते जनः
क्लिश्यति जीवति वेत्यर्थः । इति दुर्गादासः ॥


Match 0688: vcp=धुर्व, skd=धुर्व

vcp

k1=धुर्व, L=27379
धुर्व¦ हिंसे भ्वा० पर० सक० सेट् । धूर्वति अधूर्वीत् । दुधूर्व ।
ईदित् धूर्त्तः । “अधूर्वन् भूधरैर्भृशम्” भट्टिः ।


skd

k1=धुर्व, L=17902
धुर्व¦, ई हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ह्रस्वी । धूः धुरौ धुरः । ई, धूर्णः ।
कितवे वाच्य धूर्त्तः । इति मनीषादित्वान्निपात्यः ।
इति दुर्गादासः ॥


Match 0689: vcp=धू, skd=धू

vcp

k1=धू, L=27384
धू¦ कम्पने भ्वा० उभ० सक० वेट् । धवति ते अधावीत् अधौषीत्
मुग्ध० पा० मते प० सिचि नित्येटितिभेदः अधमविष्ट अधोष्ट ।
दुधाव । “यत् कानने धवति चन्दनञ्जरीश्च” कविर० ।


k1=धू, L=27385
धू¦ कम्पने वा० चुरा० उभ० पक्षे तुदा० कु० पर० सक० सेट् ।
धूनयति ते धुवति अदूधुनत् अधुवीत् । धूनयाम् बभूव
आस चकार दुधाव । दुधुविथ “चूतं धुनाति धुवति
स्फुरितातिमुक्तम् । वायुर्विधूनयति केशरपुष्परेणून्”
कविरहस्यम् ।


k1=धू, L=27386
धू¦ कम्पने स्वा० क्य्रादि० प्वादिश्च उभ० सक० वेट् । धूनोति
धूनुते धुनाति धुनीते । अधावीत् अधौषीत् अधविष्ट
अधोष्ट “धूनोति चम्पकवतानि धुनोत्यशोकं चूत
धुनाति धुवति स्फुरितातिमुक्तम्” कविरहस्यम् ।


skd

k1=धू, L=17908
धू¦, ञ कम्पे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-
सकं-वेट् ।) स चेहापि कम्पप्रेरणमेव । ञ,
धवति धवते । धवति चन्दनमञ्जरीश्चेति हला-
युधः । इति दुर्गादासः ॥


k1=धू, L=17909
धू¦, न ञ गि कम्पे । इति कविकल्पद्रुमः ॥
(स्वां-क्र्यां च-उभं-सकं-वेट् ।) स चेहापि
कम्पप्रेरणम् । न ञ, धूनोति धूनुते । गि ञ,
धुनाति धुनीते । धूनः धूनिः । धूनोति चम्पक-
वनानीति हलायुधः । धुनाति वायुरश्वत्थम् ।
धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनः ।
इति दुर्गादासः ॥


k1=धू, L=17910
धू¦, शि क कम्पे । इति कविकल्पद्रुमः ॥ (तुदां-
चुरां-च-सकं-सेट् ।) कम्प इह ञ्यन्तस्य रूपम् ।
शि, धुवति मारुतो मालतीलताम् । अधुवीत् ।
क, धावयति । वायुर्विधूनयति केशरपुष्परेणू-
निति चुरादौ हलायुधः । प्रीघूञोर्नन् वा इत्यत्र
धूञग्रहणादस्य कथं नन्निति चेन्न । स्वार्थविहि-
तस्य ञेर्ञकारेण सम्बन्धस्य वाच्यत्वात् । अन्यथा
कम्पप्रेरणे धूनयति इत्यादिप्रयोगा न स्युः ।
धूनोतीत्यादीनां साध्या इति चेत् स्वभावात्
कम्पप्रेरणार्थाणां तेषां ञौ कृते कम्पप्रेरणस्य
प्रेरणमेवार्थः स्यात् । किञ्च कम्पनायां धूनय-
तीत्यादीनामावश्यकत्वात् तत्सूत्रे ञकारः
प्राचीनमतानुवादार्थ एव । इति दुर्गा-
दासः ॥


Match 0690: vcp=धूप, skd=धूप

vcp

k1=धूप, L=27397
धूप¦ दीप्तौ चुरा० उभ० अक० दीपने सक० सेट् । धूपयति--ते
अदूधुपत्--त । धूपयाम् बभूव आस चकार । धूपितः ।
“वसवस्त्वा धूपयन्ति” यजु० ११ । ६ धूपशब्दे उदा०


k1=धूप, L=27398
धूप¦ तापे अक० तापने सक० भ्वा० पर० सेट् । धूपायति
अधूपायीत् अधूपीत् । धूपायाम् बभूव आस चकार
दुधूप । धूपायितः धूपितः । “धूपायतीव पटलैर्नवनीर-
दानाम्” माघः ।


skd

k1=धूप, L=17918
धूप¦, तापे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) षष्ठस्वरी । धूपायति धूपायते । आय-
न्तत्वादुभयपदमिति वोपदेवः । अरे तु आय-
स्याप्राप्तिपक्षे परस्मैपदमेव । अधूपीत् दुधूप
इत्यादि । तापः सन्तप्तीकरणम् । इति दुर्गा-
दासः ॥


k1=धूप, L=17919
धूप¦, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) क, धूपयति । इति दुर्गादासः ॥


Match 0691: vcp=धूर, skd=धूर

vcp

k1=धूर, L=27459
धूर¦ बधे गतौ च दि० आ० सक० पेट् । धूर्य्यते अधूरिष्ट ।
दुधूरे । ईदित् धूर्त्तः ।


skd

k1=धूर, L=17958
धूर¦, ई ङ य वघे । गतौ । इति कविकल्पद्रुमः ॥
(दिवां-आत्मं-सकं-सेट् ।) दीर्घी । ई, धूर्णः ।
ङ य, धूर्य्यते । इति दुर्गादासः ॥


Match 0692: vcp=धूश, skd=धूश

vcp

k1=धूश, L=27480
धूश(ष)(स)¦ शोभने चुरा० उभ० सक० सेट् । धूश(ष)(स)यति
ते अद्रधुश(ष)(स)त् त ।


skd

k1=धूश, L=17980
धूश¦, क कान्तिकृतौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट ।) षष्ठस्वरी । कान्तिकृतिः
शोभितकरणम् । चन्दनो धूशयत्यङ्गम् । इति
दुर्गादासः ॥


Match 0693: vcp=धृ, skd=धृ

vcp

k1=धृ, L=27488
धृ¦ स्थितौ अक० धृतौ सक० उभ० भ्वा० अनिट् । धरति ते अधार्षीत्
अधृत । दधार दध्रे । धृतः धृतिः । “ततो दधार सा देवी
गर्भम्” भा० उ० ७३९९ श्लो० धर्त्ता धरिष्यति ते


k1=धृ, L=27489
धृ¦ पतने भ्वा० आत्म० अत० अनिट् । धरते अधृत । दध्रे धर्मा धरिष्यते ।


k1=धृ, L=27490
धृ¦ स्थितौ अक० धारणे सक० तुदा० आत्म० अनिट् । ध्रियते
अधृत । दध्रे धर्त्ता करिष्यते । स्थितौ “ध्रियते याव-
देकोऽपि रिपुस्तावत् कुतः सुखम्” माघः “प्राणेषूत्-
क्रान्तेषु शरीरं श्वयितुमध्रियत” वृ० उप० धारणे “ध्रियते
कुसुमप्रसाधनम्” कुमा० “पाण्डुरेणातपत्रेण ध्रियमाणेन
मूर्द्धनि” भा० उ० १८९ अ० ।
उद् + उत्तोल्य धारणे “चरणं त्विदमुद्धृतम्” वेणीस० ।
“पदमुद्धृतमुद्वहन्ती” कुमा० । “प्रसभोद्धृतारि” रघुः ।


k1=धृ, L=27491
धृ¦ धारणे चुरा० उभ० सक० सेट् । धारयति ते अदीधरत्-
त । धारयाम् बभूव आस चकार । “वैणवीं धारयेद्यष्टिं
सोदकं च कमण्डलुम्” मनुः “समकायशिरोग्रीवं धारय-
न्नचलः स्थिरः” गीता । सर्वेषां धार्य्यः पूर्वेषां ण्यत् एतस्य
अचो यत् इति भेदः धार्य्यशब्दे उदा० “धारेरुत्तमर्णः” पा०
एतद्योगे उत्तसर्णस्य सम्प्रदानता । चैत्रस्य शतं धारयति ।


skd

k1=धृ, L=17989
धृ¦, क घृत्याम् । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-अनिट् ।) क, धारयति । इति दुर्गा-
दासः ॥


k1=धृ, L=17990
धृ¦, ङ अवध्वंसे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-अनिट् ।) अवध्वंसः पतनम् । ङ,
धरते पत्रं वृक्षात् । गोविन्दभट्टस्तु अविध्वंसने
इति पठित्वा विध्वंसनं ध्वंसनं तस्याभावोऽवि-
ध्वंसनं स्थापनमिति व्याख्याति । इति दुर्गा-
दासः ॥


k1=धृ, L=17991
धृ¦, ङ श स्थितौ । धृतौ । इति कविकल्पद्रुमः ॥
(तुदां-आत्मं-स्थितौ अकं-धृतौ सकं-अनिट् ।)
ङ श, ध्रियते । इति दुर्गादासः ॥


k1=धृ, L=17992
धृ¦, ञ धृत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-
अनिट् ।) ञ, धरति धरते । इति दुर्गादासः ॥


Match 0694: vcp=धृज, skd=धृज

vcp

k1=धृज, L=27492
धृज¦ गतौ भ्वा० पर० सक० सेट् इदित् । धृञ्जति अधृञ्जीत् ।
दधृञ्ज इदित् धृञ्ज्यते । अस्य अनिदित्त्वमपि इच्छति ।
धर्जति अधर्जीत् दधर्ज । “हरो महेश्वरश्चैव शूलपाणिः
पिणाकधृग्” शिवपूजायां तन्नामविशेषोक्तौ ।


skd

k1=धृज, L=17993
धृज¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) धर्ज्जति । इति दुर्गादासः ॥


k1=धृज, L=17994
धृज¦, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । इदित् ।) सप्तमस्वरी । इ, धृञ्ज्यते ।
इति दुर्गादासः ॥


Match 0695: vcp=धृष, skd=धृष

vcp

k1=धृष, L=27504
धृष¦ संहतौ अक० हिंसे सक० भ्वा० पर० सेट् । धर्षति
अधर्षीत् । दधर्ष उदित् धर्षित्वा धृष्ट्वा । “धृषशसी
वैयात्ये” पा० वैयात्ये एव अनिटोविधनात् क्त्वो
वेट्कत्वेऽपि संहत्यर्थे बधार्थे च नित्यमिट् । धर्षितः


k1=धृष, L=27505
धृष¦ प्रागल्भ्ये स्वा० पर० अक० सेट् । धृष्णोति अधर्षीत् ।
दधर्ष । “धृषशसी वैयात्ये” पा० निष्ठायामनिट् । धृष्टः
अस्या आत्त्वं चिन्त्यप्रयोजनमिति स्म । भावादि कर्म-
णोर्वैयात्ये धृषिर्नास्ति अतएव नियमार्थमिदं सूत्रमिती-
त्याह वृत्तिकारः” “विभाषा भावकर्मणोरिति विकल्पे
प्राप्ते सूत्रमिदं नित्यतार्थमित्याशङ्क्याह धृषिर्नास्तीति”
तदर्थः” तत्त्व० । “आलोकयत् स काकुत्स्थमधृष्णोत् घोर-
अध्वनत्” भट्टिः । “तान् दृष्ट्वातिदृढान् धृष्टान् प्राप्तान्
परिवृढाज्ञया” भट्टिः ।


k1=धृष, L=27506
धृष¦ सामर्थ्यबन्धने चुरा० आत्म० अक० सेट् । धर्षयते अ-
दीधृषत अदधर्षत । धर्षयाम् बभूव आस चक्रे “कस्त्वा
धर्षयितुं शक्तः” हरिवं० ३१५३ श्लो० ।


k1=धृष, L=27507
धृष¦ क्रोधे अभिभवे च वा चु० उभ० पक्षे भ्वा० प० सक० सेट् ।
धर्षयति ते धर्षति अदीधृषत् त अदधर्षत् त अधर्षीत् ।
धर्षयाम् भूव आस चकार दधर्ष । “प्रहस्तस्य पुरोऽ-
मात्यान् जिहिंसुर्दधृषुस्तथा” मट्टिः । दधृषुरभिभूतवन्तः ।


skd

k1=धृष, L=18002
धृष¦, आ कि अमर्षे । क्रोध इति यावत् । इति
कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-परं-सकं-सेट् ।)
आ, धर्षितं धृष्टं तेन । कि, धर्षयति धर्षति ।
अमर्ष इह अभिभवः । इति भट्टमल्लः । न
धर्षति निजाः प्रजाः । तमेव धर्षयत्येकं यस्तासु
प्रतिकूलतीति हलायुधः । इति दुर्गादासः ॥


k1=धृष, L=18003
धृष¦, उ संहतौ । हिंसे । इति कविकल्पद्रुमः ॥
(भ्वां-परं-संहतौ अकं-हिंसे सकं-सेट् । उदि-
त्वात् क्त्रावेट् ।) उ, धर्षित्वा धृष्ट्वा । संहतिः ।
समूहः । इति दुर्गादासः ॥


k1=धृष, L=18004
धृष¦, क ङ शक्तिबन्धे । इति कविकल्पद्रुमः ॥
(चुरां-आत्मं-सकं-सेट् ।) शक्तेर्ब्बन्धनं शक्ति-
बन्धः । क ङ, धर्षयते वह्निं पयः । इति दुर्गा-
दासः ॥


k1=धृष, L=18005
धृष¦, ञि आ न प्रागल्भ्ये । इति कविकल्पद्रुमः ॥
(स्वां-परं-अकं-सेट् ।) ञि, धृष्टोऽस्ति । आ,
धर्षितं धृष्टं तेन । न, धृष्णोति गुरोरग्रे यः ।
इति हलायुधः । इति दुर्गादासः ॥


Match 0696: vcp=धे, skd=धे

vcp

k1=धे, L=27523
धे¦ पाने भ्वा० प० सक० अनिट् टित् । धयति अदधत्
अधासीत् । दधौ धास्यति । खच् स्तनन्धयः स्त्रियां
टित्त्वात् खचि ङीप् हरदत्तीक्तेः खच्येव ङीप् ।
स्तनन्धयी अन्यत्र टाप् ।


skd

k1=धे, L=18012
धे¦, ट पाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
अनिट् ।) धयति । टः स्त्रियामीबर्थः । स्तन-
न्धयी । इति दुर्गादासः ॥


Match 0697: vcp=धोर, skd=धोर

vcp

k1=धोर, L=27545
धोर¦ गतौ सक०चातुर्य्ये अक० भ्वा० पर० सेट । धोरति अधो-
रीत् । दुधोर ऋदित् णिच् चङि अदुधोरत् त ।


skd

k1=धोर, L=18027
धोर¦, ऋ गतिचातुर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वां
परं-सकं-सेट् ।) ऋ, अदुधोरत् । गतौ चातुर्य्यं
गतिचातुर्य्यम् । धोरन्त्या धोरणाक्रान्ता विनीता
यस्य वारणाः । इति दुर्गादासः ॥


Match 0698: vcp=ध्मा, skd=ध्मा

vcp

k1=ध्मा, L=27576
ध्मा¦ अग्निसंयुतौ दीर्घश्वासहेतुके शब्दभेदे अक० तादृशशब्देन
वादने सक०भ्वा० पर० अनिट् । धमति अध्मासीत् । दध्मौ
ध्मातः । ध्मापयति “मुखेनैव धमेदग्निं मुखादग्निः
प्रजायते” सस्कारतत्त्वम् “शङ्खान् दध्मुः पृथक् पृथक्”
गीता । ध्मायते । अध्मायि । “दह्यन्ते ध्मायमानानां
धातूनां हि यथा मलाः” मनुः । “वाष्वग्निभ्यां यथा
लौहं ध्मातं त्यजति वै मलम्” भाग० ३ । २८ । ४० ।
आ--स्फीततायाम् आध्मानशब्दे दृश्यम् ।


skd

k1=ध्मा, L=18044
ध्मा¦, अग्नियुतौ । ध्वनौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-अनिट् ।) युतिरिति वाहुल्यान्न
दीर्घः । अग्नियुतिरग्निसंयोगः । ध्वनिः शब्दोत्-
पत्तिहेतुभावः । धमति सुवर्णं बणिक् अग्नि-
संयुक्तं करोतीत्यर्थः । धमति शङ्खं जनः सशब्दं
करोतीत्यथः । अग्निफुत्कृतौ च । मुखेनैव धमे-
दग्निम् । इति दुर्गादासः ॥


Match 0699: vcp=ध्यै, skd=ध्यै

vcp

k1=ध्यै, L=27607
ध्यै¦ चिन्तने भ्वा० पर० सक० अनिट् । ध्यायति अध्यासीत् ।
दध्यौ “ध्यायतीव लेलायतीव” श्रुतिः । ध्यानशब्दे
उदा० । “ध्यायेत् नित्यं महेशम्” शिवध्यानम् ।


skd

k1=ध्यै, L=18054
ध्यै¦, चिन्तने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अनिट् ।) ध्यायति विष्णुं वैष्णवः । इति
दुर्गादासः ॥


Match 0700: vcp=ध्रज, skd=ध्रज

vcp

k1=ध्रज, L=27609
ध्रज¦ गतौ भ्वा० पर० सक० सेट् । ध्रजति अध्राजीत् अध्र-
जीत् अयमिदिच्च ध्रञ्जति अध्रञ्जीत् । दध्राज दध्रञ्ज ।
ध्रज्यते ध्रञ्ज्यते । “उपध्रजन्तमद्रयो विधन्नित्” ऋ० १ ।
१४९ । १ “घृणा न यो ध्रजसा पत्मना” ऋ० ६ । ३ । ७ ध्रज-
असुन् । “ध्रजसा गतिशीलेन” भा० ।


skd

k1=ध्रज, L=18055
ध्रज¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) ध्रजति । इति दुर्गादासः ॥


k1=ध्रज, L=18056
ध्रज¦, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् । इदित् ।) इ, ध्रञ्ज्यते । इति दुर्गा-
दासः ॥


Match 0701: vcp=ध्रण, skd=ध्रण

vcp

k1=ध्रण, L=27611
ध्रण¦ ध्वाने भ्वा० पर० अक० सेट् । ध्रणति अध्रणीत् अध्राणीत् दध्राण ।


skd

k1=ध्रण, L=18057
ध्रण¦, ध्वाने । इति कविकल्पद्रुमः । (भ्वां-परं-
अकं-सेट् ।) ध्रणति मृदङ्गः । इति दुर्गा-
दासः ॥


Match 0702: vcp=ध्रस, skd=ध्रस

vcp

k1=ध्रस, L=27612
ध्रस¦ कणश आदाने क्य्रा० पर० सक० सेट् । ध्रस्नाति अध्र-
सीत् अध्रासीत् दध्रास । उदित् ध्रसित्वा ध्रस्त्वा । ध्रस्तः ।


skd

k1=ध्रस, L=18058
ध्रस¦, क उत्क्षेपे । उञ्छे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) क, ध्रासयति । इति
दुर्गादासः ॥


k1=ध्रस, L=18059
ध्रस¦, ग उ उञ्छे । इति कविकल्पद्रुमः ॥ (क्र्यां-
परं-सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) ग,
ध्रस्नाति शस्यं दीनः । उ, ध्रसित्वा ध्रस्त्वा । इति
दुर्गादासः ॥


Match 0703: vcp=ध्राक्ष, skd=ध्राक्ष

vcp

k1=ध्राक्ष, L=27614
ध्राक्ष¦ काङ्क्षे घोररवे च भ्वा० पर० सक० सेट् इदित् ।
ध्राङ्क्षति अध्राङ्क्षीत् । दध्राङ्क्ष इदित् ध्राङ्क्ष्यते ।


skd

k1=ध्राक्ष, L=18060
ध्राक्ष¦, इ काङ्क्षे । घोररुते । इति कविकल्पद्रुमः ॥
(भ्वां-परं-अकं-सेट् ।) रेफयुक्तः । घोररुतमिह
तिरश्चामेव घोरशब्दः । इ, ध्राङ्क्षति पक्षी ।
नमध्यपाठेनैवेष्टसिद्धे अस्य इदनुबन्धो वेदेष-
च्चारणभेदार्थः । इति दुर्गादासः ॥


Match 0704: vcp=ध्राख, skd=ध्राख

vcp

k1=ध्राख, L=27616
ध्राख¦ शोधने अलमर्थे च भ्वा० पर० सक० सेट् । ध्राखति
अध्राखीत् दध्राख । ऋदित् चङि अदध्राखत् त ।
अलमर्थः पर्याप्तिश्चेत् तत्र अक० ।


skd

k1=ध्राख, L=18061
ध्राख¦, ऋ ओखार्थे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं सेट् ।) रेफयुक्तः । ऋ, अदद्राखत् ।
ओखार्थे शोषालमर्थयोः । इति दुर्गादासः ॥


Match 0705: vcp=ध्राघ, skd=ध्राघ

vcp

k1=ध्राघ, L=27617
ध्राघ¦ शक्तौ भ्वा० आत्म० अक० सेट् । द्राघते अद्राघिष्ट ।
दध्राघे । ऋदित् चङि अदध्राघत् त ।


skd

k1=ध्राघ, L=18062
ध्राघ¦, ङ ऋ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) ङ, ध्राघते । ऋ, अद-
ध्राघत् । इति दुर्गादासः ॥


Match 0706: vcp=ध्राड, skd=ध्राड

vcp

k1=ध्राड, L=27619
ध्राड¦ विभेदे भ्वा० आत्म० सक० सेट् । ध्राडते अध्राडिष्ट ।
दध्राडे । ऋदित् चङि अदध्राडत् त ।


skd

k1=ध्राड, L=18064
ध्राड¦, ऋ ङ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् ।) रेफयुक्तः । ऋ, अदध्राडत्
ङ, ध्राडते । शीर्णिः विभेदः । इति दुर्गादासः


Match 0707: vcp=ध्रिज, skd=ध्रिज

vcp

k1=ध्रिज, L=27621
ध्रिज¦ गतौ भ्वा० पर० सक० सेट् । ध्रेजति अध्रेजीत् दिध्रेज


skd

k1=ध्रिज, L=18066
ध्रिज¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) ध्रेजति । इति दुर्गादासः ॥


Match 0708: vcp=ध्रु, skd=ध्रु

vcp

k1=ध्रु, L=27623
ध्रु¦ गतौ भ्वा० प० अनिट् निघण्टुः । ध्रुवति अध्रौषीत्
दुध्नाव ।


skd

k1=ध्रु, L=18067
ध्रु¦, ञि स्थैर्य्ये । सर्पणे । इति कविकल्पद्रुमः ॥
(भ्वां-तुदां च-स्थैर्य्ये अकं-सर्पणे सकं-
परं-अनिट् ।) द्वौ रेफयुक्तौ । आद्यो दीर्घान्त
इति कश्चित् । ञि, ध्रुतोऽस्ति । शि, ध्रुवति
अध्रुवीत् । ध्रुवति शैलः । इति दुर्गादासः ॥


k1=ध्रु, L=18068
ध्रु¦, शि स्थिर्य्ये । सर्पणे । इति कविकल्पद्रुमः ॥
(भ्वां-तुदां च-स्थैर्य्ये अकं-सर्पणे सकं-
परं-अनिट् ।) द्वौ रेफयुक्तौ । आद्यो दीर्घान्त
इति कश्चित् । ञि, ध्रुतोऽस्ति । शि, ध्रुवति
अध्रुवीत् । ध्रुवति शैलः । इति दुर्गादासः ॥


Match 0709: vcp=ध्रेक, skd=ध्रेक

vcp

k1=ध्रेक, L=27635
ध्रेक¦ उत्साहे शब्दे च भ्वा० आत्म० अक० सेट् । ध्रेकते अध्रे-
किष्ट । दिध्रेके ऋदित् चङि अदिध्रेकत् त ।


skd

k1=ध्रेक, L=18075
ध्रेक¦, ऋ ङ स्वने । उत्साहे । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-अकं-सेट् ।) रेफमध्यः । द्वावर्थौ ।
उत्साहो वृद्धिरिति चन्द्रः । औन्नत्यमिति
क्षीरस्वामी । ऋ, अदिध्रेकत् । ङ, ध्रेकते लोकः
शब्दायते उत्सहते वेत्यर्थः । स्वनेनोत्साहः
स्वनोत्साहः । इति केचित् । तन्मते स्वनेनोत्-
सहते इत्यर्थः । इति दुर्गादासः ॥


Match 0710: vcp=ध्रै, skd=ध्रै

vcp

k1=ध्रै, L=27636
ध्रै¦ तृप्तौ भ्वा० पर० अक० अनिट् । ध्रायति अध्रासीत् । दध्रौ
गतौ तु ध्रधातौ दृश्यः ।


skd

k1=ध्रै, L=18076
ध्रै¦, तृप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
अनिट् ।) रेफोपधः । ध्रायति लाभाल्लोकः प्रीतः
स्यादित्यर्थः । इति दुर्गादासः ॥


Match 0711: vcp=ध्वज, skd=ध्वज

vcp

k1=ध्वज, L=27643
ध्वज¦ गतौ भ्वा० पर० सक० सेट् । ध्वजति अध्वजीत् अध्वाजीत्
दध्वाज अयमिदिदपि । धञ्जति अध्वञ्जीत् दध्वञ्ज
ध्वञ्ज्यते ।


skd

k1=ध्वज, L=18080
ध्वज¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) वकारयुक्तः । ध्वजति । इति दुर्गा-
दासः ॥


k1=ध्वज, L=18081
ध्वज¦, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं
सकं-सेट् । इदित् ।) वकारयुक्तः । इ, ध्वञ्ज्यते ।
इति दुर्गादासः ॥


Match 0712: vcp=ध्वण, skd=ध्वण

vcp

k1=ध्वण, L=27655
ध्वण¦ ध्वाने भ्वा० अक० पर० सेट् । ध्वणति अध्वाणीत्
अध्वणीत् दध्वाण ।


skd

k1=ध्वण, L=18091
ध्वण¦, ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) वकारयुक्तः । ध्वणति मृदङ्गः ।
इति दुर्गादासः ॥


Match 0713: vcp=ध्वन, skd=ध्वन

vcp

k1=ध्वन, L=27656
ध्वन¦ रवे भ्वा० पर० अक० सेट् । ध्वनति अध्वानीत् अध्व-
नीत् दध्वान । मित् वा घटादि ध्वनयति ध्वानयति ।


k1=ध्वन, L=27657
ध्वन¦ शब्दे अद० चु० उभ० सक० सेट् । ध्वनयति अदिध्वनत्
अध्वनयीत् । शब्द इह अव्यक्तध्वनिरूपः । मृदङ्गः ध्वन-
यति” इत्यादि ।


skd

k1=ध्वन, L=18092
ध्वन¦, त् क शब्दे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां परं-अकं-सेट् ।) दन्त्योपधः । भाषवचा-
दीनां प्रयोगादन्यत्र शब्दे ध्वनावित्यादि यत्र
श्रूयते प्रायेण तत्राव्यक्तशब्दे इति बोध्यम् ।
ध्वनयति मृदङ्गः । इति दुर्गादासः ॥


k1=ध्वन, L=18093
ध्वन¦, मि रवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) वकारयुक्तः । मि, ध्वनयति
ध्वानयति मृदङ्गः । इति दुर्गादासः ॥


Match 0714: vcp=ध्वन्स, skd=ध्वन्स

vcp

k1=ध्वन्स, L=27669
ध्वन्स¦ गतौ सक० भ्रंशे नाशे अधःपतने च अक० भ्वा० आत्म०
सेट् । ध्वसंते दध्वसे--दध्वंसे । ऌदत् अध्वसत् ।
उदित् ध्वंसित्वा ध्वस्त्वा । ध्वस्तः । ध्व सस्यातीतत्वाऽभा-
वेऽपि तदुत्पत्त्यनुकूलव्यापारस्यं कारणविशेषसंयोगस्य
अतीतत्वात् तथा व्यवहारः । वैयाकरणमते सर्वत्र
“फलव्यापारयोर्धातुः” हर्य्युक्तेः फलव्यापारयोर्धात्वर्थ-
त्वात् तयोश्च सामानाधिकरण्ये धातोरकर्मकत्वम् नाशस्य
प्रतियोगितया कारणसमवधानस्य एकत्र घटादौ सत्त्वा-
दकर्मकत्वम् “फलव्यापारयोरेकनिष्ठतायामकर्मकः” इति
एतन्मते “आश्रये तु तिङः स्मृताः” हर्य्युक्तेः आश्रय
रूपार्थस्य कर्त्तृत्वं तच्च निरुक्तव्यापाराश्रयत्वेन घटादा-
वव्याहतमेव तिङर्थवर्त्तमानत्वादेः कारणसमवधानरूप-
व्यापारेऽन्वयसम्भवान्न काचिदनुपपत्तिः । नैयामिकमते
नाशमात्रस्यैव धात्वर्थत्वेऽपि तदुत्पत्तौ लक्षणा उत्पत्तिश्च
आद्यक्षणसम्बन्धस्तस्य चातीतत्वादिनैव ध्वस्तः ध्वंसते
इत्यादि प्रयोगः । अस्य कर्त्तृत्वं प्रतियोगित्वं त
नाशान्वयि तथा च वर्त्तमानाद्युत्पत्तिकनाशप्रतियोगी
घटादिरिति बोधः । व्युत्पत्तिवैचित्र्याच्च उत्पत्ते
र्नाश एवान्वयः न प्रतियोगिनि इति बोध्यम् । सां-
[Page3924-a+ 29]
ख्यादिसत्कार्यवादे नाशः तिरोहितावस्थेति भेदः ।
“तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्” प्राणा
दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते” भट्टिः । आर्षे
क्वचित् प० “भूतो देवानामब्रीदुग्ररूपो ध्वंसेत्युच्चै
स्त्रिःप्लुतेन स्वरेण” भा० आ० ७९ अ० । मालिन्यादिभावे
च “कृशा विवर्णा मलिना पांशुध्वस्तशिरोरुहा” भा०
व० ६४ अ० “रविजेन बुधे ध्वस्ते” वृ० सं० १७ अ०


skd

k1=ध्वन्स, L=18101
ध्वन्स¦, उ ऌ ङ गतौ । भ्रंशे । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-गतौ सकं-भ्रंशे अकं-सेट् । उदि-
त्वात् क्त्रावेट् ।) उ, ध्वंसित्वा ध्वस्त्वा । ऌ,
अध्वसत् । ङ, ध्वंसते । भ्रंशः अधःपतनम् ।
इति दुर्गादासः ॥


Match 0715: vcp=ध्वृ, skd=ध्वृ

vcp

k1=ध्वृ, L=27685
ध्वृ¦ कौटिन्ये भ्वा० पर० अक० अनिट् । ध्वरति अध्वार्षीत् दध्वार
दध्वर्थ । “ध्वृषीष्ठा युधि मायाभिः” भट्टिः “कुटिली-
करणे सक० “भ्रातृव्यमेवैतया ध्वरति” तैत्ति० स० २ । ५ । ६


skd

k1=ध्वृ, L=18127
ध्वृ¦, कौटिल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-अनिट् ।) वकारोपधः । कौटिल्यमिह
कुटिलीकरणम् । ध्वरति तृणं वायुः । इति
दुर्गादासः ॥


Match 0716: vcp=नख, skd=नख

vcp

k1=नख, L=27762
नख¦ सर्पणे भ्वा० पर० सक० सेट् । नखति अनखीत् अनाखीत्
ननाख नेखतुः । अणोपदेशत्वात् न णत्वं प्रनखति ।


skd

k1=नख, L=18162
नख¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) प्रणखति । इति दुर्गादासः ॥


Match 0717: vcp=नज, skd=नज

vcp

k1=नज, L=27836
नज¦ ब्रीडायां भ्वा० आ० अक० सेट् । नजते अनजिष्ट ।
ननाज नेजतुः । ईदित् ओदिच्च नग्नः । अणोपदेशत्वात्
निमित्ते सति न णत्वं प्रनजति ।


skd

k1=नज, L=18216
नज¦, ओ ई ङ ह्रियि । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-अकं-सेट् । ईदित्वात् निष्ठाया-
मनिट् ।) ओ ई, नग्नः । ङ, नजते । ह्रियि
लज्जायाम् । इति दुर्गादासः ॥


Match 0718: vcp=नट, skd=नट

vcp

k1=नट, L=27839
नट¦ भ्रंशे त्विषि चु० उभ० अक० सेट् । नाटयति ते अनीननटत् त न णत्वम् ।


skd

k1=नट, L=18218
नट¦, नृत्ये । हिंसे ! इति कविकल्पद्रुमः ॥ (भ्वां-
परं-नृत्ये अकं-हिंसे सकं-सेट् ।) नटति ।
इति दुर्गादासः ॥


k1=नट, L=18219
नट¦, क भ्रंशे । त्विषि । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सेट् ।) भ्रंशोऽधःपतनम् ।
स्पन्दनार्थोऽयमिति रामः । क, नाटयति ।
इति दुर्गादासः ॥


k1=नट, L=18220
नट¦, म नृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) म, प्रणटयति । इति दुर्गादासः ॥


Match 0719: vcp=नड, skd=नड

vcp

k1=नड, L=27852
नड¦ भ्रंशे चुरा० उभ० अक० सेट् । नाडयति ते अनीनडत् त ।
[Page3952-b+ 38]
अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनाडयति ।


skd

k1=नड, L=18231
नड¦, क भ्रंशे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) क, नाडयति । भ्रंशोऽधःपतनम् ।
इति दुर्गादासः ॥


Match 0720: vcp=नद, skd=नद

vcp

k1=नद, L=27873
नद¦ अर्चायाम् निघण्टुः स्तुतौ निरु० । भ्वा० पर० सक० सेट् ।
नदति अन(ना)दीत् ननाद । णद शब्द इत्यस्य णोपदेश-
त्वात् सति निमित्ते णत्वं नास्येति भेदः । प्रणिनदति


k1=नद, L=27874
नद¦ सन्तोषे भ्वा० पर० सक० सेट् इदित् । नन्दति अनन्दीत्
ट्टित् । नन्दथुः “यस्यासौ तस्य नन्दथुः” भट्टिः । अणोप-
देशत्वात् न णत्वम् प्रनिन्दति ।


skd

k1=नद, L=18249
नद¦, टु इ संवृधि । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-सेट् ।) टु, नन्दथुः । इ, नन्द्यते ।
संवृधि आनन्दयुक्तभावे । ननन्द पारिप्लव-
नेत्रया नृपः । नन्दते च कुलं पुंसाम् । इति
गणकृतानित्यत्वात् । इति दुर्गादासः ॥


Match 0721: vcp=नम्ब, skd=नम्ब

vcp

k1=नम्ब, L=28023
नम्ब¦ गतौ भ्वा० पर० सक० सेट् । नम्यति अनम्बीत् ननम्ब
अणीपदेशत्वात् सति निमित्ते न णत्वम् । प्रनम्यति ।


skd

k1=नम्ब, L=18365
नम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) ओष्ठ्यवर्गशेषोपधः । नम्बति । इति
दुर्गादासः ॥


Match 0722: vcp=नय, skd=नय

vcp

k1=नय, L=28027
नय¦ गतौ भ्वा० आत्म० सक० सेट् । नयते अनयिष्ट । नेये


skd

k1=नय, L=18368
नय¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-सेट् ।) ङ, नयते । इति दुर्गादासः ॥


Match 0723: vcp=नर्द्द, skd=नर्द्द

vcp

k1=नर्द्द, L=28108
नर्द्द¦ शब्दे अक० गतौ सक० भ्वा० पर० सेट् । नर्द्दति अन-
र्द्दीत् ननर्द । “उदपानाश्च नंर्दन्ति यथा गोवृषभास्तथा”
भा० उ० १४२ अ० । “ते नर्दमाना इव कालमेघाः” भा०
आ० १९३ अ० ताच्छील्ये चानश् । “अनर्दिषुः कपि
व्याघ्राः” । “विदाञ्चकार धौताक्षः स रिपुं खे ननर्द्द
च” भट्टिः प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गोद्यत्यार्थयुक्ते
शब्दे अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनर्दति ।


skd

k1=नर्द्द, L=18415
नर्द्द¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) नर्द्दति । इति दुर्गादासः ॥


k1=नर्द्द, L=18416
नर्द्द¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ॥)


Match 0724: vcp=नर्ब, skd=नर्ब्ब *

vcp

k1=नर्ब, L=28112
नर्ब¦ गतौ भ्वा० पर० सक० सेट् । नर्बति अनर्वीत् ननर्ब ।
अणोपदेशत्वात् सति निमित्ते न णत्वम् । प्रनर्बति ।


skd

k1=नर्ब्ब, L=18418
नर्ब्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां परं-सकं-
सेट् ।) रेफोपधः । नर्ब्बति । इति दुर्गादासः ॥


Match 0725: vcp=नाथ, skd=नाथ

vcp

k1=नाथ, L=28440
नाथ¦ दवे (उपतापे) प० आशिषि आत्म० ऐश्येऽर्थने च पर०
भ्वा० मक० सेट् नाथति दुनोति ईष्टे याचते इत्यर्थः
नाथते आशंसते इत्यर्थः । अनाथीत् अनाथिष्ट । ननाथ-
थे ऋदित् अननाथत् । नाथः । अणोपदेशत्वात् सति
निमित्ते म णत्वम् प्रनाथति । याचने “सन्तुष्टमिष्टानि
तमिष्टदेतं नाथन्ति के नाम न लोकनाथम्” नैष० “आ-
शिषि नाथः” पा० आशीर्वादे एवात्मनेपदविधानात्
उपतापयाचनादौ परस्यैपदित्वम् अतएव काव्यप्र०
“दीनं त्वामनुनाथते कुचयुगम्” इति च्युतसंस्कृतिदोषे
उदाहृत्योक्तं यथा अत्र अनुनाथते इति । सर्पिषो
नाथते इत्यादावशिष्येव नाथतेरात्मनेपदं विहितम् ।
“आशिषि नाथः” इति सू० अत्र तु याधनमर्थः तस्मात्
“दीनं त्वामनुनाथति स्तनयुगमिति” पठनीयम् ।


skd

k1=नाथ, L=18663
नाथ¦, ऋ ङ आशिषि । दवैश्येऽर्थे । इति कवि-
कल्पद्रुमः ॥ (भ्वां-परं-आत्मं च-सकं-ऐश्ये अकं-
सेट् ।) दन्त्यादिरयम् । ऋ, अननाथत् । ङ,
प्रणाथते प्रनाथते । दव उपतापः । आशी-
रिष्टार्थाशंसनम् । ङित्त्वेऽपि शपथाशीर्गत्यनु-
कारे इति नियमादाभ्यामाशिषोऽन्यत्र परस्मै-
पदम् । नाथति शत्रुं बली उपतापयतीत्यर्थः ।
नाथते श्रियं लोकः आशंसते इत्यर्थः । नाथति
धनी ईश्वरः स्यादित्यर्थः । नाथति भूपं भूमिं
विप्रः प्रार्थयतीत्यर्थः । मार्गणैरथ तव प्रयो-
जनं नाथसे किमु न भूभृतः पतिमिति भारवौ
याचनमप्याशंसाविशेषः । आशिषि नित्य-
मात्मनेपदमन्यत्र विभाषयेति केचित् । इति
दुर्गादासः ॥


Match 0726: vcp=नाध, skd=नाध

vcp

k1=नाध, L=28452
नाध¦ नाथार्थे भ्वा० आ० सक० सेट् । नाधते अनाधिष्ट ननाधे
ऋदित् चङि अननाघत् त । अयं णोपदेशोऽपीत्यन्ये
तेन सति निमित्ते णत्वम् । कविकल्पद्रुमेऽस्योभ-
यथा कीर्त्तनादस्य उभयविघत्वम् “रोदसी नाधसी
वृतौ” ऋ० १० । ६५ । ५ “णाधृ याच्ञौतापैश्वर्य्यादौ
नाधसी याचमाने” भा० ।


skd

k1=नाध, L=18671
नाध¦, ऋ ङ नाथे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं ऐश्ये अकं-सेट् ।) ऋ, अननाधत् ।
ङ, नाधते । नाथो दवाशीरैश्यार्थनानि । इति
दुर्गादासः ॥


Match 0727: vcp=निष्क, skd=निष्क

vcp

k1=निष्क, L=29312
निष्क¦ माने चु० आत्म० सक० सेट् । १ निष्कयते अनिनिष्कत ।
अणोपदेशत्वात् सति निमित्ते न णत्वम् । प्रनिष्कयते ।


skd

k1=निष्क, L=19313
निष्क¦, क ङ माने । इति कविकल्पद्रुमः ॥ (चुरां-
आत्मं-सकं-सेट् ।) मूर्द्धन्यषमध्यः । क ङ,
निष्कयते स्वर्णं बणिक् । इति दुर्गादासः ॥


Match 0728: vcp=नुड, skd=नुड

vcp

k1=नुड, L=29613
नुड¦ बधे तु० कु० पर० सक० सेट् । नुडति अनुडीत् । नुनोड अणोपदेशत्वात् न णत्यं प्रनुडति ।


skd

k1=नुड, L=19557
नुड¦, शि वधे । इति कविकल्पद्रुमः ॥ (तुदां-कुटां-
परं-सकं-सेट् ।) शि, नुडति अनुडीत् नुनोड ।
इति दुर्गादासः ॥


Match 0729: vcp=नृत, skd=नृत

vcp

k1=नृत, L=29630
नृत¦ नर्त्तने दिवा० प० अक० सेट् । नृत्यति अनर्त्तीत् न-
नर्त्त नर्त्तिष्यति नर्त्स्यति । नृत्तम् नृत्यम् । निनृत्-
णति नरीनृयते । नरीनत्तिं नर्नर्त्ति नरीनरीति नर्न-
रीति । अणोषदेशत्वात् सति निमित्ते न णत्वम् । प्रनृ-
त्यति नर्त्तकः नर्त्तकी । “नृत्यति युवतिजनेन समं
सति! विरहिजनस्य दुरन्ते” गीतगो० “नृत्यन्ति गोक-
र्णशरीरभक्षाः” चोरप० ।


skd

k1=नृत, L=19572
नृत¦, य नर्त्ते । इति कविकल्पद्रुमः ॥ (दिवां-परं-
अकं-सेट् ।) य, नृत्यति नर्त्तकः । इति दुर्गा-
दासः ॥


Match 0730: vcp=नॄ, skd=नॄ

vcp

k1=नॄ, L=29697
नॄ¦ नीतौ क्र्यादि० प्वादि० पर० सक० सेट् । नृणाति अना-
रीत् अणोपदेशत्वान्न णत्वम् कविकल्पद्रुमः पाणिनि-
मते नृ न ये इति ह्रस्वान्तएव पाठः । तस्यैव णोपदेश
पर्युदासता ।


k1=नॄ, L=29698
नॄ¦ नये भ्वा० पर० सक० सेट् । नरति अनारीत् । घटा० णिच् नरयति । न णत्वम् ।


skd

k1=नॄ, L=19613
नॄ¦, म नीतौ । इति कविकल्पद्रुमः ॥ (स्वां-णिचि
घटां-सकं-सेट् ।) म, नरयति । नीतिः प्रापणा ।
इति दुर्गादासः ॥


Match 0731: vcp=पक्ष, skd=पक्ष

vcp

k1=पक्ष, L=29948
पक्ष¦ परिग्रहे अद० चु० उभ० सक० सेट् । पक्षयति ते अपपक्षत् त ।


k1=पक्ष, L=29949
पक्ष¦ परिग्रहे चु० उभ० सक० सेट् अयं भ्यादिश्च पर०
पक्षति पक्षयति ते अपपक्षत् त अपक्षीत्


skd

k1=पक्ष, L=19746
पक्ष¦, क परिग्रहे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, पक्षयति । इति दुर्गादासः ॥


k1=पक्ष, L=19747
पक्ष¦, त् क परिग्रहे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरां-परं-सकं-सेट् ।) पक्षयति पक्षापयति ।
इति दुर्गादासः ॥


Match 0732: vcp=पच, skd=पच

vcp

k1=पच, L=30016
पच¦ पाके भ्वा० उभ० सक० अनिट् । पचति ते । अपाक्षीत् अपक्त
पपाच पेचे । पक्ता । पक्वम् पचेलिम् पक्तिः पाकः ।
[Page4181-b+ 38]
ड्वित् पक्त्रिमः । अनेन विक्लेदनाया उत्पत्त्यनुकूलव्यापारस्य
चेति व्यापारद्वयस्य वचनात् द्विकर्मकत्वम् तण्डुलानोदनं
पचतीत्यस्य तण्डुलान् विक्लेदयन् ओदनं निष्पादयती-
त्यर्थः । दुहा० गौणे कर्मणि लकारादयः । तण्डुला ओ-
दनं पच्यन्ते दुहादिशब्दे कर्मन्शब्दे च अधिकं दृश्यम् ।
परि + परितः पाके परिणामे ।
वि + विशेषेण पाके अन्यथाभूतस्य अन्यरूपेण परिणामे ।


k1=पच, L=30017
पच¦ व्यक्तीकारे भ्वा० आत्म० अनिट् । पचते अपक्त पेचे ।


k1=पच, L=30018
पच¦ विस्तारे चु० उ० सक० सेट् इदित् । पञ्चयति ते अप-
पञ्चत् त ।


skd

k1=पच, L=19813
पच¦, इ क ततौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् । इदित् ।) ततिरिह विस्तार-
वचनम् । इ क, पञ्चयति धीरो ग्रन्थार्थम् । इति
दुर्गादासः ॥ (यथा, गीतगोविन्दे । १० । १३ ।
“व्यथयति वृथा मौनं तन्वि ! प्रपञ्चय पञ्चमम् ।
तरुणि ! मधुरालापैस्तापं विनोदय दृष्टिभिः ॥”)


k1=पच, L=19815
पच¦, ङ औ व्यक्तीकारे । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-सकं-अनिट् ।) औ, पक्ता ।
ङ, पचते स्वगुणं भिक्षुकः । इति दुर्गा-
दासः ॥


k1=पच, L=19816
पच¦, डु ञ औ ष पाके । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-द्विकं-अनिट् ।) पाको विक्लित्यनु-
कूलव्यापारः । डु, पक्त्रिमम् । ञ, पचति पचते
तण्डुलानोदनं लोकः । औ, पक्ता । ष, पचा ।
इति दुर्गादासः ॥


Match 0733: vcp=पज, skd=पज

vcp

k1=पज, L=30038
पज¦ आवरणे भ्वा० पर० सक० सेट् इदित् । पञ्जति अपञ्जीत् पपञ्ज ।


skd

k1=पज, L=19834
पज¦, इ रोधे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट्-इदित् ।) रोध आवरणम् ।
पञ्जरः । सौत्रधातुरयम् । इति दुर्गादासः ॥


Match 0734: vcp=पट, skd=पट

vcp

k1=पट, L=30233
पट¦ गतौ भ्वा० पर० सक० सेट् । पटति । अपाटीत् अपटीत् ।
पपाट पेटतुः । उद् + णिच् । उन्मूलने उत्पाटयति ।


k1=पट, L=30234
पट¦ दीप्तौ चु० उभ० अक० सेट् । पाटयति ते अपीपटत् त ।
अव--छेदने सक० । अवपाटयति छिनत्तीत्यर्थः ।


k1=पट, L=30235
पट¦ वेष्टने अद० चु० उभ० सक० सेट् । पटयति ते अपपटत् त


skd

k1=पट, L=19970
पट¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) पटति । इति दुर्गादासः ॥


k1=पट, L=19971
पट¦, क त्विषि । इति कविकल्पद्रुमः ॥ (चुरां-परं-
अकं-सेट् ।) क, पाटयति । त्विषि दीप्तौ ।
इति दुर्गादासः ॥


k1=पट, L=19972
पट¦, त् कवेष्टने । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) ग्रन्थने । इत्यन्ये । पट-
यति मालां मालिकः । इति दुर्गादासः ॥


Match 0735: vcp=पठ, skd=पठ

vcp

k1=पठ, L=30291
पठ¦ लिखिताक्षरवाचने भ्वा० पर० सक० सेट् । पठति अपाठीत्
अपठीत् पपाठ पेठतः । पठितव्यं पाठ्यं पाठः पठनम्


skd

k1=पठ, L=20040
पठ¦, वाचि । इति कविकल्पद्रुमः । (भ्वां-परं-सकं-
सेट् ।) पठति श्लोकं धीरः । इति दुर्गादासः ॥


Match 0736: vcp=पड, skd=पड

vcp

k1=पड, L=30295
पड¦ गतौ भ्वा० आ० सक० सेट् इदित् । पण्डते अपण्डिष्ट
पपण्डे पण्डा । पण्डितः ।


skd

k1=पड, L=20047
पड¦, इ क् संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् । इदित् ।) इ क्, पण्डयति ।
संहती राशीकरणम् । इति दुर्गादासः ॥


k1=पड, L=20048
पड¦, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-सकं-सेट् । इदित् ।) इ, पण्ड्यते । ङ,
पण्डते । इति दुर्गादासः ॥


Match 0737: vcp=पण, skd=पण

vcp

k1=पण, L=30299
पण¦ व्यवहारे (क्रयविक्रयादौ)स्तुतौ च भ्वा० आ० सक० सेट् ।
देवने अक० अर्चने निषण्टुः । स्मार्थे आय वा स्तुतौ पर०
पणायति ते पणते व्यवहारे तु षणायति इत्येक ।
आर्द्धधातुके अस्मात् वा आय । अपणायीत् अपणा-
यिष्ट अपणिष्ट । क्रयविक्रयार्थे च अस्य कर्मणि
शेषत्वेन विवक्षिते षष्ठो तस्याश्च न समासः शतस्य
षणायते “व्यवहृपणोः समर्थयोः” पा० द्यूते० क्रयवि-
क्रयव्यवहारे चानयोस्तुल्यात्रर्थता शतस्य पणनम् ।
स्तुतौ तु समासः बाह्मणपणम्” सि० कौ० प्रत्ययान्त-
त्वात् भावे अ पणाया ।


skd

k1=पण, L=20049
पण¦, ङ व्यवहृतौ । स्तुतौ । इति कविकल्पद्रुमः ॥
(भ्वां-आत्मं-सकं-सेट् ।) व्यवहृतौ व्यवहारे ।
ङ, पणते । पणायति पणायते आयान्तत्वादुभय-
पदमिति वोपदेवः । प्राणानामपणिष्टासौ अत्र
कर्म्मणि षष्ठी । स्तुतौ तु पणायति पणायते
विष्णुं धीरः । अरे तु द्बयोरर्थयोरेव आयस्या-
प्राप्तिपक्ष आत्मनेपदमेव । अपणिष्ट पेणे
पणिता पणिषीष्ट पणिष्यते अपणिष्यत् । इति
दुर्गादासः ॥


Match 0738: vcp=पत, skd=पत

vcp

k1=पत, L=30332
पत¦ गतौ अद० चु० उम० सक०, ऐश्ये अक० सेट् । पत-
यति--ते अपपतत्--त ।


k1=पत, L=30333
पत¦ ऐश्ये दि० आ० अक० सेट् । पत्यते अपतिष्ट । पेते


k1=पत, L=30334
पत¦ गतौ भ्वा० पर० सक०, ऐश्ये अक० ज्वला० सेट् । पत-
अपप्तत् । पपात पेततुः । ज्बला० पतः पातः । पतितः
पतयति पातयति । सनि पित्सति पापत्वते । अधःस्य-
न्दने अक० अधःसंयोगानुकूले सफ० नरकं पतित इत्यादि


skd

k1=पत, L=20081
पत¦, ऌ ज गतौ । ऐश्ये । इति कविकल्पद्रुमः ॥
(भ्वां-परं-अकं-सेट् ।) ऌ, अपतत् । ज, पातः
पतः । गतिरिह पतनम् । पतति पत्रं वृक्षात् ।
इति दुर्गादासः ॥


k1=पत, L=20082
पत¦, त् क गतौ । ऐश्ये । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-परं-अकं-सेट् ।) ऐश्यमिश्वरी-
भावः । गतिरिह पतनम् । पतयति पत्रं
वृक्षात् । इति दुर्गादासः ॥


k1=पत, L=20083
पत¦, य ङ ऐश्ये । इति कविकल्पद्रुमः ॥ (दिवां-
आत्मं-अकं-सेट् ।) य ङ, पत्यते । ऐश्यमैश्वर्य्य-
मिश्वरीभावः । इति दुर्गादासः ॥


Match 0739: vcp=पथ, skd=पथ

vcp

k1=पथ, L=30460
पथ¦ गतौ भ्वा० पर० सक० सेट् । पथति एदित् अपथीत् ।
ज्वला० पथः पाथः प(पा)थयति । पपाथ पेथतुः ।


k1=पथ, L=30461
पथ¦ गतौ वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । पन्थ-
यति ते पन्थति । अपपन्थत् त । अपन्थीत् इदित् पन्थ्यते


skd

k1=पथ, L=20175
पथ¦, इ क गत्याम् । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् । इदित् ।) इ क, पन्थयति ।
इति दुर्गादासः ॥


k1=पथ, L=20176
पथ¦, ए ज गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-सेट् । ज्वलादिः ।) ए, अपथीत् । ज,
पाथः पथः । इति दुर्गादासः ॥


Match 0740: vcp=पद, skd=पद

vcp

k1=पद, L=30479
पद¦ स्थैर्ये भ्वा० पर० सक० सेट् । पदति अपादीत् अपदीत् अपादीत् । पपाद पेदतुः ।


k1=पद, L=30480
पद¦ गतौ दि० आ० सक० अनिट् । पद्यते अपादि पेदे पन्नः
आ + विपत्तौ आपत्तौ च णिच् आपादन व्यापकाभावेन
व्याप्याभावकल्पने प्राप्तौ च ।
उद् + उत्पत्तौ उद्भवे जनने अक० ।
प्रति + उद् झटित्युद्भवे अक० ।
वि + उद्--शब्दस्यावयवार्थबोधने व्युत्पत्तिः ।
उप + युक्तियोगे उपपद्यते उपपत्तिः ।
अभि + उपसान्त्वने । कुमा० ४ श्लोकः
निस् + निष्पत्तौ अवस्थान्तरप्राप्तौ अक० ।
प्र + प्राप्तौ सक० । प्रपन्नः
प्रति + खीकारे अङ्गीकारे सक० प्रतिपत्तिः प्रतिपन्नः ।
वि + प्रति + संशये सक० विप्रतिपन्नः ।
वि + मरने नाशे अक० । विपद्यते विपन्नः विपद् ।
सम् + सम्यग् वृद्धौ अक० सम्पद्यते सम्पद् ।


k1=पद, L=30481
पद¦ गतौ अद० चु० आत्म० सक० सेट् । पदयते अपपदत ।


skd

k1=पद, L=20191
पद¦, स्थ्यैर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-
सेट् ।) पदति । इति दुर्गादासः ॥


k1=पद, L=20192
पद¦, त् क ङ गतौ । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-आत्मं-सकं-सेट् ।) क ङ, पदयते । इति
दुर्गादासः ॥


k1=पद, L=20193
पद¦, य ङ औ गत्याम् । इति कविकल्पद्रुमः ॥
(दिवां-आत्मं-सकं-अनिट् ।) य ङ, पद्यते । औ,
पत्ता । इति दुर्गादासः ॥


Match 0741: vcp=पन, skd=पन

vcp

k1=पन, L=30589
पन¦ स्तुतौ भ्वा० आत्म० सक० सेट स्वार्थे आय वा तत्र आत्म० ।
पनायते पनायति आर्द्धधातुके वा आय । अपनायीते
अपनायिष्ट अपनिष्ट । पनायां--बमूय आस चक्रे पेने
इत्यादि ।


skd

k1=पन, L=20279
पन¦, ङ ईडे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
सकं-सेट् ।) ईडः स्तुतिः । पनायति पनायते
विष्णुं धीरः । आयान्तत्वादुभयपदमिति वोप-
देवः । अरे तु आयस्याप्राप्तिपक्षे आत्मनेपद-
मेव । ङ, अपनिष्ट पेने पनिता पनिषीष्ट पनि-
ष्यते अपनिष्यत । इति दुर्गादासः ॥


Match 0742: vcp=पय, skd=पय

vcp

k1=पय, L=30622
पय¦ गतौ भ्वा० आत्म० सक० सेट् । पयते अपयिष्ठ ।


skd

k1=पय, L=20298
पय¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां आत्मं-
सकं सेट् ।) ङ, पयते । इति दुर्गादासः ॥


Match 0743: vcp=पर्ण, skd=पर्ण

vcp

k1=पर्ण, L=31126
पर्ण¦ हरितीकरणे अ० चु० उभ० सक० सेट् । पर्णयति--ते अप
पर्णत्--त । वसन्तः पर्णयति धम्पकम् ।


skd

k1=पर्ण, L=20689
पर्ण¦, त् क हारित्ये । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-परं-सकं-सेट् ।) हरित् पीत-
वर्णस्तस्य भावः हारित्यम् । पर्णयति पर्णा-
पयति चम्पकम् । इति दुर्गादासः ॥


Match 0744: vcp=पर्द्द, skd=पर्द्द

vcp

k1=पर्द्द, L=31166
पर्द्द¦ अपानवायुक्रियायां भ्वा० आत्म० अक० सेट् । पर्द्दते अपर्द्दिष्ट पपर्द्दे ।


skd

k1=पर्द्द, L=20711
पर्द्द¦, ङ अपानोत्सर्गे । इति कविकल्पद्रुमः ॥ (भ्वां-
आत्मं-अकं-सेट् ।) ङ, पर्द्दते वृद्धः । इति
दुर्गादासः ॥


Match 0745: vcp=पर्ब, skd=पर्ब्ब *

vcp

k1=पर्ब, L=31177
पर्ब¦ गतौ भ्वा० पर० स सेट् । पर्तति अपर्वीत् पपर्ब ।


skd

k1=पर्ब्ब, L=20720
पर्ब्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां परं-सकं-


Match 0746: vcp=पर्व, skd=पर्व्व *

vcp

k1=पर्व, L=31224
पर्व¦ पूर्त्तौ भ्वा० पर० सक० सेट् । पर्वति अपर्वीत् । पपर्व ।


skd

k1=पर्व्व, L=20750
पर्व्व¦, पूर्त्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) पर्व्वति पयसा कुम्भं चेटी । इति
दुर्गादासः ॥


Match 0747: vcp=पर्ष, skd=पर्ष

vcp

k1=पर्ष, L=31267
पर्ष¦ स्नेहे भ्वा० आत्म० सक० सेट् । पर्षते अपर्षिष्ठ पप


skd

k1=पर्ष, L=20785
पर्ष¦, ङ स्नेहे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-
अकं-सेट् ।) रेफोपधः । स्नेह इह आर्द्री-
भावः । ङ, पर्षते पयसा पटः । स्पर्ष इति
चतुर्भुजः । स्पर्षते पस्पर्षे । इति दुर्गादासः ॥


Match 0748: vcp=पल, skd=पल

vcp

k1=पल, L=31271
पल¦ गतौ भ्वा० पर सक० सेट् । पलति अपालीत् पपाल
पेलतुः । जित् ज्वला० पलः पाल ।


k1=पल, L=31272
पल¦ रक्षणे चुरा० उभ० सक० सेट् । पालयति ते अपीपलत्-


skd

k1=पल, L=20788
पल¦, क रक्षे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, पालयति । ह्रस्ववतै-
वेष्टसिद्धे दीर्घिणोऽपि पाठः कानुबन्धाना-
मिदनुबन्धवत् ञेरनित्यतां बोधयति । तेन पालति
पलति इत्यपि सिद्धम् । इति दुर्गादासः ॥


k1=पल, L=20789
पल¦, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ज, पालः पलः । इति दुर्गादासः ॥


Match 0749: vcp=पल्युल, skd=पल्युल

vcp

k1=पल्युल, L=31321
पल्युल¦ छेदने पूतौ च अद० चुरा० उभ० सक० सेट् । पल्युलयति ते अषपल्युलत् त ।


skd

k1=पल्युल, L=20832
पल्युल¦, त् क लूनिपूत्योः । इति कविकल्पद्रुमः ।
(अदन्तचुरां-परं-सकं-सेट् ।) यकारयुक्तैक-
लकारमध्यः ह्रस्वमध्यश्च । लूनिश्छेदः । पूतिः
पवित्रीकरणम् । अपपल्युलत् तृणं लोकः ।
पल्युलयति जनं गङ्गा । इति दुर्गादासः ॥


Match 0750: vcp=पल्यूल, skd=पल्यूल

vcp

k1=पल्यूल, L=31322
पल्यूल¦ छेदने पवित्रताकरणे च अद० चुरा० उभ० सक० सेट् ।
पल्यूतयति ते अपपल्यूलत् त ।


skd

k1=पल्यूल, L=20833
पल्यूल¦, त् क लूनिपूत्योः । इति कविकल्पद्रुमः ॥
(अदन्तचुरां-परं-सकं-सेट् ।) यकारयुक्तैक-
लकारमध्यः दीर्घमध्यश्च । लूनिश्छेदः । पूतिः
पवित्रीकरणम् । अपपल्यूलत् तृणं लोकः ।
पल्यूलयति जनं गङ्गा । इति दुर्गादासः ॥


Match 0751: vcp=पल्ल, skd=पल्ल

vcp

k1=पल्ल, L=31323
पल्ल¦ गतौ भ्वा० पर० सक० सेट् । पल्लति अपल्लीत् अपल्ल ।


skd

k1=पल्ल, L=20834
पल्ल¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
सेट् ।) पल्लति । इति दुर्गादासः ॥


Match 0752: vcp=पश, skd=पश

vcp

k1=पश, L=31364
पश(ष--स)¦ बाधे विहतौ भ्वा० उभ०० सक० सेट् । पश(ष)-
(स)ति ते अपशी(षो)(सी)त् अपाशी(षी)(सी)त् अप-
शि(षि)(सि)ष्ट । पपाश(ष)(स)पेशे(षे)(से) । दन्त्यान्त्य-
स्यैव अभ्यासस्य सम्” यङ्यङ्लुकोः सि० कौ० पम्प-
स्यति--पम्पसीति । तालव्यान्त्यस्य तथेत्यन्ये ।


k1=पश, L=31366
पश(ष--स)¦ बन्धे चुरा० उभ० सक० सेट् । पाश(ष)सयति ते
अपीपश(ष)(स) त ।


skd

k1=पश, L=20878
पश¦, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) क, पाशयति । इति दुर्गादासः ॥


k1=पश, L=20879
पश¦, ञ बाधे । ग्रन्थे । इति कविकल्पद्रुमः ॥
(भ्वां-उभं-सकं-सेट् ।) ञ, पशति, पशते । बाधो
विहतिः । ग्रन्थो ग्रन्थनम् । ग्रन्थस्थाने स्पर्शनं
पठन्ति केचित् । इति दुर्गादासः ॥


k1=पश, L=20880
पश¦, त् क अनुपसर्गाद्बन्धबाधयोः । स्पर्शगत्योः ।
इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-
सेट् ।) तालव्योपधः । पशयति । अनुपसर्गा-
दिति सोपसर्गस्य प्रयोगो निषिध्यते । बाधो-
विहतिः । इति दुर्गादासः ॥


Match 0753: vcp=पस, skd=पस

vcp

k1=पस, L=31413
पस¦ नाशने चु० उभ० सक० सेट् इदित् । पंसयति ते अपपंसत् त


skd

k1=पस, L=20908
पस¦, इ क नाशे । इति कविकल्पद्रुमः । (चुरां-
परं-सकं-सेट् ।) नाश इह नष्टीकरणम् ।
इ क, पंसयति पापं गङ्गा । इति दुर्गादासः ॥


k1=पस, L=20909
पस¦, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, पासयति । पृथक्पाठा-
दयं न ञित् । अन्यथा पस कि ञ इत्यनेनैवेष्ट-
सिद्धे पृथक्पाठोऽनर्थकः स्यात् । इति दुर्गा-
दासः ॥


k1=पस, L=20910
पस¦, ञ बाधे । ग्रन्थे । इति कविकल्पद्रुमः । (भ्वां-
उभं-सकं-सेट् ।) ञ, पसति पसते । इति दुर्गा-
दासः ॥


Match 0754: vcp=पा, skd=पा

vcp

k1=पा, L=31419
पा¦ पाने भ्वा० पर० सक० अनिट् । शिति पिवादेशः पिवति
अपात् पपौ पेयात् पीयते पीत्वा पीतः पायः पेयं
प्रपा । णिच् पाययति णौचङि अपीप्यत् । पिपा-
सति पेपीयते ।


k1=पा, L=31420
पा¦ रक्षणे अदा० पर० सक० सेट् । पाति अपासीत् पपौ ।
पायात् णिच् पालयति अपीपलत् । पालनम् पालकः


skd

k1=पा, L=20914
पा¦, पाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-
अनिट् ।) अस्यैव पिबादेशः । पिबति पयः
पान्थः । इति दुर्गादासः ॥


k1=पा, L=20915
पा¦, ल रक्षणे । इति कविकल्पद्रुमः ॥ (अदां-
परं-सकं-अनिट् ।) ल, पाति । इति दुर्गा-
दासः ॥


Match 0755: vcp=पार, skd=पार

vcp

k1=पार, L=31778
पार¦ कर्मसमाप्तौ अद० चु० उभ० सक० सेट् । पारयति ते अप-
पारत् त ।


skd

k1=पार, L=21224
पार¦, त् क कर्म्मसमाप्तौ । इति कविकल्पद्रुमः ॥
(अदन्त चुरां-परं-सकं-सेट् ।) अपपारत् ।
इति दुर्गादासः ॥


Match 0756: vcp=पाल, skd=पाल

vcp

k1=पाल, L=31925
पाल¦ रक्षणे चु० उभ० सक० सेट् । पालयति ते अपीपलत् त ।


skd

k1=पाल, L=21356
पाल¦, क रक्षे । इति कविकल्पद्रुमः (चुरां-परं-
सकं-सेट् ।) क, पालयति । ह्नस्ववतैवेष्टसिद्धे
दीर्घिणोऽपि पाठः । कानुबन्धानामिदनुबन्धवत्
ञेरनित्यतां बोधयति । तेन पालति पलति
इत्यपि सिद्धम् । इति दुर्गादासः ॥


Match 0757: vcp=पि, skd=पि

vcp

k1=पि, L=31998
पि¦ गतौ तु० सक० पर० अनिट् । पियति । अपैषीत् । पिपाय ।
पिप्यतु ।


skd

k1=पि, L=21410
पि¦, श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-अनिट् ।) श, पियति । इति दुर्गादासः ॥


Match 0758: vcp=पिच्च, skd=पिच्च

vcp

k1=पिच्च, L=32034
पिच्च¦ छेदे चु० उभ० सक० सेट् । पिच्चयति ते अपिपिच्चत् त ।


skd

k1=पिच्च, L=21453
पिच्च¦ क छेदे । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, पिच्चयति । इति दुर्गा-
दासः ॥


Match 0759: vcp=पिच्छ, skd=पिच्छ

vcp

k1=पिच्छ, L=32039
पिच्छ¦ बाधे तु० पर० सक० सेट । पिच्छति अपिच्छीत् पिपिच्छ


skd

k1=पिच्छ, L=21455
पिच्छ¦, श बाधे । इति कविकल्पद्रुमः ॥ (तुदां-
परं-सकं-सेट् ।) श, पिच्छती पिच्छन्ती ।
बाधो विहितिः । इति दुर्गादासः ॥


Match 0760: vcp=पिज, skd=पिज

vcp

k1=पिज, L=32051
पिज¦ दीप्तौ वासे बले (सामर्थ्ये) च अक० हिंसायां दाने च
सक० चु० उभ० सेट् इदित् । पिञ्जयति ते अपिपिञ्जत् त ।


skd

k1=पिज, L=21470
पिज¦, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सकं च-सेट् ।) इ क पिञ्ज्य-
यति । भाः दीप्तिः । षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥


k1=पिज, L=21471
पिज¦, इ ल ङ वर्णपूजयोः । इति कविकल्पद्रुमः ॥
(अदां-आत्मं-अकं-सकं च-सेट् ।) इ, पिञ्ज्यते ।
ल ङ, पिङ्क्ते । इति दुर्गादासः ॥


Match 0761: vcp=पिट, skd=पिट

vcp

k1=पिट, L=32066
पिट¦ संहतौ ध्वनौ च भ्वा० पर० अक० सेट् । पेटति अपेटीत् पिपेट ।


skd

k1=पिट, L=21489
पिट¦, संहतौ । ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-सकं-अकंच-सेट् ।) पेटति जनः किञ्चि-
द्राशीकरोति शब्दायते वा । इति दुर्गादासः ॥


Match 0762: vcp=पिठ, skd=पिठ

vcp

k1=पिठ, L=32075
पिठ¦ क्लेशे अक० वधे सक० भ्वा० पर० सेट् । पेठति अपेठीत् पिपेठ ।


skd

k1=पिठ, L=21497
पिठ¦, क्लिशि । वधे । इति कविकल्पद्रुमः ॥ (भ्वां-
परं-अकं-वधे सकं-सेट् ।) ओष्ठ्यवर्गाद्यादिः ।
पेठति । पिपिठतुः । क्लिशि दुःखानुभवे । इति
दुर्गादासः ॥


Match 0763: vcp=पिड, skd=पिड

vcp

k1=पिड, L=32078
पिड¦ राशीकरणे भ्वा० आत्म० सक० सेट् इदित् । पिण्डते
अपिण्डिष्ट । अय चुरादिरपि तत्रार्थे उभ० । पिण्डयति
ते अपिपिण्डत् त ।


skd

k1=पिड, L=21501
पिड¦, इ क संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) इ क, पिण्डयति । संहतिः
राशीकरणम् । इति दुर्गादासः ॥


k1=पिड, L=21502
पिड¦, इ ङ संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां
आत्मं-अकं सेट् । सकं इति केचित् ।) इ
पिण्ड्यते । ङ, पिण्डते । इति दुर्गादासः ॥


Match 0764: vcp=पिल, skd=पिल

vcp

k1=पिल, L=32213
पिल¦ प्रेरण चु० उभ० सक० षेट् । पेलयति ते अपीविलत्--त ।


skd

k1=पिल, L=21622
पिल¦, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) क, पेलयति । नुदि प्रेरणे ।
इति दुर्गादासः ॥


Match 0765: vcp=पिव, skd=पिव

vcp

k1=पिव, L=32220
पिव¦ सेचने भ्वा० पर० सक० सेट् इदित् । पिन्वति अपिन्वीत् ।
पिपिन्व पिन्व्यते । पिन्वनम्


skd

k1=पिव, L=21627
पिव¦, इ सेचने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) इ, पिन्व्यते । इति दुर्गादासः ॥


Match 0766: vcp=पिश, skd=पिश

vcp

k1=पिश, L=32221
पिश¦ अवयये समूहस्यांशभावे अक० दीपनायां सक० तुदा०
मुचा० पर० सेट् । पिंशति घटः समूहीभवतीत्यर्थः ।
“त्वष्टा रूपाणि पिंशतु” ऋ० १० । १८४ । १ दीपयतु इत्यर्थः
अपेशीत् पिपेश ।


skd

k1=पिश, L=21628
पिश¦, श प अवयवे । इति कविकल्पद्रुमः ॥
(तुदां-मुचां-परं अकं-सेट् ।) श प, पिंशति
पटः अवयवी स्यादित्यर्थः । इति दुर्गादासः ॥


Match 0767: vcp=पिष, skd=पिष

vcp

k1=पिष, L=32240
पिष¦ चूर्णने रु० पर० सक० अनिढ् । पिनष्टि ऌदित् अपिषत्
पिपेष पेष्टा पिष्टः पेषः पेषणम् । “शुष्कचूर्णरूक्षेषु
पिघः” पा० एषूपपदेषु कर्मसु णमुल् कसा० यथाविध्यनु-
प्रयोगः “शुष्कपेषं पिनष्मुर्वीम्” भट्टिः “स्नेहने
पिषः” पा० स्नेहसाधने करणे उपपदे णमुल् ।
उदपेषम् पिनष्टि उदकेन पिनष्टीत्यर्थः पेषमादिपरे उद-
कस्योदादेशः ।


skd

k1=पिष, L=21644
पिष¦, ध औ ऌ चूर्णने । इति कविकल्पद्रुमः ॥
(रुधां-परं-सकं-अनिट् ।) ध, पिनष्टि लोको
गोधूमम् । औ, पेष्टा । ऌ, अपिषत् । इति
दुर्गादासः ॥


Match 0768: vcp=पिस, skd=पिस

vcp

k1=पिस, L=32256
पिस¦ गतौ भ्वा० पर० सक० सेट् । पेसति अपेसीत् पिपेस ऋदित् अपिपेसत्--त ।


k1=पिस, L=32257
पिस¦ दीप्तौ वा चु० उभ० पक्षे भ्वा० पर० अक० सेट् इदित् ।
पिंसयति ते अपिपिंसत् त । पक्षे पिंसति अपिंसीत् ।


skd

k1=पिस, L=21658
पिस¦, इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां-
पक्षे भ्वां-परं-अकं-सेट् । इदित् ।) इ, पिंस्यते ।
कि, पिंसयति पिंसति । द्युतिर्दीप्तिः । इति
दुर्गादासः ॥


k1=पिस, L=21659
पिस¦, ऋ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) ऋ, अपिपेसत् अपिपिसत् । पिपे-
सतुः पिपिसतुः । इति दुर्गादासः ॥


k1=पिस, L=21660
पिस¦, क षट्टार्थे । गत्याम् । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) क, पेसयति । मूर्द्धन्या-
न्तोऽयमिति केचित् । षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥


Match 0769: vcp=पी, skd=पी

vcp

k1=पी, L=32261
पी¦ पागे दि० सक० आत्म० अनिट् । पीयते अपेष्ट । ल्यप्
“निपीक्ष यस्य क्षितिरक्षिणः कथाम्” नैषधः पिबतेस्तु
निपाय इत्येव ।


skd

k1=पी, L=21662
पी¦, ङ य पाने । इति कविकल्पद्रुमः ॥ (दिवां-
आत्मं-सकं-अनिट् ।) ङ य, पीयते । इति
दुर्गादासः ॥


Match 0770: vcp=पीड, skd=पीड

vcp

k1=पीड, L=32270
पीड¦ बधे विलोडने च चु० उभ० सक० सेट् । पीडयति ते ऋदित्
अपिपीडत् त । पीडा पीडनम् । धान्यादेर्मर्दने च ।
आ + भूषणे सक० । आपीडयति आपीडा ।
अवादिपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुक्ते विलोडने ।


skd

k1=पीड, L=21668
पीड¦, ऋ क वाधे । गाहे । इति कविकल्पद्रुमः ॥
(चुरां-परं-सकं-सेट् ।) वाधो विहतिः । गाहो
विलोडनम् । ऋ, अपीपिडत् अपिपीडत् । क,
पीडयति शत्रुं लोकः । पीडयति स्तनं कामी ।
इति दुर्गादासः ॥


Match 0771: vcp=पीय, skd=पीय

vcp

k1=पीय, L=32344
पीय¦ प्रीणने सौ० पर० सक० सेट् । पीयति अपीयीत् पि-
पीय । अयं हिंसायां निरु० ४ २५


skd

k1=पीय, L=21746
पीय¦, प्रीणने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) पीयूषं सौत्रधातुरयम् । इति
दुर्गादासः ॥


Match 0772: vcp=पील, skd=पील

vcp

k1=पील, L=32351
पील¦ रोधे भ्वा० पर० सक० सेट् । पोलति अपीलीत् पिपील ।


skd

k1=पील, L=21752
पील¦, रोधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) दीर्घी । रोधः क्रियानिरोधः
[Page3-160-c+ 52]
जडीभावः इत्यर्थः । पीलति पशुः । इति दुर्गा-
दासः ॥


Match 0773: vcp=पीव, skd=पीव

vcp

k1=पीव, L=32363
पीव¦ स्थौल्ये भ्वा० पर० अक० सेट् । पीवति अपीवीत् पिपीव ।


skd

k1=पीव, L=21758
पीव¦, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
अकं-सेट् ।) पीवति लोकः स्थूलः स्यादि-
त्यर्थः । इति दुर्गादासः ॥


Match 0774: vcp=पुंस, skd=पुंस

vcp

k1=पुंस, L=32378
पुंस¦ मर्दे चु० उभ० सक० सेट् । पुंसयति ते अपुपुंसत् त ।


skd

k1=पुंस, L=21771
पुंस¦, क मर्द्दे । इति कविकल्पद्रुमः ॥ (चुरां-परं-
सकं-सेट् ।) ओष्ठ्यवर्गशेषोपधः । संयोगादनु-
स्वारः । तेन क्विपि पुंसोऽसुङ्घावित्यसुङि पुमान् ।
मर्द्दोऽभिमर्द्दनम् । क, पुंसयति खलं राजा ।
इति दुर्गादासः ॥


Match 0775: vcp=पुट, skd=पुट

vcp

k1=पुट, L=32406
पुट¦ दीप्तौ अक० चूर्णने सक० चुरा० उभ० सट् । पोटयति--ते पुषोट ।


k1=पुट, L=32407
पुट¦ श्लेषे तु० कु० पर० सक० सेट् । पुटात अपुटीत् पुपोट ।


k1=पुट, L=32408
पुट¦ संसर्गे अद० चु० उभ० सक० सेट् । पुटयति ते अपुपुटत् त ।


skd

k1=पुट, L=21790
पुट¦, क चूर्णे । भासि । इति कविकल्पद्रुमः ॥
(चुरां-परं-चूर्णे सकं-भासि अकं-सेट् ।) क,
पोटयति । भासि दीप्तौ । इति दुर्गादासः ॥


k1=पुट, L=21791
पुट¦, त् क संसर्गे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरां-परं-सकं-सेट् ।) पुटयति पुष्पं सूत्रेण जनः
संसृजतीत्यर्थः । इति दुर्गादासः ॥


k1=पुट, L=21792
पुट¦, शि श्लेषे । इति कविकल्पद्रुमः ॥ (तुदां-कुटां-
परं-अकं-सेट् ।) शि, पुटति अपुटीत् पुपोट ।
श्लेषः सम्बन्धीभावः । इति दुर्गादासः ॥


Match 0776: vcp=पुट्ट, skd=पुट्ट

vcp

k1=पुट्ट, L=32423
पुट्ट¦ अनादरे चु० उभ० सक० सेट् । पुट्टयति--ते अपुपुट्टत्--त ।


skd

k1=पुट्ट, L=21809
पुट्ट¦, क तौच्छ्ये । इति कविकल्पद्रुमः ॥ (चुरां-
परं-सकं-सेट् ।) पञ्चमस्वरी । टद्वयान्तः । एक-
टकार इति रामः । क, पुट्टयति । तौच्छमल्पी-
भावः । इति दुर्गादासः ॥


Match 0777: vcp=पुड, skd=पुड

vcp

k1=पुड, L=32424
पुड¦ मर्दने भ्वा० पर० सक० सेट् इदित् । पुण्डति अपुण्डीत् ।


skd

k1=पुड, L=21810
पुड¦, इ मर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-
सकं-सेट् ।) पञ्चमस्वरी । इ, पुण्ड्यते । मर्द्द-
श्चर्णीकरणम् । इति दुर्गादासः ॥


Match 0778: vcp=पुण, skd=पुण

vcp

k1=पुण, L=32425
पुण¦ धर्माचरणे तु० पर० सक० सेट् । पुणति अपोणीत् पुपोण ।


skd

k1=पुण, L=21811
पुण¦, श धर्म्मे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं-सेट् ।) शुभक्रियायामित्यन्ये । श, पुणति
शुभं लोकः । पोणिता । इति दुर्गादासः ॥


Match 0779: vcp=पुथ, skd=पुथ

vcp

k1=पुथ, L=32509
पुथ¦ हिंसे दि० पर० सक० सेट् । पुथ्यति अपोथीत् । पुपोथ ।


k1=पुथ, L=32510
पुथ¦ वधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । पुन्थति अ
पुन्थीत् पुपुन्थ पुन्थ्यते ।


k1=पुथ, L=32511
पुथ¦ दीप्तौ चु० उम० सक० सेट् । पोथयति ते अपूपुथत्--त ।


skd

k1=पुथ, L=21874
पुथ¦, इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) पञ्चमस्वरी । इ, पुन्थ्यते ।
अन्तःस्थप्रथमादिरयमित्यन्ये । पुन्थति । इति
दुर्गादासः ॥


k1=पुथ, L=21875
पुथ¦, क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, पोथयति । त्विषि दीप्तौ ।
इति दुर्गादासः ॥


k1=पुथ, L=21876
पुथ¦, य हिंसे । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-सेट् ।) य, पुथ्यति पुपोथ । इति
दुर्गादासः ॥


Match 0780: vcp=पुर, skd=पुर

vcp

k1=पुर, L=32551
पुर¦ अग्रगतौ तु० पर० सक० सेट् । पुरति अपोरीत् ।


skd

k1=पुर, L=21902
पुर¦, श अग्रगत्याम् । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) श, पुरति ज्येष्ठः कनिष्ठस्य
अग्रे गच्छतीत्यर्थः । पोरिता । इति दुर्गादासः ॥


Match 0781: vcp=पुर्व, skd=पुर्व्व *

vcp

k1=पुर्व, L=32705
पुर्व¦ निवासे भ्वा० प० सक० सेट् । पूर्वति अपूर्वीत् ओष्ठ्योपधोऽयमित्यन्ये


k1=पुर्व, L=32706
पुर्व¦ पूर्वणे भ्वा० प० सक० सेट । पूर्वति अपूर्वीत् अन्तःस्थो-
पधोऽयम् ।


skd

k1=पुर्व्व, L=21994
पुर्व्व¦, पूर्त्तौ । पूर्णीकरणे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) पञ्चमस्वरी । पूः
पुरौ पुरः । पुर्व्वति पयसा कुम्भं चेटी । इति
दुर्गादासः ॥


Match 0782: vcp=पुल, skd=पुल

vcp

k1=पुल, L=32707
पुल¦ महत्त्वे भ्वा० प० सक० सेट् । पोलति ते अपोलीत् ।
पुपोल अयं ज्वलादिरपि तेन पुलयति पोलयतीति भेदः


k1=पुल, L=32708
पुल¦ उद्धृतौ चु० उभ० सक० सेट् । पोलयति ते अपूपुलत् त


skd

k1=पुल, L=21995
पुल¦, क उच्छ्रितौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) उच्छ्रितिरुच्चीभावः । क,
पोलयति पर्व्वतः । इति दुर्गादासः ॥


k1=पुल, L=21996
पुल¦, ज महत्त्वे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ज, पोलः पुलः । पोलति ।
इति दुर्गादासः ॥


k1=पुल, L=21997
पुल¦, श महत्त्वे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-अक०-सेट् ।) श, पुलति पुलिनं शरदि
महत् स्यादित्यर्थः । पोलिता । इति दुर्गादासः ॥


Match 0783: vcp=पुष, skd=पुष

vcp

k1=पुष, L=32731
पुष¦ पुष्टौ दिवा० पर० अक० अनिट् । पुष्यति ऌदित् अपुषत्
[Page4382-a+ 38]
पुपोष । “स्वे पुषः” पा० खमुल् कसादिषु यथाविध्य-
सुपयोगात् खपोषं पुष्यति आत्मानं पुष्यतीत्यर्थ ।


k1=पुष, L=32732
पुष¦ पुष्टौ अक० पोषणे सक० क्य्रा० प० सेट् । पुष्णाति अपोषीत्


k1=पुष, L=32733
पुष¦ पुष्टौ भ्वा० पर० अक० सेट् । पोषति अपोषीत् ।


k1=पुष, L=32734
पुष¦ धृतौ चु० उभ० सक० सेट् । पोषयति ते अपूपुषत् त ।


skd

k1=पुष, L=22016
पुष¦, पुष्टौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) पोषति तातः पुत्त्रम् । इति
दुर्गादासः ॥


k1=पुष, L=22017
पुष¦, ऌ य औ पुष्टौ । पोषणे । इति कविकल्प-
द्रुमः ॥ (दिवा०-पर०-सक०-अनिट् ।) ऌ,
अपुषत् । य, पुष्यति । औ, पोष्टा । इति
दुर्गादासः ॥


k1=पुष, L=22018
पुष¦, क धृतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) क, पोषयति । इति दुर्गादासः ॥


k1=पुष, L=22019
पुष¦, ग पुष्टौ । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-
सक०-सेट् ।) ग, पुष्णाति पुषोष । इति
दुर्गादासः ॥


Match 0784: vcp=पुष्प, skd=पुष्प

vcp

k1=पुष्प, L=32773
पुष्प¦ विकाशे दि० पर० अक० सेट् । पुष्प्यति अपुष्पीत् । पुपुष्प
“शरदि पुष्प्यन्ति सप्तच्छदाः” । कण्ड्वा० अपुष्प्यीत् ।


skd

k1=पुष्प, L=22042
पुष्प¦, य फुल्लने । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-अक०-सेट् ।) पञ्चमस्वरी । मूर्द्धन्योपधः ।
पुल्लनं विकसनम् । य, पुष्प्यति कुन्दकोरकम् ।
इति दुर्गादासः ॥


Match 0785: vcp=पुस्त, skd=पुस्त

vcp

k1=पुस्त, L=32864
पुस्त¦ बन्धे अनादरे च चु० उभ० सक० सेट् । पुस्तयति ते अपुपुस्तत् त ।


skd

k1=पुस्त, L=22106
पुस्त¦, क, बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-
उभ०-सक०-सेट् ।) पञ्चमस्वरी । दन्त्योपधः ।
क, पुस्तयति । इति दुर्गादासः ॥


Match 0786: vcp=पू, skd=पू

vcp

k1=पू, L=32868
पू¦ शोधे दि० आत्म० सक० सेट् । पूयते अपविष्ट । पुपुवे पूत ।


k1=पू, L=32869
पू¦ शोधे भ्वा० आ० सक० सेट् । पवते अपविष्ट । पुपुवे पूत०
पवित्रः ।


k1=पू, L=32870
पू¦ शोधे क्य्रादि० प्वा० उभ० सक० सेट् । पुनाति पुनीते अपावीत्
अपविष्ट पुपाव पुपुवे । आर्षे क्वचित् श्नाप्रत्ययस्य ह्रस्वः ।
“स्मरणात् पुनते पापं धारणात् पूर्वसञ्चितम्” ।


skd

k1=पू, L=22110
पू¦, ङ शोधे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
सक०-सेट् ।) शोध इह शुद्धीकरणम् । ङ,
पवते पापिनं गङ्गा । इति दुर्गादासः ॥


k1=पू, L=22111
पू¦, ङ य शोधे । इति कविकल्पद्रुमः ॥ (दिवा०-
आत्म०-सक०-सेट् ।) अयं कैश्चिन्न मन्यते । ङ
य, पूयते । इति दुर्गादासः ॥


k1=पू, L=22112
पू¦, ञ गि शोधे । इति कविकल्पद्रुमः ॥ (क्र्या०-
प्वा०-उभ०-सक०-सेट् ।) ञ गि, जाह्नवी नः
पुनातु । पुनीते । क्वचित् श्नाप्रत्ययस्यापि प्वादि-
त्वात् ह्रस्व इति वररुचिः । तेन ।
“स्मरणात् पुनते पापं धारणात् पूर्ब्बसञ्चितम् ।
दर्शनाल्लभते मोक्षमेतद्योगस्य लक्षणम् ॥”
इति दुर्गादासः ॥


Match 0787: vcp=पूज, skd=पूज

vcp

k1=पूज, L=32876
पूज¦ पूजने चु० उभ० सक० सेट् । पूजयति ते अपूपुजत् त ।


skd

k1=पूज, L=22120
पूज¦, क पूजे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) षष्ठस्वरी । क, पूजयति गुरु
लोकः । इति दुर्गादासः ॥


Match 0788: vcp=पूण, skd=पूण

vcp

k1=पूण, L=32886
पूण¦ राशीकरणे चु० उभ० सक० सेट् । पूणयति ते अपूपुणत् त


skd

k1=पूण, L=22130
पूण¦, क संघाते । राशीकरणे । इति कविकल्प-
द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) षष्ठस्वरी ।
क, पूणयति धान्यं लोकः । राशीकरोतीत्यर्थः ।
इति दुर्गादासः ॥


Match 0789: vcp=पूय, skd=पूय

vcp

k1=पूय, L=32934
पूय¦ दुर्गन्धे अक० भेदने विशरणे च सक० दिवा० आत्म० सेट् ।
पूय्यते अपूयिष्ट । अपूयिढ्रं (ध्वम्) पुपूये ।


skd

k1=पूय, L=22185
पूय¦, ई ङ दुर्गन्धे । शीर्ण्याम् । इति कविकल्प-
द्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।
निष्ठायामनिट् ।) षष्ठस्वरी । ई, पूतः । ङ,
पूयते मत्स्यः दुर्गन्धः स्यादित्यर्थः । शीर्णिर्भेद-
नम् । इति दुर्गादासः ॥


Match 0790: vcp=पूर, skd=पूर

vcp

k1=पूर, L=32942
पूर¦ पूर्त्तौ प्रीणने च दिवा० आत्म० सक० सेट् । पूर्य्यते अपूरि-
अपूरिष्ट । पुपूरे ईदित् । पूर्णः ।


k1=पूर, L=32943
पूर¦ पूर्त्तौ प्रीणने चु० उभ० सक० सेट् । पूरयति अपूपुरत् त । पूरितः ।


skd

k1=पूर, L=22191
पूर¦, ई य ङ पूर्त्तौ । इति कविकल्पद्रुमः ॥ (दिवा०-
आत्म०-सक०-सेट् । निष्ठायामनिट् ।) दीर्घी ।
ई, पूर्णः । य ङ, पूर्य्यन्ते पितरस्तञ्चेति हला-
युधः । पूर्त्तिरिहाप्यायनम् । इति दुर्गादासः ॥


k1=पूर, L=22192
पूर¦, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) दीर्घी । क, पितॄन् पूरयति
श्राद्धे हव्यैः कव्यैश्च यः सदा । इति हलायुधः ॥
इति दुर्गादासः ॥


Match 0791: vcp=पूर्व, skd=पूर्व्व *

vcp

k1=पूर्व, L=32994
पूर्व¦ निमन्त्रणे सक० निवासे अक० चु० उभ० सेट् । पूर्बयति
ते अपुपूर्बत् त । ओष्ठ्यान्तोऽयम् ।


k1=पूर्व, L=32996
पूर्व¦ निवासे अक० निमन्त्रणे सक० भ्वा० प० सेट । अन्त्य-
स्थान्तोऽयम् । पूर्वति अपूर्वीत् ।


skd

k1=पूर्व्व, L=22220
पूर्व्व¦, क निकेतने । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-निमन्त्रणे सक०-निवासे अक०-सेट् ।)
षष्ठस्वरी । निकेतनमिह निमन्त्रणं निवासो वा ।
क, पूर्ब्बयति द्विजान् भोक्तुं गृही । पूर्ब्बयति
तीर्थेषु साधुः । इति दुर्गादासः ॥ वर्ग्यबान्तो-
ऽयम् ॥


k1=पूर्व्व, L=22257
पूर्व्व¦, क निकेतने । इति कविकल्पद्रुमः ॥ (चुरा०-
परं०-निमन्त्रणे सक०-निवासे अक०-सेट् ।)
षष्ठस्वरी । निकेतनमिह निमन्त्रणं निवासो
वा । क, पूर्व्वयति द्बिजान् भोक्तुं गृही । पूर्व्व-
यति तीर्थेषु साधुः । इति दुर्गादासः ॥ अन्त्य-
वान्तोऽयम् ॥


Match 0792: vcp=पूल, skd=पूल

vcp

k1=पूल, L=33067
पूल¦ संहतौ (राशीकरणे) वा चु० उभ० पक्षे भ्वा० पर० सक०
सेट् । पूलयति ते पूलति । अपूपुलत् त अपूलीत् ।


skd

k1=पूल, L=22258
पूल¦, कि संहतौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-परं-सकं-सेट् ।) षष्ठस्वरी । कि,
पूलयति पूलति । संहती राशीकरणम् । इति
दुर्गादासः ॥


Match 0793: vcp=पूष, skd=पूष

vcp

k1=पूष, L=33073
पूष¦ वृद्धौ अक० भ्वा० पर० सेट् । पूषति अपूषीत् । पुपूष ।


skd

k1=पूष, L=22259
पूष¦, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) षष्ठस्वरी । पूषति । इति दुर्गा-
दासः ॥


Match 0794: vcp=पृ, skd=पृ

vcp

k1=पृ, L=33084
पृ¦ व्यापारे तु० आत्म० अक० अनिट् प्रायेणायम् व्याङ्पूर्वः ।
व्याप्रियते व्यापृत । व्यापप्रिये । व्याप्रियते । व्यापृतः
व्यापारः ।


k1=पृ, L=33085
पृ¦ प्रीतौ अक० प्रीणने सक० स्वा० षर० अनिट् । पृणोति अपार्षीत् । पपार ।


k1=पृ, L=33086
पृ¦ पालने पूरणे च जुहो० पर० सक० अनिट् वा दीर्धे सेट् ।
पिपर्त्ति पिपृतः पिपूर्त्तः । अषार्षीत्--अपारीत् । पपार
पप्रतुः पपरतुः । पूर्णः ।


k1=पृ, L=33087
पृ¦ पर्त्तौ चु० उभ० सक० सेट् । पारयति ते--अपीपरत्--त ।


skd

k1=पृ, L=22265
पृ¦, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) पूर्त्तिः पूर्णीकरणम् । क, पारयति
पयसा कुम्भं लोकः । इति दुर्गादासः ॥


k1=पृ, L=22266
पृ¦, न प्रीतौ । इति कविकल्पद्रुमः ॥ (स्वा०-पर०-
सक०-अनिट् ।) न, अतिथीन् पृणोति । इति
दुर्गादासः ॥


k1=पृ, L=22267
पृ¦, लि पालने । इति कविकल्पद्रुमः ॥ (ह्वा०-पर०-
सक०-अनिट् ।) लि, पिपर्त्ति । इति दुर्गादासः ॥


k1=पृ, L=22268
पृ¦, श ङ व्यायामके । इति कविकल्पद्रुमः ॥ (तुदा०-
आत्म०-अक०-अनिट् ।) व्यायामको व्यापारः ॥
श ङ, धर्म्मे व्याप्रियते सुधीः । इति दुर्गादासः ॥


Match 0795: vcp=पृच, skd=पृच

vcp

k1=पृच, L=33094
पृच¦ सम्पर्के अदा० आत्म० अक० सेट् । पृक्ते अपर्चिष्ट । पपुचे ईदित् । पृक्णः ।


k1=पृच, L=33095
पृच¦ संयमने सक० सम्पर्के अक० चु० उभ० पक्षे भ्वा० पर० सेट् ।
पचंयति--ते पर्चति । अपीपृचत्--त अपपर्चत्--त अप-
र्चीत् ।


skd

k1=पृच, L=22272
पृच¦, ई ल ङ सम्पर्के । इति कविकल्पद्रुमः ॥
(अदा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
ई, पृक्तः । ल ङ, पृक्ते । परीपृच्यते । स चेह
सम्पृक्तीभावः । सम्पृक्ते नाभिशस्तैर्य इति हला-
युधः । सम्पृक्ते मधुना चूर्णं भिषगिति तु अन्त-
र्भूतञ्यर्थत्वादिति चतुर्भुजः । इति दुर्गादासः ॥


k1=पृच, L=22273
पृच¦, कि संयमने । सम्पर्के । इति कविकल्पद्रुमः ॥
(चुरा० पक्षे भ्वा०-पर०-सक० सेट् ।) संयमनं
बन्धनम् । कि, पर्च्चयति पर्च्चति दुष्टं राजा ।
इति दुर्गादासः ॥


k1=पृच, L=22274
पृच¦, ध ई सम्पर्के । इति कविकल्पद्रुमः ॥ (रुधा०-
पर०-सक०-अक० च-सेट् । निष्ठायामनिट् ।)
सम्पके इह संपृक्तीकरणं सम्पृक्तीभावश्च ।
ध, पृणक्ति धनुषा बाणम् । संपृणक्ति न
पापिभिर्य इति हलायुधः । ई, पृक्तः । पपर्च्च ।
इति दुर्गादासः ॥


Match 0796: vcp=पृज, skd=पृज

vcp

k1=पृज, L=33098
पृज¦ सम्पर्के, अदा० आ० अक० सेट् । पृक्ते अपर्जिष्ट ।
ईदित् पृग्णः ।


skd

k1=पृज, L=22276
पृज¦, इ ल ङ सम्पर्के । इति कविकल्पद्रुमः ॥
(अदा०-आत्म०-अक०-सेट् ।) सप्तमस्वरी । इ,
पृञ्ज्यते । ल ङ, पृङ्क्ते । अयं कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥


Match 0797: vcp=पृड, skd=पृड

vcp

k1=पृड, L=33099
पृड¦ हर्षे तु० पर० अक० सेट् । पृडति । अपर्डिष्ट पपृडे ।


skd

k1=पृड, L=22277
पृड¦, श मुदि । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-
सक०-सेट् ।) मुदि हृष्टीकरणे । श, पृडति
दीनं दाता । पर्डिता । इति दुर्गादासः ॥


Match 0798: vcp=पृण, skd=पृण

vcp

k1=पृण, L=33100
पृण¦ तर्पणे तु० पर० सक० सेट । पृणति अपर्णीत् । पपर्ण ।


skd

k1=पृण, L=22278
पृण¦, श तृपि । इति कविकल्पद्रुमः । (तुदा०-पर०-
सक०-सेट् ।) तृपि तृप्तीकरणे । श, अग्निं
पृणति यो द्बिजः । पर्णिता । इति दुर्गादास्रः ॥


Match 0799: vcp=पृथ, skd=पृथ

vcp

k1=पृथ, L=33106
पृथ¦ प्रक्षेपे चुरा० उभ० सक० सेट् । पार्थयति--ते अपीपृथत् त
अपपर्थत्--त ।


skd

k1=पृथ, L=22281
पृथ¦, क प्रक्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, पर्थयति गुडमौषधे
जनः । इति दुर्गादासः ॥


Match 0800: vcp=पृष, skd=पृष

vcp

k1=पृष, L=33170
पृष¦ सेके भ्वा० आ० सक० सेट् । पर्षते अपर्षिष्ट । पपृषे ।


skd

k1=पृष, L=22334
पृष¦, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् । क्त्वावेट् ।) उ, पर्षित्वा पृष्ट्वा ।
इति दुर्गादासः ॥


Match 0801: vcp=पॄ, skd=पॄ

vcp

k1=पॄ, L=33218
पॄ¦ पालने पूर्त्तौ च क्य्रा० भ्वा० पर० सक० सेट् श्नाप्रत्यये परे
[Page4419-a+ 38]
ह्रस्वः । पृणाति अपारीत् । पपार पपरतुः पप्रतुः ।


k1=पॄ, L=33219
पॄ¦ पूर्त्तौ च्र० उम० सक० सेट् । पारयति-ते अपीपरत् त ।


skd

k1=पॄ, L=22366
पॄ¦, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, पारयति । इति दुर्गा-
दासः ॥


k1=पॄ, L=22367
पॄ¦, ञि गि लि पालने । पूर्त्तौ । इति कविकल्प-
द्रुमः ॥ (क्र्या०-ह्वा० च-पर०-सक०-सेट् ।) ञि,
पूर्त्तोऽस्ति । सूल्वाद्योदिदित्यत्र पॄवर्ज्जनान्न
निष्ठातस्य नः । गि, पॄणाति । क्तौ तु पूर्त्ति-
रित्येव मनीषादित्वान्न निः । लि, पिपर्त्ति ।
इति दुर्गादासः ॥


Match 0802: vcp=पेण, skd=पेण

vcp

k1=पेण, L=33232
पेण¦ गतौ पेषे च सक० श्लेषे अक० भ्वा० पर० सेट् । पेणति
अपेणीत् । ऋदित् चङि न ह्रस्वः अपिपेणत् त ।


skd

k1=पेण, L=22379
पेण¦, ऋ पेषे । गतौ । श्लेषे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-श्लेषे अक०-सेट् ।) ऋ,
अपिपेणत् । पिपेणतुः । इति दुर्गादासः ॥


Match 0803: vcp=पेल, skd=पेल

vcp

k1=पेल, L=33242
पेल¦ कम्पे अक० गतौ सक० भ्वा० पर० सेट् । पेलति अपेलीत् ।
ऋदित् चङि न ह्रस्वः अपिपेलत् त । निघण्टौ
अयं गतिकर्मतया चुरादित्वेन पठितः । तेन पेलयति ते


skd

k1=पेल, L=22386
पेल¦, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-चाले अक०-गतौ सक०-सेट् ।) ऋ,
अपिपेलत् पिपेलतुः । चालः कम्पः । इति
दुर्गादासः ॥


Match 0804: vcp=पेव, skd=पेव

vcp

k1=पेव, L=33246
पेव¦ सेवने भ्वा० सक० आत्म० सेट् । पेवते अषेविष्ट । ऋदित्
चङि न ह्रस्वः । अपिपेवत् त । ओष्ठान्त्यतयाऽयं
धातुपाठे पठितस्तेनोभयरूपता ।


skd

k1=पेव, L=22389
पेव¦, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अपिपेवत् । ङ,
पेवते । इति दुर्गादासः ॥


Match 0805: vcp=पेस, skd=पेस

vcp

k1=पेस, L=33259
पेस¦ गतौ भ्वा० पर० सक० सेट् । पेसति अषेसीत् पिषेसे ।
ऋदित् चङि न ह्रस्वः । अपिपेशत् त ।


skd

k1=पेस, L=22399
पेस¦, ऋ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अपिपेसत् पिपेसतुः ।
इति दुर्गादासः ॥


Match 0806: vcp=पै, skd=पै

vcp

k1=पै, L=33262
पै¦ शोषे भ्वा० पर० सक० अनिट् । पायति अपासीत् पपौ ।


skd

k1=पै, L=22401
पै¦, शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-अनिट् ।) पायति धान्यमातपेन । इति
दुर्गादासः ॥


Match 0807: vcp=प्याय, skd=प्याय

vcp

k1=प्याय, L=33422
प्याय¦ वृद्धौ भ्वा० आ० अक० सेट् । प्यायते, अप्यायि--अप्यायिष्ट
इदित् ओदिच्च पीनः ।


skd

k1=प्याय, L=22504
प्याय¦, ओ ई ङ वृद्धौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) ओ ई, पीनं
मुखम् । उपसर्गात्तु प्रप्यानम् । अस्वाङ्गे तु प्यानः
पीनः स्वेदः । ङ, प्यायते । इति दुर्गादासः ॥


Match 0808: vcp=प्युष, skd=प्युष

vcp

k1=प्युष, L=33425
प्युष¦ उत्सर्गे चु० उभ० सक० सेट् । प्योषयति ते । अपुप्युषत् त-


k1=प्युष, L=33426
प्युष¦ विभागे दाहे च दि० पर० सक० सेट् । प्युष्यते इरित्
अप्युषत् अप्यौषीत् पुष्योष ।


skd

k1=प्युष, L=22505
प्युष¦, क उत्सृजि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) अन्तःस्थाद्ययुक्तः । उत्-
सृजि उत्सर्गे । क, प्योषयति धनं दाता ।
इति दुर्गादासः ॥


k1=प्युष, L=22506
प्युष¦, य इर् भागे । दहि । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) अन्तःस्थाद्ययुक्तः ।
य, पुष्यति धनं दायादः । इर्, अप्यषत् अप्यो-
षीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये ।
इति दुर्गादासः ॥


Match 0809: vcp=प्युस, skd=प्युस

vcp

k1=प्युस, L=33427
प्युस¦ विभागे दिवा० पर० सक० सेट् । प्युस्यते इरित् अप्युसत् अप्योसीत् पुष्योस ।


skd

k1=प्युस, L=22507
प्युस¦, य इर् विभागे । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-सेट ।) अन्तःस्थाद्ययुक्तः । य,
प्युस्यति धनं दायादः । इर्, अप्युसत् अप्योसीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥


Match 0810: vcp=प्यै, skd=प्यै

vcp

k1=प्यै, L=33428
प्यै¦ वृद्धौ भ्वा० आ० अक० अनिट् । प्यायते अप्यास्त ।


skd

k1=प्यै, L=22508
प्यै¦, ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
अक०-अनिट् ।) अन्तःस्थाद्ययुक्तः । ङ, प्यायते ।
इति दुर्गादासः ॥


Match 0811: vcp=प्रच्छ, skd=प्रच्छ

vcp

k1=प्रच्छ, L=33544
प्रच्छ¦ जिज्ञासायां तु० पर० द्विक० अनिट् । पृच्छति अप्राक्षीत् ।
पप्रच्छ । द्विकर्मकत्वेन दुहादि० गोणे कर्मणि लकारादि ।
पृच्छ्यते शिष्येण गुरुः धर्मं, जिज्ञासाविषयकज्ञानानु-
कूलव्यापारः कथं धर्म आचरितव्य इमित्यभिलापादिः
पृच्छेरर्थः, ज्ञानविषयत्वेन धर्मस्य, तज्ज्ञानाश्रयत्वाच्च
गुरोः कर्मत्वम् ।


skd

k1=प्रच्छ, L=22610
प्रच्छ¦, औ श ज्ञीप्से । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-द्विक०-अनिट् ।) ज्ञीप्सा ज्ञातु-
मिच्छा । ज्ञप क्म इत्यस्यैव ज्ञानपक्षे निष्पाद-
नात् । औ, अप्राक्षीत् । श, पृच्छति वार्त्तां गुरुं
शिष्यः । इति दुर्गादासः ॥


Match 0812: vcp=प्रथ, skd=प्रथ

vcp

k1=प्रथ, L=34017
प्रथ¦ ख्यातौ भ्वा० आ० अक० सेट् । प्रथते अप्रयिष्ट घाटा० णिच्
प्रथयति । भावे अङ् प्रथा ।


k1=प्रथ, L=34018
प्रथ¦ ख्यातौ अक० विक्षेएपे सक० चुरा० उभ० सेट् घटा० । प्रथयतिते अपप्रशत् त ।


skd

k1=प्रथ, L=22923
प्रथ¦, क प्रक्षेपे । ख्यातौ । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-अक०-च सेट् ।) रेफयुक्तः ।
क, प्राथयति । इति दुर्गादासः ॥


k1=प्रथ, L=22924
प्रथ¦, म ष ङ ख्यातौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) रेफयुक्तः । म, प्रथ-
यति । ष, प्रथा । ङ, प्रथते गुणी प्रसिद्धः
स्यादित्यर्थः । इति दुर्गादासः ॥


Match 0813: vcp=प्रस, skd=प्रस

vcp

k1=प्रस, L=34380
प्रस¦ प्रसवे ततौ च सक० दिबा० आ० सेट् । प्रस्यते अप्रसिष्ट ।
मित् घटादि णिच् प्रसयति ते ।


skd

k1=प्रस, L=23187
प्रस¦, म ष ङ प्रसवे । ततौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) रेफयुक्ताद्यः । म,
प्रसयति । ष, प्रसा । ङ, प्रसते कीर्त्तिं विद्या ।
प्रसते विस्तारयति वेत्यर्थः । इति दुर्गादासः ॥


Match 0814: vcp=प्री, skd=प्री

vcp

k1=प्री, L=34857
प्री¦ तर्पणे भ्वा० उभ० सक० अनिट् । प्रयति ते अप्तैपीत् अप्रैष्ट
पिप्राय पिप्रिये


k1=प्री, L=34858
प्री¦ प्रीतौ कान्तौ (इच्छायाम्) सक० दिवा० आत्म० अनिट् ।
प्रीयते अपैष्ट पिप्रिये ।


k1=प्री, L=34859
प्री¦ तर्पणे सक० कान्तौ तृप्तौ अक० क्र्या० उभ० अनिट् । प्री-
णाति प्रीणीते अप्रैषीत् अप्रैष्ट पिप्राय पिप्रिये । प्रीतः ।
णिच्बुक् । प्रीणयति ते ।


k1=प्री, L=34860
प्री¦ तर्पणे सक० चु० उभ० अनिट् । प्राययति ते अपिप्रयत्--ते । अबापि नुक् प्रीणयतीत्येके ।


skd

k1=प्री, L=23541
प्री¦, क तर्पणे । इति कविकल्पद्रुमः ॥ (चुरा०
पर०-सक०-अनिट् ।) क, यं प्राययन्ति कवि-
सूक्तिरसायनानि । इति हलायुधः ॥ प्रीणयत्य-
पीति केचित् । इति दुर्गादासः ॥


k1=प्री, L=23542
प्री¦, ङ य प्रीतौ । कान्तौ । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-अक०-अनिट् ।) प्रीतिरिह
प्रीतीभावः । ङ य, यः प्रीयते प्रणयिषु । इति
हलायुधः । इति दुर्गादासः ॥


k1=प्री, L=23543
प्री¦, ञ तर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-अनिट् ।) ञ, प्रयति प्रयते । इति
दुर्गादासः ॥


k1=प्री, L=23544
प्री¦, ञ ग कान्तौ । तर्पणे । इति कविकल्पद्रुमः ॥
(क्र्या०-उभ०-अक०-सक० च-अनिट् ।) तर्पण-
मिह प्रीतीभावः प्रीतीकरणञ्च । ञ ग, प्रभुः
प्रीणातु विश्वभुक् । प्रीणाति बान्धवजनानिति
हलायुधः । प्रीणीते । इति दुर्गादासः ॥


Match 0815: vcp=प्रु, skd=प्रु

vcp

k1=प्रु, L=34872
प्रु¦ सर्पणे म्बा० आत्म० सक० अनिट् । प्रवते अप्रोष्ट पुप्रुवे ।


skd

k1=प्रु, L=23555
प्रु¦, ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
सक०-अनिट् ।) रेफयुक्तः । ङ, प्रवते । इति
दुर्गादासः ॥


Match 0816: vcp=प्रुष, skd=प्रुष

vcp

k1=प्रुष, L=34874
प्रुष¦ भस्मीकरणे भ्वा० पर० सक० सेट् । प्रोषति अप्रोषीत्
पुप्रोष । उदित् क्त्वा वेट् । प्रुषित्वा पुष्ट्वा प्रुष्टः ।


k1=प्रुष, L=34875
प्रुष¦ सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् । प्रु-
ष्णाति अप्रोषीत् पुष्रोष ।


skd

k1=प्रुष, L=23556
प्रुष¦, उ दहि । इति कविकल्पद्रुमः । (भ्वा०-पर०-
सक०-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, प्रोषित्वा
प्रुष्ट्वा । दहि भस्मीकरणे । इति दुर्गादासः ॥


k1=प्रुष, L=23557
प्रुष¦, ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प-
द्रुमः ॥ (क्र्या०-पर०-सेके पूर्त्तौ च सक०-स्नेहे
अक०-सेट् ।) ग, प्रुष्णाति पुप्रोष । सेकस्थाने
मोचनमिति धातुप्रदीपभट्टमल्लौ । इति दुर्गा-
दासः ॥


Match 0817: vcp=प्रेङ्खोल, skd=प्रेङ्खोल

vcp

k1=प्रेङ्खोल, L=34885
प्रेङ्खोल¦ दोलने अद० चुरा० उभ० सक० सेट् । प्रोङ्खोलयति ते
अपिप्रेङ्खोलत् त । प्रस्योपसर्गत्वमपीच्छन्तीत्यन्ये तेन प्रा-
ञ्चिखोलत् त इत्येबरूपम् ।


skd

k1=प्रेङ्खोल, L=23567
प्रेङ्खोल¦, त् क चापले । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-पर०-अक०-सेट् ।) अन्तःस्थ-
तृतीयोपधः । अपिप्रङ्खोलत् । चापलं चञ्चली-
भावः । इति दुर्गादासः ॥


Match 0818: vcp=प्रेष, skd=प्रेष

vcp

k1=प्रेष, L=34926
प्रेष¦ गतौ भ्वा० पर० सक० सेट् । प्रेषति अप्रेषीत् । ऋदित्
चङि न ह्रस्वः । अपिप्रेषत् त ।


skd

k1=प्रेष, L=23602
प्रेष¦, ऋ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ॥)


Match 0819: vcp=प्रोथ, skd=प्रोथ

vcp

k1=प्रोथ, L=34951
प्रोथ¦ परिपूर्णतायाम् सामर्थ्ये च भ्वा० उभ० अक० मेट् । प्रो-
थति ते अप्रोथीत् अप्रोथिष्ट पुप्रोथ थे । ऋदित् चङि
न ह्रस्वः । अपुप्रोथत् त ।


skd

k1=प्रोथ, L=23624
प्रोथ¦, ऋ ञ पर्य्यापणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-अक०-सेट् ।) रेफयुक्तः । ऋ, अपुप्रोथत् ।
ञ, प्रोथति प्रोथते । पर्य्यापणं सामर्थ्यम् । पुप्रो-
थास्मै न कश्चन । पर्य्यापणं परिपूर्णता । इति
गोविन्दभट्टः । इति दुर्गादासः ॥


Match 0820: vcp=प्लक्ष, skd=प्लक्ष

vcp

k1=प्लक्ष, L=34968
प्लक्ष¦ भक्षणे भ्वा० उभ० सक० सेट् । प्लक्षति ते अप्लक्षीत् अप्ल-
क्षिष्ट पप्लक्ष क्षे । प्लक्षः ।


skd

k1=प्लक्ष, L=23646
प्लक्ष¦, ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ञ,
प्लक्षति प्लक्षते । इति दुर्गादासः ॥


Match 0821: vcp=प्लिह, skd=प्लिह

vcp

k1=प्लिह, L=34992
प्लिह¦ गतौ भ्वा० पर० सक० सेट् । प्लेहति अप्लेहीत् पिप्लेह ।


skd

k1=प्लिह, L=23661
प्लिह¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ङ,
प्लेहते । इति दुर्गादासः ॥


Match 0822: vcp=प्लु, skd=प्लु

vcp

k1=प्लु, L=35000
प्लु¦ सर्पणे उत्प्लुत्य गतौ च भ्वा० आत्म० सक० अनिट् । प्लवते
अप्लोष्ट पुप्लुवे । अयं त्रिमात्रतयोच्चारणे च प्लुतशब्दे
सि० कौ० प्लवते इति निर्देशात् । गतौ निघण्टुः ।


skd

k1=प्लु, L=23670
प्लु¦, ङ सपणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
अक०-अनिट् ।) अन्तःस्थतृतीययुक्तः । ङ,
प्लवते । इति दुर्गादासः ॥


Match 0823: vcp=प्लुष, skd=प्लुष

vcp

k1=प्लुष, L=35004
प्लुष¦ दाहे भ्वा० पर० सक० सेट् । प्लोषति अप्लोषीत् । पुप्लोष
उदित् क्त्वा वेट् । प्लुषित्वा प्लुष्ट्वा ।


k1=प्लुष, L=35005
प्लुष¦ दाहे दिवा० पर० सक० सेट् । प्लुष्यति ऌदित् अप्लुषत् ।


k1=प्लुष, L=35006
प्लुष¦ सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् ।
प्लुष्णाति अप्लोषीत् पुप्लोष ।


skd

k1=प्लुष, L=23673
प्लुष¦, उ दहि । भस्मीकरणे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् । क्त्वावेट् ।) उ, प्लोषित्वा
प्लुष्ट्वा । इति दुर्गादासः ॥


k1=प्लुष, L=23674
प्लुष¦, ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प-
द्रुमः ॥ (क्र्या०-पर०-सक०-स्नेहे अक०-सेट् ।)
ग, प्लुष्णाति । इति दुर्गादासः ॥


k1=प्लुष, L=23675
प्लुष¦, य ऌ दहि । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । य,
प्लुष्यति । ऌ, अप्लुषत । पुप्लोष । इति दुर्गा-
दासः ॥


Match 0824: vcp=प्लुस, skd=प्लुस

vcp

k1=प्लुस, L=35009
प्लुस¦ दाहे विभागे च दिवा० पर० सक० सेट् । प्लुस्यति इरित्
अप्लुसत् अप्लोसीत् पुप्लोस ।


skd

k1=प्लुस, L=23678
प्लुस¦, इर् य दाहे । विभागे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) अन्तःस्थतृतीय-
युक्तः । इर्, अप्लुसत् आप्लोसीत् । य, प्लुस्यति ।
इति दुर्गादासः ॥


Match 0825: vcp=प्लेव, skd=प्लेव

vcp

k1=प्लेव, L=35011
प्लेव¦ सेवने भ्वा० आत्म० सक० सेट् । प्लेवते अप्लेविष्ट । पिप्लेवे
ऋदित् च ङ न ह्रस्वः ।


skd

k1=प्लेव, L=23679
प्लेव¦, ऋ ङ सेवने । इति कविकल्पद्रुमः । (भ्वा०-
आत्म०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः ।
ऋ, अपिप्लेवत् । ङ, प्लेवते । इति दुर्गादासः ॥


Match 0826: vcp=प्सा, skd=प्सा

vcp

k1=प्सा, L=35014
प्सा¦ भक्षणे अदा० पर० सक० अनिट् । प्साति अप्सासीत् ।
पप्सौ । गतौ निघण्टुः ।


skd

k1=प्सा, L=23681
प्सा¦, ल भक्षणे । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-सक०-अनिट् ।) ल, प्साति । इति
दुर्गादासः ॥


Match 0827: vcp=फक्क, skd=फक्क

vcp

k1=फक्क, L=35027
फक्क¦ असदाचारे मन्दगतौ च भ्वा० पर० अक० सेट् । फक्कति
अफक्कोत् पफक्क ।


skd

k1=फक्क, L=23688
फक्क¦, असद्व्यवहारे । शनैर्गतौ । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) कोपधः ।
फक्कति खलः कुत्सितं व्यवहरतीत्यर्थः । फक्वति
वृद्धो मन्दं गच्छतीत्यर्थः । इति दुर्गादासः ॥


Match 0828: vcp=फण, skd=फण

vcp

k1=फण, L=35036
फण¦ अनायासेनोत्पत्तौ भ्वा० पर० सक० सेट् फणति अफा-
णीत्--अफणीत् पफाण । फणा० फेणतुः पफणतुः ।


k1=फण, L=35037
फण¦ गतौ भ्वा० पर० सक० सेट् । फणति अफाणीत् अफणीत्
मित् वा घटादि० । णिचि फाणयति फणयति फणादि० ।


skd

k1=फण, L=23697
फण¦, ण निःस्नेहे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) फेणतुः पफणतुः ।
निःस्नेहः अनायासेनोत्पत्तिः । फणति वाञ्छितं
श्रीमताम् । अनायासेन जातम् । अस्यैव ञ्यन्तस्य
[Page3-379-a+ 52]
निष्ठायां अनायासकृतं फाण्टं इत्यमरः ॥
अतएव रमानाथोऽपि घटादौ फण गतौ
इत्यत्र गतेरन्यत्र । फाणयति जनोऽनायासेन
जनयतीत्यर्थ इत्याह । इति दुर्गादासः ॥


k1=फण, L=23698
फण¦, मि ण गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) मि, फणयति फाणयति ।
ण, फेणतुः पफणतुः । इति दुर्गादासः ॥


Match 0829: vcp=फल, skd=फल

vcp

k1=फल, L=35070
फल¦ भेदने म्बा० पर० सक सेट् । फलति अफालीत् पफाल
फेलतुः आदित् आरम्भे भावे क्त वा इट् । फुल्तः फ-
लितः । फुल्तम् फलितम् अन्यत्र फलितः इत्येव । ञीत्
वर्त्तमाने क्त । फलितः ।


k1=फल, L=35071
फल¦ निष्पत्तौ भ्वा० पर० अक० सेट् । फलति अफालीत् ।
पफाल फेलतुः । क्त कलितः ।


k1=फल, L=35072
फल¦ गतौ भ्वा० पर० सक० सेट् । फलति अफालीत् । ज्वला०
कर्त्तरि वा ण । फलः फालः । फलयति फालयति ।


skd

k1=फल, L=23730
फल¦, निष्पत्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।)
“इह नवशुककोमला मणीनां
रविकरसम्बलिताः फलन्ति भासः ॥
इति भारविः ॥
निष्पादनेऽपि वाल्मीकिः ।
फलति स्म यस्य चरितस्तोत्राय दिव्या गिरः ॥”
इति दुर्गादासः ॥


k1=फल, L=23731
फल¦, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) ज, फालः फलः । इति दुर्गादासः ॥


k1=फल, L=23732
फल¦, ञि आ भिदि । इति कविकल्पद्रुमः । (भ्वा०-
पर०-सक०-सेट् ।) ञि, फुल्लोऽस्ति । आ, फलितं
फुल्तं तेन । फलति काष्ठं कुठारः । इति
दुर्गादासः ॥


Match 0830: vcp=फुल्ल, skd=फुल्ल

vcp

k1=फुल्ल, L=35183
फुल्ल¦ विकाशे भ्वा० पर० अक० सेट् । फिल्लति अफुल्लीत् पुफुल्ल ।


skd

k1=फुल्ल, L=23848
फुल्ल¦, विकासे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) ह्रस्वी । लद्वयान्तः । विकास
इह कस ज गताविति दन्त्यान्तस्य घञि रूपम् ।
विपूर्ब्बत्येनार्थान्तरवाचितया विकसनमित्यर्थः ।
फुल्लति मल्लीकलिका । इति दुर्गादासः ॥


Match 0831: vcp=फेल, skd=फेल

vcp

k1=फेल, L=35204
फेल¦ गतौ भ्वा० पर० सक० सेट् । फेलति अफेलत् पिफेल ।
ऋदित् चङि न ह्रस्वः । अपिफेलत् त ।


skd

k1=फेल, L=23878
फेल¦, ऋ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अपिफेलत् पिफेलतुः ।
इति दुर्गादासः ॥


Match 0832: vcp=बठ, skd=बठ

vcp

k1=बठ, L=35212
बठ¦ वृद्धौ सामर्थ्ये च भ्वा० पर० सक० सेट् । बठति अबठीत्
अवाठीत् । बबाठ बेठतुः ।


skd

k1=बठ, L=23908
बठ¦, पैन्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) पैन्यमिह सामर्थ्यम् । वठति
वीरो योद्धुं समर्थः स्यादित्यर्थः । इति
दुर्गादासः ॥


Match 0833: vcp=बण, skd=बण

vcp

k1=बण, L=35218
बण¦ शब्दे भ्वा० पर० सक० सेट् । बणति अबाणीत्--अबणीत् बेणतुः


skd

k1=बण, L=23918
बण¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-
अक०-सेट् ।) बणति । इति दुर्गादासः ॥


Match 0834: vcp=बद, skd=बद

vcp

k1=बद, L=35226
बद¦ स्थैर्य्ये निश्चलभबले भ्वा० पर० सक० सेट् । बदति
अवादीत् अबदीत् । बबाद बेदतुः ।


k1=बद, L=35227
बद¦ भाषणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वादयति
ते अवीषदत्--त । पक्षे बदतीत्यादि ।


skd

k1=बद, L=23928
बद¦, स्थैर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) बदति पर्व्वतः । आबादीत्
अबदीत् । हसादेः सेम इत्यादिना वा दीर्घः ।
व्रजवदेत्यादौ दन्त्यादिवदेरग्रहणादिति प्राञ्चः ।
इति दुर्गादासः ॥


Match 0835: vcp=बध, skd=बध

vcp

k1=बध, L=35246
बध¦ संयमने चु० उ० सक० सेट् । बाधयति--ते अबीबधत्--त ।


k1=बध, L=35247
बध¦ निन्दायां बन्धने च भ्वादि० आत्म० सक० सेट् । बीभत्सते
अवीभत्सिष्ट । निन्दनेऽर्थे एव स्वार्थे सन् बन्धने तु न
तेन तत्र बधते अबधिष्ट इत्येव ।


skd

k1=बध, L=23952
बध¦, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, बाधयति । इति दुर्गा-
दासः ॥


k1=बध, L=23953
बध¦, ङ निन्दे । बन्धे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ङ, बीभत्सते खलं
लोकः । बधते तत्र त्यादयो न प्रयुज्यन्ते । इति
रमानाथः ।
‘माबधिष्ठा जटायुं मां सीतां रामाहमैक्षिषि ।’
इति भट्टिः । ६ । ४१ ॥ इति दुर्गादासः ॥


Match 0836: vcp=बन, skd=बन

vcp

k1=बन, L=35263
बन¦ याचने तना० आत्म० द्विक० सेट् । बनुते अबनिष्ठ । बेने
उदित् क्त्वा वेट् बनित्वा बान्त्वा । घान्तः ।


skd

k1=बन, L=23963
बन¦, द ङ उ याचने । इति कविकल्पद्रुमः ॥
(तना०-आत्म०-द्विक०-सेट् । क्त्वावेट् ।) द ङ,
बनुते । उ, बनित्वा बत्वा । इति दुर्गादासः ॥


Match 0837: vcp=बन्ध, skd=बन्ध

vcp

k1=बन्ध, L=35264
बन्ध¦ बन्धने क्य्रा० पर० सक० अनिट् । बध्नाति अभान्त् सीत् बबन्ध बध्यते ।
उद् + उत्तोल्य बन्धने “उद्वन्धनभृता ये च” स्मृतिः ।
अनु + नियतपूर्ववर्त्तित्वे अनुगमने च । “तेषु किं भवतः
स्नेहमनुबध्नाति मानसम्” देवीमा० ।
नि + नियमेन बन्धने निबन्धशब्दे दृश्यम् ।
निर् + आग्रहे निर्बन्धशब्दे दृश्यम् ।
प्र + ग्रन्यने काल्पनिककथने च प्रबन्धशब्दे दृश्यम् ।
प्रति + निरोधे “प्रतिबध्नाति हि श्रेयः” रघुः । व्याप्तौ च प्रति-
बन्धशब्दे दृश्यम् ।
सम् + सम्यक्बन्धे संसर्गे च ।


k1=बन्ध, L=35265
बन्ध¦ संयमगे चुराः० उभ० सक० सेट् । बन्धयति ते अबबन्धत् त


skd

k1=बन्ध, L=23964
बन्ध¦, औ ग बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०-
पर०-सक०-अनिट् ।) औ, अबानत्सीत् । ग,
बध्नाति । वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं
धूर्त्त निर्ब्बन्धसे । इत्यपपाठः । निर्व्वध्यते इति
पाठ्यमिति रमानाथः । वस्तुतस्तु अस्य गण-
कृतानित्यतया ञेरभावे आत्मनेपदे च सिद्धम् ।
इति दुर्गादासः ॥


k1=बन्ध, L=23965
बन्ध¦, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) क, बन्धयति । इति दुर्गादासः ॥
(यथा, रामायणे । २ । ८४ । ४ ।
“बन्धयिष्यति वा पाशैरथवास्मान् वधिष्यति ॥”


Match 0838: vcp=बभ्र, skd=बभ्र

vcp

k1=बभ्र, L=35286
बभ्र¦ गतौ भ्वा० पर० सक० सेट् । बभ्रति अबभ्रीत् बबभ्र ।


skd

k1=बभ्र, L=23996
ब(व)भ्र¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) ब(व)कारादिः । ओष्ठ्यवर्गचतुर्थो-
पधः । ब(व)भ्रति । इति दुर्गादासः ॥


Match 0839: vcp=बम्ब, skd=बम्ब

vcp

k1=बम्ब, L=35289
बम्ब¦ नतौ भ्वा० पर० सक० सेट् । बम्बति अबम्बीत् बबम्ब ।


skd

k1=बम्ब, L=24003
बम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) बम्बति । इति दुर्गादासः ॥


Match 0840: vcp=बर्ब, skd=बर्ब्ब *

vcp

k1=बर्ब, L=35294
बर्ब¦ गतौ भ्वा० पर० सक० सेट् । बर्बति अबर्बीत् बबर्ब ।


skd

k1=बर्ब्ब, L=24004
बर्ब्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) बर्ब्बति । इति दुर्गादासः ॥


Match 0841: vcp=बर्ह, skd=बर्ह

vcp

k1=बर्ह, L=35298
बर्ह¦ दाने बधे स्तृतौ बाचि च भ्वा० आ० सक० सेट् । बर्हते
अबर्हिष्ट “विगर्हितं धर्मधनैर्निबर्हणम्” नैष० ।


skd

k1=बर्ह, L=24007
बर्ह¦, ङ स्तृतौ । हिंसायाम् । दाने । वाचि ।
इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०
[Page3-397-a+ 52]
सेट् ।) रेफोपधः । ङ, बर्हते । इति दुर्गा-
दासः ॥


Match 0842: vcp=बल, skd=बल

vcp

k1=बल, L=35317
बल¦ दाने बधे निरूपणे च भ्वा० उभ० सक० सेट् । बलति--ते
अबालीत् अबलिष्ट । बेलतुः बेले ।


k1=बल, L=35318
बल¦ जीवने चु० उभ० अक० सेट् । मित् घटा० । बलयति--ते अबीबलत् त ।


k1=बल, L=35319
बल¦ निरूपणे चु० आत्म० सक० सेट् । बालयते अबीबलत ।


skd

k1=बल, L=24008
बल¦, क ङ निरूपणे । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-सक०-सेट् ।) क ङ, बाल-
यते धर्म्मं धीरः । अयं कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥


k1=बल, L=24009
बल¦, क म जीवने । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-अक०-सेट् ।) बलयति । इति
दुर्गादासः ॥


k1=बल, L=24010
बल¦, ङ दाने । वधे । निरूपणे । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ,
बलते । इति दुर्गादासः ॥


k1=बल, L=24011
बल¦, ज धान्यावरोधे । जीवने । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-अक० च-सेट् ।) बालः बलः ।
धनस्य भावो धान्यं समृद्धिस्तस्य अवरोधः
प्रतिबन्धः धान्यावरोधः । बलति पुण्यहीनं
विधिः । पुण्यहीनस्य समृद्धिं प्रतिबध्नाति
इत्यर्थः । अयमर्थो अन्यैर्न्न मन्यते । बलत्य-
न्नेन लोकः । इति दुर्गादासः ॥


Match 0843: vcp=बल्ह, skd=बल्ह

vcp

k1=बल्ह, L=35379
बल्ह¦ स्तृतौ दाने, यधे, च सक० याचने द्विक० भ्वा० आत्म०
सेट् । बल्हते अबल्हिष्ट बबल्हे ।


skd

k1=बल्ह, L=24084
बल्ह¦, ङ स्तृतौ । हिंसायाम् । दाने । वाचि ।
इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-
सेट् ।) अन्तः स्थतृतीयोपधः । ङ, बल्हते ।
इति दुर्गादासः ॥


Match 0844: vcp=बाध, skd=बाध

vcp

k1=बाध, L=35486
बाध¦ विहतौ भ्वादि० आत्म० सक० सेट् । बाधते अबालिष्ट ।
ऋदित् चङि न ह्रस्वः अबबाधत् त ।


skd

k1=बाध, L=24237
बा(वा)ध¦, ऋ ङ विहतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अवबाधत् ।
ङ, बाधते । ऊनं न सत्त्वेष्वधिको बबाधे । इति
रघुः ॥ २ । १४ ॥ इति दुर्गादासः ॥


Match 0845: vcp=बिद, skd=बिद

vcp

k1=बिद, L=35593
बिद¦ अवयवे भ्वा० पर० सक० सेट् इदिद् । बिन्दति अबिन्दीत्


skd

k1=बिद, L=24348
बिद¦ इ अंशे । अवयव इत्यर्थः । इति कविकल्प-
द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) इ बिन्द्यते ।
बिन्दुरितिशब्दव्युत्पत्त्यर्थमेवायं धातुपारायणम् ।
इति दुगादासीयटीका ॥


Match 0846: vcp=बिल, skd=बिल

vcp

k1=बिल, L=35605
बिल¦ भेदने वा चुरा० उभ० पक्षे तु० पर० सक० सेट् । बेलयति
ते बिलति । अबीबिलत् त अबेलीत् ।


skd

k1=बिल, L=24349
बिल¦ क श विभेदने । इति कविकल्पद्रुमः ॥
(चुरा०-तुदा०-च-परं०-सक०-सेट् ।) क, बेल-
यति । श बिलति । इति दुर्गादासः ॥


Match 0847: vcp=बिस, skd=बिस

vcp

k1=बिस, L=35628
बिस¦ क्षेपे दि० पर० सक० सेठ् । बिस्यति । इरित् अबिसत् अबेसीत् बिबेस ।


skd

k1=बिस, L=24350
बिस¦ इर् य क्षेपे । इति कविकल्पद्रुमः । (दिवा०-
पर०-सक०-सेट् ।) य विस्यति । इर् अविसत्
अवेसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये ।
इति दुर्गादासः ॥


Match 0848: vcp=बुक्क, skd=बुक्क

vcp

k1=बुक्क, L=35646
बुक्क¦ न० बुक्व अच । १ हृदयस्थे मांसपिण्डे २ अग्रमांसे ३ हृदये
च अमरः अस्य स्त्रीत्वमपि स्त्रीत्वे टाप् गौ० ङीष् वा ।
“बुक्वाथातैर्युबतिनिकटे प्रौढवाक्येन राधा” उद्भटः ।
४ छागे पु० (बोका) त्रिका० । ५ समने च पु० । ६ शोणिते भरतः
स्त्री टाप् । ५ पी० बूक्कबुक्के अपि हृदये ।


skd

k1=बुक्क, L=24354
बुक्क¦, कि श्वादिशब्दे । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-पर०-सक०-पक्षे अक०-
सेट् ।) पञ्चमस्वरी कोपधः । चुरादिपक्षे कथने
भ्वादिपक्षे कुक्कुरादिशब्देऽयमिति रमानाथः ।
कि, बुक्कयति वाचा बहुलोकः । बुक्कति श्वा ।
इति दुर्गादासः ॥


Match 0849: vcp=बुट, skd=बुट

vcp

k1=बुट, L=35652
बुट¦ हिसायां चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । बोटयति
ते । बोटति । अबुबुटत्--त । अवोटीत् ।


skd

k1=बुट, L=24363
बुट¦, कि हिंसे । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) कि बोटयति
बोटति । इति दुर्गादासः ॥


Match 0850: vcp=बुड, skd=बुड

vcp

k1=बुड, L=35653
बुड¦ त्यागे संवरणे च तु० कुट्० सक० सेट् । बुडति अबुडीत् बुबोड


skd

k1=बुड, L=24364
बुड¦, शि उत्सर्गे । संवृतौ । इति कविकल्प-
द्रुमः ॥ (कुटा०-तुदा०-पर०-सक०-सेट् ।)
शि बुडति अबुडीत् बुबोड इति दुर्गादासः ॥


Match 0851: vcp=बुद, skd=बुद

vcp

k1=बुद, L=35655
बुद¦ निशामने (आलोचने) भ्वा० उ० सक० सेट् । बोदति ते । इरित् अबुदत्--अबोदोत् अबोदिष्ट । उदित्क्त्वा वेट् ।


skd

k1=बुद, L=24365
बुद¦, इर् ञ उ निशामने । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-सेट् ।) पञ्चमस्वरी । इर्
अबुदत् अबोदीत् । ञ बोदति बोदते । उ
बोदित्वा बुत्त्वा निशामनमालोचनं प्रणि-
धानमिति यावत् । इति दुर्गादासः ॥


Match 0852: vcp=बुध, skd=बुध

vcp

k1=बुध, L=35668
बुध¦ ज्ञापने भ्वा० प० सक० अनिट् । बोधति अभौत्सीत्
शिष्यं गुरुः । बोद्धा बुद्धः ।


k1=बुध, L=35669
बुध¦ ज्ञाने भ्वा० उभ० सक० सेट् । बोधति ते । इरित अबुधत्०
अपोधीत् अबोधि अबोधिष्ट । ज्वला० वा ण पक्षे क ।
बोधः बुधः ।


k1=बुध, L=35670
बुध¦ ज्ञाने दि० आ० सक० अनिट् । बुध्यते अबोधि अबोधिष्ट ।
बुबुधे । उद् + बुध--जागरणे पिषयस्फुरणाभिमुखीभाव
रूपे सस्कारनिष्ठे व्यापारभेदे उद्नुद्धसंस्करादेव स्मृति-
र्भवतीति शाखे स्थितम् ।


skd

k1=बुध, L=24373
बुध¦, इर् ज ञ वेदने । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-सेट् । ज्वलादिरयम् ।) इर्
अबुधत् अबोधीत् । ज बोधः बुधः । ञ बोधति
बोधते । इति दुर्गादासः ॥


k1=बुध, L=24374
बुध¦, औ विज्ञापने । इति कविकल्पद्रुमः । (भ्वा०-
पर०-सक०-अनिट् ।) औ बोद्ध्वा । बोधति
गुरुः । इति दुर्गादासः ॥


k1=बुध, L=24375
बुध¦, य ङ औ वेदने । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-सक०-अनिट् ।) य ङ बुध्यते
शास्त्रं सुधीः । औ बोद्धा । इति दुर्गादासः ॥
(जागरार्थे अकर्म्मकोऽपि । यथा, रघौ । १० । ६ ।
“ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ॥”
“आदिपुरुषो विष्णुश्च बुबुधे योगनिद्रां जहौ
इत्यर्थः ॥” इति तट्टीका ॥)


Match 0853: vcp=बुन्ध, skd=बुन्ध

vcp

k1=बुन्ध, L=35688
बुन्ध¦ निशामने भ्व० उभ० सक० सेट् । बुन्धति ते इरित्
अबुधत्--अबुन्धीत् अबुन्धिष्ट । निशामनमालोचनम् ।
उदित् क्त्वा वेट् ।


k1=बुन्ध, L=35689
बुन्ध¦ बन्धे चु० उभ० सक० सेट् । बुन्धयति ते अबुवुन्धत् त ।


skd

k1=बुन्ध, L=24390
बुन्ध¦, इर् ञ उ निशामने । इति कविकल्प-
द्रुमः ॥ (भ्वा०-उभ०-सक०-सेट् ।) पञ्चम-
स्वरी । इर् अबुधत् अबुन्धीत् । ञ बुन्धति
बुन्धते । उ बुन्धित्वा बुद्धा । निशामनमालो-
चनं प्रणिधानमिति यावत् । इति दुर्गादासः ॥


k1=बुन्ध, L=24391
बुन्ध¦, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) पञ्चमस्वरी । क बुन्धयति ॥
इति दुर्गादासः ॥


Match 0854: vcp=बुल, skd=बुल

vcp

k1=बुल, L=35693
बुल¦ मज्जने चु० उभ० अक० सेट् । बोकयति ते अबुबुसत् ।
बोलयति प्लवः पयसि मज्जतीत्यर्थः ।


skd

k1=बुल, L=24395
बुल¦, क मज्जने । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क बोलयति प्रस्तरः पयसि ।
तालव्यवर्गाद्यादिरयमिति केचित् । इति दुर्गा-
दासः ॥


Match 0855: vcp=बुस, skd=बुस

vcp

k1=बुस, L=35697
बुस¦ उत्सर्गे दि० पर० सक० सेत् । बुस्यति । इरित् अबुसत् अबोसीत् बुबीस


skd

k1=बुस, L=24398
बुस¦, य इर् हानौ । इति कविकल्पद्रुमः । (दिवा०-
पर०-सक०-सेट् ।) य बुस्यति जलं मेघः त्यज-
तीत्यर्थः । इर् अबुसत् अबोसीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥


Match 0856: vcp=बुस्त, skd=बुस्त

vcp

k1=बुस्त, L=35698
बुस्त¦ आदरे अतादरे च चु० उभ० सक० सेट् । बुस्तयति ते
अबुबुस्तत् त ।


skd

k1=बुस्त, L=24400
बुस्त¦ क अनादरे । आदरे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) क बुस्तयति खलं
लोकः । बुस्तयति धीरं साधुः । इति दुर्गादासः ॥


Match 0857: vcp=बॄ, skd=बॄ

vcp

k1=बॄ, L=35789
बॄ¦ वृत्यां भृतौ च क्य्रा० प्वा० पर० सक० सेट् । बृ(वॄ)णाति अवा-
रीत् बबार बरि(री)ता बिबरी(रि)षति बुबूर्षति बूर्णः ।


skd

k1=बॄ, L=24404
बॄ¦ गि वृत्त्याम् । भृत्याम् । इति कविकल्पद्रुमः ॥
(प्यादि, क्र्यादि०-पर०-सक०-सेट् ।) गि बृणोति
बूर्णः बूर्णिः । इति दुर्मादासः ॥


Match 0858: vcp=ब्यध, skd=ब्यध

vcp

k1=ब्यध, L=35809
ब्य(व्य)ध¦ ताडने दिवा० पर० सक० अनिट् बि(वि)व्यति
अभ्या(व्या)त्सीत् बि(वि)व्या(व्या)ध वर्ग्यादित्वे सनि
बिभ्यत्सति ।


skd

k1=ब्यध, L=24427
ब्यध¦, य औ ताडे । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-अनिट् ।) य बिध्यति शत्रुं शूरः ।
औ अब्यात्सीत् । कश्चित्तु द्बिर्भूतस्यानिकारी-
भूतयकारस्य ब्यधेर्वकारो वर्ग्यः अन्यत्र दन्त्यः
इति मन्वानः सनि विभ्यत्सतीत्याह । इति
दुर्गादासः ॥


Match 0859: vcp=ब्रण, skd=ब्रण

vcp

k1=ब्रण, L=35811
ब्र(व्र)ण¦ शब्दे भ्वा० पर० अक० सेट् । (ब्र)व्रणति । अब्र(ब्र)-
णित्--अ(ब्र)ब्राणीत् । कविकल्पद्रुमेऽयमन्त्यस्थादि ।


skd

k1=ब्रण, L=24429
ब्रण¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) ब्रणति । इति दुर्गादासः ॥


Match 0860: vcp=ब्रू, skd=ब्रू

vcp

k1=ब्रू, L=36000
ब्रू¦ कथने अदा० उभ० द्विक० सेट् । ब्रवीति आह ब्रूते । अवा-
चत् अवोचत । उवाच ऊचतुः । अस्यार्द्धधातुके
वच्यादेशोऽनित्यः तेन “विव्रतिः कटके कृता” । ब्रह्मणब्रु ।
इत्यादि सिद्धम् । अनु + पश्चात् कथने अनुवादे ।
वि + विरुद्धतया कथने विवादे च ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य-
सङ्कलिते वाचस्पत्याभिधाने बकारादि
शब्दार्थसङ्कलनम् ।


skd

k1=ब्रू, L=24564
ब्रू¦ ल ञ उक्तौ । इति कविकल्पद्रुमः ॥ (अदा०-
उभ०-द्विक०-सेट् ।) ल ञ ब्रवीति । ब्रूते ।
विब्रूतिः कटके कृतेत्यत्र अरविहितकार्य्य-
स्यानित्यत्वान्न वचादेशः । इति दुर्गादासः ॥


Match 0861: vcp=भक्ष, skd=भक्ष

vcp

k1=भक्ष, L=36022
भक्ष¦ अदने चु० उभ० सक० सेट् । भक्षयति--ते अबभक्षत्--त
तस्य भ्वादित्वमपीत्येके भक्षति अभक्षीत् । उभयपदित्व-
मस्येत्यन्ये भक्षते अभक्षिष्ट ।


skd

k1=भक्ष, L=24581
भक्ष¦ क भक्षे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क भक्षयति । इति
दुर्गादासः ॥


k1=भक्ष, L=24582
भक्ष¦ ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) ञ भक्षति भक्षते । इति
दुर्गादासः ॥


Match 0862: vcp=भज, skd=भज

vcp

k1=भज, L=36083
भज¦ भागे पृथक्करणे सेवायाञ्च भ्वा० उभ० सक० अनिट् ।
भजति--ते अभाक्षीत् अभक्तबभाज भेजतुः भेजे ।


k1=भज, L=36084
भज¦ पाके दाने च चु० उ० सक० सेट् । भाजयति--ते अबीभजत्त


k1=भज, L=36085
भज¦ दीप्तौ चु० उभ० सक० सेट् इदित् । भाजयति--ते अबीभजत्--त


skd

k1=भज, L=24636
भज¦, इक् भासि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इक् भञ्जयति । भासि
दीप्तौ । इति दुर्गादासः ॥


k1=भज, L=24637
भज¦, क पाके । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क भाजयति । विश्राणने
इति प्राञ्चः । विश्राणनं दानम् । इति दुर्गा-
दासः ॥


k1=भज, L=24638
भज¦, ञ औ भागसेवयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-अनिट् ।) ञ विभजति
विभजते धनं भ्राता । औ अभाक्षीत् कृष्णं
साधुः । इति दुर्गादासः ॥


Match 0863: vcp=भट, skd=भट

vcp

k1=भट, L=36094
भट¦ भृतौ कर्ममूल्यग्रहणे भ्वा० पर० सक० मेट् भटति । अभा
टीत्--अभटीत् । यो भाटयित्वा शकटं नीत्वा चान्यत्र
गच्छति । भाटं न दद्यात् दाप्योसाऽवरूढस्यापि भाटकम्”
वृद्धमनुः ।


k1=भट, L=36095
भट¦ भाषणे भ्वा० पर० सक० सेट् । भटति अभा(भ)टीत् ।


skd

k1=भट, L=24648
भट¦, भृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) भृतिरिह पोषणम् । कर्म्ममूल्य-
मिति गोविन्दभट्टः । भटति भृत्यं स्वामी । इति
दुर्गादासः ॥


k1=भट, L=24649
भट¦ म भाषणे । इति कविकल्पद्रुमः । (भ्वा०-
पर०-सक०-सेट् घटादिः ।) म भटयति ।
भाषणं कथनम् । इति दुर्गादासः ॥


Match 0864: vcp=भड, skd=भड

vcp

k1=भड, L=36104
भड¦ परिमाषणे भ्वा० आ० सक० सेट् इदित् । भण्डते अभण्डिष्ट बमण्डे ।


k1=भड, L=36105
भड¦ कल्याणभाषणे चु० उ० सक० सेट् इदित् । भण्डयति--ते
अवभण्डत्--त । प्रतारणे च भण्डयति प्रतारकी मुग्धं
धनदानाङ्गीकारेण, सनिन्दोपलम्भे परिहासे च उणा०
सू० भडिभण्ड्योः पृथग्निर्देशात् अयमिदिद्भिन्नोऽपि ।


skd

k1=भड, L=24660
भड¦ इक् शिवे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् । इदित् ।) शिवं कल्याण-
क्रिया वेदेष्वेव । प्रतारणे प्रसिद्धोऽयम् । इक्
भण्डयति प्रतारको मुग्धं धनदानाङ्गीकारेण ।
इति दुर्गादासः ॥


k1=भड, L=24661
भड¦ इ ङ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) परिभाषण इति गोविन्द-
भट्टः । परिहास इति चतुर्भुजः । इ भण्ड्यते ङ
भण्डते षिड्गीं लोकः । इति दुर्गादासः ॥


Match 0865: vcp=भण, skd=भण

vcp

k1=भण, L=36108
भण¦ कथने भ्वा० पर० द्विक० सेट् । भणति । अभाणीत्--अभ-
णीत् । चङि वा ह्रस्वः । अबीभणत्--त अबसाणत्--
त । कथनमिह व्यक्तवाक्यम् ।


skd

k1=भण, L=24664
भण¦ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-द्विक०-सेट् ।) ऋ अबीभणत् अबभाणत्
[Page3-478-b+ 52]
स चेह व्यक्तवाक्यम् । श्रीजयदेवकृतहरिसेवं
भणति परमरमणीयम् । इति दुर्गादासः ॥


Match 0866: vcp=भद, skd=भद

vcp

k1=भद, L=36126
भद¦ शुभकथने प्रीतौ च भ्वा० आ० अक० सेट् इदित् ।
भन्दते अभन्दिष्ट ।


k1=भद, L=36127
भद¦ कल्याणकरणे चु० उ० अक० सेट् इदित् । भन्दयति--ते अबभन्दत्--त ।


skd

k1=भद, L=24685
भद¦ इक् शुभे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इक् भन्दयति शुभं कल्याण-
क्रिया । इति दुर्गादासः ॥


k1=भद, L=24686
भद¦ इ ङ हर्षे । प्रीतौ । शुभे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट्-इदित् ।) इ भन्द्यते ।
ङ भन्दते पण्डितः सदा । इति दुर्गादासः ॥


Match 0867: vcp=भर्त्स, skd=भर्त्स

vcp

k1=भर्त्स, L=36269
भर्त्स¦ अधिक्षेपे चुरा० उभ० सक० सेट् । भर्त्सयति ते अबभर्त्सत् त ।


skd

k1=भर्त्स, L=24800
भर्त्स¦, क ङ ञ भर्त्से । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-उभ० च-सक० सेट् ।) रेफ-
युक्तः । दन्त्यवर्गाद्योपधः । भर्त्सो भर्त्सनम् ।
भर्त्सनन्त्वपकारगीरित्यमरः । १ । ६ । १४ ॥ क
ङ, भर्त्सयते खलं राजा । ञ, भर्त्सयति भर्त्सयते ।
अयमात्मनेपदीत्यन्ये । कदाचित् परस्मैपदार्थो
ञकारः । इति दुर्गादासः ॥


Match 0868: vcp=भर्भ, skd=भर्भ

vcp

k1=भर्भ, L=36272
भर्भ¦ हिंसायां भ्वा० पर० सक० सेट् । भर्भति अभर्भीत् ।


skd

k1=भर्भ, L=24806
भर्भ¦, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रेफोपधः । भर्भति । इति दुर्गा-
दासः ॥


Match 0869: vcp=भर्व, skd=भर्व्व *

vcp

k1=भर्व, L=36276
भर्व¦ हिंसायां भ्वा० पर० सक० सेट् । भर्वति अभर्वीत । भोजने
निघण्टुः ।


skd

k1=भर्व्व, L=24807
भर्व्व¦, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) भर्व्वति । अन्तःस्थवान्तोऽयम् ।
इति दुर्गादासः ॥


Match 0870: vcp=भल, skd=भल

vcp

k1=भल, L=36277
भल¦ बधे दाने निरूपणे च भ्वा० आ० सक० सेट् । भलते अभलिष्ट बभले ।


k1=भल, L=36278
भल¦ निरूपणे चु० आ० सक० सेट् । भालयते अबोभलत ।


skd

k1=भल, L=24808
भल¦, क ङ निरूपणे । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-सक०-सेट् ।) क ङ, भालयते ।
इति दुर्गादासः ॥


k1=भल, L=24809
भल¦, ङ दानवधनिरूपणेषु । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ङ, भलते । इति
दुर्गादासः ॥


Match 0871: vcp=भल्ल, skd=भल्ल

vcp

k1=भल्ल, L=36282
भल्ल¦ दाने बधे निरूपणे च भ्वा० प० सक० सेट् । भल्लति अभल्लीत् ।


skd

k1=भल्ल, L=24812
भल्ल¦, ङ दानवधनिरूपणेषु । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) लद्वयान्तः । ङ,
भल्लते । इति दुर्गादासः ॥


Match 0872: vcp=भष, skd=भष

vcp

k1=भष, L=36331
भष¦ कुक्कुरशब्दे भ्वा० पर० सक० सेट् । भषति अभषीत्--अभाषीत्


skd

k1=भष, L=24863
भष¦, वुक्के । पिशुनोक्तौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-श्वशब्दे अक० पिशुनोक्त्यादौ सक०-
सेट् ।) बुक्कः कुक्कुरादिकर्त्तृकशब्दः । भषति
श्वा । भषत्यन्यदोषं खलः सूचयतीत्यर्थः । भर्त्-
सने इति प्राञ्चः । भषति श्वा पान्थं शब्देन
निर्भर्त्सयतीत्यर्थः । इति रमानाथः । इति
दुर्गादासः ॥


Match 0873: vcp=भस, skd=भस

vcp

k1=भस, L=36335
भस¦ दीप्तौ अक० भर्त्सने सक० जु० पर० सेट् । बभस्ति । अभा-
सीत् अभसीत् बभास । वैदिकीऽयम् ।


k1=भस, L=36336
भस¦ भक्षणे प० सक० सेट् निघण्टुः । भसति अभा(भ)सीत् बभास ।


skd

k1=भस, L=24869
भस¦, र लि द्युतौ । भर्त्से । इति कविकल्पद्रुमः ॥
(ह्वा०-पर०-अक०-सक० च सेट् ।) र वैदिकः ।
लि, वभस्ति । इति दुर्गादासः ॥


Match 0874: vcp=भा, skd=भा

vcp

k1=भा, L=36359
भा¦ दीप्तौ अदा० पर० अक० अनिट् । भाति अभासीत् बभौ ।
प्रति + बुद्धिप्राखर्य्ये । वि + अति + मिथोभासने--आ० । दीप्तिश्च
तैजसपदार्थावयवभेदः प्रकाशश्च । स च ज्ञाने विषयतया
प्रकाशः षित् । भावे अङ् । भा


skd

k1=भा, L=24894
भा¦, ल ष दीप्तौ । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-अक०-अनिट् ।) ल, भाति । ष, भा ।
इति दुर्गादासः ॥


Match 0875: vcp=भाज, skd=भाज

vcp

k1=भाज, L=36385
भाज¦ पृथक्करणे, अद० चु० उभ० सक० सेट् । भाजयति ते अवभाजत् त ।


skd

k1=भाज, L=24914
भाज¦, त् क पृथक्कृत्याम् । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) अवभाजत्
धनं भ्रातृवर्गः । इति दुर्गादासः ॥


Match 0876: vcp=भाम, skd=भाम

vcp

k1=भाम, L=36418
भाम¦ क्रोधे भ्वा० आत्म० अक० सेट् । भामते अभामिष्ट बभामे ।


skd

k1=भाम, L=24945
भाम¦, ङ क्रोधे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ङ, भामते । इति दुर्गा-
दासः ॥


k1=भाम, L=24946
भाम¦, त् क कोपने । इति कविकल्पद्रुमः ॥ अदन्त-
चुरा०-पर०-अक०-सेट् ।) अवभामत् । इति
दुर्गादासः ॥


Match 0877: vcp=भाष, skd=भाष

vcp

k1=भाष, L=36489
भाष¦ वचने भ्वा० आत्म० द्विक० सेट् । भाषते अभाषिष्ट ।
ऋदित् चङि न ह्रस्वः । उपसर्गपूर्वकस्तु तत्तदुपसर्गद्यो-
तात्यार्थयुक्तकथने । परि + शास्त्रकारमङ्गेते ।


skd

k1=भाष, L=25015
भाष¦, ङ ऋ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, भाषते । ऋ, अवीभषत्
अवभाषत् । इति तट्टीकायां दुर्गादासः ॥


Match 0878: vcp=भास, skd=भास

vcp

k1=भास, L=36499
भास¦ दीप्तौ भ्वा० आत्म० सेक० सेट् । भासते अभासिष्ट । चङि
वा ह्रस्वः । अबीभसत् त अनभासत् त । ज्ञानविषयत्वे च
“प्रकारीभूय भावते” ।


skd

k1=भास, L=25023
भास¦ ऋ ङ भासि । दीप्तौ । इति कविकल्प-
द्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) ऋ
[Page3-510-a+ 52]
अवीभसत् अबभासत् । ङ भासते । इति
दुर्गादासः ॥


Match 0879: vcp=भिक्ष, skd=भिक्ष

vcp

k1=भिक्ष, L=36521
भिक्ष¦ लोभे लाभायोक्तौ सक० याचने द्विक० क्लेशे अक०
भ्वा० आत्म० सेट् । भिक्षते अभिक्षिष्ट विभिक्षे ।


skd

k1=भिक्ष, L=25041
भिक्ष¦, ङ लाभार्थलोभोक्तिक्लिशि । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-याचने द्विक०-लाभे
लोभोक्तौ च सक०-क्लिशि अक०-सेट् ।) अर्थो
याचनम् । लोभादुक्तिर्लोभोक्तिः । ङ, भिक्षते
भूमिं नृपात् पण्डितः । लभत इत्यर्थः । भिक्षते
दातारं धनं भिक्षुः । याचत इत्यर्थः । भिक्षते
[Page3-510-c+ 52]
दातारं दीनः । लोभाद्वदतीत्यर्थः । भिक्षते
जनः । क्लिश्यतीत्यर्थः । इति दुर्गादासः ॥


Match 0880: vcp=भिद, skd=भिद

vcp

k1=भिद, L=36538
भिद¦ द्विधाकरणे विशेषकरणे च रुधा० उभ० सक० अनिटू ।
भिनत्ति भिन्ते इरित् अभिदत् अभैत्सीत् अभित्त । वि-
भेद विभिदे । मिन्नः । भेत्ता ।


k1=भिद, L=36539
भिद¦ अंशकरणे भ्वा० पर० सक० सेट् इदित् । भिन्दति अभिन्दीत्


skd

k1=भिद, L=25062
भिद¦ इर् औ ञ ध भिदि । इति कविकल्पद्रुमः ॥
(रुधा०-उभ०-सक०-अनिट् ।) भित् कियद-
वयवविदारणम् । ञ ध भिनत्ति भिन्ते कूलं
नदी । औ भेत्ता । इर् अभिदत् अभैत्सीत् ।
इति दुर्गादासः ॥


Match 0881: vcp=भिष, skd=भिष् *

vcp

k1=भिष, L=36573
भिष¦ रोगप्रतीकारे सौ० पर० सक० सेट् । भेषति अभेषीत् ।


skd

k1=भिष्, L=25084
भिष्¦, रुग्जये । सौत्रधातुरयम् । इति कविकल्प-
द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) भिषक्
भेषजं भेषति । इति दुर्गादासः ॥


Match 0882: vcp=भी, skd=भी

vcp

k1=भी, L=36583
भी¦ भवे जु० पर० अक० अनिट् । विभेति अभैषीत् बिभयामब०
भूव आस चकार बिभाय । भीरुः भीतः । एतद्योगे “भीत्रा-
र्थानां भयहेतुः” पा० भयहेतोरपादानता । व्याघ्रात् भीत ।


k1=भी, L=36584
भी¦ भये अक० भरणे सक० क्य्रादि० वा वा० पर० अनिट
भीनाति मिनाति । अभैषीत् ।


skd

k1=भी, L=25093
भी¦, ग गि भृत्याञ्च । इति कविकल्पद्रुमः ॥ (क्र्या०
-पर० सक०-अनिट् ।) ग, भीनाति । गि,
भिनाति । भीनः भीनिः । गिनैव क्र्यादित्वसिद्धौ
ग्रग्रहणं प्वादित्वविकल्पार्थं चकारात् भीत्याञ्च ।
इति दुर्गादासः ॥


k1=भी, L=25094
भी¦, ञि लि भीत्याम् । इति कविकल्पद्रुमः ॥
(ह्वा०-पर०-अक०-अनिट् ।) ञि, भीतोऽस्ति ।
लि, बिभेति । इति दुर्गादासः ॥


Match 0883: vcp=भुज, skd=भुज

vcp

k1=भुज, L=36641
भुज¦ भोटने तु० प० सक० अनिट । भुजति अभौक्षीत् । क्त
ओदित् भुग्नः ।


k1=भुज, L=36642
भुज¦ भक्षणे भोगे च आ० पालने पर० सक० रुधा० अनिट् ।
भुङ्क्तेऽन्नम् । अभौक्षीत् । भूमिं भुनक्ति पालयति ।
“दिर्व सरुत्वानिव भोक्ष्यते महीम्” रघुः । भुक्तः ।
उपसर्गपूर्तस्तु तत्तदुपसर्गद्योत्ययुक्तभोगादौ । भोगश्च
सुखदुःखाद्यनुवः सुखं दुःखं वा भुङ्क्ते सुखादिकमनु-
भवतीत्यर्थः ।


skd

k1=भुज, L=25136
भुज¦, ओ श औ वक्रणे । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-सक०-अनिट् ।) वक्रणमिति
वक्रं करोतीति ञौ रूपम् । ओ, भुग्नः । श,
भुजति लतां वायुः । औ, भोक्ता । इति दुर्गा-
दासः ॥


k1=भुज, L=25137
भुज¦, ध औ त्राणे । भक्षे । इति कविकल्पद्रुमः ॥
(रुधा०-पर०-सक०-अनिट् ।) ध, भुनक्ति ।
औ, अभौक्षीत् । त्राणं पालनम् उपभोगश्च
तस्मात् पालने परस्मैपदम् । इति बोध्यम् ।
भुनक्ति पृव्यिवीं राजा पालयतीत्यर्थः । उप-
भोगे तु वृद्धो जनो दुःखशतानि भुङ्क्ते इति ।
दिवं मरुत्वानिव भोक्ष्यते महीमिति रघुः ।
एवं सुखमुपभुङ्क्ते इत्यादि च बोध्यम् । भुजोऽ-
शने इत्यत्र भक्षणमात्रस्य ग्रहणेऽपि उपभोगस्य
भक्षणजन्यतृप्तिजनकत्वविवक्षया सिद्धिरिति
विद्यानिवासः । इति दुर्गादासः ॥


Match 0884: vcp=भू, skd=भू

vcp

k1=भू, L=36705
भू¦ प्राप्तौ चु० आ० सक० सेट् । भावयत अबीभवत ।


k1=भू, L=36706
भू¦ प्राप्तौ भ्वा० उ० सक० सेट् । भवति--ते अभूत् अभविष्ट ।


k1=भू, L=36707
भू¦ शुद्धौ अक० चिन्तने मिश्रणे च सक० चुरा० उभ० सेट् ।
भावयति--ते अबीभवत्--त ।


k1=भू, L=36708
भू¦ सत्तायां भ्वा० पर० अक० सेट् । भवति अभूत् बभूव । “भवते
दुरितक्षयं यथोक्तैः क्रतुभिर्भावयते च नागलोकम् । भवति
त्रिदशैश्च पूजितो यस्तृणवद्भावयति द्विषश्च सर्वान्” कविर०
अधि + आधिक्येन भवने ऐश्वर्य्ये ।
अनु + अनुभवे ज्ञानभेदे सक० अनुभवशब्दे दृश्यम् ।
अन्तर् + तिरोभावे अक० ।
अभि + तिरस्कारे सक० । अभिभवति शत्रून् ।
आविस् + प्रादुस् + प्रथमप्रकाशे ।
उद् + उत्पत्तौ अक० ।
तिरस् अन्तर्धाने स्थितस्य वस्तुनः कारणात्मनाऽवस्थाने अक०
परा + असहने पराभवः ।
परि + तिरस्कारे परिभवति अतिक्रम्य भवने ।
प्रति + तुल्यरूपभवने अक० प्रतिभूः ।
वि + व्याप्तौ विभुः ।
वि + अति--परस्परभवने आत्म० सक० व्यभिभवतेऽर्कमिन्दुः । बोपदेवः
सम् + योग्यत्वे अक० । सम्भवति सम् + भू--णिच् सम्भावना-
रूपज्ञानविषयत्वे सम्भाव्यते ।


skd

k1=भू, L=25174
भू¦, सत्तायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) सत्तेह द्विविधा । उत्पत्ति-
र्विद्यमानता च । भवति मनुष्योऽथवा विष्णुः ।
इति दुर्गादासः ॥


k1=भू, L=25175
भू¦, क शुद्धिचिन्तयोः । मिश्रणे । इति कविकल्प-
द्रुमः । (चुरा०-पर०-सक०-सेट् ।) क, तृण-
वद्भावयति द्विषः सर्व्वान् । त्रयोऽर्थाः । इति
दुर्गादासः ॥


k1=भू, L=25176
भू¦, क ङ प्राप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) क ङ, भावयते । इति
दुर्गादासः ॥


k1=भू, L=25177
भू¦, ञ प्राप्तौ । इति कविकल्पद्रुमः । (भ्वा०-उभ०-
सक०-सेट् ।) ञ, भवति भवते धनं धीरः ।
भवत्येव सत्तायां प्राप्तिसम्पन्नजन्मस्विति भट्ट-
मल्लः । भवते दुरितक्षयं यथोक्तक्रतुभिर्भावयते
च नाकलोकमिति हलायुधः । केचिदमुं
[Page3-521-c+ 52]
भ्वाद्यात्मनेपदिनं मत्वा प्राप्तौ परस्मैपदं सत्तार्थ-
स्यैवानेकार्थत्वात् समाधत्ते । इति दुर्गादासः ॥


Match 0885: vcp=भूष, skd=भूष

vcp

k1=भूष, L=36909
भूष¦ मण्डने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
भूषयति ते भूषति अबूभुषत्--त अभूषीत् ।


skd

k1=भूष, L=25356
भूष¦ कि भूषणे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) कि भूषयति भूषति हारो
जनम् । इति दुर्गादासः ॥


Match 0886: vcp=भृ, skd=भृ

vcp

k1=भृ, L=36919
भृ¦ भरणे भ्वा० उभ० सक० अनिट् । भरति--ते अभार्षीत् बभार बभ्रे ।


k1=भृ, L=36920
भृ¦ धारणे पोषणे च जु० उभ० सक० अनिट् । बिभर्त्ति बिभृते
अभार्षीत् अभृत । बिभरामास--बभार । द्वित् । अथु
भरथुः । ड्वित् । क्त्रि--मप् च । भृत्त्रिमः ।


skd

k1=भृ, L=25366
भृ¦ ञ भृतिपुष्ट्योः । इति कविकल्प-
द्रुमः ॥ (भ्वा०-उभ०-सक०-
अनिट् । लि-ह्वा०-उभ०-सक०-अनिट् ।) भृति-
र्भरणं पुष्टिः पोषणम् । लि ञ “बिभर्त्ति शशिनं
शम्भुर्बिभृते जनकः सुतम् । टु भरथुः । ङु
भृत्रिमम् । भ्वादिपक्षे भृतिः पूरणम् । ञ भरति
कुम्भमद्भिर्जनः । भरते । इति दुर्गादासः ॥


k1=भृ, L=25367
भृ¦ लि टु डु ञ भृतिपुष्ट्योः । इति कविकल्प-
द्रुमः ॥ (भ्वा०-उभ०-सक०-
अनिट् । लि-ह्वा०-उभ०-सक०-अनिट् ।) भृति-
र्भरणं पुष्टिः पोषणम् । लि ञ “बिभर्त्ति शशिनं
शम्भुर्बिभृते जनकः सुतम् । टु भरथुः । ङु
भृत्रिमम् । भ्वादिपक्षे भृतिः पूरणम् । ञ भरति
कुम्भमद्भिर्जनः । भरते । इति दुर्गादासः ॥


Match 0887: vcp=भृज, skd=भृज

vcp

k1=भृज, L=36960
भृज¦ भर्जने (भाजा) पाकभेदे भ्वा० आत्म० सक० सेट् । भर्जते
अभर्जिष्ट । ईदित् निष्ठायां नेट् भृक्तः ।


skd

k1=भृज, L=25411
भृज¦ ई ङ भर्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) भर्जनं पाकविशेषः । ई
भृक्तः । ङ भर्जते तण्डुलान् जनः । इति दुर्गा-
दासः ॥


Match 0888: vcp=भृश, skd=भृश

vcp

k1=भृश, L=36973
भृश¦ अधःपतने दि० पर० अक० सेट् । भृश्यति इरित् अभृशत्
अभर्शीत् बभर्श । उदिच्च क्त्वा वेट् ।


skd

k1=भृश, L=25420
भृश¦, इर् य उ अधःपते । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् ।) इर् अभृशत्
अभर्शीत् । पुषादित्वान्नित्य ङ इत्यन्ये । य भृश्यति
भृश्यत्यरिपताकिनीति हलायुधः ॥ उ भर्शित्वा
भृष्ट्वा । इति । दुर्गादासः ॥


Match 0889: vcp=भॄ, skd=भॄ

vcp

k1=भॄ, L=36982
भॄ¦ भर्जने भर्त्सने भरणे च क्य्रादि० प्वा० पर० सक० सेट् । भृ-
णाति अभारीत् वभार बभरतुः ।


skd

k1=भॄ, L=25429
भॄ¦ गि भृतौ । भृजि । भर्त्से । इति कविकल्पद्रुमः ॥
(क्र्या०-पर०-सक०-सेट् ।) गि भृणाति भूर्णः ।
भूर्णिः । भृजि भर्जने । इति दुर्गादासः ॥


Match 0890: vcp=भेष, skd=भेष

vcp

k1=भेष, L=37004
भेष¦ भये भ्वा० उभ० अक० सेट् । भेषति ते अभेषीत् अभेषिष्ट ।
ऋदित् चङि न ह्रस्वः । अबिभेषत् त ।


skd

k1=भेष, L=25454
भेष¦, ऋ ञ भये । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-अक०-सेट् ।) ऋ अबिभेषत् । ञ भेषति
भेषते बिभेषे । इति दुर्गादासः ॥


Match 0891: vcp=भ्यस, skd=भ्यस

vcp

k1=भ्यस, L=37076
भ्यस¦ भये भ्वा० आ० अक० सेट् । भ्यसते अभ्यसिष्ट ।


skd

k1=भ्यस, L=25521
भ्यस¦, ङ भये । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) अन्तःस्थाद्ययुक्तः । ङ
भ्यसते । इति दुर्गादासः ॥


Match 0892: vcp=भ्रण, skd=भ्रण

vcp

k1=भ्रण, L=37084
भ्रण¦ शब्दे भ्वा० पर० सक० सेट् । भ्रणति अभ्राणीत् अभ्रणीत्
बभ्राण ।


skd

k1=भ्रण, L=25526
भ्रण¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रेफयुक्तः । भ्रणति । इति दुर्गा-
दासः ॥


Match 0893: vcp=भ्रन्श, skd=भ्रन्श

vcp

k1=भ्रन्श, L=37085
भ्रन्श¦ अधःपतने दिवा० अक० सेट् । भ्रश्यति इरित् अभ्रशत् अभ्रंशीत् भ्रश्यत ।


k1=भ्रन्श, L=37086
भ्रन्श¦ अधःपाते अक० सेट् । भ्रंशति ऋदित् अभ्रशत् ।
उदित् । भ्रंशित्वा भ्रष्ट्वा । भ्रष्टः ।


skd

k1=भ्रन्श, L=25527
भ्रन्श¦, इर् य उ अधःपते । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् ।) भ्रश्यति । इर्
अभ्रशत् । अभ्रंशीत् ॥


k1=भ्रन्श, L=25528
भ्रन्श¦, ऌ उ ङ अधःपते । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक० सेट् ।) ॡ अभ्रशत् । उ
भ्रंशित्वा भ्रष्ट्वा । ङ भ्रंशते । इति दुर्गादासः ॥


Match 0894: vcp=भ्रम, skd=भ्रम

vcp

k1=भ्रम, L=37088
भ्रम¦ चलने भ्वा० पर० अक० सेट् । भ्रमति कौटिल्ये इरित् ।
अभ्रमत् अभ्रमीत् । बभ्राम कणा० भ्रेमतुः बभ्रतुः ।


k1=भ्रम, L=37089
भ्रम¦ चलने दिवा० पर० सक० सेट् शमा० । भ्राम्यति अभ्रमीत् ।


skd

k1=भ्रम, L=25529
भ्रम¦, इर् चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) इर् अभ्रमत् अभ्रमीत् ।
इति दुर्गादासः ॥


k1=भ्रम, L=25530
भ्रम¦, भ य चाले । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-सेट् ।) भ य भ्राम्यति । इति
दुर्गादासः ॥


k1=भ्रम, L=25531
भ्रम¦, उ ज ण चाले । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) उ भ्रमित्वा भ्रान्त्वा ।
ज भ्रामः भ्रमः । ज्वलादित्वाण्णप्रत्ययेऽपि
जनबध इत्यादिना ह्रस्वे भ्रम इत्येव । तेन
ज्वलादावस्य पाठो निष्फल इति धातुप्रदीपा-
दयः । वस्तुतस्तु । ज्वलादिपाठसामर्थ्यान्न
ह्रस्वः । ण भ्रेमतुः बभ्रमतुः । य भ्रम्यति
भ्रमति । चाल इह पादविहरणम् ।
“न जाने को हेतुर्भ्रमति विपिने भिक्षुक इव ।”
भ्रेमुः शिलोच्चयान् भीमानित्यत्र गत्यर्थविवक्षया
सकर्म्मकत्वम् । इति दुर्गादासः ॥


Match 0895: vcp=भ्रश, skd=भ्रश

vcp

k1=भ्रश, L=37110
भ्रश¦ अधःपतने दि० पर० सक० सेट् । भ्रश्यति अभ्राशीत्
अभ्रशीत् । उदित् क्त्वा वेट् । भ्रशित्वा भ्रष्ट्वा । भ्रष्टः ।


skd

k1=भ्रश, L=25553
भ्रश¦ य उ अधःपतने । इति कविकल्पद्रुमः ॥
(दिवां-पर०-अक०-सेट् ।) य भ्रश्यति । उ
भ्रशित्वा भ्रष्ट्वा । इति दुर्गादासःः ॥


Match 0896: vcp=भ्रस्ज, skd=भ्रस्ज

vcp

k1=भ्रस्ज, L=37113
भ्रस्ज¦ पाके तु० उ० सक० अनिट् । भृज्जति आर्द्धधातुके
वा भर्जादेशः स च सेट् अभ्राक्षीत् अभर्जीत् । अभ्रष्ट
अभर्जिष्ट । बभर्ज वभ्रज्ज ।


skd

k1=भ्रस्ज, L=25555
भ्रस्ज¦, औ ञ श पाके । इति कविकल्पद्रुमः ॥
(तुदा०-उभ०-सक०-अनिट् ।) रेफयुक्तादि-
र्दन्त्योपधः । क्विपि संयोगादिलोपे भृट् । पाक
इह भर्ज्जनम् । ञश भृज्जति भृज्जते मत्स्यं
सूपकारः । औ अभ्राक्षीत् । इति दुर्गादासः ॥


Match 0897: vcp=भ्राज, skd=भ्राज

vcp

k1=भ्राज, L=37114
भ्राज¦ दीप्तौ भ्वा० आत्म० अक० सेट् । भ्राजते अभ्राजिष्टं फणा०
भ्रेजे बभ्राजे । चङि वा ह्रस्वः । द्वितं अथु भ्राजर्थुः ।


skd

k1=भ्राज, L=25556
भ्राज¦, ङ ण ऋ टु भासि । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट्, ।) रेफयुक्तः । ङ
भ्राजते ण भ्रेजे बभ्राजे । अनुबन्धबलात् संयो-
गादित्वेऽप्याकारस्याप्येत्वम् ॥ ऋ अबिभ्रजत्
अवभ्राजत् । टु भ्राजथुः । इति दुर्गा-
दासः ॥


Match 0898: vcp=भ्राश, skd=भ्राश

vcp

k1=भ्राश, L=37140
भ्राश¦ भासे भ्वा० आ० अक० सेट् । भ्राशते भ्राश्यते अभ्राशिष्ट ।
फणा० भ्रेशे बभ्राशे । ऋदित् चङि न ह्रस्वः । द्वित्
अथुः भ्राशथुः ।


skd

k1=भ्राश, L=25579
भ्राश¦, ऋ ङ ण टु भासि । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्राश्यते । ऋ अबभ्राशत् । स्वमते अनयोर्ञ्यङि
ह्रस्वविकल्पनेऽपि सप्तमस्वरानुबन्धोऽन्येषामनु-
रोधात् । ण भ्रेशे बम्राशे । टु भ्राशथुः । ङ
भ्राशते । भासि दीप्तौ । इति दुर्गादासः ॥


k1=भ्राश, L=25580
भ्राश¦, य ङ भासि । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्राश्यते । ऋ अबभ्राशत् । स्वमते अनयोर्ञ्यङि
ह्रस्वविकल्पनेऽपि सप्तमस्वरानुबन्धोऽन्येषामनु-
रोधात् । ण भ्रेशे बम्राशे । टु भ्राशथुः । ङ
भ्राशते । भासि दीप्तौ । इति दुर्गादासः ॥


Match 0899: vcp=भ्रास, skd=भ्रास

vcp

k1=भ्रास, L=37144
भ्रास¦ दीप्तौ दिवा० आ० अक० सेट् । भ्रास्यते अभ्रासिष्ट ।


k1=भ्रास, L=37145
भ्रास¦ दीप्तौ भ्वा० आ० अक० सेट् । भ्रास्यते अभ्रासिष्ट कणा०
भ्रेसे बभ्रासे द्वित् । भ्रासथुः ऋदित् चङि ग ह्रस्वः ।


skd

k1=भ्रास, L=25583
भ्रास¦, ऋ ङ ण टु भासि । इति कविकल्पद्रुमः ॥
भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्रास्यते । ङ भ्रासते । ऋ अबभ्रासत् । ण
भ्रेसे बभ्रासे । टु भ्रासथुः । इति दुर्गादासः ॥


k1=भ्रास, L=25584
भ्रास¦, य ङ भासि । इति कविकल्पद्रुमः ॥
भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्रास्यते । ङ भ्रासते । ऋ अबभ्रासत् । ण
भ्रेसे बभ्रासे । टु भ्रासथुः । इति दुर्गादासः ॥


Match 0900: vcp=भ्रूण, skd=भ्रूण

vcp

k1=भ्रूण, L=37150
भ्रूण¦ आशायां विशङ्कायाञ्च चु० आत्म० सक० सेट् । भ्रूणयते
अयुभ्रुणत


skd

k1=भ्रूण, L=25591
भ्रूण¦, क ङ आशाविशङ्कयोः । इति कविकल्प-
द्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।) रेफ-
युक्तषष्ठस्वरी । क ङ भ्रूणयते भद्रं लोकः ।
आशाविषयं करोतीत्यर्थः । इति दुर्गादासः ॥


Match 0901: vcp=भ्रेज, skd=भ्रेज

vcp

k1=भ्रेज, L=37154
भ्रेज¦ भासे भ्वा० आत्म० अस० सेट् । भ्रेजते अम्रेजिष्ट । ऋदित्
चङि ग ह्रस्वः । अगिभ्रेजत् त ।


skd

k1=भ्रेज, L=25596
भ्रेज¦, ऋ ङ भासि । इति कविकल्पद्रुमः ॥ (भ्वा०
आत्म०-अक०-सेट् ।) रेफयुक्तः । ऋ अबि-
भ्रेजत् । ङ बिभ्रेजे । इति दुर्गादासः ॥


Match 0902: vcp=भ्रेष, skd=भ्रेष

vcp

k1=भ्रेष, L=37155
भ्रे(भ्ले)ष¦ पतने चलने च अक० भ्वा० उभ० सेट् । भ्रे(भ्ले)षति
ते अभ्रे(भ्ले)षीत् अभ्र(भ्ले)षिष्ट । ऋदित् चङि न
ह्रस्वः । अबिभ्रे(भ्ले)षत् त । तत्र पतने आ० भये चलने
उभ० अक० इति भेदः ।


skd

k1=भ्रेष, L=25597
भ्रेष¦, ऋ ञ चले । भये । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-अक०-सेट् ।) रेफयुक्तः । ऋ
अबिभ्रेषत् । ञ भ्रेषति भ्रेषते घर्म्मात् खलः ।
बिभ्रेषे । इति दुर्गादासः ॥


Match 0903: vcp=भ्लक्ष, skd=भ्लक्ष

vcp

k1=भ्लक्ष, L=37158
भ्लक्ष¦ भक्षणे भ्वा० उभ० सक० सेट् । भ्लक्षति ते अभ्लक्षीत्
अभ्लक्षिष्ट । दुर्गनते भ्रक्षधातुरयम् ।


skd

k1=भ्लक्ष, L=25600
भ्लक्ष¦, ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) अन्तःस्थतृतीयोपधः । ञ
भ्लक्षति भ्लक्षते । लस्थाने सप्तमस्वर इति दुर्ग-
सिंहः । इति दुर्गादासः ॥


Match 0904: vcp=मक, skd=मक

vcp

k1=मक, L=37162
मक¦ भूषणे गतौ च भ्वा० आ० सक० सेट् इदित् । मङ्कते अमङ्किष्ट ममङ्के ।


skd

k1=मक, L=25603
मक¦, इ ङ भूषे । गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) इ मङ्क्यते । ङ
मङ्कते हारो जनम् । गत्यर्थोऽप्ययमिति रामः ।
इति दुर्गादासः ॥


Match 0905: vcp=मक्क, skd=मक्क

vcp

k1=मक्क, L=37189
मक्क¦ गतौ भ्वा० आ० सक० सेट् । मक्कते अमक्किष्ट ममक्के ।


skd

k1=मक्क, L=25624
मक्क¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) कोपधः । ङ मक्कते ।
इति दुर्गादासः ॥


Match 0906: vcp=मक्ष, skd=मक्ष

vcp

k1=मक्ष, L=37193
मक्ष¦ रोधे संघाते च भ्वा० पर० अक० सेट् । मक्षति अमक्षीत् ।


skd

k1=मक्ष, L=25628
मक्ष¦, रोषे । संघाते । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) मक्षति । इति दुर्गा-
दासः ॥


Match 0907: vcp=मख, skd=मख

vcp

k1=मख, L=37199
मख¦ सर्पणे भ्वा० पर० सक० सेट् । मखति अमाखीत् अमखीत्
ममाख मेखतुः ।


k1=मख, L=37200
मख¦ सर्पणे भ्वा० पर० सक० सेट् इदित् । मङ्खति अमङ्खीत् मङ्ख्यते ।


skd

k1=मख, L=25634
मख¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) मखति ॥


k1=मख, L=25635
मख¦, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ मङ्ख्यते इति दुर्गादासः ॥


Match 0908: vcp=मग, skd=मग

vcp

k1=मग, L=37207
मग¦ सर्पणे भ्वा० पर० सक० सेट् इदित् । मङ्गति अमङ्गीत् ।


skd

k1=मग, L=25642
मग¦ इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ मङ्ग्यते । इति दुर्गा-
दासः ॥


Match 0909: vcp=मघ, skd=मघ

vcp

k1=मघ, L=37217
मघ¦ कैतवे द्यूतक्रीडादौ अक० गतौ निन्दायां आरम्भे च
सक० भ्वा० आ० सेट् इदित् । मङ्घते अमङ्घिष्ट ।


k1=मघ, L=37218
मघ¦ भूषणे भ्वा० पर० सक० सेट् इदित् । मङ्घति अमङ्घीत् ।


skd

k1=मघ, L=25649
मघ¦, इ ङ कैतवाध्यार्थयोः । इति कविकल्प-
द्रुमः ॥ (भ्वा०-आत्म०-द्यूतक्रीडादौ अक०-गतौ
निन्दायां आरम्भे च सक०-सेट् ।) कैतवमिह
[Page3-563-b+ 52]
कितवक्रिया अक्षक्रीडनादिः । इ मङ्घ्यते ङ
मङ्घते अक्षैः कितवः । अध्यर्थो गतिनिन्दा-
रम्भजवाः । कैतवजवयोरेवायमिति केचित् ।
इति दुर्गादासः ॥


Match 0910: vcp=मच, skd=मच

vcp

k1=मच, L=37244
मच¦ दम्भे शाठ्ये च अक० भ्वा० आ० सेट् । मचते अमचिष्ट मेचे ।


k1=मच, L=37245
मच¦ उच्चताकरणे धारणे पूजायां च सक० दीप्तौ अक० भ्वा०
आत्म० सेट् इदित् । मञ्चते अमञ्चिष्ट । मञ्च्यते ।


skd

k1=मच, L=25684
मच¦, इ ङ उच्छ्रायधृत्यर्च्चाभाःसु । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-धृतौ अर्च्चायाञ्च
सक०-दीप्तौ उच्चीभावे च अक०-सेट् ।) इ
मञ्च्यते । ङ मञ्चते । उच्छ्राय उच्चीभावः ।
इति दुर्गादासः ॥


k1=मच, L=25685
मच¦, ङ च कल्कने । दम्भे । शाठ्ये । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-दम्भे शाठ्ये च ।
अक०-कल्कने-सक०-सेट् ।) कल्कनमिति कल्कं
करोतीति ञौ रूपं चूर्णीकरणमित्यर्थः । ङ
मचते तण्डुलं शिला चकारात् मचि ङ । इति
दुर्गादासः ॥


Match 0911: vcp=मट, skd=मट

vcp

k1=मट, L=37287
मट¦ सादे भ्वा० प० सक० सेट् । मटति अमटीत् अमाटीत् मेटतुः


skd

k1=मट, L=25725
मट¦, सादे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) सौत्रधातुरयम् । अस्य प्रयोगः ।
मटहः । इति दुर्गादासः ॥


Match 0912: vcp=मठ, skd=मठ

vcp

k1=मठ, L=37290
मठ¦ वासे अक० मर्दने सक० भ्वा० पर० सेट् । मठति अमठीतमाठीत् मेठतुः ।


k1=मठ, L=37291
मठ¦ आध्याने आ० सक० सेट् इदित् । मण्ठते अमण्ठिष्ट ।


skd

k1=मठ, L=25729
मठ¦, वासमर्द्दयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-वासे अक०-मर्द्दने सक०-सेट् ।) मठति ।
वासो निवासः । मर्द्दः कैश्चिन्न मन्यते । इति
दुर्गादासः ॥


k1=मठ, L=25730
मठ¦, इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) इ मण्ठ्यते । आध्यानं
स्मृ म औत्के इत्यत्र व्याख्यातम् । इति
दुर्गादासः ॥


Match 0913: vcp=मड, skd=मड

vcp

k1=मड, L=37294
मड¦ मोदे चु० उभ० अक० सेट् इदित् । भण्डयति--ते अमम-
ण्डत् त । विभागे भ्वा० आत्म० । मण्डते ।


k1=मड, L=37295
मड¦ भूषणे चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । मण्ड-
यति ते मण्डति अममण्डत्--त अमण्डीत् ।


skd

k1=मड, L=25733
मड¦ इ क मोदे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इ मण्डयति । इति दुर्गा-
दासः ॥


k1=मड, L=25734
मड¦ इ कि भूषे । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) मण्डयति मण्डति
हारो जनम् । इ मण्ड्यते । इति दुर्गादासः ॥


k1=मड, L=25735
मड¦ इ ङ विभागे । वेष्टे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) इ मण्ड्यते ङ
मण्डते । इति दुर्गादासः ॥


Match 0914: vcp=मण, skd=मण

vcp

k1=मण, L=37300
मण¦ अव्यक्तशब्दे भ्वा० प० अक० सेट् । मणति अमाणीत् अभणीत् मेणतुः ।


skd

k1=मण, L=25739
मण¦ कूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) मणति । कूजेऽव्यक्तशब्दे । इति
दुर्गादासः ॥


Match 0915: vcp=मत्र, skd=मत्र

vcp

k1=मत्र, L=37402
मत्र¦ गुप्तभाषणे चु० आ० सक० सेट् इदित् । मन्त्रयते अममन्त्रत ।


skd

k1=मत्र, L=25836
मत्र¦, इ ङ क गुप्तोक्तौ । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-सक०-सेट् ।) दन्त्यवर्गाद्योपधः ।
इ क ङ इति ध्रुवं मन्त्रयते नृपोऽयमिति
मुरारिः ॥ मन्त्र इत्यनेनैवेष्टसिद्धौ इदनुबन्धो
वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥


Match 0916: vcp=मथ, skd=मथ

vcp

k1=मथ, L=37430
मथ¦ विलोडने भ्वा० पर० सक० सेट् । मथति पदित् अमथीत्
ज्वला० वा ण । मथः माथः । ऋदित् चङि न ह्रस्वः ।


k1=मथ, L=37431
मथ¦ बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । मन्थति अम-
न्थीत् मन्थ्यते ।


skd

k1=मथ, L=25870
मथ¦ इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
वधे-सक०-क्लेशे अक०-सेट् ।) इ मन्थ्यते ।
कुन्थो वधक्लेशौ । इति दुर्गादासः ॥


k1=मथ, L=25871
मथ¦ ज ए गाहे । इति कविकल्पद्रुमः ॥ भ्वा०-
पर०-सक०-सेट् ।) ज मन्थः मथः । ए अम-
थीत् । इति दुर्गादासः ॥


Match 0917: vcp=मद, skd=मद

vcp

k1=मद, L=37436
मद¦ हर्षे दिवा० पर० अक० सेट् शमा० । माद्यति इरित् अम-
दत् अमादीत् अमदीत् । ईदित् निष्ठायामनिट् पुषदिरयं
तेन अमददित्येवेति पाणिनीयाः । घटा० मदयति जीत्
मत्तोऽस्ति । प्र + अनवधाने ।


k1=मद, L=37437
मद¦ गर्वे दैन्ये च भ्वा० पर० अक० सेट् । मदति अमादीत्--अमदीत् घटा० मदयति ।


k1=मद, L=37438
मद¦ तर्षणे चु० आ० सक० सेट् । मादयते । अमीमदत ।


k1=मद, L=37439
मद¦ जाड्ये स्वप्ने मदे आमोदे स्तुतौ दीप्तौ च यथायथं अक०
सक० च भ्वा० आत्म० इदित् । मन्दते अमन्दिष्ट ।
तत्र स्तुतौ “मन्दमानः सुमन्मभिः” ताण्ड्य० ब्र० १ । ७ । ६ ।
“मन्दमानः स्तूयमानः मदि--स्तुतौ कर्भणि यकि प्राप्ते
व्यत्ययेन शप्” भा० ।


skd

k1=मद, L=25878
मद¦, इ ङ स्वप्ने । जाड्ये । मदे । मोदे । स्तुतौ ।
गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
स्वप्ने जाड्ये मद मोदे अक०-स्तुतौ गतौ च
सक०-सेट् ।) मन्द्यते । ङ मन्दते जनः स्वपिति
जडो भवति माद्यति मोदते स्तौति गच्छति
वा इत्यर्थः । इति दुर्गादासः ॥


k1=मद, L=25879
मद¦, ई भ य इर् ञि हर्षे । इति कविकल्पद्रुमः ॥
दिवा०-पर०-अक०-सेट् ।) ई ञि मत्तोऽस्ति ।
भ य माद्यति । इर् अमदत् अमादीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥


k1=मद, L=25880
मद¦, क ङ तृप्तियोगे । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-सक०-सेट् ।) क ङ मनो माद-
यते यस्य शास्त्राभ्यासरसायनात् । इति दुर्गा-
दासः ॥


k1=मद, L=25881
मद¦, म गर्व्वे । म्लेपने । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) गर्व्वोऽहङ्कारः ।
ग्लेपनं दैन्यम् । म मदयति नीचं सम्पत्तिः ।
मदयति शत्रुं शूरः । इति दुर्गादासः ॥


Match 0918: vcp=मन, skd=मन

vcp

k1=मन, L=37622
मन¦ पूजायां सक० गर्वे अक० भ्वा० पर० सेट् । मनति
अमानीत्--अमनीत् मेनतुः ।


k1=मन, L=37623
मन¦ गर्वे अक० चु० आ० सेट् । मानयते अमीमनत् ।


k1=मन, L=37624
मन¦ बोधे तना० आ० सक० सेट् । मनुते अमनिष्ट मेने ।


k1=मन, L=37625
मन¦ बोधे दि० आ० सक० अनिट् । मन्यते । अमंस्त मेने ।


k1=मन, L=37626
मन¦ धृतौ अद० चु० उ० सक० सेट् । मनयति ते अममनत् त ।


skd

k1=मन, L=26143
मन¦, अर्च्चे । गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-गर्व्वे अक०-सेट् ।) मनति । इति
दुर्गादासः ॥


k1=मन, L=26144
मन¦, क ङ गर्व्वके । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-अक०-स्तम्भने सक०-सेट् ।) क
ङ, मानयते । गर्व्वकोऽहङ्कारः । मनस्तम्भने ।
इति प्राञ्चः । मानयते शत्रुं बली स्तभ्नाती-
त्यर्थः । इति रमानाथः । इति दुर्गादासः ॥


k1=मन, L=26145
मन¦, त् क धृतौ । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) दन्त्यनोपधः । मन-
यति । इति दुर्गादासः ॥


k1=मन, L=26146
मन¦, द ङ बोधे । इति कविकल्पद्रुमः ॥ (तना०-
आत्म०-सक०-सेट् ।) द ङ, मनुते । इति
दुर्गादासः ॥


k1=मन, L=26147
मन¦, य औ ङ बोधे । इति कविकल्पद्रुमः ॥
(दिवां-आत्म०-सक०-अनिट् ।) य ङ, मन्यते ।
औ, अमंस्त । इति दुर्गादासः ॥


Match 0919: vcp=मन्थ, skd=मन्थ

vcp

k1=मन्थ, L=37670
मन्थ¦ क्लेशे अक० विलोडने सक० भ्वा० पर० सेट् । मन्थति
अमन्थीत् । मथ्यते ।


k1=मन्थ, L=37671
मन्थ¦ विलोडे क्य्रा० पर० द्विक० सेष्ट् । मथ्नाति अमन्थीत् । मथ्यते ।


skd

k1=मन्थ, L=26229
मन्थ¦, कुन्थे । गाहे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) मन्थति । कुन्थः कैश्चिन्न
मन्यते । इति दुर्गादासः ॥


k1=मन्थ, L=26230
मन्थ¦, ग गाहे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-
सक०-सेट् ।) गाहो विलोडनम् । ग, मथाति
दधि वल्लवी । रथं ममन्थ सहयम् । इति दुर्गा-
दासः ॥


Match 0920: vcp=मभ्र, skd=मभ्र

vcp

k1=मभ्र, L=37698
मभ्र¦ गतौ भ्वा० पर० सक० सेट् । मभ्रति अमभ्रीत् ।


skd

k1=मभ्र, L=26293
मभ्र¦, गतौ । इति कविकल्पद्रुमः । (भ्वा०-पर०-
सक०-सेट् ।) ओष्ठ्यवर्गचतुर्थोपधः । मभ्रति ।
इति दुर्गादासः ॥


Match 0921: vcp=मय, skd=मय

vcp

k1=मय, L=37702
मय¦ गतौ भ्वा० आ० सक० सेट् । मयते अमयिष्ट ।


skd

k1=मय, L=26299
मय¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, मयते । इति दुर्गा-
दासः ॥


Match 0922: vcp=मर्क, skd=मर्क

vcp

k1=मर्क, L=37748
मर्क¦ गतौ सौ० पर० सक० सेट् । मर्कति अमर्कीत् ममर्क ।


skd

k1=मर्क, L=26384
मर्क¦, सर्पे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) मर्कटः । इति दुर्गा-
दासः ॥


Match 0923: vcp=मर्च, skd=मर्च्च *

vcp

k1=मर्च, L=37759
मर्च¦ ग्रहणे चु० उभ० सक० केट् । मर्चयति--ते अममर्चत्--त


skd

k1=मर्च्च, L=26399
मर्च्च¦, क ग्रहे । सौत्रोऽयं धातुः । इति कविकल्प-
द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) तालव्य-
वर्गप्रथमान्तः । मर्कः । इति दुर्गादासः ॥


Match 0924: vcp=मर्ब, skd=मर्ब्ब *

vcp

k1=मर्ब, L=37765
मर्ब¦ गतौ भ्वा० पर० सक० सेट् । मर्बति अमर्बीत् ममर्ब!


skd

k1=मर्ब्ब, L=26407
मर्ब्ब¦, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) मर्ब्बति । इति दुर्गादासः ॥


Match 0925: vcp=मर्व, skd=मर्व्व *

vcp

k1=मर्व, L=37773
मर्व¦ पूर्त्तौ भ्वा० पर० सक० सेट् । मर्वति अमर्वीत् ममर्व ।


skd

k1=मर्व्व, L=26424
मर्व्व¦, पूर्त्तौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) मर्व्वति पयसा कुम्भं चेटी ।
इति दुर्गादासः ॥


Match 0926: vcp=मल, skd=मल

vcp

k1=मल, L=37774
मल¦ धृतौ भ्वा० आ० अक० सेट् । मलते अमलिष्ट ।


skd

k1=मल, L=26429
मल¦, ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
सक०-सेट् ।) ङ मलते । इति दुर्गादासः ॥


Match 0927: vcp=मल्ल, skd=मल्ल

vcp

k1=मल्ल, L=37793
मल्ल¦ धृतौ भ्वा० आ० अक० सेट् । भल्लते अमल्लिष्ट ममल्ले ।


skd

k1=मल्ल, L=26471
मल्ल¦, ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक० सेट् ।) ङ, मल्लते । इति दुर्गा-
दासः ॥


Match 0928: vcp=मव, skd=मव

vcp

k1=मव, L=37803
मव¦ बन्धे भ्वा० पर० सक० सेट् । मवति अमवीत् अमाकीत् ।


skd

k1=मव, L=26499
मव¦, नहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
मक०-सेट् ।) नहो बन्धनम् । मवति चौरं
लोकः । इति दुर्गादासः ॥


Match 0929: vcp=मव्य, skd=मव्य

vcp

k1=मव्य, L=37804
मव्य¦ बन्धे भ्वा० पर० सक० सेट् । मव्यति अमव्यीत् ।


skd

k1=मव्य, L=26501
मव्य¦, बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) मव्यति चौरं राजा । यद्वया-
न्तोऽयमित्येके । इति दुर्गादासः ॥


Match 0930: vcp=मश, skd=मश

vcp

k1=मश, L=37805
मश¦ ध्वनौ अक० कोपे सक० भ्वा० पर० सेट् । मशति
अमशीत्--अमाशीत् मेशतुः ।


skd

k1=मश, L=26502
मश¦, ध्वनौ । कोपे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) मशति मशकः । इति
दुर्गादासः ॥


Match 0931: vcp=मष, skd=मष

vcp

k1=मष, L=37810
मष¦ बधे भ्वा० पर० सक० सेट् । मषति अमषीत् अमाषीत् ।


skd

k1=मष, L=26507
मष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) मषति । इति दुर्गादासः ॥


Match 0932: vcp=मस, skd=मस

vcp

k1=मस, L=37811
मस¦ परिणामे अक० परिमाणे सक० दि० पर० सेट् । मस्यति
इरित् अमसत् अमसीत् अमासीत् । पुषादिरयं तेन
अमसदित्येवेति पाणिनीयाः ।


skd

k1=मस, L=26511
मस¦, इर् य ई परिमाणे । परिणामे । इति कवि-
कल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् । निष्ठाया-
मनिट् ।) इर्, अमसत् अमासीत् अमसीत् ।
अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, मस्यति
धान्यं गृही । परिमातीत्यर्थः । ई, मस्तः । परि-
णामं कस्यचिदनुरोधात् । इति दुर्गादासः ॥


Match 0933: vcp=मस्क, skd=मस्क

vcp

k1=मस्क, L=37825
मस्क¦ गतौ भ्वा० पर० सक० सेट् । मस्कति अमस्किष्ट ।


skd

k1=मस्क, L=26541
मस्क¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) दन्त्यमध्य इति दुर्ग-
सिंहः । क्विपि संयोगादेर्लोपे मक् । मूर्द्ध्वन्य-
मध्य इत्येके । क्विपि संयोगान्तलोपे मट् । ङ,
मस्कते । इति दुर्गादासः ॥


Match 0934: vcp=मस्ज, skd=मस्ज

vcp

k1=मस्ज, L=37828
मस्ज¦ स्नाने तु० पर० अक० अनिट् । मज्जति अमा-
ङ्क्षीत् । ओदित् क्त मग्नः । ट्वित् अथु मज्जथुः ।


skd

k1=मस्ज, L=26544
मस्ज¦, ओ श टु औ स्नाने । इति कविकल्प-
द्रुमः ॥ (तुदा०-पर०-अक०-अनिट् ।) दन्त्य-
मध्यः क्विपि संयोगादिलोपे मक् । ओ, मग्नः ।
श, मज्जती मज्जन्ती । टु, मज्जथुः । अमाङ्क्षीत् ।
स्नायतेऽनेनेति स्नानमिह जलान्तःप्रवेशः ।
मज्जति प्रस्तरो जले । इति दुर्गादासः ॥


Match 0935: vcp=मह, skd=मह

vcp

k1=मह, L=37834
मह¦ पूजायां भ्वा० पर० सक० सेट् । भहति अमहीत् मेहतुः ।


k1=मह, L=37835
मह¦ वृद्धौ भ्वा० आ० अक० सेट् इदित् । भहते अमंहिष्ट ।


k1=मह, L=37836
मह¦ पूजने अद० चु० उभ० सक० सेट् । महयति--ते अम-
महत्--त ।


skd

k1=मह, L=26555
मह¦, पूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) महति । इति दुर्गादासः ॥


k1=मह, L=26556
मह¦, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इ क, मंहयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥


k1=मह, L=26557
मह¦, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) इ, मंह्यते । ङ, मंहते ।
इति दुर्गादासः ॥


k1=मह, L=26558
मह¦, त् क पूजे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) महयति । इति
दुर्गादासः ॥


Match 0936: vcp=मा, skd=मा

vcp

k1=मा, L=38041
मा¦ शब्दे अक० माने सक० जु० आ० अनिट् । मिमीते अमित ममे ।


k1=मा, L=38042
मा¦ माने अदा० प० सक० अनिट् । माति अमासीत् ।


k1=मा, L=38043
मा¦ माने दि० ङित् आ० सक० अनिट् । मायते अमास्त ।


skd

k1=मा, L=26962
मा¦ ङ य माने । इति कविकल्पद्रुमः ॥ (दिवा०-
आत्म०-सक०-अनिट् ।) ङ य मायते । इति
दुर्गादासः ॥


k1=मा, L=26963
मा¦ ङ लि शब्दे । माने । इति कविकल्पद्रुमः ॥
(ह्वा०-आत्म०-सक०-अनिट् ।) ङ लि
मिमीते । श्रुत्या धर्म्मं मिमीते यः । इति
हलायुधः ॥ इति तट्टीकायां दुर्गादासः ॥


k1=मा, L=26964
मा¦ ल माने । इति कविकल्पद्रुमः ॥ (अदा०-पर०-
सक०-अनिटु ।) ल माति भूमिं नलेन राजा ।
न मान्ति मानिनो यस्य यशस्त्रिभुवनोदरे ॥”
इति हलायुधः ॥ इति दुर्गादासः ॥


Match 0937: vcp=माक्ष, skd=माक्ष

vcp

k1=माक्ष, L=38064
माक्ष¦ स्पृहायां भ्वा० पर० सक० सेट् इदित् । माङ्क्षति अमा-
ङ्क्षीत् ।


skd

k1=माक्ष, L=26998
माक्ष¦, इ स्पृहि । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ माङ्क्षति नमध्यपाठे-
नैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
इति दुर्गादासः ॥


Match 0938: vcp=माथ, skd=माथ

vcp

k1=माथ, L=38107
माथ¦ बधे सक० क्लेशे अक० भ्वा० प० सेट् इदित् । मान्यति अमान्वीत्


skd

k1=माथ, L=27085
माथ¦ इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, मान्थ्यते । कुन्थो वधक्लेशौ ।
इति दुर्गादासः ॥


Match 0939: vcp=मान, skd=मान

vcp

k1=मान, L=38127
मान¦ विचारे भ्वा० सक० सेट स्वार्थे सन् नेट् । मीमांसते
अमीमांसिष्ट अर्चायां च तत्र न स्वार्थे सन् ।


k1=मान, L=38128
मान¦ अर्च्चे वा चु० उ० पक्षे भ्वा० पर० सक० सेट् ।
मानयति ते मानति अमीमनत्--त अमानीत् ।


skd

k1=मान, L=27116
मान¦, कि अर्च्चे । इति कविकल्पद्रुमः ॥ (चु०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) कि मानयति
मानति । इति दुर्गादासः ॥


k1=मान, L=27117
मान¦, ङ विचारे । अर्च्चे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ङ मीमांसते
[Page3-698-b+ 52]
शास्त्रं धीरः । अर्च्चायां तिबादयो न स्युरिति
रमानाथः । इति दुर्गादासः ॥


Match 0940: vcp=मार्ग, skd=मार्ग

vcp

k1=मार्ग, L=38167
मार्ग¦ संस्कारे सर्पणे च चुरा० उम० सक० सेट् । मार्गयति अममार्गत् त ।


k1=मार्ग, L=38168
मार्ग¦ अन्वेषणे वा चु० उभ० पक्षे भ्वा० प० सक० सेट् । मार्ग-
[Page4751-a+ 38]
थति--ते मार्गति । अममार्गत् त । अमार्गीत् ।


skd

k1=मार्ग, L=27210
मार्ग¦, क संस्कारे । सर्पणे । इति कविकल्प-
द्रुमः ॥ (चु०-पर०-सक०-सेट् ।) क मार्गयति ।
इति दुर्गादासः ॥


k1=मार्ग, L=27211
मार्ग¦ कि अन्वेषे । इति कविकल्पद्रुमः ॥ (चु०-पक्षे
भ्वा०-पर०-सक०-सेट् ।) अन्वेषः प्रतिसन्धा-
नम् । कि मार्गयति मार्गति गुणं गुणी ।
मार्गन्तां हे देहभावानित्यात्मनेपदं गणकृता-
नित्यत्वात् । इति दुर्गादासः ॥


Match 0941: vcp=मार्ज्ज, skd=मार्ज्ज

vcp

k1=मार्ज्ज, L=38174
मार्ज्ज¦ मार्जने सक० ध्वनौ अक० चुरा० उभ० सेट् । मार्ज-
यति--ते अममार्जत्--त ।


skd

k1=मार्ज्ज, L=27225
मार्ज्ज¦ क मार्ज्जने । ध्वनौ । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) क मार्ज्जयति ।
इति दुर्गादासः ॥


Match 0942: vcp=माह, skd=माह

vcp

k1=माह, L=38233
माह¦ माने भ्वा० उम० सक० सेट् । माहति ते अमाहीत्
अमाहिष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=माह, L=27324
माह¦ ऋ ञ माने । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) ऋ अममाहत् । ऋदनु-
बन्धस्थाने षष्ठस्वरानुबन्ध इत्यके । ञ माहति
माहते । इति दुर्गादासः ॥


Match 0943: vcp=मि, skd=मि

vcp

k1=मि, L=38242
मि¦ क्षेपे स्वा० उभ० सक० अनिट् । मिनोति मिनुते अमा-
सीत् अमास्त । ड्वित् क्त्रि मप् च मित्रिमम् ।
अनु + व्याप्तिहेतुके परामर्शाधीनज्ञाने ।
उप + सादृश्यहेतुके ज्ञानभेदे ।
प्र + यथार्थज्ञाने ।


skd

k1=मि, L=27340
मि¦ डु ञ न क्षेपे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-अनिट् ।) डु मित्रिमम् । ञ न
मिनोति मिनुते । इति दुर्गादासः ॥


Match 0944: vcp=मिच्छ, skd=मिच्छ

vcp

k1=मिच्छ, L=38243
मिच्छ¦ बाधे तुदा० पर० सक० सेट् । मिच्छति अमिच्छीत् ।


skd

k1=मिच्छ, L=27341
मिच्छ¦, श बाधे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) श मिच्छती मिच्छन्ती ।
बाधो विहतिः । इति दुर्गादासः ॥


Match 0945: vcp=मिथ, skd=मिथ

vcp

k1=मिथ, L=38251
मिथ¦ बधे मेधायाञ्च सक० भ्वा० उभ० सेट् । मेथति--ते
अमेथीत् अमेथिष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=मिथ, L=27360
मिथ¦ ऋ ञ वधे । मेधायाम् । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-सेट् ।) ऋ अमिमेथत् ।
ञ मेथति मेथते शास्त्रार्थं शिष्यः धारयतीत्यर्थः ।
इति दुर्गादासः ॥


Match 0946: vcp=मिद, skd=मिद

vcp

k1=मिद, L=38264
मिद¦ बाधे मेधायाञ्च भ्वा० उ० सक० सेट् । मेदति--ते अमेदीत् ऋदित् चङि न ह्रस्वः ।


k1=मिद, L=38265
मिद¦ स्नेहे भ्वा० आ० लुङि प० अक० सेट् । मेदते इरित्
अमिदत् आदित् भावादौ क्ते मिन्नं मेदितम् ।


k1=मिद, L=38266
मिद¦ स्नेहे वा चु० उभ० पक्षे भ्वा० अक० सेट् इदित् । मिन्द-
यति अमिन्दत्--त । पक्षे मिन्दति अमिन्दीत् ।


k1=मिद, L=38267
मिद¦ स्नेहे दि० पर० सक० सेट् । मेद्यति--ते इरित्
अमिदत् अमेदीत् । आदित् क्त मेदितं भिन्नम् ।


k1=मिद, L=38268
मिद¦ स्नेहे चु० उम० सक० सेट्’ मेदयति--ते अमीमिदत्--त


skd

k1=मिद, L=27376
मिद¦ इ क स्निहि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इ क मिन्दयति वर्त्तिका
तैलेन । इति दुर्गादासः ॥


k1=मिद, L=27377
मिद¦ इर् य आ स्निहि । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् ।) इर् अमिदत्
अमेदीत् । य इति व्यायामशीलोऽसौ महा-
कायो न मेद्यतीति हलायुधः । आ मेदितं
मिन्नं तेन । इति दुर्गादासः ॥


k1=मिद, L=27378
मिद¦ ऋ ञ वधमेधयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-सेट् ।) ऋ अमिमेदत् ।
ञ मेदति मेदते शास्त्रार्थं शिष्यो धारयती-
त्यर्थः । मिमिदुः मिमेदुः । इति दुर्गा-
दासः ॥


k1=मिद, L=27379
मिद¦, ऌ आ ञि ङ स्निहि । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऌ अमिदत् ।
ञि मिन्नोऽस्ति । ङ मेदते । इति दुर्गादासः ॥


k1=मिद, L=27380
मिद¦, क स्निहि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क मेदयति वर्त्तिका तैलेन ।
इति दुर्गादासः ॥


Match 0947: vcp=मिल, skd=मिल

vcp

k1=मिल, L=38270
मिल¦ श्लेषे तु० उभ० सक० सेट् । मिलति अमेलीत् अमेलिष्ट
कुटादिरयमित्येके तेन अमिलीत् ल्युटि मिलनम् ।


skd

k1=मिल, L=27382
मिल¦, श ञ श्लिषि । इति कविकल्पद्रुमः ॥ (तुदा०-
उभ०-अक०-सेट् ।) श्लिषि सम्बन्धीभावे । श ञ
मिलति मिलते लता वृक्षेण । अयं कुटादि-
रिति कुलचन्द्रः । तेन व्यालनिलयमिलनेन
गरलमिव कलयति मलयसमीरम् । इति जय-
देवः । मिलिष्यन्ति ।
“महापातकिनः पञ्च मिलितव्यं न तैः सह ।”
इति दुर्गादासः ॥


Match 0948: vcp=मिव, skd=मिव

vcp

k1=मिव, L=38271
मिव¦ सेके भ्वा० पर० सक० सेट् इदित । मिन्वति अमिन्वीत् ।


skd

k1=मिव, L=27384
मिव¦, इ सेके । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ मिम्बति । इति दुर्गा-
दासः ॥


Match 0949: vcp=मिश, skd=मिश

vcp

k1=मिश, L=38272
मिश¦ ध्वनौ अक० कोपे सक० भ्वा० पर० सेट् । मेशति
अमेशीत् ।


skd

k1=मिश, L=27385
मिश¦, ध्वनौ । कोपे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) मेशति । इति दुर्गादासः ॥


Match 0950: vcp=मिश्र, skd=मिश्र

vcp

k1=मिश्र, L=38274
मिश्र¦ (स्र) योजने अद० च० उभ० सक० सेठ् । मिश्र(स्र) यति--ते अमिमिश्र(स्र)त् त ।


skd

k1=मिश्र, L=27388
मिश्र¦, त् क युत्याम् । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) तालव्यमध्योऽयम् ।
दन्त्यमध्य इति वर्णदेशनायाम् । युतिः संयो-
जनम् । मिश्रयति मिश्रापयति घृतेनान्नं
लोकः । इति दुर्गादासः ॥


Match 0951: vcp=मिष, skd=मिष

vcp

k1=मिष, L=38283
मिष¦ सेचने भ्वा० पर० सक० सेट् । मेषति अमेषीत् । उदित् क्त्वा वेट् ।


k1=मिष, L=38284
मिष¦ पराभिभवेच्छायाम् तु० पर० सक० नेट् । मिषति
अमेषीत् मिमेष ।


skd

k1=मिष, L=27402
मिष¦ उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) उ मेषित्वा मिष्ट्वा । इति
दुर्गादासः ॥


k1=मिष, L=27403
मिष¦ श स्पर्द्धे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) स्पर्द्धः पराभिभवेच्छा । इति
वोपदेवः ॥ श मिषति बली बलवन्तम् । इति
दुर्गादासः ॥


Match 0952: vcp=मिह, skd=मिह

vcp

k1=मिह, L=38288
मिह¦ सेचने भ्वा० पर० सक० अनिट् । मेहति अमिक्षत् ।


skd

k1=मिह, L=27415
मिह¦ औ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-अनिट् ।) औ अमिक्षत । इति
दुर्गादासः ॥


Match 0953: vcp=मी, skd=मी

vcp

k1=मी, L=38291
मी¦ बधे दि० आ० सक० अनिट् । मीयते अमेष्ट ।


k1=मी, L=38292
मी¦ बधे क्य्रा० उ० सक० सेट् । मीनाति मीनीते अमासीत्
अमास्त । ओदित् क्त मीनः ।


k1=मी, L=38293
मी¦ गत्यां मत्याञ्च बा चु० उभ० पक्षे भ्वा० पर० सक० अनिट् ।
माययति ते मयति अमीमत्--त अमैषीत् ।


skd

k1=मी, L=27419
मी¦ ओ ग ञ वधे । इति कविकल्पद्रुमः ॥
(क्रा०-उभ०-सक०-सेट् ।) ओ मीनः । ग ञ
मीनाति मीनीते । इति दुर्गादासः ॥


k1=मी, L=27420
मी¦ कि गत्याम् । मत्याम् । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-सक०-अनिट् ।) कि माय-
यति मयति । इति दुर्गादासः ॥


k1=मी, L=27421
मी¦ ङ य वधे । इति कविकल्पद्रुमः ॥ (दिवा०-
आत्म०-सक० अनिट् ।) ङ य मीयते । इति
दुर्गादासः ॥


Match 0954: vcp=मीम, skd=मीम

vcp

k1=मीम, L=38301
मीम¦ शब्दे अक० गतौ सक० भ्वा० पर० सेट् । मीमति
अमीमीत् । ऋदित् चङि च ह्रस्वः ।


skd

k1=मीम, L=27437
मीम¦ ऋ शब्दे गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-शब्दे अक०-गतौ सकं पर०-सेट् ।) ऋ
अमिमीमत् । इति दुर्गादासः ॥


Match 0955: vcp=मील, skd=मील

vcp

k1=मील, L=38304
मील¦ निमेषे भ्वा० पर० अक० सेट् । मीलति अमीलीत् ।
ऋदित् चङि वा ह्रस्वः ।


skd

k1=मील, L=27441
मील¦, ॠ निमेषे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ॠ अमिमीलत् अमी-
मिलत् । मीलति चक्षुः पक्ष्मभिरावृतं स्यादि-
त्यर्थः । इति दुर्गादासः ॥


Match 0956: vcp=मीव, skd=मीव

vcp

k1=मीव, L=38307
मीव¦ स्थूलीभवने भ्वा० पर० अक० सेट् । भीवति अमीवीत् ।


skd

k1=मीव, L=27445
मीव¦, पीवे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) मीवति । पीवः स्थूली-
भावः । इति दुर्गादासः ॥


Match 0957: vcp=मुच, skd=मुच

vcp

k1=मुच, L=38362
मुच¦ दम्भे शाठ्ये भ्वा० आत्म० सक० सेट् । मोचते अमोचिष्ट
इदिदप्ययम् तत्रार्थे । मुञ्चते ।


k1=मुच, L=38363
मुच¦ त्यागे चुरा० उ० सक० सेठ् । मोचयति ते अमूमुचत्--त


k1=मुच, L=38364
मुच¦ त्यागे तु० मुचादि० उभ० सक० अनिट् । मुञ्चति--ते
ऋदित् अमुचत् अमुक्त । कर्मकर्त्तरि अकर्मकः “मुच्यते
सर्वपापेभ्यः” इति पुराणम् ।


skd

k1=मुच, L=27535
मुच¦ इ ङ कल्कने । दम्भे । शाठ्ये । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-
सेट् ।) द्बौ पञ्चमस्वरिणौ । इ मुञ्च्यते । ङ
मुञ्चते ङ मोचते । इति दुर्गादासः ॥


k1=मुच, L=27536
मुच¦ ङ कल्कने । दम्भे । शाठ्ये । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-
सेट् ।) द्बौ पञ्चमस्वरिणौ । इ मुञ्च्यते । ङ
मुञ्चते ङ मोचते । इति दुर्गादासः ॥


k1=मुच, L=27537
मुच¦ ऌ श प ञ औ मोक्षे । इति कविकल्पद्रुमः ॥
(तुदा०-उभ०-सक०-बन्धनरहितीभावे अक०-
अनिट् ।) मोक्षस्त्यागः । ऌ अमुचत् । श
प ञ मुञ्चति मुञ्चते धनं दाता । बन्धन-
रहितीभावे अकर्म्मकोऽयम् । आलानान्मुक्तो
गजः कर्त्तरि क्तः । एवं पापान्मुक्त इत्यादौ
पापबन्धनान्मुक्त इत्यर्थः । इति दुर्गादासः ॥


k1=मुच, L=27538
मुच¦ क मोक्षे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क मोचयति । मोक्षस्त्यागः ।
इति दुर्गादासः ॥


Match 0958: vcp=मुज, skd=मुज

vcp

k1=मुज, L=38366
मुज¦ ध्वनौ अक० मार्ज्जने सक० वा चुरा० पक्षे भ्वा० पर०
सेट् । माजयति ते मोजति अमूमुजत् त अमोजीत् ।
इदिदप्यत्रार्थे । मुञ्जयति ते मुञ्जति अमुमुञ्जत् त
अमुञ्जीत् ।


skd

k1=मुज, L=27543
मुज¦ इ क मृजाध्वन्योः । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-मार्ज्जने सक०-ध्वनौ
अक०-सेट् ।) द्वौ पञ्चमस्वरिणौ । इ क मुञ्ज-
यति । क मोजयति । इति दुर्गादासः ॥


k1=मुज, L=27544
मुज¦ क मृजाध्वन्योः । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-मार्ज्जने सक०-ध्वनौ
अक०-सेट् ।) द्वौ पञ्चमस्वरिणौ । इ क मुञ्ज-
यति । क मोजयति । इति दुर्गादासः ॥


Match 0959: vcp=मुट, skd=मुट

vcp

k1=मुट, L=38370
मुट¦ मर्दने भ्वा० पर० सक० सेट् इदित् । मुण्टति अमुण्टीत् । मुण्ट्यते ।


k1=मुट, L=38371
मुट¦ क्षोदे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । मोद-
यति ते मोटति अमूमुटत् त अमोटीत् ।


skd

k1=मुट, L=27550
मुट¦ इ मर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) पञ्चमस्वरी । इ मुण्ट्यते । मर्द्दो
मर्द्दनम् । इति दुर्गादासः ॥


k1=मुट, L=27551
मुट¦ कि क्षुदि । इति कविकल्पद्रुमः ॥ (चुरा०
पक्षे भ्वा०-सक०-सेट् ।) क्षुदि चूर्णीकरणे ।
कि मोटयति तण्डुलं शिला । यस्तु दुर्गञ्च
मोटतीति हलायुधः ॥


k1=मुट, L=27552
मुट¦ शि आक्षेपे च । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-सक०-सेट् ।) पवर्गशेषादिः ।
शि मुटति अमुठीत् मुमोट । चकारात् क्षुदि
च । मुटति द्बिषां दर्पं य इति हलायुधः ।
इति दुर्गादासः ॥


Match 0960: vcp=मुठ, skd=मुठ

vcp

k1=मुठ, L=38372
मुठ¦ क्षोदने आक्षेपे च तु० कु० पर० सक० सेट् । मुटति
अमुटीत् भुमोट ।


k1=मुठ, L=38373
मुठ¦ पलायने भ्वा० आ० अक० सेट् इदित् । मुण्ठते अमुण्ठिष्ट ।


skd

k1=मुठ, L=27553
मुठ¦ इ ङ पलायने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-पालने सक०-सेट् ।) पवर्ग-
शेषादिः । पञ्चमस्वरी । इ मुण्ठ्यते । ङ मुण्ठते
चौरः । इति दुर्गादासः ॥


Match 0961: vcp=मुड, skd=मुड

vcp

k1=मुड, L=38374
मुड¦ केशादिच्छेदे मर्दने च भ्वा० पर० सक० सेट् इदित् ।
मुण्डति अमुण्डीत् ।


k1=मुड, L=38375
मुड¦ मज्जने भ्वा० आ० अक० सेट् इदित् । मुण्डते अमुण्डिष्ट ।


skd

k1=मुड, L=27554
मुड¦ इ छिदि । मर्द्दे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) पञ्चमस्वरी । इ
मुण्ड्यते । छेद इह लोमच्छेद एव । मुण्डति
मुण्डं नापितः । लोमरहितं करोतीत्यर्थः ।
इति गुर्गादासः ॥


k1=मुड, L=27555
मुड¦ इ ङ मग्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) पवर्गशेषादिः । पञ्चम-
स्वरी । मग्नमिति मज्जधातोः क्ते रूपं मज्जन-
मित्यर्थः । इ मुण्ड्यते । ङ मुण्डते प्रस्तरो जले ।
चतुर्भुजस्तु मार्ज्जन इति पठित्वा मार्ज्जनं
शुद्धिरिति व्याख्याय मुण्डते जलेन गात्रं लोक
इत्युदाहृतवान् । इति दुर्गादासः ॥


Match 0962: vcp=मुण, skd=मुण

vcp

k1=मुण, L=38376
मुण¦ प्रतिज्ञाने तु० पर० सक० सेट् । मुणति अमोणीत् ।


skd

k1=मुण, L=27556
मुण¦ श प्रतिज्ञाने । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) श मुणति व्रतं लोकः ।
प्रतिजानातीत्यर्थः । मोणिता । इति दुर्गा-
दासः ॥


Match 0963: vcp=मुद, skd=मुद

vcp

k1=मुद, L=38388
मुद¦ समार्ज्जने चु० उ० सक० सेट् । मोदयति ते अमूमुदत् त


k1=मुद, L=38389
मुद¦ हर्षे भ्वा० आ० अक० सेट् । मोदते अमोदिष्ट । मुमुदे ।


skd

k1=मुद, L=27576
मुद¦ क संसर्गे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) क मोदयति घृतेनान्नं लोकः ।
इति दुर्गादासः ॥


k1=मुद, L=27577
मुद¦ ञि ङ हर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) हर्षश्चित्तोत्साहः । ञि
मुदितोऽस्ति ङ मोदते धनी । इति दुर्गा-
दासः ॥


Match 0964: vcp=मुर, skd=मुर

vcp

k1=मुर, L=38417
मुर¦ वेष्टने तु० पर० सक० सेट् । मुरति अमीरीत् ।


skd

k1=मुर, L=27622
मुर¦, श वेष्टने । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) पवर्गशेषादिः । श मुरति
वृक्षं लता । मोरिता । इति दुर्गादासः ॥


Match 0965: vcp=मुर्च्छ, skd=मुर्च्छ

vcp

k1=मुर्च्छ, L=38424
मुर्च्छ¦ मोहे वृद्धौ च भ्वा० पर० सक० सेट् । मूर्च्छति
अमूर्च्छीत् । आदित् भावे क्त । मूर्तम् मूर्च्छितम् ।


skd

k1=मुर्च्छ, L=27638
मुर्च्छ¦ आ मोहे । उच्छ्राये । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) पवर्गशेषादिः ।
ह्रस्वी । तेन क्विपि राल्लोप इति छलो मुरौ
मुरः । आ मूर्च्छितं मूर्त्तं तेन । मोहो ज्ञान-
रहितीभावः । उच्छ्रायो वृद्धिः । मूर्च्छति
रोगी । मुमूर्च्छ संख्यं रामस्य समानव्यसने
हराविति रघुः । इति दुर्गादासः ॥


Match 0966: vcp=मुर्व, skd=मुर्व्व *

vcp

k1=मुर्व, L=38426
मुर्व¦ बन्धे भ्वा० पर० सक० सेट् । भूर्वति अमूर्वीत् निष्ठापामनिट् मूर्णः ।


skd

k1=मुर्व्व, L=27641
मुर्व्व¦ ई नहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् । निष्ठायामनिट् ।) आद्यः पञ्चम-
स्वरी । मूः मुरौ मुरः । नहो बन्धनम् । ई
मूर्णः । इति दुर्गादासः ॥


Match 0967: vcp=मुल, skd=मुल

vcp

k1=मुल, L=38427
मुल¦ रोपणे चु० उभ० सक० सेट् । मोलयति ते अमूमुलत् त ।


skd

k1=मुल, L=27642
मुल¦ क रोपणे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् । जन्मार्थे भ्वा०-उभ०-अक०-
सेट् ।) रोपणं आरोपणम् । क मोलयति वृक्षं
लोकः । गोविन्दभट्टस्तु रोहणे इति पठित्वा
रोहणं जन्म इति व्याख्याति । इति दुर्गादासः ॥


Match 0968: vcp=मुष, skd=मुष

vcp

k1=मुष, L=38431
मुष¦ छेदने दिवा० पर० सक० सेट् । मुष्यति इरित् अमुषत्-
अमोषीत् पुषादिरयमित्यन्ये ।


k1=मुष, L=38432
मुष¦ लुण्टने क्य्रा० पर० द्विक० सेट् । मुष्णाति अमोषीत् ।


skd

k1=मुष, L=27645
मुष¦ वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) मोषति । इति दुर्गादासः ॥


k1=मुष, L=27646
मुष¦ ग लुण्ठने । इति कविकल्पद्रुमः ॥ (क्रा०-पर०-
सक०-सेट् ।) ग मुष्णाति । इति दुर्गादासः ॥


Match 0969: vcp=मुस, skd=मुस

vcp

k1=मुस, L=38444
मुस¦ खण्डने दि० पर० सक० सेट् । मुस्यति इरित् अमुसत् आभोसीत् पुषादिरयमित्यन्ये ।


skd

k1=मुस, L=27665
मुस¦ य इर् छिदि । खण्डने । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) य मुस्यति विपक्षं
चतुरः । इर् अमुसत् अमोसीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥


Match 0970: vcp=मुस्त, skd=मुस्त

vcp

k1=मुस्त, L=38448
मुस्त¦ संहतौ चु० उभ० सक० सेट् । मुस्तयति ते अमुमुस्तत् त ।


skd

k1=मुस्त, L=27671
मुस्त¦ क संहतौ । इति कविकल्पद्रुमः ॥ (चुरा०-
उभ०-अकं-सेट् ।) पवर्गशेषादिः । क मुस्त-
यति । इति दुर्गादासः ॥


Match 0971: vcp=मुह, skd=मुह

vcp

k1=मुह, L=38451
मुह¦ मोहे वैचित्त्ये दि० उभ० अक० सेट् मुह्यति ऌदित्
अमुहत् ऊदित् मोहिता, मोग्धा, मोढा ञीत् ।
मूढोऽस्ति ।


skd

k1=मुह, L=27680
मुह¦ यौ ऌ क्ति वैचित्त्ये । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् । रुधादित्वाद्वेट् ।)
वैचित्त्यं ज्ञानरहितीभावः । य, तेन मुह्यति
चिराय मे मनः । इति मुरारिः । ऊ मोहि-
ष्यति मोक्ष्यति । ऌ अमुहत् । ञि मुग्धः
मूढोऽस्ति । इति दुर्गादासः ॥


Match 0972: vcp=मू, skd=मू

vcp

k1=मू, L=38455
मू¦ बन्धे भ्वा० आ० सक० सेट् । मवते अमविष्ट मुमुवे ।


skd

k1=मू, L=27686
मू¦ ङ बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
सक० सेट् ।) पवर्गपञ्चमादिः । ङ मवते ।
इति दुर्गादासः ॥


Match 0973: vcp=मूत्र, skd=मूत्र

vcp

k1=मूत्र, L=38459
मूत्र¦ खावे अद० चु० उभ० अक० सेट् । मूत्रयति ते अमुमूत्रत् त


skd

k1=मूत्र, L=27693
मूत्र¦, त् क प्रस्रावे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-उभ०-सक०-सेट् ।) दीर्घी । मूत्रयति
मूत्रापयति । इति दुर्गादासः ॥


Match 0974: vcp=मूल, skd=मूल

vcp

k1=मूल, L=38480
मूल¦ प्रतिष्ठायां भ्वा० उभ० अक० सेट् । मूलति ते अमूलीत् अमूलिष्ट ।


k1=मूल, L=38481
मूल¦ रोपणे चुरा० उभ० सक० सेट् । मूलयति ते अमूमुलत् त ।


skd

k1=मूल, L=27732
मूल¦ क रोपणे । इति कविकल्पद्रुमः ॥ (चुरा०-
उभ०-सक०-सेट् ।) दीर्घी रोपणमारोपणम् ।
क मूलयति वृक्षं लोकः । गोविन्दभट्टस्तु रोहणे
इति पठित्वा रोहणं जन्मेति व्याख्याति । इति
दुर्गादासः ॥


k1=मूल, L=27733
मूल¦ ञ प्रतिष्ठायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-अक०-सेट् ।) पवर्गशेषादिर्दीर्घी ।
प्रतिष्ठा स्थितिरिति गोविन्दभट्टः । ञ मूलति
मूलते यशः । अयं परस्मैपदीत्यन्ये । इति
दुर्गादासः ॥


Match 0975: vcp=मूष, skd=मूष

vcp

k1=मूष, L=38501
मूष¦ लुण्ठने भ्वा० पर० सक० सेट् । मूषति अमूषीत् । मुमूष


skd

k1=मूष, L=27767
मूष¦ लुण्ठने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) षष्ठस्वरी । यो मूषति परद्रव्यम् ।
इति हलायुधः ॥ ह्रस्वीत्येके । मोषति । इति
दुर्गादासः ॥


Match 0976: vcp=मृ, skd=मृ

vcp

k1=मृ, L=38509
मृ¦ मृतौ तु० सार्वधातुवे लुङि आशीर्लिङि च आ० अन्यत्र
पर० अक० अनिट् म्रियते । अमृत । ममार मर्त्तासि
मृषीष्ट ।


skd

k1=मृ, L=27790
मृ¦, ङ श मृतौ । इति कविकल्पद्रुमः ॥ (तुदा०-
आत्म०-अक०-अनिट् ।) मृतिः प्राणत्यागः । ङ
श म्रियते प्राणी । ङित्त्वेऽऽप्यस्य मृ ङ ष्टीढ्ये
ममिति नियमेन अन्यत्र परस्मैपदम् । ममार
मर्त्ता मरिष्यति अमरिष्यत् । इति दुर्गादासः ॥


Match 0977: vcp=मृज, skd=मृज

vcp

k1=मृज, L=38557
मृज¦ शोधने भूषणे च वा चु० उभ० पक्षे अदा० सक० वेट् ।
मार्जयति--ते मार्ष्टि अमीमृजत्--त अममार्जत्--त अमा-
र्क्षीत् आम्राक्षीत् अमृक्षत् षित् मृजा ।


skd

k1=मृज, L=27860
मृज¦ ऊ ष कि भूषे । शुद्धौ । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) ऊ
अमार्जीत् अमार्क्षीत् । ष मृजा । कि मार्जत्या-
लेपनैर्द्विजान् । यो मार्ज्जयति शास्त्रार्थमिति
हलाषुधः । इति दुर्गादासः ॥


k1=मृज, L=27861
मृज¦ ल ऊ ष शुद्धौ । इति कविकल्पद्रुमः ॥
(अदा०-पर०-सक०-सेट् ।) शुद्धिरिह शुद्धी-
भावः शुद्धीकरणञ्च । ल मार्ष्टि तीर्थोदकैर्नित्य-
मिति हलायुधः । ऊ अमार्ज्जीत् भस्मतो
मलम् । अमार्क्षीच्चासि पत्रादीनिति भट्टिः ।
ष मृजा । इति दुर्गादासः ॥


Match 0978: vcp=मृड, skd=मृड

vcp

k1=मृड, L=38559
मृड¦ तोषणे क्र्या० तु० च पर० सक० सेट् । मृड्णाति
मृडति अमर्डीत् ममर्ड ।


skd

k1=मृड, L=27865
मृड¦ ग श मोदे । इति कविकल्पद्रुमः ॥ (क्रा०-
वा तुदा०-अक०-सेट् ।) मोद इह हृष्टी-
करणम् ॥ ग मृड्णाति सरस्वत्या च यः सदेति
[Page3-768-c+ 54]
हलायुधः । श मृडति दीनं दाता । अमृडित्वा
सहस्राक्षमिति भट्टिः । मर्डिता । इति दुर्गा-
दासः ॥


Match 0979: vcp=मृण, skd=मृण

vcp

k1=मृण, L=38561
मृण¦ हिंसे तु० प० सक० सेट् । मृणति अमर्णीत् ।


skd

k1=मृण, L=27871
मृण¦, श हिंसे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) मर्णिता । इति दुर्गादासः ॥


Match 0980: vcp=मृद, skd=मृद

vcp

k1=मृद, L=38583
मृद¦ क्षोदे क्र्य० प० सक० सेट् । मृद्गाति अमर्द्दीत् ममर्द ।


skd

k1=मृद, L=27918
मृद¦, ग क्षुदि । इति कविकल्पद्रुमः ॥ (क्र्या०-
पर०-सक०-सेट् ।) ग, मृद्नाति ममर्द । क्षुदि
चूर्णीकरणे । इति दुर्गादासः ॥


Match 0981: vcp=मृध, skd=मृध

vcp

k1=मृध, L=38602
मृध¦ आर्द्रीभावे भ्वा० उभ० सक० सेट् चदित् क्त्वा वेद ।
मर्द्धति--ते अमर्द्धीत् अमर्द्धिष्ट ममर्द्ध ममृवे ।


skd

k1=मृध, L=27952
मृध¦, उ ञ क्लिदि । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-अक०-सेट् । क्त्वावेट् ।) उ, मर्द्धित्वा
मृद्ध्वा । ञ, मर्धति मर्धते । क्लिदि आर्द्रीभावे ।
इति दुर्गादासः ॥


Match 0982: vcp=मृश, skd=मृश

vcp

k1=मृश, L=38603
मृश¦ स्पर्शने प्रणिधाने च तु० पर० सक० अनिट् । मृशति
अम्राक्षीत् अमार्क्षीत् अमृक्षत् ममर्श ।


skd

k1=मृश, L=27956
मृश¦, श औ मृशि । इति कविकल्पद्रुमः ॥
(तुदा०-पर० सक०-अनिट् ।) श, मृशति । औ,
अमार्क्षीत् अम्राक्षीत् अमृक्षत् । मृशि इति
तालव्यान्तस्यैव क्विपि रूपम् । तेन अनि-
[Page3-775-a+ 57]
र्दि ष्टार्थत्वात् स्पर्शनं प्रणिधानञ्च अस्यार्थः ।
स्पर्शने । यथा, रघौ । ३ । ६८ ।
“परामृशन् हर्षजडेन पाणिना
तदीयमङ्गं कुलिशव्रणाङ्कितम् ।”
प्रणिधाने ।
“रामप्रवासे व्यमृशन्न दोषं
जनापवादं सनरेन्द्रमृत्युम् ।”
केकयीति भट्टिः । ३ । ७ ॥
विमर्शं परामर्शः । मृषि इति मूर्द्धन्यान्तपाठो
हेयः । तर्हि क्षमैवार्थः स्यात् । इति दुर्गा-
दासः ॥


Match 0983: vcp=मृष, skd=मृष

vcp

k1=मृष, L=38604
मृष¦ क्षमायाम् अद० चु० उभ० सक० सेट् । मृषयति ते अमी-
मृषत् त ।


k1=मृष, L=38605
मृष¦ क्षान्तौ अद० भ्वा० उभ० सक० सेट् । मृषति ते अमृषीत् अमृषिष्ट ।


k1=मृष, L=38606
मृष¦ सेचने भ्वा० पर० सक० सेट् । मर्षति अमर्षीत् उदित् क्त्वा
वेट् ।


k1=मृष, L=38607
मृष¦ क्षमायां चु० उभ० सक० सेट् । मर्षयति ते अमीमृषत् त
अममर्षत् त ।


k1=मृष, L=38608
मृष¦ क्षमायां भ्वा० उभ० सक० सेट् । मर्षति ते अमर्षीत् अमृषिष्ट उदित् क्ता वेट् ।


k1=मृष, L=38609
मृष¦ क्षमायां चु० पक्षे दिवा० च उभ० सक० सेट् । मृष्यति ते ।
मर्षयति ते । मर्षितः मर्षित्वा ।


skd

k1=मृष, L=27957
मृष¦, त् क क्षान्तौ । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-पर०-सक०-सेट् ।
अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।)
मूर्द्धन्योपधौ । क, मृषयति । ञ, मृषति मृषते ।
इति दुर्गादासः ॥


k1=मृष, L=27958
मृष¦, त् ञ क्षान्तौ । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-पर०-सक०-सेट् ।
अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।)
मूर्द्धन्योपधौ । क, मृषयति । ञ, मृषति मृषते ।
इति दुर्गादासः ॥


k1=मृष, L=27959
मृष¦, उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् । क्त्वावेट् ।) उ, मर्षित्वा
मृष्ट्वा । इति दुर्गादासः ॥


k1=मृष, L=27960
मृष¦, क क्षान्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, मर्षयति । अयमात्मने-
पदीत्येके । इति दुर्गादासः ॥


k1=मृष, L=27961
मृष¦, ञ ङ उ क्षान्तौ । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-आत्म०-च-सक०-सेट् । क्त्वावेट् ।)
ञ, मर्षति मर्षते । ङ, मर्षते । उ, मर्षित्वा
मृष्ट्वा । अपि गुरुमपराधं मर्षति ब्राह्मणाना-
मिति हलायुधः । इति दुर्गादासः ॥


k1=मृष, L=27962
मृष¦, य ञ क्षान्तौ । इति कविकल्पद्रुमः ॥ (दिवा०-
उभ०-सक०-सेट् ।) य ञ्, मृष्यति मृष्यते ममर्ष ।
इति दुर्गादासः ॥


Match 0984: vcp=मॄ, skd=मॄ

vcp

k1=मॄ, L=38616
मॄ¦ बधे क्या० प्वा० प० सक० सेट् । मृणाति अमारीत् ।


skd

k1=मॄ, L=27974
मॄ¦, गि वधे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-
सक०-सेट् ।) गि, मृणाति । मूर्णः । मूर्त्तिः ।
इति दुर्गादासः ॥


Match 0985: vcp=मे, skd=मे

vcp

k1=मे, L=38617
मे¦ प्रतीदाने भ्व० आत्म० सक० अनिट् । मयते अमास्त ।


skd

k1=मे, L=27975
मे¦, ङ प्रतीदाने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-अनिट् ।) प्रतीदानं परिवर्त्तः ।
ङ, मयते धान्येन माषं लोकः । इति दुर्गादासः ॥


Match 0986: vcp=मेट, skd=मेट् *

vcp

k1=मेट, L=38642
मेट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् ऋदित् चङि न
ह्रस्वः । मेट(ड)ति अमेटी(डी)त् ।


skd

k1=मेट्, L=28027
मेट्¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ऋ, अमिमेटत् । मेटति
लोकः । उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥


Match 0987: vcp=मेथ, skd=मेथ

vcp

k1=मेथ, L=38646
मेथ¦ बधे मेधायाञ्च सक० सङ्गे अक० भ्वा० उभ० सेट् ।
मेथति ते अमेथीत् अमेथिष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=मेथ, L=28036
मेथ¦, ञ ऋ सङ्गे । वधे । मेधायाम् । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-उभ०-सङ्गे अक०-वधे-मेधा-
याञ्च सक०-सेट् ।) ञ, मेथति मेथते धीरो
गुणिना सङ्गत इत्यर्थः । ऋ, अमिमेथत् ।
मिमेथ । इति दुर्गादासः ॥


Match 0988: vcp=मेद, skd=मेद

vcp

k1=मेद, L=38649
मेद¦ बधे मेधायाञ्च सक० भ्वा० उभ० सेट् । मेदति ते
अमेदीत् अमेदिष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=मेद, L=28041
मेद¦, ऋ ञ वधमेधयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-सेट् ।) ऋ, अमिमेदत् ।
ञ, मेदति मेदते शास्त्रार्थं शिष्यः धारयतीत्यर्थः ।
मिमेदुः । इति दुर्गादासः ॥


Match 0989: vcp=मेध, skd=मेध

vcp

k1=मेध, L=38660
मेध¦ मेथवत् सर्वम् । मेधति ते अमेधीत् अमेधिष्ट ।


skd

k1=मेध, L=28057
मेध¦, ऋ ञ वधमेधासङ्गेषु । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-वधे सक०-अन्यत्र अक०-सेट् ।)
ऋ, अमिमेधत् । ञ, मेधति मेधते । इति दुर्गा-
दासः ॥


Match 0990: vcp=मेप, skd=मेप

vcp

k1=मेप, L=38672
मेप¦ गतौ भ्वा० आ० सक० सेट् । मेपते अमेपिष्ट । अदित्
चङि न ह्रस्वः ।


skd

k1=मेप, L=28083
मेप¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, मेपते । ऋ, अमि-
मेपत् । इति दुर्गादासः ॥


Match 0991: vcp=मेव, skd=मेव

vcp

k1=मेव, L=38681
मेव¦ सेवने भ्वा० आ० सक० सेट् । मेवते अमेविष्ट । पदित् चङि न ह्रस्वः ।


skd

k1=मेव, L=28094
मेव¦, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अमिमेवत् । ङ,
मेवते । इति दुर्गादासः ॥


Match 0992: vcp=मोक्ष, skd=मोक्ष

vcp

k1=मोक्ष, L=38705
मोक्ष¦ क्षेपे वा चु० उम० पक्षे भ्वा० पर० सक० सेट् ।
मोक्षयति ते मोक्षति अमुमोक्षत् त अमोक्षीत् ।


skd

k1=मोक्ष, L=28136
मोक्ष¦, कि क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, मोक्षयति
मोक्षति । इति दुर्गादासः ॥


Match 0993: vcp=म्ना, skd=म्ना

vcp

k1=म्ना, L=38750
म्ना¦ अभ्यासे भ्वा० पर० सक० सेट् । मनति अम्नासीत् मम्नौ ।


skd

k1=म्ना, L=28220
म्ना¦, अभ्यासे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-अनिट् ।) अभ्यासः पौनःपुन्येनानु-
शीलनम् । मनति सन्ध्यां ब्राह्मणः । इति दुर्गा-
दासः ॥


Match 0994: vcp=म्रक्ष, skd=म्रक्ष

vcp

k1=म्रक्ष, L=38751
म्रक्ष¦ संयोजने स्नेहने च चु० उभ० सक० सेट् । म्रक्षयति ते
अमम्रक्षत् त ।


k1=म्रक्ष, L=38752
म्रक्ष¦ संघाते अक० संयोजने सक० भ्वा० पर० सेट् । म्रक्षति अम्रक्षीत् ।


skd

k1=म्रक्ष, L=28221
म्रक्ष¦, संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रेफयुक्तादिः । म्रक्षति पयसा
शक्तून् लोकः । इति दुर्गादासः ॥


k1=म्रक्ष, L=28222
म्रक्ष¦, क म्रक्षणे । स्नेहने । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) रेफयुक्तादिः ।
म्रक्षणं द्रव्यस्य द्रव्यान्तरेण योजनम् । क, म्रक्ष-
यति घृतेनान्नं लोकः । इति दुर्गादासः ॥


Match 0995: vcp=म्रद, skd=म्रद

vcp

k1=म्रद, L=38754
म्रद¦ क्षोदे भ्वा० आ० सक० सेट् । म्रदते अम्रदिष्ट । घटा०
म्रदयति । षित् अङ् म्रदा ।


skd

k1=म्रद, L=28225
म्रद¦, म ष ङ क्षोदे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) रेफयुक्तः । क्षोदश्चूर्णी-
करणम् । म, म्रदयति । ष, म्रदा । ङ, म्रदते
काननं दन्ती । इति दुर्गादासः ॥


Match 0996: vcp=म्रुच, skd=म्रुच

vcp

k1=म्रुच, L=38757
म्रुच¦ गतौ भ्वा० पर० सक० सेट् । म्रोचति इरित् अम्रुचत्
अम्रोचीत् मुम्रोच । उदित् क्त्वा वेट् ।


skd

k1=म्रुच, L=28230
म्रुच¦, उ इर् गत्याम् । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् । क्त्वावेट् ।) उ, म्रोचित्वा
म्रोक्त्वा । इर्, अम्रुचत् अम्रोचीत् । इति दुर्गा-
दासः ॥


Match 0997: vcp=म्रुन्च, skd=म्रुन्च

vcp

k1=म्रुन्च, L=38758
म्रुन्च¦ गतौ सर्वं म्रुचवत् । म्रुञ्चति अम्रुचत् अम्नुञ्चीत् ।


skd

k1=म्रुन्च, L=28231
म्रुन्च¦, उ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) उ, म्रुञ्चित्वा म्रुक्त्वा । इति
दुर्गादासः ॥


Match 0998: vcp=म्रेट, skd=म्रेट

vcp

k1=म्रेट, L=38759
म्रेट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् । म्रेट(ड)ति
अम्रेटी(डी)त् । ऋदित् चङि न ह्रस्वः ।


skd

k1=म्रेट, L=28232
म्रेट¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ऋ, अमिम्रेटत् । म्रेटति
लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥


Match 0999: vcp=म्लुच, skd=म्लुच

vcp

k1=म्लुच, L=38764
म्लुच¦ गतौ भ्वा० पर० सक० सेट् । म्लोचति । इरित् अम्लु चत्
अम्लोचीत् । उदित् क्त्वा वेट् ।


skd

k1=म्लुच, L=28239
म्लुच¦, उ इर् गत्याम् । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) उ, म्लोचित्वा म्लुक्त्वा ।
इर्, अम्लु चत् अम्लोचीत् । इति दुर्गादासः ॥


Match 1000: vcp=म्लेच्छ, skd=म्लेच्छ

vcp

k1=म्लेच्छ, L=38766
म्लेच्छ¦ अपशब्दे वा चु० उभ० पक्षे भ्वा० पर० अक०
सेट् । म्लेच्छयति ते म्लेच्छति अमम्लेच्छत् त अम्लेच्छीत्


skd

k1=म्लेच्छ, L=28240
म्लेच्छ¦, कि देश्योक्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-
वा भ्वा०-पर०-अक०-सक० च-सेट् ।) देश्या
ग्राम्या उक्तिर्देश्योक्तिरसंस्कृतकथनमित्यर्थः ।
कि, म्लेच्छयति म्लेच्छति मूढः । अन्तर्विद्यामसौ
विद्बान्न म्लेच्छति धृतव्रत इति हलायुधः ॥
अनेकार्थत्वादव्यक्तशब्देऽपि । तथा चामरः ।
अथ म्लिष्टमविस्पष्टमिति । म्लेच्छ व्यक्तायां वाचि
इति प्राञ्चः । तत्र रमानाथस्तु । म्लेच्छति वटु-
र्व्यक्तं वदतीत्यर्थः । अव्यक्तायामिति पाठे कुत्-
सितायां वाचीत्यर्थः ।
‘तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः ॥’
इति भाष्यवचनेन नञोऽप्राशस्त्यार्थत्वात् इति
व्याख्यानाय हलायुधोक्तमुदाहृतवान् । इति
दुर्गादासः ॥


Match 1001: vcp=म्लेट, skd=म्लेट

vcp

k1=म्लेट, L=38775
म्लेट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् । म्लेट(ड) ति
अम्लेटी(डी)त् । ऋदित् चङि न ह्रस्वः ।


skd

k1=म्लेट, L=28253
म्लेट¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ऋ, अमिम्लेटत् । म्लेटति
लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥


Match 1002: vcp=म्लेव, skd=म्लेव

vcp

k1=म्लेव, L=38776
म्लेव¦ सेवने भ्वा० आ० सक० सेट् । म्लेवते अम्लेविष्ट ।
ऋदित् चङि न ह्रस्वः ।


skd

k1=म्लेव, L=28255
म्लेव¦, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अमिम्लेवत् । ङ,
म्लेवते । इति दुर्गादासः ॥


Match 1003: vcp=म्लै, skd=म्लै

vcp

k1=म्लै, L=38777
म्लै¦ कान्तिक्षये भ्वा० पर० सक० अनिट् । म्लायति म्लासीत् मम्लौ म्लानः म्रानिः ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते
वाचस्पत्ये मकारादिशब्दार्थसङ्कलनम् ।


skd

k1=म्लै, L=28256
म्लै¦, कान्तिसंक्षये । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) म्लायति चन्द्रो दिवसे । इति
दुर्गादासः ॥


Match 1004: vcp=यक्ष, skd=यक्ष

vcp

k1=यक्ष, L=38784
यक्ष¦ पूजायां चु० आ० सक० मेट् । यक्षयते अययक्षत ।


skd

k1=यक्ष, L=28263
यक्ष¦, क ङ महि । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) क ङ, यक्षयते । महि
पूजायाम् । इति दुर्गादासः ॥


Match 1005: vcp=यज, skd=यज

vcp

k1=यज, L=38796
यज¦ देवपूजने, दाने, सङ्गकृतौ च भ्वा० उभ० यजादि०
अनिट् । यजति ते अयाक्षीत् अयष्ट इयाज ईजतुः ।


skd

k1=यज, L=28282
यज¦, ऐ ञ औ देवार्च्चादानसङ्गकृतौ । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।)
सङ्गस्य कृतिः सङ्गकृतिः । ऐ, इज्यात् । ञ,
यजति यजते विष्णुं सुधीः पूजयतीत्यर्थः ।
पशुना रुद्रं यजते पशुं रुद्राय ददातीत्यर्थः ।
यजति सन्तं सन् सता सह सङ्गं करोतीत्यर्थः ।
औ, यष्टा । इति दुर्गादासः ॥


Match 1006: vcp=यत, skd=यत् *

vcp

k1=यत, L=38831
यत¦ ताडने उपस्करे च चु० स० सेट् । यातयति । अयी-
यतत् त । निर् + परीवर्त्ते प्रतीरूपशोधने च ।


k1=यत, L=38832
यत¦ यत्ने भ्वा० आत्म० अक० सेट् । यतते अयतिष्ट
ईदित् निष्ठायामनिट् यत्तः ।


skd

k1=यत्, L=28327
यत्¦, ई ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् । अनिड्निष्ठः ।) ई, यत्तः ।
ङ, यतते पठितुं शिष्यः । इति दुर्गादासः ॥


k1=यत्, L=28328
यत्¦, क खेदोपस्करयोः । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) खेद इह ताडनम् ।
क, यातयति पुत्त्रं पिता ताडयति इत्यर्थः ।
यातयति गृहं गृहिणी उपस्करोति इत्यर्थः ।
निरः प्रत्यर्पणे । प्रत्यर्पणं परीवर्त्तः । निर्यात-
यति धान्येन माषान् लोकः धान्यं दत्त्वा माषान्
गृह्णाति इत्यर्थः । इति दुर्गादासः ॥


Match 1007: vcp=यत्र, skd=यत्र

vcp

k1=यत्र, L=38842
यत्र¦ सङ्कोचने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
यन्त्रयति ते यन्त्रति अययन्त्रत् त अयन्त्रीत् ।


skd

k1=यत्र, L=28346
यत्र¦, इ क संकोचने । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) दन्त्यवर्गाद्योपधः ।
इ क, यन्त्रयति मन्त्रेण सर्पं जाङ्गलिकः । यन्त्र
[Page4-012-a+ 52]
इत्यनेनैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
इति दुर्गादासः ॥


Match 1008: vcp=यभ, skd=यभ

vcp

k1=यभ, L=38874
यभ¦ मैथुने भ्वा० पर० सक० अनिट् । यमति अया(य)सीत् ।


skd

k1=यभ, L=28390
यभ¦, औ मैथुने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-अनिट् ।) औ, अयाप्सीत् । यभति
युवा । इति दुर्गादासः ॥


Match 1009: vcp=यम, skd=यम

vcp

k1=यम, L=38875
यम¦ उपरतौ भ्वा० पर० सक० अनिट् यच्छति अयंसीत्
उदित् क्त्वा वेट् । यमित्वा यत्वा यत्तः ।
आ + दीर्घीकरणे आत्म० । उप + विवाहे आत्म० ।


k1=यम, L=38876
यम¦ परिवेषणे चु० उ० सक० सेट् वा घटा० । यमयति
यामवति अयीयमत् त अययामत् त ।


skd

k1=यम, L=28391
यम¦, औ उ विरतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-अनिट् । क्त्वावेट् ।) औ,
यन्ता । उ, यमित्वा यन्त्वा । विरतिर्निवृत्तिः ।
यच्छति पापात् साधुः । इति दुर्गादासः ॥


k1=यम, L=28392
यम¦, क मि परिवेषणे । तदभावे । इति कवि-
कल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) क
मि, यमयति यामयति । परिवेषणं अन्नादेर-
र्पणम् । वेष्टनमित्येके । विषत्यव्याप्तावित्यस्य
रूपमिति रमानाथः । केचित्तु परिवेषण एवायं
मानुबन्धः । यमयत्यन्नं द्बिजाय गृही । अन्यत्र
नियामयति संयामयति इत्याहुः । अन्ये तु
अपरिवेषण एवायं मानुबन्धः । ‘नियमयति
[Page4-018-b+ 52]
विमार्गप्रस्थितानान्तु दण्डम् ।’ इति शाकुन्तले ।
परिवेषणे तु यामयत्यन्नं द्विजाय गृही इत्याहुः ।
तेन उभयस्य प्रामाणिकत्वादुभयत्र विकल्प-
ज्ञापनार्थञ्चानुबन्धः कृतः । इति दुर्गादासः ॥


Match 1010: vcp=यस, skd=यस

vcp

k1=यस, L=38944
यस¦ यत्ने दिवा० पक्षे भ्वा० वा श्यन् पर० अक० सेट् । यस्यति
यसति संयस्यति संयसति अनुयस्यति । इरित् अयसत्
अयासीत् अयसीत् । अय पुषादिरित्यन्ये उदित् क्त्वा
वेट् । यसित्वा यस्त्वा यस्तः ।


skd

k1=यस, L=28512
यस¦, इर् य उ यतने । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।) इर्,
अयसत् अयासीत् अयसीत् । अस्मात् पुषा-
दित्वान्नित्यं ङ इत्यन्ये । य, प्रयस्यति । क्रम
क्लम इत्यादिना केवलात् संपूर्ब्बाच्च अस्मात्
श्यन् विकल्पात् यसति यस्यति संयस्यति
संयसति । उ, यसित्वा यस्त्वा । यतनं यत्नः ।
इति दुर्गादासः ॥


Match 1011: vcp=या, skd=या

vcp

k1=या, L=38946
या¦ गतौ अदा० पर० सक० अनिट् । याति अयासीत् ययौ


skd

k1=या, L=28515
या¦, ल गतौ । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-सक०-अनिट् ।) ल, याति । इति दुर्गा-
दासः ॥


Match 1012: vcp=याच, skd=याच

vcp

k1=याच, L=38948
याच¦ याचने भ्वा० उभ० द्विक० सेट् । याचति ते अयाचीत्
अयाचिष्ट । ऋदित् चङि न ह्रस्वः । द्वित् अथु याच-
थुः । द्वित् याचित्रम् । गोणेऽस्य कर्मणि सकारादयः ।


skd

k1=याच, L=28517
याच¦, टु डु ऋ ञ याचने । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-द्विक०-सेट् ।) याचनमात्मने
दानार्थं प्रेरणम् । टु, याचथुः । डु, याचि-
त्रिमम् । ऋ, अययाचत् । ञ, याचति याचते
नृपं विप्रः । ग्रहणार्थं प्रेरणेऽपि याचति वित्तं
गुरवे शिष्यः । इति दुर्गादासः ॥


Match 1013: vcp=यु, skd=यु

vcp

k1=यु, L=39011
यु¦ मिश्रणे अमिश्रणे च अदा० पर० सक० सेट् । यौति अयावीत् ।


k1=यु, L=39012
यु¦ बन्धे क्र्या० उभ० सक० अनिट् । युनाति युनीते अयौषीत्
अयोष्ट ।


skd

k1=यु, L=28614
यु¦, ङ क निन्दने । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) ङ क, यावयते । इति
दुर्गादासः ॥ (“यावयते बाला वृद्धम् ।” इति
मनोरमा ॥)


k1=यु, L=28615
यु¦, ञ ग बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०-उभ०-
सक०-सेट् ।) ञ ग, युनाति यो वयस्थोऽपि
न वेश्यावन्धकीजनैरिति हलायुधः । इति
दुर्गादासः ॥


k1=यु, L=28616
यु¦, ल मिश्रणे । अमिश्रणे । इति कविकल्पद्रुमः ॥
(अदा०-पर०-अक०-सेट् ।) ल, यौति ।
मिश्रणे यथा, --
“यौति काले कुलस्त्रीभिः क्षत्त्रसन्तानवृद्धये ॥”
इति हलायुधः ॥
अमिश्रणे समवायलक्षणे । अयुतसिद्धानामिति
मिलितसिंद्धानामित्यर्थः । इति दुर्गादासः ॥


Match 1014: vcp=युग, skd=युग

vcp

k1=युग, L=39017
युग¦ वर्जने भ्वा० पर० सक० सेट् इदित् । युङ्गति अयुङ्गीत् ।


skd

k1=युग, L=28625
युग¦, इ वर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) अन्तःस्थादिः । इ, युङ्ग्यते ।
इति दुर्गादासः ॥


Match 1015: vcp=युच्छ, skd=युच्छ

vcp

k1=युच्छ, L=39031
युच्छ¦ प्रमादे भ्वा० पर० सक० सेट् । युच्छति अयुच्छीत् ।


skd

k1=युच्छ, L=28652
युच्छ¦, प्रमादे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) अन्तःस्थाद्यादिः पञ्चम-
स्वरी । प्रमादोऽनवधानता । युच्छति पापे
साधुः । ओष्ठ्यवर्गाद्यादिरिति रमानाथः ।
पचादित्वादनि पुच्छो लाङ्गूलम् । ओष्ठ्यवर्ग-
शेषादिरिति त्रिलोचनः । मुच्छति । इति
दुर्गादासः ॥


Match 1016: vcp=युज, skd=युज

vcp

k1=युज, L=39032
युज¦ युतौ रु० उ० सक० अनिट् । युनक्ति युङ्क्ते इरित्
अयुजत् अयौक्षीत् अयुक्त युयोज युयुजे ।
अजन्तोपसर्गात् उदश्च परस्मात् आत्म० ।
अनु + प्रश्ने सक० आ० । अनुयुङ्क्ते अनुयोगः ।
अभि + व्यवहारेणास्कन्दने (नालिशकरा) सक० आत्म० अभि-
युङ्क्ते अभियोगः ।
उद् + आयोजने सक० उद्यमे अक० उद्युङ्क्ते उद्योगः ।
उप + भोजने सक० सम्बन्धभेदे अक० आत्म० उपयुङ्क्ते
उपयोगः ।
नि + प्रेरणे सक० आत्म० नियुङ्क्ते । नियोगः ।
परि + अनु + दूषणाय प्रश्ने आत्म० सक० । पर्य्यनुयुङ्क्ते पर्य्यनुयोगः ।
प्र + उच्चारणे व्यवहारभेदे च सक० आत्म० प्रयुङ्क्ते प्रयोगः
प्रति + प्रतिरूपे योगे सक० आ० प्रतियुङ्क्ते प्रतियोगः ।
सम् + संयोगे सक० प० संयुनक्ति संयोगः ।


k1=युज, L=39033
युज¦ निन्दायां चु० आ० सक० सेट् । योजयते अयूयुजत ।


k1=युज, L=39034
युज¦ समाधौ दि० आत्म० अनिट् । युज्यते । युयुजे ।


k1=युज, L=39035
युज¦ बन्धने युतौ च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
योजयति ते योजति । अयूयुजत् त । अयोजीत् ।


skd

k1=युज, L=28653
युज¦, इर् ध ञ औ युतौ । इति कविकल्पद्रुमः ॥
(रुधा०-उभ०-सक०-अनिट् ।) इर्, अयुजत्
अयौक्षीत् । ध, युनक्ति युङ्क्ते घृतेनान्नं लोकः ।
औ, योक्ता । इति दुर्गादासः ॥


k1=युज, L=28654
युज¦, कि संयमे । युतौ । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) अन्तः-
स्थाद्यादिः । कि, योजयति योजति । संयमो
बन्धनम् । इति दुर्गादासः ॥


k1=युज, L=28655
युज¦, ङ क निन्दे । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) ङ क, योजयते । इति
दुर्गादासः ॥


k1=युज, L=28656
युज¦, य औ ङ समाधौ । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-अक०-अनिट् ।) समाधि-
र्योग्यभावः । य ङ, स्वयमर्थे नियुज्यते । इति
हलायुधः । औ, योक्ता । इति दुर्गादासः ॥


Match 1017: vcp=युत, skd=युत

vcp

k1=युत, L=39038
युत¦ दीप्तौ भ्वा० आ० अक० सेट् । योतते । अयोतिष्ट । ऋ-
दित् चङि न ह्रस्वः ।


skd

k1=युत, L=28662
युत¦, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ऋ, अयुयोतत् । ङ,
योतते । इति दुर्गादासः ॥


Match 1018: vcp=युध, skd=युध

vcp

k1=युध, L=39043
युध¦ युद्धे दिवा० आ० सक० अनिट् । युध्यते अयुद्ध युयुधे ।


skd

k1=युध, L=28670
युध¦, य औ ङ युद्धे । इति कविकल्पद्रुमः ॥ (दिवा०-
आत्म०-अक०-हनने सक०-अनिट् ।) य ङ,
युध्यते । औ, योद्धा । संमुखस्थितयोर्द्वयोः
सांग्रामिकरीत्या परस्पराभिभवेच्छा युद्धम् ।
युध्यते योधः कदाचिदेकस्य सह भावविव-
क्षायां युध्यते योधः परेण । कदाचिद्धननेऽपि
युध्यते चौरं राजा हन्तीत्यर्थः । यो भक्त-
पिण्डस्य कृते न युध्येदिति अस्माद्भावे क्विपि
तमिच्छतीति क्ये तं करोतीति कण्ड्वादित्वात्
क्ये वा साध्यम् । इति दुर्गादासः ॥


Match 1019: vcp=युप, skd=युप

vcp

k1=युप, L=39048
युप¦ विमोहे दिवा० पर० अक० सेट् । युप्यति इरित् अयुपत् अयोपीत् ।


skd

k1=युप, L=28676
युप¦, य इर् विमोहे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) विमोह आकुली-
करणम् । य, युप्यति । इर्, अयुपत् अयोपीत् ।
पुषादित्वात् ङ इत्यन्ये । इति दुर्गादासः ॥


Match 1020: vcp=युष, skd=युष

vcp

k1=युष, L=39057
युष¦ भजने सौ० पर० सक० सेट् । योषयति अयोषीत् । योषा युष्मद्


skd

k1=युष, L=28690
युष¦, भजने । इति कविकल्पद्रुमः ॥ सौत्रधातु-
रयम् । (पर०-सक०-सेट् ।) योषित् युष्मद् ।
इति दुर्गादासः ॥


Match 1021: vcp=यूष, skd=यूष

vcp

k1=यूष, L=39068
यूष¦ बधे भ्वा० पर० सक० सेट् । यूषति अयूषीत् युयूषा ।


skd

k1=यूष, L=28713
यूष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-
सेट् ।) षष्ठस्वरी । यूषति । इति दुर्गादासः ॥


Match 1022: vcp=येष, skd=येष

vcp

k1=येष, L=39070
येष¦ यत्ने भ्वा० आ० अक० सेट् । येषते अयेषिष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=येष, L=28716
येष¦, ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) अन्तःस्थादिः । ऋ,
अयियेषत् । ङ, येषते यियेषे । इति दुर्गा-
दासः ॥


Match 1023: vcp=यौट, skd=यौट

vcp

k1=यौट, L=39116
यौट¦ संबन्धे भ्वा० पर० सक० सेट् । बौटति अयौटीत् ।
ऋदित् चङि न ह्रस्वः ।


skd

k1=यौट, L=28787
यौट¦, ऋ सम्बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अयु-
यौटत् । यौटति काष्ठं तक्षा । इति दुर्गादासः ॥


Match 1024: vcp=यौड, skd=यौड

vcp

k1=यौड, L=39117
यौड¦ यौटवत् सर्वम् । यौडति अयौडीत् ऋदित् ।


skd

k1=यौड, L=28788
यौड¦, ऋ सम्बन्धे । इति कविकल्पद्रुमः । (भ्वा०-
पर०-सक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अयु-
यौडत् । यौडति काष्ठं तक्षा । इति दुर्गादासः ॥


Match 1025: vcp=रंह, skd=रंह

vcp

k1=रंह, L=39131
रंह¦ गतौ अद० चु० उभ० सक० सेट् । रंहयति ते अर-
रंहत् त ।


skd

k1=रंह, L=29338
रंह¦, त् क गतौ । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) रंहयति रंहा-
पयति । इति दुर्गादासः ॥


Match 1026: vcp=रक, skd=रक

vcp

k1=रक, L=39133
रक¦ स्वादे प्राप्तौ च चु० उभ० सक० सेट् । राकयति--ते अरीरकत् त


skd

k1=रक, L=28807
रक¦, क स्वादे । आपने । इति कविकल्पद्रुमः ॥
स्वादो रसोपादनम् । क, राकयति मोदकं
बालकः । इति दुर्गादासः ॥


Match 1027: vcp=रक्ष, skd=रक्ष

vcp

k1=रक्ष, L=39217
रक्ष¦ पालने भ्वा० पर० सक० सेट् । रक्षति अरक्षीत् ररक्ष ।
ञीत् रक्षितो वर्त्तते ।


skd

k1=रक्ष, L=28947
रक्ष¦, ञि पालने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ञि, रक्षितोऽस्ति । इति
दुर्गादासः ॥


Match 1028: vcp=रख, skd=रख

vcp

k1=रख, L=39229
रख¦ सर्पणे भ्वा० पर० सक० सेट् इदित् । रङ्कति अरङ्खीत् रङ्ख्यते ।


k1=रख, L=39230
रख¦ सर्पणे भ्वा० पर० शक० सेट् । रखति अरखीत्
अरास्वीत् ।


skd

k1=रख, L=28966
रख¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रखति । इति दुर्गादासः ॥


k1=रख, L=28967
रख¦, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, रङ्ख्यते । इति दुर्गादासः ॥


Match 1029: vcp=रग, skd=रग

vcp

k1=रग, L=39231
रग¦ शङ्कायाम् भ्वा० प० सक० सेट् । रगति एदित् अरगीत् घटा० रगयति ।


k1=रग, L=39232
रग¦ गतौ भ्वा० पर० सक० सेट् इदित् । रङ्गति अरङ्गीत् ।


k1=रग, L=39233
रग¦ स्वादे आप्तौ च चु० उभ० सक० सेट् । रागयति
अरीरगत् त ।


skd

k1=रग, L=28968
रग¦, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, रङ्ग्यते । इति दुर्गादासः ॥


k1=रग, L=28969
रग¦, क स्वाद आपने । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-अक० च-सेट् ।) क,
रागयति । इति दुर्गादासः ॥


k1=रग, L=28970
रग¦, म ए शङ्के । इति कविकल्पद्रुमः ॥ (भ्वा०
पर०-अक०-सेट् ।) म, रगयति । ए, अरगीत् ।
शङ्कः शङ्का । रगति रोगी कुपथ्येभ्यः । इति
दुर्गादासः ॥


Match 1030: vcp=रघ, skd=रघ

vcp

k1=रघ, L=39234
रघ¦ दीप्तौ चु० उभ० सक० सेट् इदित् । रङ्घयति ते अररङ्घत् त ।


k1=रघ, L=39235
रघ¦ गतौ भ्वा० आ० सक० सेट् इदित् । रङ्घते अरङ्घिष्ट ।


skd

k1=रघ, L=28971
रघ¦, इ क भासि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इ क, रङ्घयति । भासि
दीप्तौ । इति दुर्गादासः ॥


k1=रघ, L=28972
रघ¦, इ ङ गमने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) इ, रङ्क्ष्यते । ङ, रङ्घते ।
इति दुर्गादासः ॥


Match 1031: vcp=रच, skd=रच

vcp

k1=रच, L=39262
रच¦ रचनायां अद० चु० उभ० सक० सेट् । रचयति ते अररचत् त ।


skd

k1=रच, L=29011
रच¦, त् क कृत्याम् । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-पर०-सक०-सेट् ।) रचयति ।
इति दुर्गादासः ॥


Match 1032: vcp=रट, skd=रट

vcp

k1=रट, L=39284
रट¦ भाषणे भ्वा० पर० सक० सेट् । रटति अराटीत् अरटीत्
रेटतुः “माघे मासि रटन्त्यापः” मल० त० ।


skd

k1=रट, L=29052
रट¦, वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रटति । इति दुर्गादासः ॥


Match 1033: vcp=रठ, skd=रठ

vcp

k1=रठ, L=39286
रठ¦ भाषणे भ्वा० पर० सक० सेट् । रठति अराणीत् अरठीत् रेठतुः ।


skd

k1=रठ, L=29055
रठ¦, भाषणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) भाषणं कथनम् । रठति । इति
दुर्गादासः ॥


Match 1034: vcp=रण, skd=रण

vcp

k1=रण, L=39287
रण¦ गतौ भ्वा० पर० सक० सेट् । रणति अराणीत् अरणीत्
रेणतुः । घटादि० । रणयति ।


k1=रण, L=39288
रण¦ रवे भ्वा० पर० अक० सेट् । रणति अराणीत् अरणीत् रेणतुः ।


skd

k1=रण, L=29056
रण¦, रुति । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) रणति । रुति शब्दे । इति
दुर्गादासः ॥


k1=रण, L=29057
रण¦, म गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) म, रणयति । इति दुर्गा-
दासः ॥


Match 1035: vcp=रद, skd=रद

vcp

k1=रद, L=39339
रद¦ उत्खाते भ्वा० प० सक० सेट् । रदति अरादीत् अरदीत् रेदतुः ।


skd

k1=रद, L=29163
रद¦, उत्खाते । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) रेफादिः । उत्खातमुत्-
खननमिति गोविन्दभट्टः । रदति भूमिं शूकरः ।
इति दुर्गादासः ॥


Match 1036: vcp=रध, skd=रध

vcp

k1=रध, L=39343
रध¦ हिंसने पाके च दि० पर० सक० । रध्यति ऌदित् अरन्धत् ऊदित् वेट् रधिता रद्धा ।


skd

k1=रध, L=29170
रध¦, य ऊ ऌ हिंसने । पाके । इति कविकल्पद्रुमः ॥
(दिघा०-पर०-सक०-वेट् ।) य, रध्यति । ऊ,
रधिष्यति रत्स्यति । ऌ, अरन्धत् । इति दुर्गा-
दासः ॥


Match 1037: vcp=रन्ज, skd=रन्ज

vcp

k1=रन्ज, L=39344
रन्ज¦ रागे (वर्णान्तराधाने) सक० आसक्तौ अक० भ्वा० उभ०
अनिट् । रजति ते अराङ्क्षीत् अरङ्क्त । घटा० रञ्जयति
मृगरमणे तु रजयति ।


k1=रन्ज, L=39345
रन्ज¦ रागे आसक्तौ दिवा० उभ० सक० अनिट् । रज्यति
रज्यते अराङ्क्षीत् अरङ्क्त । घटा० रञ्जयति रजयति ।


skd

k1=रन्ज, L=29171
रन्ज¦, म औ ञ रागे । इति कविकल्पद्रुमः ॥
(भ्वा०-दिवा० च-उभ०-
वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।)
य ञ, रज्यति रज्यते । म, रजयति मृगान्
मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ,
रङ्क्ता । ञ, रजति रजते । रागो वर्णा-
न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥


k1=रन्ज, L=29172
रन्ज¦, य म औ ञ रागे । इति कविकल्पद्रुमः ॥
(भ्वा०-दिवा० च-उभ०-
वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।)
य ञ, रज्यति रज्यते । म, रजयति मृगान्
मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ,
रङ्क्ता । ञ, रजति रजते । रागो वर्णा-
न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥


Match 1038: vcp=रप, skd=रप

vcp

k1=रप, L=39353
रप¦ व्यक्तवाक्ये भ्वा० प० सक० सेट् । रपति अरापीत् अरपीत् रराप रेपतुः ।


skd

k1=रप, L=29181
रप¦, वदे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रपति । वदः कथनम् । इति
दुर्गादासः ॥


Match 1039: vcp=रफ, skd=रफ

vcp

k1=रफ, L=39354
रफ¦ गतौ हिंसे च भ्वा० प० सक० सेट् । रफति । अरफीत्-
अराफीत् । इदिदप्ययम् । रम्फति अरम्फीत् रम्फ्यते ।


skd

k1=रफ, L=29182
रफ¦, गत्याम् । वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) रफति । इति दुर्गादासः ॥


k1=रफ, L=29183
रफ¦, इ गत्याम् । वधे । इति कविकल्पद्रुमः ॥
आत्मा०-पर०-सक०-सेट् ।) इ, रम्फ्यते । इति
दुर्गादासः ।


Match 1040: vcp=रब, skd=रब

vcp

k1=रब, L=39355
रब¦ गतौ सक० प० शब्दे अक० आ० भ्वा० सेट् इदित् ।
रम्बति ते अरम्बीत् अरम्बिष्ट ।


skd

k1=रब, L=29184
रब¦, इ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, रम्ब्यते । इति दुर्गा-
दासः ॥


k1=रब, L=29185
रब¦, इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ॥)


Match 1041: vcp=रभ, skd=रभ

vcp

k1=रभ, L=39356
रभ¦ औत्सुक्ये भ्वा० आ० अक० अनिट् । रभते अरब्ध रेभे
आ + आरम्भे सक० । अलिट्यजादौ आर्द्धधातुके मुम् ।
आरम्भः आरम्भणम् । लिटि तु आरेभे ।


k1=रभ, L=39357
रभ¦ शब्दे भ्वा० आ० अक० सेट् इदित् । रम्भते अरम्भिष्ट ।


skd

k1=रभ, L=29187
रभ¦, इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) इ, रम्भ्यते । ङ, रम्भते ।
इति दुर्गादासः ॥


k1=रभ, L=29188
रभ¦, औ ङ राभस्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-अनिट् । राभस्यमुत्सुकीभावः ।
निर्व्विचारा प्रवृत्तिरिति गोविन्दभट्टः । औ,
रब्धा । ङ, रभते साधुः पुण्ये । आङ्पूर्व्वोऽय-
मारम्भे । शास्त्रं पठितुमारभते शिष्यः । इति
दुर्गादासः ॥


Match 1042: vcp=रम, skd=रम

vcp

k1=रम, L=39359
रम¦ क्रीडायां भ्वा० आ० अक० अनिट् । रमते विरमति
उपरमति अरंस्त उपारंसीत् । क्त्वा वेट् । णिचि
रमयति । ज्वला० ण रमः रामः ।


skd

k1=रम, L=29190
रम¦, उ ङ ज औ क्रीडे । इति कविकल्प-
द्रुमः ॥ (भ्वा०-आत्म०-अक०-अनिट् । क्त्वावेट् ।)
रेफादिः । उ, रमित्वा । रन्त्वा । ङ, रमते ।
ज, रामः रमः । औ, रन्ता । इति दुर्गादासः ॥


Match 1043: vcp=रय, skd=रय

vcp

k1=रय, L=39375
रय¦ गतौ भ्वा० आ० सक० सेट् । रयते अरयिष्ट । अरयिढ्वम् अरयिध्वम् ।


skd

k1=रय, L=29223
रय¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
सक०-सेट् ।) ङ, रयते । इति दुर्गादासः ॥


Match 1044: vcp=रव, skd=रव

vcp

k1=रव, L=39380
रव¦ गतौ भ्वा० आ० सक० सेट् इदित् । रण्वते अरण्विष्ट ।


skd

k1=रव, L=29227
रव¦, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, रण्व्यते । इति दुर्गा-
दासः ॥


Match 1045: vcp=रश, skd=रश

vcp

k1=रश, L=39390
रश¦ स्वने सौ० पर० अक० सेट् । रशति अराशीत् अरशीत्


skd

k1=रश, L=29249
रश¦, स्वने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) रेफादिस्तालव्यान्तः । रशना ।
इति दुर्गादासः ॥ सौत्रधातुरयम् ॥


Match 1046: vcp=रस, skd=रस

vcp

k1=रस, L=39393
रस¦ स्वने भ्वा० प० अक० सेट् । रसति अरासीत् अरसीत् ।
ररास रेसतुः ।


k1=रस, L=39394
रस¦ आस्वादे अ० चु० उ० सक० सेट् । रसयति ते अररसत् त


skd

k1=रस, L=29253
रस¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) रसति । इति दुर्गादासः ॥


k1=रस, L=29254
रस¦, त् क आस्वादे । स्नेहे । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) दन्त्योपधः ।
रसयति मधु द्विरेफः । इति दुर्गादासः ॥


Match 1047: vcp=रह, skd=रह

vcp

k1=रह, L=39447
रह¦ गतौ भ्वा० पर० सक० सेट् इदित् । रंहति अरंहीत्
“तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः” शारीरकसूत्रम्


k1=रह, L=39448
रह¦ त्यागे भ्वा० प० सक० सेट् । रहति अरहीत् ।


k1=रह, L=39449
रह¦ त्यागे अद० चु० उभ० सक० सेट् । रहयति ते अररहत्--त


skd

k1=रह, L=29340
रह¦, त्यजि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रहति सुखं दीनः । इति दुर्गा-
दासः ॥


k1=रह, L=29341
रह¦, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) इ, रंह्यते । इति दुर्गा-
दासः ॥


k1=रह, L=29342
रह¦, त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) रहयति शोकं
धीरः । इति दुर्गादासः ॥


Match 1048: vcp=रा, skd=रा

vcp

k1=रा, L=39453
रा¦ दाने ग्रहणे च अदा० पर० सक० अनिट् । राति अरासीत् ।


skd

k1=रा, L=29348
रा¦, ल दाने । ग्रहणे । इति कविकल्पद्रुमः ॥
(अदा०-पर०-सक०-अनिट् ।) ल, राति ।
इति दुर्गादासः ॥


Match 1049: vcp=राख, skd=राख

vcp

k1=राख, L=39459
राख¦ शोषणे भूषणे निवारणे च सक० सामर्थ्ये अक० भ्वा०
पर० सेट् । राखति अराखीत् । ऋदित् चङि न
ह्रस्वः ।


skd

k1=राख, L=29356
राख¦, ऋ शोषालमर्थयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सक० च-सेट् ।) शोषः
स्नेहरहितीभावः । अलमर्थो भूषणं सामर्थ्यं
निवारणञ्च । ऋ, अरराखत् । इति दुर्गा-
दासः ॥


Match 1050: vcp=राघ, skd=राघ

vcp

k1=राघ, L=39469
राघ¦ शक्तौ भ्वा० आ० अक० सेट् । राघते अराघिष्ट ।
ऋदित् चङि न ह्रस्वः ।


skd

k1=राघ, L=29377
राघ¦, ऋ ङ शक्तौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) ऋ, अरराघत् ।
ङ, राघते । शक्तिः सामर्थ्यम् । इति दुर्गा-
दासः ॥


Match 1051: vcp=राज, skd=राज

vcp

k1=राज, L=39472
राज¦ दीप्तौ भ्वा० उभ० अक० सेट् । राजति ते--अराजीत्
अराजिष्ट फणादि० रेजतुः रराजतुः । ऋदित् चङि
न ह्रस्वः ।


skd

k1=राज, L=29383
राज¦, ऋ ञ ण दीप्तौ । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-अक०-सेट् ।) ऋ, अरराजत् ।
ञ, राजति राजते । ण, रेजतुः । इति दुर्गा-
दासः ॥


Match 1052: vcp=राध, skd=राध

vcp

k1=राध, L=39581
राध¦ सिद्धौ अक० निष्पादने पाके च सक० स्वादि० दिवा०
च पर० अनिट् । राध्नोति राध्यति अरात्सीत् अराद्ध
रेधतुः रराधतुः । शुभाशुभालोचने च । तद्योगे शुभा-
शुभस्वामिनः सम्प्रदानता । “गर्गो राध्यति रामाय”
वोपदेवः । अप + दोषकरणे “यन्मह्यमपराध्यति” मघः ।


skd

k1=राध, L=29554
राध¦, न औ य सिद्धौ । इति कविकल्पद्रुमः ॥
(स्वा०-दिवा०-च-पर०-स्वादिपक्षे सक०-दिवा-
दिपक्षे अक०-अनिट् ।) रेफादिः । न,
राध्नोति । य, राध्यति । औ, अरात्सीत् ।
सिद्धिरिह स्वादिपक्षे निष्पादना । दिवादिपक्षे
निष्पत्तिः । अन्नं राध्नोति विप्राणां य इति
हलायुधः । निष्पादयतीत्यर्थः । सततं राध्यति
श्रिये इति हलायुधः । निष्पन्नी स्यादित्यर्थः ।
सिद्धिरन्तर्भूतञ्यर्थत्वादुभयत्रैव निष्पादनेति
गोविन्दभट्टः । इति दुर्गादासः ॥ (शुभाशुभ-
पर्य्यालोचने च । यथा, मुग्धबोधे । “गर्गो
राध्यति रामाय ।” रामस्य शुभाशुभं पर्य्या-
लोचयतीत्यर्थः ॥)


Match 1053: vcp=राश, skd=राश

vcp

k1=राश, L=39621
राश¦ शब्दे भ्वा० आ० अक० सेट् । राशते अराशिष्ट ऋदित् चङि न ह्रस्वः ।


skd

k1=राश, L=29609
राश¦, ऋ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) दन्त्यान्तोऽयमिति गद-
सिंहः । रासभः स्वरः । दुर्गसिंहन्तु इमं
तालव्यान्तं मत्वा उणादौ ह्नस्वं कृत्वा रश्मि-
शब्दं व्युत्पादितवान् । ऋ, अरराशत् । ङ,
राशते । इति दुर्गादासः ॥


Match 1054: vcp=रास, skd=रास

vcp

k1=रास, L=39629
रास¦ शब्दे भ्वा० आ० अक० सेट् । रासते अरासिश्च ऋदित्
चङि न ह्रस्वः । राममः । अयं तालव्यान्त इत्यन्ये ।


skd

k1=रास, L=29618
रास¦, ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) दन्त्यान्तोऽयमिति गद-
सिंहः । रासभः खरः । दुर्गसिंहस्त्विमं ताल-
व्यान्तं मत्वा उणादौ ह्नस्वं कृत्वा रश्मिशब्दं
व्युत्पादितवान् । ऋ, अररासत् । ङ, रासते ।
इति दुर्गादासः ॥


Match 1055: vcp=रि, skd=रि

vcp

k1=रि, L=39647
रि¦ गतौ तु० पर सक० अनिट् । रियति अरैषीत् रिराय ।


skd

k1=रि, L=29642
रि¦, श गतौ । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) रेफादिः । श, रियति ।
इति दुर्गादासः ॥


Match 1056: vcp=रिख, skd=रिख

vcp

k1=रिख, L=39655
रिख¦ सर्पणे भ्वा० पर० अक० सेट् इदित् । रिङ्खति अरि-
ङ्खीत् । अनिदिदप्ययमित्येके रेखति अरेखीत् ।


skd

k1=रिख, L=29651
रिख¦, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, रिङ्ख्यते । इति दुर्गादासः ॥


Match 1057: vcp=रिग, skd=रिग

vcp

k1=रिग, L=39656
रिग¦ गतौ भ्वा० पर० सक० सेट् इदित् । रिङ्गति अरिङ्गीत् ।


skd

k1=रिग, L=29652
रिग¦, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, रिङ्ग्यते । इति दुर्गादासः ॥


Match 1058: vcp=रिच, skd=रिच

vcp

k1=रिच, L=39658
रिच¦ सम्पर्के वियोगे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
रेचयति ते रेचति । अरोरिचत् त अरेचीत् ।


k1=रिच, L=39659
रिच¦ विरेके (अतिशय पुरीषोत्सर्गे) रुघा० उम० सक० अनिट् ।
रिणक्ति रिङ्क्ते इरित् अरिचत् अरैक्षीत् अरिक्त ।
अति + अतिक्रम्य स्थिते आधिक्येन स्थितौ अक० । अतिरेकः
वि + अति भेदे तदसत्त्वे तदसत्त्वरूपे पदार्थे च व्यतिरेकः ।


skd

k1=रिच, L=29655
रिच¦, कि सम्पर्कवियोगयोः । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-पर०-अक०-सेट् ।) कि-
रेचयति रेचति । रिङ्क्ते रिपुर्यदाक्रान्तो धनैर्म-
न्त्रैश्च रेचति । रेचयन्ति च तन्नार्य्य इति
हलायुधः । इति दुर्गादासः ॥


k1=रिच, L=29656
रिच¦, इर् ध ञ औ विरेके । इति कविकल्पद्रुमः ॥
(रुधा०-उभ०-अक०-अनिट् ।) विरेकः पौनः-
पुन्येन पुरीषोत्सर्गः । इति चतुर्भुजः । इर्,
अरिचत् अरैक्षीत् । घ, ञ, रिणक्ति रिङ्क्ते
अतिसारकी । औ, रेक्ता । इति दुर्गादासः ॥


Match 1059: vcp=रिज, skd=रिज

vcp

k1=रिज, L=39660
रिज¦ भर्जने भ्वा० आ० सक० सेट् । रेजते अरेजिष्ट ।


skd

k1=रिज, L=29657
रिज¦, ङ ऋज्यर्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋज्यर्थे भर्जने । ङ,
रेजते । इति दुर्गादासः ॥


Match 1060: vcp=रिन्फ, skd=रिन्फ

vcp

k1=रिन्फ, L=39664
रिन्फ¦ बधे तु० प० सक० सेट् । रिम्फति अरिम्फीत् रिम्फत


skd

k1=रिन्फ, L=29661
रिन्फ¦, प श वधे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) नोपधः । प श, रिम्फति
रिरिम्फ । सप्तमस्वरादिरयमित्यन्ये । इति
दुर्गादासः ॥


Match 1061: vcp=रिफ, skd=रिफ

vcp

k1=रिफ, L=39666
रिफ¦ कुत्सने सौ० पर० सक० सेट् । रेफति अरेफीत् ।


k1=रिफ, L=39667
रिफ¦ सिंसायां निन्दायां बोधने च सक० श्लाचायाम् अक०
तु० पर० सेट् । रिफति अरेफीत् ।


skd

k1=रिफ, L=29665
रिफ¦, कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सौत्रधातुरयम् । रिप्फः रेफः ।
इति दुर्गादासः ॥


k1=रिफ, L=29666
रिफ¦, श अर्फे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) श, रिफति । अर्फो
दानश्लाघाहिंसानिन्दायुद्धानि । इति दुर्गा-
दासः ॥


Match 1062: vcp=रिब, skd=रिब

vcp

k1=रिब, L=39668
रिब¦ गत्यां भ्वा० पर० सक० सेट् इदित् । रिम्बति अरिम्बीत् ।


skd

k1=रिब, L=29667
रिब¦, इ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, रिम्ब्यते । इति दुर्गा-
दासः ॥


Match 1063: vcp=रिभ, skd=रिभ

vcp

k1=रिभ, L=39669
रिभ¦ रवे भ्वा० पर० सक० सेट् । रेभति अरेभीत् ।


skd

k1=रिभ, L=29668
रिभ¦, रवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) विरिब्धः । इति दुर्गादासः ॥


Match 1064: vcp=रिव, skd=रिव

vcp

k1=रिव, L=39670
रिव¦ गतौ भ्वा० पर० सक० सेट् इदित् । रिण्वति अरिण्वीत् ।


skd

k1=रिव, L=29671
रिव¦, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, रिण्व्यते । व्रजो गतिः । इति
दुर्गादासः ॥


Match 1065: vcp=रिश, skd=रिश

vcp

k1=रिश, L=39671
रिश¦ हिसायां तु० पर० सक० अनिट् । रिशति अरिक्षत् ।


skd

k1=रिश, L=29672
रिश¦, औ श हिंसे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-अनिट् ।) औ, अरिक्षत् । श,
रिशति । रेक्ष्यति । इति दुर्गादासः ॥


Match 1066: vcp=रिष, skd=रिष

vcp

k1=रिष, L=39673
रिष¦ बधे भ्रा० पर० सक० सेट् । रेषति अरेषीत् । रिरेष ।


skd

k1=रिष, L=29674
रिष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रेषति । इति दुर्गादासः ॥


Match 1067: vcp=रिह, skd=रिह

vcp

k1=रिह, L=39676
रिह¦ बधे भ्वा० पर० सक० सेट् । रेहति अरेहीत् ।


skd

k1=रिह, L=29683
रिह¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रेहति । इति दुर्गादासः ॥


Match 1068: vcp=री, skd=री

vcp

k1=री, L=39677
री¦ क्षरणे दि० आ० अक० अनिट् । रीयते अरेष्ट ओदित्
निष्ठातस्य नः । रीणः ।


k1=री, L=39678
री¦ गतौ बधे च सक० रवे अक० क्य्रा० प्वा० अनिट् । रिणाति अरैषीत् ।


skd

k1=री, L=29684
री¦, ओ ङ य क्षरणे । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-अक०-अनिट् ।) ओ, रीणः ।
ङ य, रीयते पयः । इति दुर्गादासः ॥


k1=री, L=29685
री¦, गि रवे । वधे । गतौ । इति कविकल्पद्रुमः ॥
(क्र्या० प्वा०-पर०-अक०-सक० च-अनिट् ।)
गि, रिणाति रीणः रिणिः । रवः शब्दः । तथा
च कातन्त्रादौ री गतिरेषणयोः । रेषणं वृक-
ध्वनिरिति रमानाथः । रिणाति रेषते वृकः ।
इति शब्दार्थे भट्टमल्लः । इति दुर्गादासः ॥


Match 1069: vcp=रीव, skd=रीव

vcp

k1=रीव, L=39686
रीव¦ ग्रहणे, संवरणे च भ्वा० उभ० सक० सेट् । रीवति ते
अरीवीत् अरीविष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=रीव, L=29697
रीव¦, ऋ ञ चीवे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) ऋ, अरिरीवत् । ञ,
रीवति रीवते । चीवो ग्रहणसंवरणयोः । इति
दुर्गादासः ॥


Match 1070: vcp=रु, skd=रु

vcp

k1=रु, L=39687
रु¦ ध्वनौ अदा० पर० अक० वेट् । रौति--रवीयि अरावीत्--अरौ-
वीत् । लिटि नित्वेट् रुरुरिव ।


k1=रु, L=39688
रु¦ बधे गतौ च भ्वा० आ० सक० अनिट् । रवते अराष्ट । रुरुविषे ।


skd

k1=रु, L=29698
रु¦, ङ वधे । गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, रवते । इति दुर्गा-
दासः ॥


k1=रु, L=29699
रु¦, ल ध्वनौ । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-अक०-सेट् ।) ल, रौति रवीति पक्षी ।
इति दुर्गादासः ॥


Match 1071: vcp=रुच, skd=रुच

vcp

k1=रुच, L=39695
रुच¦ प्रीतौ प्रकाशे च भ्वा० आ० अक० सेट् । रोचते लुङि
उ० अरुचत् अरोष्टिष्ट । एतद्योगे प्रीयमाणस्य सम्प्र-
दानता “नारदाय रोचते कलहः” सि० कौ० ।


skd

k1=रुच, L=29717
रुच¦, ङ ऌ प्रीतिप्रकाशयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) प्रीतिरिह अनु-
रागविशेषः । तत्र यस्यानुरागस्तस्य सम्प्रदान-
त्वम् । ङ, रोचते अन्नं बुभुक्षवे । ऌ, अरुचत् ।
इति दुर्गादासः ॥


Match 1072: vcp=रुज, skd=रुज

vcp

k1=रुज, L=39703
रुज¦ भञ्जने तु० प० सक० अनिट् । रुजति अरौक्षीत् ओदित् निष्ठातस्य नः । रुग्णः ।


k1=रुज, L=39704
रुज¦ हिंसायां चु० उभ० सक० सेट् । रोजयति ते अरूरुजत् त
रोगकर्तृकस्वास्य योगे कर्मणि षष्ठी । रुजयति चौरस्यरोगः


skd

k1=रुज, L=29735
रुज¦, ओ श औ भङ्गे । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-सक०-अनिट् ।) ओ, रुग्नः । श,
रुजति रोगो हस्तम् । औ, रोक्ता । इति
दुर्गादासः ॥


k1=रुज, L=29736
रुज¦, क हिंसे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, रोजयति । इति दुर्गा-
दासः ॥


Match 1073: vcp=रुट, skd=रुट

vcp

k1=रुट, L=39707
रुट¦ चौर्व्ये भ्वा० पर० सक० सेट् इदित् । रुण्टति अरुण्टीत् ।


k1=रुट, L=39708
रुट¦ रोधे सक० दीप्तौ अक० चु० उभ० सेट् । रोटयति ते
अरूरुटत् त ।


k1=रुट, L=39709
रुट¦ दीप्तौ अक० प्रतिघाते सक० च भ्वा० आ० सेट् । रोटत
ऌदित् लुङि उभ० अरुटत् अरोटिष्ट रुरुटे ।


skd

k1=रुट, L=29741
रुट¦, इ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) पञ्चमस्वरी । इ, रुण्ट्यते धनं
चौरेण । इति दुर्गादासः ॥


k1=रुट, L=29742
रुट¦, ऌ ङ दीप्तिप्रतिहत्योः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-अक० च-सेट् ।) ऌ,
अरुटत् । ङ, रोटते । प्रतिहतिः शोकादिना
पातनं पुनर्हननं वा । इति दुर्गादासः ॥


k1=रुट, L=29743
रुट¦, क रुषि । द्युतौ । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-अक०-सेट् ।) क, रोटयति ॥
इति दुर्गादासः ॥


Match 1074: vcp=रुठ, skd=रुठ

vcp

k1=रुठ, L=39710
रुठ¦ उपवाते भ्वा० पर० सक० सेट् । रोठति अरोठीत् ।


k1=रुठ, L=39711
रुठ¦ प्रतीधाते भ्वा० आ० सक० सेट् । रोठते ऌदित् लुङि
उभ० अरुठत् अरोठिष्ट रुरुठे ।


k1=रुठ, L=39712
रुठ¦ गतौ चौर्य्ये सक० मन्दीभावे खञ्जीभावे च अक० भ्वा०
पर० सेट् इदित् । रुण्ठति अरुण्ठीत् ।


skd

k1=रुठ, L=29745
रुठ¦, उपघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) रोठति लोकं शोकः ।
इति दुर्गादासः ॥


k1=रुठ, L=29746
रुठ¦, इ गत्यालस्यस्तेयखोटे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-अक० च सेट् ।) पञ्चमस्वरी ।
इ, रुण्ठ्यते । आलस्यं मन्दीभावः । स्तेयं
चौर्य्यम् । खोटः खोडनम् । इति दुर्गादासः ॥


k1=रुठ, L=29747
रुठ¦, ऌ ङ प्रतीघाते । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऌ, अरुठत् ।
ङ, रोठते । प्रतीघातः शोकादिना पतनं
पुनर्हननं वा । इति दुर्गादासः ॥


Match 1075: vcp=रुद, skd=रुद

vcp

k1=रुद, L=39715
रुद¦ रोदने अश्रुविमोचने अदा० पर० अक० सेट् रुदा० सार्व-
धातुके हलादौ इट् रोदिति इरित् अरुदत् अरोदीत् ।


skd

k1=रुद, L=29753
रुद¦, ल घ इर् रोदे । इति कविकल्पद्रुमः ॥
(अदा०-पर०-अक०-सेट् ।) रोदोऽश्रुविमो-
चनम् । ल घ, रोदिति लोकः शोकात् । इर्,
अरुदत् अरोदीत् । रोदिष्यमाणमात्मानमिति
भट्टौ । आह्वानविशिष्टरोदबक्रियाव्याप्यत्वात्
सकर्म्मकत्वमिति जयमङ्गला । इति दुर्गादासः ॥


Match 1076: vcp=रुध, skd=रुध

vcp

k1=रुध, L=39733
रुध¦ कामे दि० आ० सक० अनिट प्रायेणानुपूर्वः । अनुरुध्यते
अन्वरुद्ध ।


k1=रुध, L=39734
रुध¦ आवरणे रु० उभ० द्वि० अनिट् । रुणद्धि रुन्धे इरित् अरुधत् अरौत्सीत्


skd

k1=रुध, L=29780
रुध¦, इर् ध ञ औ ञि आवृतौ । इति कविकल्प-
द्रुमः ॥ (रुधा०-उभ०-सक०-अनिट् ।) इर्,
अरुधत् अरौत्सीत् । ध ञ, रुणद्धि रुन्धे । औ,
रोद्धा । ञि, रुद्धोऽस्ति । इति दुर्गादासः ॥


k1=रुध, L=29781
रुध¦, य ङ औ कामे । अनुपूर्ब्बोऽयम् । इति कवि-
कल्पद्रुमः ॥ (दिवा०-आत्म०-सक०-अनिट् ।)
य ङ, अनुरुध्यते धनं लोकः । औ, अनुरोद्धा ।
इति दुर्गादासः ॥


Match 1077: vcp=रुप, skd=रुप

vcp

k1=रुप, L=39736
रुप¦ आकुलीकरणे दि० पर सक० सेट् । रुप्यति इरित् अरु-
पत् अरोपीत् ।


skd

k1=रुप, L=29785
रुप¦, य इर् विमोहे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) विमोह आकुली-
करणम् । य, रुप्यत्रि लोकं लोकः । इर्, अरु-
पत् अरोपीत् । अस्मात् पुषादित्वान्नित्यं ङ
इत्यन्ये । इति दुर्गादासः ॥


Match 1078: vcp=रुश, skd=रुश

vcp

k1=रुश, L=39741
रुश¦ हिंसायां तु० पर० सक० अनिट् । रुशति अरुक्षत् ।


skd

k1=रुश, L=29793
रुश¦, औ श हिंसे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-अनिट् ।) औ, अरुक्षत् । श,
रुशति रोक्ष्यति । इति दुर्गादासः ॥


Match 1079: vcp=रुष, skd=रुष

vcp

k1=रुष, L=39742
रुष¦ बधे भ्वा० पर० सक० सट् । रोषति अरोषीत् ।


k1=रुष, L=39743
रुष¦ क्रोधे दि० पर० अक० सेट् । रुष्यति इरित् चरुषत् अरोषीत्


k1=रुष, L=39744
रुष¦ क्रोधे चु० उभ० अक० सेट् । रोषयति ते अरूरुषत् त ।


skd

k1=रुष, L=29794
रुष¦, क क्रुधि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, रोषयति । इति दुर्गा-
दासः ॥


k1=रुष, L=29795
रुष¦, ञि वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) ञि, रुष्टः रुषितोऽस्ति । रुरोष ।
इति दुर्गादासः ॥


k1=रुष, L=29796
रुष¦, य इर् ञि क्रुधि । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् ।) य, रुष्यति भृत्याय
भूपालः । इर्, अरुषत् अरोषीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । ञि, रुष्टः रुषितो-
ऽस्ति । इति दुर्गादासः ॥


Match 1080: vcp=रुह, skd=रुह

vcp

k1=रुह, L=39747
रुह¦ उद्भवे भ्वा० पर० अक० अनिट । रोहति अरुक्षत् । ज्वलारोहः रुहः ।


skd

k1=रुह, L=29800
रुह¦, ञि ज औ जन्याम् । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-अनिट् ।) ञि, रूढोऽस्ति ।
[Page4-173-a+ 52]
ज, रोहः रुहः । औ, अरुक्षत् । जनिर्जन्म ।
रोहति जन्तुर्ज्जायते इत्यर्थः । रुह जन्मनि
प्रादुर्भावे इति प्राञ्चः । जन्मप्रादुर्भावयोरेको-
ऽर्थः । इति गोविन्दभट्टचतुर्भुजमिश्रौ । रमा-
नाथस्तु प्रादुर्भावः स्फूर्त्तिरिति भेदमाह । इति
दुर्गादासः ॥


Match 1081: vcp=रूक्ष, skd=रूक्ष

vcp

k1=रूक्ष, L=39749
रूक्ष¦ पारूष्ये कठोरतायाम् निःस्नेहे च अद० चु० उभ० अक०
सेट् । रूक्षयति ते अरुरूक्षत् त ।


skd

k1=रूक्ष, L=29806
रूक्ष¦, त् क पारुष्ये । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-अक०-सेट् ।) “दीर्घी । तथा च ।
‘स पुनातु व्रजे यश्च गोरजःपातरूक्षितौ ।
शिशुरुच्छिद्य यमजौ निष्पिपेष तरू क्षितौ ॥’
इति कीचकयमकम् ॥
पारुष्यमस्निग्धीभावः । रूक्षयति रूक्षापयति
केशः तैलाभावादिति शेषः ।” इति दुर्गादासः ॥


Match 1082: vcp=रूप, skd=रूप

vcp

k1=रूप, L=39757
रूप¦ रूपान्वितकरणे चुरा० उभ० सक० सेट् । रूपयति ते
अरुरूपत् त । नि + प्रमाणोपन्यासेन स्वरूपादिकथने ।


skd

k1=रूप, L=29819
रूप¦, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-पर०-सक०-सेट् ।) तत्कृती
रूपकरणम् । अरुरूपत् प्रतिमां शिल्पी । प्रति-
माया रूपं करोतीत्यर्थः । निपूर्व्वः स्वरूप-
कथने । अनुमानं निरूप्यत इत्यनुमानखण्डम् ।
इति दुर्गादासः ॥


Match 1083: vcp=रूष, skd=रूष

vcp

k1=रूष, L=39767
रूष¦ धूल्यादिना मिश्रीकरणे अद० चु० उभ० अक० सेट् । रूष-
यति ते अरुरूषत् त ।


skd

k1=रूष, L=29834
रूष¦, त् क विस्फुरणे । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-अक०-सेट् ।) दीर्घी ।
मूर्द्धन्योपधः । अरुरूषत् । इति दुर्गादासः ॥


Match 1084: vcp=रेक, skd=रेक

vcp

k1=रेक, L=39771
रेक¦ शङ्कायां भ्वा० आ० स० सेट् । रेकते अरेकिष्ट । ऋ-
दित् चङि न ह्रस्वः ।


skd

k1=रेक, L=29838
रेक¦, ऋ ङ शङ्कायाम् । इति कविकल्पद्रुमः ।
(भ्वा०-आत्म०-सक०-सेट् ।) शङ्का संशया-
रोपः । ऋ, अरिरेकत् । ङ, रेकते पुरुषत्वं
स्थाणौ । स्थाणुर्व्वा पुरुषो वेति संशयमारो-
पयतीत्यर्थः । रिरेके । इति दुर्गादासः ॥


Match 1085: vcp=रेज, skd=रेज

vcp

k1=रेज, L=39781
रेज¦ दीप्तौ भ्वा० आत्म० अक० सेट् । रेजते अरेजिष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=रेज, L=29853
रेज¦, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ऋ, अरिरेजत् । ङ,
रेजते रिरेजे । इति दुर्गादासः ॥


Match 1086: vcp=रेट, skd=रेट

vcp

k1=रेट, L=39783
रेट¦ याचने वाचि च द्वि० भ्वा० उभ० सेट् । रेटति ते अ-
रेटीत् अरेटिष्ट । ऋदित् चङि न ह्मस्वः ।


skd

k1=रेट, L=29854
रेट¦, ऋ ञ याचे । वाचि । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-द्विक०-सेट् ।) ऋ, अरिरेटत् ।
ञ, रेटति रेटते । याचो याचनम् । इति दुर्गा-
दासः ॥


Match 1087: vcp=रेप, skd=रेप

vcp

k1=रेप, L=39792
रेप¦ शब्दे अक० गतौ सक० भ्वा० आत्म० सेट् । रेपते अरे-
पिष्ट ऋदित् चङि न ह्रस्वः ।


skd

k1=रेप, L=29868
रेप¦, ङ ऋ शब्दे । गमने । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-शब्दे अक०-गमने सक०-सेट् ।)
ङ, रेपते रिरेपे । ऋ, अरिरेपत् । इति दुर्गा-
दासः ॥


Match 1088: vcp=रेभ, skd=रेभ

vcp

k1=रेभ, L=39797
रेभ¦ शब्दे भ्वा० आत्म० अक० सेट् । रेभते अरेभिष्ट । ऋदित्
चङि न ह्रस्वः ।


skd

k1=रेभ, L=29873
रेभ¦, ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ङ, रेभते रिरेभे । ऋ,
अरिरेभत् । इति दुर्गादासः ॥


Match 1089: vcp=रेष, skd=रेष

vcp

k1=रेष, L=39805
रेष¦ ह्रेषायां (घोटकशब्दे) भ्वा० आत्म० अक० सेट् । रेषते
अरेषिष्ट । ऋदित् चङि न ह्रस्वः ।


skd

k1=रेष, L=29889
रेष¦, ऋ ङ ह्नेषायाम् । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) ह्रेषा धोटक-
कर्त्तृकशब्दः । ऋ, अरिरेषत् । ङ, रेषते रिरेषे-
ऽश्वः । इति दुर्गादासः ॥


Match 1090: vcp=रै, skd=रै

vcp

k1=रै, L=39806
रै¦ शब्दे भ्वा० पर० अक० अनिट् । रायति अरासात् ।


skd

k1=रै, L=29890
रै¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-अनिट् ।) रेफादिः । रावति । इति
दुर्गादासः ॥


Match 1091: vcp=रोड, skd=रोड

vcp

k1=रोड, L=39832
रोड¦ अनादरे भ्वा० पर० सक० सेट् । रोडति अरोडीत् ऋदित्
चङि न ह्रस्वः ।


skd

k1=रोड, L=29929
रोड¦, ऋ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अरुरोडत् । इति
दुर्गादासः ॥


Match 1092: vcp=रौट, skd=रौट

vcp

k1=रौट, L=39890
रौट(ड)¦ अनादरे भ्वा० पर० सक० सेट् । रोट(ड)ति
अरौ(डी)टीत् । ऋदित् चङि न ह्वस्वः ।


skd

k1=रौट, L=30017
रौट¦, ऋ नादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अरु-
रौटत् । नादरोऽनादरः । रौटति खलं लोकः ।
इति दुर्गादासः ॥


Match 1093: vcp=लक, skd=लक

vcp

k1=लक, L=39900
लक¦ आस्वादे प्राप्तौ च चु० सम० सक० सेट् । लाकयति ते
अलीलकत् त ।


skd

k1=लक, L=30041
लक¦, क स्वाद आपने । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) स्वादो रसो-
पादानम् । क, लाकयति मोदकं बालकः ।
इति दुर्गादासः ॥


Match 1094: vcp=लक्ष, skd=लक्ष

vcp

k1=लक्ष, L=39906
लक्ष¦ दर्शने अङ्कने च चु० उभ० सक० सेट् । लक्षयति ते अललक्षत् त ।


skd

k1=लक्ष, L=30046
लक्ष¦, क ञ दर्शने । अङ्के । इति कविकल्पद्रुमः ॥
(चुरा०-उभ०-सक०-सेट् ।) क ञ, लक्षयति
लक्षयते घटं लोकः । पश्यति चिह्नयुक्तं करोती-
त्यर्थो वा । इति दुर्गादासः ॥


Match 1095: vcp=लख, skd=लख

vcp

k1=लख, L=39924
लख¦ गतौ भ्वा० पर० सक० सेट् । लखति । अलखीत्--अला-
खीत् । इदिदप्ययम् लङ्खति अलङ्खीत् ।


skd

k1=लख, L=30082
लख¦, सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) लखति । सृपि गतौ । इति
दुर्गादासः ॥


k1=लख, L=30083
लख¦, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, लङ्ख्यते । सृपि गतौ । इति
दुर्गादासः ॥


Match 1096: vcp=लग, skd=लग

vcp

k1=लग, L=39925
लग¦ खञ्जीभावे अक० गतौ सक० भ्वा० प० सेट । लङ्गति अलङ्गीत


k1=लग, L=39926
लग¦ सङ्गे भ्वा० पर० सक० सेट् । लगति एदित् अलगीत्
घटा० लगयति । “छायेव तस्या लगति स्म पश्चात्” नैष० ।


k1=लग, L=39927
लग¦ स्वादे प्रप्तौ च सक० चु० उभ० सेट् । लागयति ते अली
लगत् त ।


skd

k1=लग, L=30084
लग¦, इ खञ्जे । गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-खञ्जे अक०-गतौ सक०-सेट् ।)
इ, लङ्ग्यते । खञ्जो गतिवैकल्यम् । इति दुर्गा-
दासः ॥


k1=लग, L=30085
लग¦, क रके । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, लागयति । रके
स्वादाप्त्योः । रके इति रक क स्वाद आपने ।
इत्यस्य ञेरनित्यत्वे भावे अलि रूपम् । इति
दुर्गादासः ॥


k1=लग, L=30086
लग¦, म ए सङ्गे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) म, लगयति । ए, अल-
गीत् । गलति अधर ओष्ठे । इति दुर्गादासः ॥


Match 1097: vcp=लघ, skd=लघ

vcp

k1=लघ, L=39932
लघ¦ अभोजने सीमातिक्रमे गतौ च भ्वा० आ० सक० सेट् इदित् ।
लङ्घते अलङ्घिष्ट । “कल्लोलिनीवल्लभमुल्ललङ्घे” महाना० ।


k1=लघ, L=39933
लघ¦ शोके भ्वा० पर० सक० सेट् इदित् । लङ्घति अलङ्घीत् ।


k1=लघ, L=39934
लघ¦ प्रकाशे चु० उभ० स० सेट् इदित् । लङ्घयति ते अललङ्घत् त


k1=लघ, L=39935
लघ¦ आस्वादने चु० उभ० सक० सेट् । लाघयति--ते अलीलघत्--त


skd

k1=लघ, L=30095
लघ¦, इ शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, लङ्घ्यते । शोष इह अल्पी-
करणम् ।
‘यं व्याधिरतिदीप्ताङ्गं कदाचित्तु न लङ्घति ॥’
इति हलायुधः ॥
गतावप्यन्ये । अन्ये चालङ्घिषुः शैलान् । इति
दुर्गादासः ॥


k1=लघ, L=30096
लघ¦, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इ क, लङ्घयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥


k1=लघ, L=30097
लघ¦, इ ङ अभुग्गत्योः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सक० च-सेट् ।) इ,
लङ्घ्यते । ङ, लङ्घते । अभुक् भोजनाभावः ।
तथा च ।
‘ये गुणा लङ्घने प्रोक्तास्ते गुणा लघुभोजने ॥’
इति वैद्यकम् ॥
लङ्घने उपवासे इत्यर्थः । इति दुर्गादासः ॥


Match 1098: vcp=लछ, skd=लछ

vcp

k1=लछ, L=39961
लछ¦ चिह्नकरणे भ्वा० पर० सक० सेट् । लच्छति अलच्छीत् ।


skd

k1=लछ, L=30148
लछ¦, लक्ष्मणि । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) लछति वृषं चक्रेण गोपः ।
इति दुर्गादासः ॥


Match 1099: vcp=लज, skd=लज

vcp

k1=लज, L=39962
लज¦ व्रीडायाम् भ्वा० आ० अक० सेट् । लजते अलजिष्ट ।


k1=लज, L=39963
लज¦ तिरस्कारे भ्वा० पर० सक० सेट् इदित् । लञ्जति अलञ्जीत्


k1=लज, L=39964
लज¦ अन्तर्द्धाने चुरा० उ० सक० सेट् । लाजयति--ते अली-
लजत् त ।


k1=लज, L=39965
लज¦ भाषणे हिंसायां दाने च सक० सामथ्य वास च अक०
चुरा० उभ० सेट् इदित् । लञ्जयति--ते अललञ्जत् त ।


k1=लज, L=39966
लज¦ भासने अद० चु० उभ० सक० सेट् । लजयति--ते अललजत्--त


skd

k1=लज, L=30149
लज¦, भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) लजति । इति दुर्गादासः ॥


k1=लज, L=30150
लज¦, इ भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, लञ्ज्यते । इति दुर्गादासः ॥


k1=लज, L=30151
लज¦, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-अक०-सक० च-सेट् ।) इ क,
लञ्जयति । भा दीप्तिः षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥


k1=लज, L=30152
लज¦, क अन्तर्द्धौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) अन्तर्द्धिराच्छादनम् । क,
लाजयति चन्द्रं मेघः । इति दुर्गादासः ॥


k1=लज, L=30153
लज¦, ङ व्रीडे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ङ, लजते । निष्ठायां
लग्न इत्यन्ये । इति दुर्गादासः ॥


k1=लज, L=30154
लज¦, त् क भासने । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-अक०-सेट् ।) क, लजयति ।
भासनं दीप्तिः । इति दुर्गादासः ॥


Match 1100: vcp=लञ्ज, skd=लञ्ज

vcp

k1=लञ्ज, L=39972
लञ्ज¦ भासने अद० चु० उभ० अक० सेट् । लञ्जयति ते अललञ्जत् त ।


skd

k1=लञ्ज, L=30162
लञ्ज¦, त् क भासने । इति कविकल्पद्रुमः ॥
(अदन्त-चुरा०-पर०-अक०-सेट् ।) क, लञ्ज-
यति । भासनं दीप्तिः । इति दुर्गादासः ॥


Match 1101: vcp=लट, skd=लट

vcp

k1=लट, L=39974
लट¦ बालभावे अक० उक्तौ द्वि० भ्वा० पर० सेट् । लटति ।
अलाटीत् अलटीत् ।


skd

k1=लट, L=30165
लट¦, बाल्योक्त्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सक० च-सेट् ।) बालोऽज्ञः तस्य
भावो बाल्यं व्यामोह इति यावत् । लटति लोकः
शिशुः स्यात् । किञ्चिद्वदति वेत्यर्थः । इति
दुर्गादासः ॥


Match 1102: vcp=लड, skd=लड

vcp

k1=लड, L=39979
लड¦ विलासे भ्वा० पर० अक० सेट् । लडति अला(ड)डीत्


k1=लड, L=39980
लड¦ उत्पीडने सक० जिह्वाचालने अक० भ्वा० पर० सेट् ।
लडति अलाडीत्--अलडीत् घटा० । लडयति ।


k1=लड, L=39981
लड¦ अत्यन्तपालने चु० लभ० सक० सेट् । लाडयति--ते अलील-
डत् त ।


k1=लड, L=39982
लड¦ व्याप्तौ चु० उभ० सक० सट् । लाडयति--ते अलीलडत् त ।


k1=लड, L=39983
लड¦ भाषणे द्विक० वा चु० उभ० पक्षे भ्वा० पर० सेट् इदित् ।
लण्डयति--ते लण्डति । अललण्डत्--त अलण्डीत् ।


k1=लड, L=39984
लड¦ उत्क्षेपणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
लण्डयति--ते लण्डति । अललण्डत्--त अलण्डीत् ।


k1=लड, L=39985
लड¦ क्षेपणे अद० चु० उभ० सक० सेट् । लडयति ते अललडत् त


skd

k1=लड, L=30172
लड¦, विलासे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) लडति बाला । इति दुर्गा-
दासः ॥


k1=लड, L=30173
लड¦, इ कि भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) इ, लण्ड्यते ।
कि, लण्डयति लण्डति । भाषणं कथनम् । अयं
कैश्चिन्न मन्यते । इति दुर्गादासः ॥


k1=लड, L=30174
लड¦, ओ इ कि उत्क्षेपणे । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) ओ,
लण्डिनः । अनुबन्धबलादिम्व्यवधानेऽपि निष्ठा-
तस्य नत्वम् । अस्मात् निष्ठायामिम् न स्यादि-
त्येके । लड्न इति । इ, लण्ड्यते । कि, लण्डयति
लण्डति तण्डुलं लोकः । इति दुर्गादासः ॥


k1=लड, L=30175
लड¦, क उपसेवे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) उपसेव इह अत्यन्तपाल-
नम् । क, लालयेत् पञ्चवर्षाणि पुत्त्रमिति अत्र
डलयोरेकत्वाल्लत्वम् । कल्पनायामस्य प्रयोगः ।
इति रमानाथः । लाडयति लतां वायुः । इति
दुर्गादासः ॥


k1=लड, L=30176
लड¦, क ङ वीप्से । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् । क ङ, लाडयते । लाभ
एव इत्यन्य । विशेषेण आप्तुमिच्छा व्रीप्सा ।
इति दुर्गादासः ॥


k1=लड, L=30177
लड¦, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा०-पर०-सक०-सेट् ।) लडयति । अल-
लाडत् । इति दुर्गादासः ॥


k1=लड, L=30178
लड¦, म उन्मन्थनजिह्वयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-क्वचित् पीडनादौ सक०-
सेट् ।) उन्मन्थनं पीडितीभावः उत्क्षिप्ती-
भावश्च । लडति लता वायुना पीडिता उत्-
क्षिप्ता वा स्यादित्यर्थः । जिह्वा तद्बिषयक्रिया ।
लडति जिह्वा स्पन्दनवती स्यादित्यर्थः । म,
लडयति । लडयति त्वचमुल्ललयत्यमूनिति
श्रीहर्षः । पीडयतीत्यर्थः । कवाटघ्नीमिन्दुः
किरणलहरीमुल्ललयतीति मुरारिः । उत्-
क्षिपतीत्यर्थः । उभयत्र डलयोरेकत्वाल्लत्वम् ।
केचित्तु जिह्वोन्मन्थने इति पठित्वा जिह्वाया
उन्मन्थनं उत्क्षेपणमिति व्याख्याय लडति
जिह्वां सर्प इत्येवोदाहरन्ति । इति दुर्गा-
दासः ॥


Match 1103: vcp=लत, skd=लत

vcp

k1=लत, L=39988
लत¦ आघाते सौ० पर० सक० सेट् । लतति अलातीत् अलतीत् ।


skd

k1=लत, L=30184
लत¦, घाते । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) लता । इति दुर्गा-
दासः ॥


Match 1104: vcp=लप, skd=लप

vcp

k1=लप, L=40003
लप¦ कथने भ्वा० पर० द्विक० सेट् । लपति । अलापीत्--अल-
पीत् । ऋदित् चङि न ह्रस्वः ।


skd

k1=लप, L=30210
लप¦, ऋ भाषे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अलीलपत् अललापत् ।
भाषः कथनम् । इति दुर्गादासः ॥


Match 1105: vcp=लब, skd=लब

vcp

k1=लब, L=40007
लब¦ आलम्बने सक० शब्दे अक० भ्वा० आत्म० सेट् इदित् ।
लम्बते अलम्बिष्ट ।


skd

k1=लब, L=30214
लब¦, इ ङ स्रंसने । शब्दे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अवलम्बने सक०-शब्दे अक०-
सेट् ।) इ, लम्ब्यते । ङ, लम्बते । स्रंसनमिहा-
वलम्बनमिति गोविन्दभट्टः । ननाद चरणायुध-
स्तदपि मौनमालम्बसे । इति दुर्गादासः ॥


Match 1106: vcp=लभ, skd=लभ

vcp

k1=लभ, L=40011
लभ¦ प्राप्तौ सक० भ्वा० आत्म० अनिट् । लभते । अलब्ध ।
ड्वित् लब्ध्रिमः । षित् लभा । अलिट्यजादावार्द्दधातुके मुम् ।
आलम्भः उपालम्भः । अनुपसर्गात् घञि तु न लाभः ।
खलि च सर्वथा दुर्लभः ।
आ + स्पर्शे बधे च उप + ज्ञानभेदे उप + आ + तिरस्कारे ।


skd

k1=लभ, L=30218
लभ¦, इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) इ, लम्भ्यते । ङ, लभते ।
इति द्र्गादासः ॥


k1=लभ, L=30219
लभ¦, डु औ ङ ष प्राप्तौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-अनिट् ।) डु, लब्ध्रिमम् ।
औ, लब्धा । ङ, लभते । ष, लभा । लभन्ति
पुनरुत्थानमिति गणकृतानित्यत्वादिति रमा-
नाथः । वस्तुतस्तु लभते लभः पचादित्वादन्
ततो लभ इवाचरतीति क्वौ साध्यम् । इति
दुर्गादासः ॥


Match 1107: vcp=लय, skd=लय

vcp

k1=लय, L=40025
लय¦ गतौ भ्वा० आत्म० सक० सेट् । लयते अलविष्ट । अलविढ्वम् अलयिध्वम् ।


skd

k1=लय, L=30243
लय¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, लयते । इति दुर्गादासः ॥


Match 1108: vcp=लल, skd=लल

vcp

k1=लल, L=40028
लल¦ इच्छायां चु० उभ० सक० सेट । लालयति--ते अलीललत् त


k1=लल, L=40029
लल¦ इच्छायां अद० चु० उभ० सक० सेट् । ललयति ते अल-
ललत् त ।


skd

k1=लल, L=30249
लल¦, ङ क ईप्सायाम् । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-सक०-सेट् ।) क ङ, लालयते ।
ईप्सा आप्तुमिच्छा । इति दुर्गादासः ॥


k1=लल, L=30250
लल¦, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) ईप्सा इति आप-
धातोः सनन्तस्य रूपम् । शंस्त्याद इत्यकारेण
सरूपोऽपि अल् कथं न बाध्यते इति चेन्न
स्त्रीविहितप्रत्ययैः क्वचित् सरूपोऽपि न वाध्यते
इत्यस्य वाच्यत्वात् अन्यथा कारणाकारण-
मित्यादयोऽपि न स्युः । एवं वक्ष्यमाणेषु व्रीड
लज्जे इत्यादिष्वपि बोध्यम् । ललयति धनं
लोकः । इति दुर्गादासः ॥


Match 1109: vcp=लश, skd=लश

vcp

k1=लश, L=40058
लश(ष)(स)¦ शिल्पयोगे चु० उभ० अक० सेट् । लाश(ष)(स)यति
ते अलोलश(ष)(स)त् त ।


skd

k1=लश, L=30305
लश¦, क शिल्पयोगे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, लाशयति कुशलो
नृत्ये शिल्पं युनक्तीत्यर्थः । इति दुर्गादासः ॥


Match 1110: vcp=लष, skd=लष

vcp

k1=लष, L=40060
लष¦ स्पृहायां दिवा० भ्वा० च उम० सक० सट् । लव्यति--ते
लषति ते अलषीत् अलाषीत् अलषिष्ट ललाष लेषे ।


skd

k1=लष, L=30308
लष¦, क शिल्पयोगे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-अक०-सेट् ।) क, लाषयति
कुशलो नृत्ये शिल्पं युनक्तीत्यर्थः । इति दुर्गा-
दासः ॥


k1=लष, L=30309
लष¦, ञ स्पृहि । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) ञ, लषति लषते । इति
दुर्गादासः ॥


k1=लष, L=30310
लष¦, य ञ स्पृहि । इति कविकल्पद्रुमः ॥ (दिवा०-
उभ०-सक०-सेट् ।) य ञ, लष्यति लष्यते ।
इति दुर्गादासः ॥


Match 1111: vcp=लस, skd=लस

vcp

k1=लस, L=40061
लस¦ श्लेषे क्रीडायां दीप्तौ च अक० भ्वा० पर० सेट् । लसति-
अलासीत् अलसीत् ।


skd

k1=लस, L=30312
लस¦, श्लिषि । क्रीडे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) लसति । इति दुर्गादासः ॥


k1=लस, L=30313
लस¦, क शिल्पयोगे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, लासयति कुशलो
नृत्ये शिल्पं युनक्तीत्यर्थः । इति दुर्गादासः ॥


Match 1112: vcp=लस्ज, skd=लस्ज

vcp

k1=लस्ज, L=40064
लस्ज¦ व्रीडायां भ्वा० आ० अक० सेट् । लज्जते अलज्जिष्ट ।
इदित् निष्ठायामनिट् ओदित् निष्ठातस्य नः । लग्नः ।


skd

k1=लस्ज, L=30317
लस्ज¦, ई ओ ङ व्रीडे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
क्विपि संयोगादिलोपे लक् । ई ओ, लग्नः । ङ,
लज्जते । इति दुर्गादासः ॥


Match 1113: vcp=ला, skd=ला

vcp

k1=ला, L=40067
ला¦ आदाने अदा० पर० सक० अनिट् । लाति अलासीत् ।


skd

k1=ला, L=30323
ला¦, ल ग्रहे । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-सक०-अनिट् ।) ल, लाति । ग्रहो ग्रह-
णम् । इति दुर्गादासः ॥


Match 1114: vcp=लाख, skd=लाख

vcp

k1=लाख, L=40076
लाख¦ शोषे भूषणे दाने वारणे च सक० सामर्थ्ये अक० भ्वा०
पर० सेट् । लाखति अलाखीत् ऋदित् चङि न ह्रस्वः ।


skd

k1=लाख, L=30333
लाख¦, ऋ शोषालमर्थयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) ऋ, अललाखत् ।
इति दुर्गादासः ॥


Match 1115: vcp=लाघ, skd=लाघ

vcp

k1=लाघ, L=40077
लाघ¦ सामर्थ्ये भ्वा० आ० अक० सेट् । लाघते अलाघिष्ट ।
ऋदित् चङि न ह्रस्वः ।


skd

k1=लाघ, L=30334
लाघ¦, ऋ ङ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ऋ, अललाघत् । ङ,
लाघते । शक्तिः सामर्थ्यम् । इति दुर्गादासः ॥


Match 1116: vcp=लाछ, skd=लाछ

vcp

k1=लाछ, L=40088
लाछ¦ अङ्कने भ्वा० पर० सक० सेट इदित् । लाञ्छति अला-
ञ्छीत् ।


skd

k1=लाछ, L=30350
लाछ¦, इ लक्ष्मणि । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, लाञ्छ्यते । लाञ्छति ।
इति दुर्गादासः ॥


Match 1117: vcp=लाज, skd=लाज

vcp

k1=लाज, L=40089
लाज¦ भर्त्सने भ्वा० पर० सक० सेट् । लाजति अलाजीत् । इदि दयप्ययम् । लाञ्जति जलाञ्जीत् ।


skd

k1=लाज, L=30351
लाज¦, भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) लाजति ॥


k1=लाज, L=30352
लाज¦, इ भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) द्बौ द्बितीय-
[Page4-215-a+ 52]
स्वरिणौ । लाजति । इ, लाञ्ज्यते । भर्त्सन
एव कैश्चित् पठ्यते । भर्गो भर्ज्जनम् । इति
दुर्गादासः ॥


Match 1118: vcp=लाड, skd=लाड

vcp

k1=लाड, L=40094
लाड¦ क्षेपे अद० चु० उभ० सक० सेट् । लाडयति ते ।


skd

k1=लाड, L=30360
लाड¦, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा० पर०-सक०-सेट् ।) लाडयति अल-
लाडत् । इति दुर्गादासः ॥


Match 1119: vcp=लिख, skd=लिख

vcp

k1=लिख, L=40112
लिख¦ लेखने तुदा० पर० सक० सेट् । लिखति अलेखीत् ।
कुटादिरप्ययम् तेन लिखनमिति सिद्धम् ।


k1=लिख, L=40113
लिख¦ गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्खति अलिङ्खीत्


skd

k1=लिख, L=30399
लिख¦, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, लिङ्ख्यते । सृपि गतौ ।
इति दुर्गादासः ॥


k1=लिख, L=30400
लिख¦, श लेखने । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) श, लिखति पुस्तकं लेखकः ।
अयं विभाषया कुटादिरिति केचित् । तेन
लिखितं विश्वसृजोऽपि शक्तिहानिरिति ।
लिखितव्यं लेखितव्यं लिखनं इत्यादि सिद्धम् ।
इति दुर्गादासः ॥


Match 1120: vcp=लिग, skd=लिग

vcp

k1=लिग, L=40116
लिग¦ गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्गति अलिङ्गीत् ।


k1=लिग, L=40117
लिग¦ चित्रीकरणे चुरा० उभ० सक० सेट् इदित् । लिङ्गयति ते
अलिलिङ्गत् त ।


skd

k1=लिग, L=30405
लिग¦, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, लिङ्ग्यते । इति दुर्गादासः ॥


k1=लिग, L=30406
लिग¦, इ क चित्रे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) इ क, लिङ्गयति शब्दं
स्त्रीनपुंसकैः शाब्दिकः चित्रं करोतीत्यर्थः ।
इति दुर्गादासः ॥


Match 1121: vcp=लिप, skd=लिप

vcp

k1=लिप, L=40126
लिप¦ लेपने, तुदा० उभ० मुचा० सक० अनिट् । लिम्पति ते अलिपत् अलिपत अलिप्त ।


skd

k1=लिप, L=30417
लिप¦, ञि औ श प ञ लेपे । इति कविकल्पद्रुमः ॥
(तुदा०-उभ०-सक०-अनिट् ।) ञि, लिप्तो-
ऽस्ति । औ, लेप्ता । श प ञ, लिम्पति लिम्पते
चन्दनेन गात्रं सुखी । इति दुर्गादासः ॥


Match 1122: vcp=लिश, skd=लिश

vcp

k1=लिश, L=40134
लिश¦ श्लेषे अल्पीभावे च दि० अक० आत्म० अनिट् । लिश्यते
अलिक्षत ।


k1=लिश, L=40135
लिश¦ गतौ तु० पर० सक० अनिट् । लिशति अलिक्षत् ।


skd

k1=लिश, L=30437
लिश¦, ङ य औ तौच्छ्ये । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-अक०-अनिट् ।) तौच्छ्य-
मल्पीभावः । ङ य, लिश्यते धर्म्मः कलौ ।
औ, लेष्टा । इति दुर्गादासः ॥


k1=लिश, L=30438
लिश¦, श औ गत्याम् । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-सक०-अनिट् ।) लिशति । औ,
अलिक्षत् लेष्टा । इति दुर्गादासः ॥


Match 1123: vcp=लिह, skd=लिह

vcp

k1=लिह, L=40136
लिह¦ आस्वादने अदा० उभ० सक० अनिट् । लेढि लीढे ।
अलिक्षत् त ।


skd

k1=लिह, L=30440
लिह¦, ल ञ औ स्वादे । इति कविकल्पद्रुमः ॥
(अदा०-उभ०-सक०-अनिट् ।) ल ञ, लेढि
पुष्पाणि षट्पदः । लीढे । औ, अलिक्षत् ।
इति दुर्गादासः ॥


Match 1124: vcp=ली, skd=ली

vcp

k1=ली, L=40137
ली¦ श्लेषे दिवा० आ० अक० अनिट् । लीयते अलेष्ट । ओदित् निष्ठातस्य नः । लीनः ।


k1=ली, L=40138
ली¦ श्लेषे क्र्या० पा० पर० अक० अनिट् । लिनाति अलैषीत् ।


k1=ली, L=40139
ली¦ द्रावणे वा चुरा० उभ० सक० सेट् पक्षे भ्वा० पर० अ
निट् । लीनयति ते लाय(प)यति ते घृतम् लयति ।
अस्नेहद्रावणे लौहं विलायतीत्येव । प्रलम्भने अभिभवे
पूजायाञ्च सक० आत्म० । तत्र नित्यमात्त्वे पुक । जटा-
भिर्लापयते पूजामधिगच्छतात्यर्थः । श्योनो वर्त्तिकामु-
ल्लापयते अभिभवतीत्यर्थः । वालमुल्लापयत वञ्चयतीत्यर्थः ।
अलीलनत् त अलील(प)यत् त । अलेषीत् । अलासीत् ।


skd

k1=ली, L=30441
ली¦, कि द्रावणे । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-अनिट् ।) द्रावणं द्रवी-
करणम् । कि, लाययति लयति । मिम्यो-
र्यब्णाविति लापयति लोहमग्नौ कर्म्मकारः ।
स्नेहद्रवे तु लाल्योर्लन्ननाविति जनो घृतमग्नौ
लीनयत्यपि । इति दुर्गादासः ॥


k1=ली, L=30442
ली¦, गि श्लिषि । इति कविकल्पद्रुमः ॥ (क्र्या०-
पर०-अक०-अनिट् ।) गि, लिनाति बाला
लावण्यं प्राप्नोतीत्यर्थः । कर्म्माविवक्षायान्तु
लिनाति जलधौ नदी । लीनः लीनिः । अयं
अन्तःस्थतृतीयादिः । इति दुर्गादासः ॥


k1=ली, L=30443
ली¦, ङ य ओ श्लिषि । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-अक०-अनिट् ।) ङ य,
लीयते चन्द्रः सूर्य्ये । ओ, लीनः । इति दुर्गा
दासः ॥


Match 1125: vcp=लुज, skd=लुज

vcp

k1=लुज, L=40145
लुज¦ कथने अट्टधातोरर्थे च चुरा० उभ० सक० सेट् इदित् ।
लुञ्जयति ते अलुलुञ्जत् त ।


skd

k1=लुज, L=30454
लुज¦, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-अक०-सक०-च-सेट् ।) इ क,
लुञ्जयति । भा दीप्तिः । षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥


Match 1126: vcp=लुट, skd=लुट

vcp

k1=लुट, L=40147
लुट¦ दीप्तौ अक० प्रतिघाते सक० भ्वा० आत्म० सेट् । लोटते
सृदित् लुङि उभ० अलुटत् अलोटिष्ट ।


k1=लुट, L=40148
लुट¦ हरणे भ्वा० पर० सक० सेट् इदित् । लुण्टति अलुण्टीत् ।


k1=लुट, L=40149
लुट¦ दीप्तौ चु० उभ० सक० सेट् । लोढयति ते अलूलुटत् त ।


k1=लुट, L=40151
लुट¦ विलोडने सम्बन्धे च दिवा० सक० पर० सेट् ।
लुट्यति अलोटीत् । अत्रार्थे भ्वादिरपि । लोटति ।


k1=लुट, L=40152
लुट¦ गतौ चौर्य्ये च सक० खञ्जीभावे आलस्ये च अक० भ्वा०
पर० सेट् इदित् । लुण्टति अलुण्टीत् ।


skd

k1=लुट, L=30456
लुट¦, विलोटविलोडनयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-विलोटे अक०-विलोडने सक०-
सेट् ।) लोटति । इति दुर्गादासः ॥


k1=लुट, L=30457
लुट¦, इ ह्रुतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, लुण्ट्यते । हृतिश्चौर्य्यम् ।
इति दुर्गादासः ॥


k1=लुट, L=30458
लुट¦, ऌ ॠ य विलोटविलोडनयोः । इति कवि-
कल्पद्रुमः ॥ (दिवा०-पर०-विलोटे अक०-विलो-
डने सक०-सेट् ।) ऌ, अलुटत् । ॠ, अलूलु-
टत् अलुलोटत् । य, लुट्यति । विलोटः सम्बन्धी-
भावः । तत्र लुट्यन् सशोको भुवि रीरुदावान् ।
इति भट्टिः ॥ विलोडने लुट्यत्यट्टालकान् दुर्गान्
कवाटानि च लोटति । इति हलायुधः । इति
दुर्गादासः ॥


k1=लुट, L=30459
लुट¦, ऌ ङ दीप्तिप्रतिहत्योः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-पुनर्हनने सक०-सेट् ।)
[Page4-225-b+ 52]
ऌ, अलुटत् । ङ, लोटते । प्रतिहतिः शोका-
दिना पतनं पुनर्हवनं वा । इति दुर्गादासः ॥


k1=लुट, L=30460
लुट¦, क भासे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, लोटयति । भासो
दीप्तिः । इति दुर्गादासः ॥


Match 1127: vcp=लुठ, skd=लुठ

vcp

k1=लुठ, L=40153
लुठ¦ प्रतिघाते भ्वा० आ० लुङि उभ० सक० सेट् । लोठते ।
अलुठत् अलोठिष्ट । ऋदित् चङि न ह्रस्वः ।


k1=लुठ, L=40154
लुठ¦ उपघाते भ्वा० पर० सक० सेट् । लोठति अलोठीत् ।


k1=लुठ, L=40155
लुठ¦ लोठे तु० कु० प० अक० सेट् । लुठति अलुठीत् ।


k1=लुठ, L=40156
लुठ¦ चौर्य्ये चु० उभ० सक० सेट् । लोठयति ते अलूलुठत् त ।


skd

k1=लुठ, L=30461
लुठ¦, उपघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) लोठति । इति दुर्गादासः ॥


k1=लुठ, L=30462
लुठ¦, इ गत्यालस्यस्तेयखोटे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-अक० च-सेट् ।) इ, लुण्ठ्यते ।
आलस्यं मन्दीभावः । स्तेयं चौर्य्यम् । खोटः
खोडनम् । इति दुर्गादासः ॥


k1=लुठ, L=30463
लुठ¦, ऌ ङ प्रतीघाते । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऌ, अलुठत् । ङ,
लोठते । इति दुर्गादासः ॥


k1=लुठ, L=30464
लुठ¦, क चौर्य्ये । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, लोठयति । इति दुर्गा-
दासः ॥


k1=लुठ, L=30465
लुठ¦, शि लोटे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-अक०-सेट् ।) शि, लुठति अलुठीत्
लुलोठ । लोटः सम्बन्धीमावः । हारोऽयं
हरिणाक्षीणां लुठति स्तनमण्डले । इति दुर्गा-
दासः ॥


Match 1128: vcp=लुड, skd=लुड

vcp

k1=लुड, L=40159
लुड¦ मन्थने भ्वा० पर० सक० सेट् । लोडति अलोडीत् ।


k1=लुड, L=40160
लुड¦ संवृतौ सक० श्लेषे अक० तु० कु० पर० सेट् । लुडति
अलुडीत् । लुडनम् ।


skd

k1=लुड, L=30468
लुड¦, मन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) लोडति । मन्थो विलोडनम् ।
इति दुर्गादासः ॥


k1=लुड, L=30469
लुड¦, शि संवृतौ । श्लेषे । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-सक०-सेट् ।) शि, लुडति
अलुडीत् लुलोड । इति दुर्गादासः ॥


Match 1129: vcp=लुण्ट, skd=लुण्ट

vcp

k1=लुण्ट, L=40161
लुण्ट¦ अवज्ञाय चौर्य्ये च वा चु० उभ० पक्षे भ्वा० पर०
सक० सेट् । लुण्ठयति ते लुण्ठति अलुलुण्टत् त
[Page4829-b+ 38]
अलुण्टीत् । कर्मणि लुठ्यते ।


skd

k1=लुण्ट, L=30470
लुण्ट¦, कि अवज्ञाचौर्य्ये । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) दन्त्य-
नकारप्रकृतिः टयोगान्मूर्द्धन्यः तेन भ्वादिपक्षे
यगादौ तल्लोपे लुट्यत इत्यादि । कि, लुण्टयति
लुण्टति । इति दुर्गादासः ॥


Match 1130: vcp=लुण्ड, skd=लुण्ड

vcp

k1=लुण्ड, L=40165
लुण्ड¦ चौर्य्ये चु० उ० सक० सेट् । लुण्डयति ते अलुलुण्डत् त


skd

k1=लुण्ड, L=30480
लुण्ड¦, क चौर्य्ये । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, लुण्डयति । इति
दुर्गादासः ॥


Match 1131: vcp=लुथ, skd=लुथ

vcp

k1=लुथ, L=40166
लुथ¦ बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । लुन्थति
अलुन्थीत ।


skd

k1=लुथ, L=30483
लुथ¦, इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, लुन्थ्यते । कुन्थो वध-
क्लेशौ । इति दुर्गादासः ॥


Match 1132: vcp=लुप, skd=लुप

vcp

k1=लुप, L=40168
लुप¦ छेदने विनाशने च तु० मुचा० उभ० सक० अनिट् । लुम्पति
ते अलुपत् अलुप्त । ऋदित् चङि वा ह्रस्वः । अलूलुपत्
त अलुलोपत् त ।


k1=लुप, L=40169
लुप¦ आकुलीभावे दिवा० पर० अक० सेट् । लुप्यति अलुपत् अलोपीत् नित्यमङ् इत्येके ।


skd

k1=लुप, L=30484
लुप¦ ॠ श प ऌ ञ औ छेदे । इति कविकल्प-
द्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।) ॠ,
अलूलुपत् अलुलोपत् । श प ञ, लुम्पति
लुम्पते । ऌ, अलुपत् । औ, लोप्ता । इति
दुर्गादासः ॥


k1=लुप, L=30485
लुप¦, इर य युपि । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-अक०-सेट् ।) इर, अलुपत् अलोपीत ।
अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, लुप्यति ।
युपि आकुलीभावे । पातुं लुप्यति लावण्यं
नेत्राञ्जलिपुटैर्नरः । इति हलायुधः । इति
दुर्गादासः ॥


Match 1133: vcp=लुब, skd=लुब

vcp

k1=लुब, L=40171
लुब¦ अर्द्दने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
लुम्बयति ते लुम्बति । अलुलुम्बत् त अलुम्बीत् ।


skd

k1=लुब, L=30488
लुब¦ कि इ अर्द्दने । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, लुम्बयति
लुम्बति । इ, लुम्ब्यते । अर्द्दनं वघः । इति
दुर्गादासः ॥


Match 1134: vcp=लुभ, skd=लुभ

vcp

k1=लुभ, L=40173
लुभ¦ विमोहने तु० पर० अक० सेट् । लुभति अलोभीत् ।


k1=लुभ, L=40174
लुभ¦ आकाङ्क्षायां दि० पर० सक० सेट् । लुभ्यति । इरित्
अलुभत्--अलोभीत् ।


skd

k1=लुभ, L=30492
लुभ¦, य इर् गार्ध्ये । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-सेट् ।) गार्ध्यमाकाङ्क्षा । य,
लुभ्यति धनं लुब्धः । इर्, अलुभत् अलोभीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥


k1=लुभ, L=30493
लुभ¦, श विमोहने । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-अक०-सेट् ।) श, लुभत्यात्मनि कामे च ।
इति हलायुधः ॥ लोभिता लोब्धा । इति
दुर्गादासः ॥


Match 1135: vcp=लुल, skd=लुल

vcp

k1=लुल, L=40175
लुल¦ विमर्दने सौ० पर० सक० सेट् । लोलति । अलोलीत् ।


skd

k1=लुल, L=30495
लुल¦, विमर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) सौत्रधातुरयम् । लुलापः ।
इति दुर्गादासः ॥


Match 1136: vcp=लुष, skd=लुष

vcp

k1=लुष, L=40178
लुष¦ चौर्य्ये भ्वा० पर० सक० सेट् । लोषति अलोषीत् ।


k1=लुष, L=40179
लुष¦ हिंसायां सौ० पर० सक० सेट् । लोषति अलोषीत् ।


skd

k1=लुष, L=30500
लुष¦, स्तेये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) लोषति । इति दुर्गादासः ॥


k1=लुष, L=30501
लुष¦, हिंसने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सौत्रधातुरयम् । लुष्णः । इति
दुर्गादासः ॥


Match 1137: vcp=लुह, skd=लुह

vcp

k1=लुह, L=40180
लुह¦ आकाङ्क्षायां भ्वा० पर० सक० अनिट् । लोहति अ-
लुक्षत् ।


skd

k1=लुह, L=30503
लुह¦, औ गार्ध्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-अनिट् ।) औ, अलुक्षत् । गार्ध्यं
लब्धुमिच्छा । लोहति धनं लोकः । इति दुर्गा-
दासः ॥


Match 1138: vcp=लू, skd=लू

vcp

k1=लू, L=40181
लू¦ छेदने क्र्या० प्वा० उभ० सक० सेट् । लुनाति लुनीते अलावीत् ।


skd

k1=लू, L=30504
लू¦, ञ गि छिदि । इति कविकल्पद्रुमः ॥ (क्र्या०-
उभ०-सक०-अनिट् ।) ञ गि, लूनाति लूनीते ।
लूनः लूनिः । इति दुर्गादासः ॥


Match 1139: vcp=लूष, skd=लूष

vcp

k1=लूष, L=40185
लूष¦ बधे स्तेये च चु० उभ० सक० सेट् । लुषयति ते अलूलुषत् ।


skd

k1=लूष, L=30513
लूष¦, क वधे । स्तेये । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) क, लूषयति ।
इति दुर्गादासः ॥


Match 1140: vcp=लेप, skd=लेप

vcp

k1=लेप, L=40195
लेप¦ गमने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः । लेपते अलेषिष्ट ।


skd

k1=लेप, L=30532
लेप¦, ऋ ङ गमने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अलिलेपत् । ङ,
लेपते लिलेपे । इति दुर्गादासः ॥


Match 1141: vcp=लोक, skd=लोक

vcp

k1=लोक, L=40210
लोक¦ दीप्तौ चु० उभ० सक० सेट् । लोकयति ते अलूलुकत् त ।


k1=लोक, L=40211
लोक¦ दर्शने भ्वा० आ० सक० सेट् । लोकते अलोकिष्ट लुलोके ।
ऋदित् चङि न ह्रस्वः । अलुलोकत् त ।


skd

k1=लोक, L=30556
लोक¦, ऋ क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) ऋ, अलुलोकत् । क,
लोकयति । इति दुर्गादासः ॥


k1=लोक, L=30557
लोक¦, ऋ ङ ईक्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अलुलोकत् । ङ,
लोकते । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकाम-
विस्तारफलं हरिण्यः । इत्यादौ विलोकनं
विलोकः पश्चात् तं करोतीति ञौ साध्यम् ।
इति दुर्गादासः ॥


Match 1142: vcp=लोच, skd=लोच

vcp

k1=लोच, L=40224
लोच¦ दोप्तौ चु० उभ० अक० सेट् । लाचयति ते ऋदित् चङि न ह्रस्वः । अलुलचित् त ।


k1=लोच, L=40225
लोच¦ दर्शने भ्वा० आत्म० सक० सेट् । लोचते अलोचिष्ट
ऋदित् चङि न ह्रस्वः ।


skd

k1=लोच, L=30577
लोच¦, ऋ क भासि । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-अक०-सेट् ।) ऋ, अलुलोचत् ।
भासि दीप्तौ । किन्तु पुरुषोत्तमशरणदेवौ भाष
इति मूर्द्धन्यषकारं मत्वा वचनार्थमाहतुः ।
इति दुर्गादासः ॥


Match 1143: vcp=लोट, skd=लोट

vcp

k1=लोट, L=40230
लोट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् । लोट(ड)ति ।
अलोटी(डो)त् । ऋदित चङि न ह्रस्वः ।


skd

k1=लोट, L=30589
लोट¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ऋ, अलुलोटत् । लोटति
लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥


Match 1144: vcp=लोष्ट, skd=लोष्ट

vcp

k1=लोष्ट, L=40262
लोष्ट¦ संहतौ राशीकरणे भ्वा० आ० सक० सेट् । लोष्टति अलोष्टिष्ट ।


skd

k1=लोष्ट, L=30643
लोष्ट¦, ङ संहतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, लोष्टते धान्यं लोकः ।
इति दुर्गादासः ॥


Match 1145: vcp=लौड, skd=लौड

vcp

k1=लौड, L=40297
लौड¦ उन्मादे भ्वा० पर० सक० सेट् । लौडति अलौडीत् ।
ऋदित् चङि न ह्रस्वः ।


skd

k1=लौड, L=30695
लौड¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अलु-
लौडत् । इति दुर्गादासः ॥


Match 1146: vcp=ल्पी, skd=ल्पी

vcp

k1=ल्पी, L=40303
ल्पी¦ श्लेषे क्य्रा० प्वा० पर० सक० अनिट् । ल्पिनाति अल्पै-
षीत् ।


skd

k1=ल्पी, L=30709
ल्पी¦, गि श्लिषि । इति कविकल्पद्रुमः ॥ (क्र्या०-
पर०-सक०-अनिट् ।) ओष्ठ्यवर्गाद्योपधः ।
ल्पिनाति ल्पीनः ल्पीनिः । अन्तःस्थाद्योपध
इति रामानाथः । ल्यिनाति । इति दुर्गादासः ॥


Match 1147: vcp=ल्वी, skd=ल्वी

vcp

k1=ल्वी, L=40304
ल्वी¦ गतौ क्या० पा० पर० सक० अनिट् । ल्विनाति अल्वैषीत् ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते
वाचस्पत्ये लकारादिशब्दार्थ-
सङ्कलनम् ।


skd

k1=ल्वी, L=30710
ल्वी¦, गि ग गत्याम् । इति कविकल्पद्रुमः ॥ (क्र्या०-
पर०-सक०-अनिट् ।) वकारोपधः । ग,
ल्वीनाति ल्वीतः ल्वीतिः । गि, ल्विनाति
ल्वीनाति ल्वीनः ल्वीनिः । गिनैव क्र्यादित्व-
सिद्धौ गकरणं प्वादित्वविकल्पार्थम् । इति दुर्गा-
दासः ॥


Match 1148: vcp=वक, skd=वक

vcp

k1=वक, L=40330
वक¦ कौटिल्ये अक० गतौ सक० भ्वा० आ० सेट् इदित् । वङ्कते
अवङ्किष्ट ।


skd

k1=वक, L=30750
वक¦, इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सक० च-सेट् ।) कौटिल्य-
मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते ।
ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते
काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥


Match 1149: vcp=वक्क, skd=वक्क

vcp

k1=वक्क, L=40340
वक्क¦ गतौ भ्वा० आत्म० सक० सेट् । वक्कते अवक्किष्ट ।


skd

k1=वक्क, L=30751
वक्क¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, वक्कते । इति दुर्गा-
दासः ॥


Match 1150: vcp=वक्ष, skd=वक्ष

vcp

k1=वक्ष, L=40358
वक्ष¦ रोषे भ्वा० पर० सक० सेट् । वक्षति अवक्षीत् ।


skd

k1=वक्ष, L=30793
वक्ष¦, रोषसंहत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-रोषे अक०-संहतौ सक०-सेट् ।) वक्षति ।
इति दुर्गादासः ॥


Match 1151: vcp=वख, skd=वख

vcp

k1=वख, L=40363
वख¦ गतौ भ्वा० पर० सक० सेट् इदित् । वङ्खति अवङ्खीत्
अनिदप्ययम् वखति अवखीत् अवाखीत् ।


skd

k1=वख, L=30799
वख¦, सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) वखति । सृपि गतौ । इति
दुर्गादासः ॥


k1=वख, L=30800
वख¦, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् । इदित् ।) इ, वङ्ख्यते । सृपि
गतौ । इति दुर्गादासः ॥


Match 1152: vcp=वग, skd=वग

vcp

k1=वग, L=40364
वग¦ खञ्जे भ्वा० पर० अक० सेट् इदित् । वङ्गति अवङ्गीत् ।


skd

k1=वग, L=30801
वग¦, इ खञ्जे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) इ, वङ्ग्यते । इति दुर्गादासः ॥


Match 1153: vcp=वघ, skd=वघ

vcp

k1=वघ, L=40366
वघ¦ गतौ निन्दायाम् आरम्भे च सक० जवे अक० भ्वा० आत्म०
सेट् इदित् । वङ्घते अवङ्घिष्ट ।


skd

k1=वघ, L=30806
वघ¦, इ ङ गतिनिन्दारम्भजयेषु । इति कविकल्प-
द्रुमः ॥ (भ्वा०-आत्म०-सक०-जवे अक० च-
सेट् ।) इ, वंघ्यते । ङ, वंघते । जवे एव कैश्चित्
पठ्यते । इति दुर्गादासः ॥


Match 1154: vcp=वच, skd=वच

vcp

k1=वच, L=40376
वच¦ सन्देशे सक० कथने द्विक० चुरा० उभ० सेट् । वाचयति ते


k1=वच, L=40377
वच¦ कथने अदा० द्विक० पर० अनिट् । वक्ति । “न हि
वचिरन्तिपरः प्रयुज्यते” अभियुक्तोक्तेरस्मान्न अन्ति”
अवोचत् त । उवाच ऊचतुः वक्ता उक्तः ।
अनु + उक्तस्य पुनःकथने अनुवादे ।
निर् + अबवार्थकथने निरुक्तिः निर्वचनम् ।
प्र + प्रकर्षेण कथने वाख्यानार्थमुक्तस्य कथने प्रवचनम् ।


skd

k1=वच, L=30826
वच¦, औ वाचि । सन्देशे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-अनिट् ।) औ, वक्ता ।
अयं सेम् (सेट्) इत्येके । न वचत्यप्रियं वचः ।
इति हलायुधः । इति दुर्गादासः ॥


k1=वच, L=30827
वच¦, क सन्देशे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) सन्देशो वचनविशेषः ।
क, वाचयत्यखिलां लिपिमिति हलायुधः ।
इति दुर्गादासः ॥


k1=वच, L=30828
वच¦, ल औ वाचि । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-द्विक०-सेट् ।) ल, वक्ति । औ, वक्ता ।
अस्मादन्तिविभक्तिर्न प्रयोज्या । इत्यालङ्का-
रिकाः । इति दुर्गादासः ॥ (यथा, --
“वचेरन्त्यन्तुशन्तृङ्भिः प्रयोगो नाभिधीयते ।
जयतेर्नास्ति पञ्चम्या उत्तमः पुरुषः क्वचित् ॥”
इति बहुसम्मतम् ॥)


Match 1155: vcp=वज, skd=वज

vcp

k1=वज, L=40387
वज¦ गतौ भ्वा० पर० सक० सेट् । वजति । अवाजीत्--अव-
जीत ववजतुः ।


k1=वज, L=40388
वज¦ शरसंस्कारे गतौ च चुरा० उभ० सक० सेट् । वाजयति ते अवीवजत् त ।


skd

k1=वज, L=30846
वज¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) वजति । इति दुर्गादासः ॥


k1=वज, L=30847
वज¦, क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) अयं मार्गणसंस्कारे
इति प्राञ्चः । मार्गणस्य शरस्य पक्षादिना
संस्कारो मार्गणसंस्कारः । क, वाजयति पक्षै-
र्बाणं काण्डकारः । इति रमानाथः ॥ मार्गण-
संस्कारयोरिति कश्चित् । इति दुर्गादासः ॥


Match 1156: vcp=वट, skd=वट

vcp

k1=वट, L=40417
वट¦ वेष्टने भागे च अद० चुरा० उभ० सक० सेट् । वटयति ते ।
अववटत् त ।


k1=वट, L=40418
वट¦ वेष्टने भ्वा० पर० सक० सेट् । वटति । अवटीत् अवाटीत् ववटतुः ।


k1=वट, L=40419
वट¦ विभाजने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
वण्टयति ते वण्ठति । अववण्टत् त अवण्टीत् ।


k1=वट, L=40420
वट¦ कथने भ्वा० पर० द्विक० सेट् घटा० । वटयति अवाटीत्
अवटीत् । ववटतुः ।


k1=वट, L=40421
वट¦ स्तेये लौ० पर० सक० सेट् इदित् । वण्टति अवण्टीत् ।


skd

k1=वट, L=30904
वट¦, वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) वटति वृक्षं लता । इति दुर्गा-
दासः ॥


k1=वट, L=30905
वट¦, इ स्तेये । सौत्रधातुरयम् । इति कविकल्प-
द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । इदित् ।) इ,
वण्टकः । इति दुर्गादासः ॥


k1=वट, L=30906
वट¦, इ कि वण्टने । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) वण्टनं
विभागः । इ, वण्ट्यते । कि, वण्टयति वण्टति ।
वण्टन्ति हाटकं यस्मात् प्राप्य विप्राः परस्परम् ।
इति हलायुधः । अयं चुरादौ कैश्चिन्न पठ्यते ।
इति दुर्गसिंहादयः । इति दुर्गादासः ॥


k1=वट, L=30907
वट¦, त् क वेष्टे । भागे । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) वटयति ।
इति दुर्गादासः ॥


k1=वट, L=30908
वट¦, म उक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) म, वटयति । इति दुर्गा-
दासः ॥


Match 1157: vcp=वठ, skd=वठ

vcp

k1=वठ, L=40429
वठ¦ असहायकरणे भ्वा० आत्म० सक० सेट् इदित् । वण्ठते
अवण्ठिष्ट ।


k1=वठ, L=40430
वठ¦ सामर्थ्ये भ्वा० पर० अक० सेट् । वठति । अवाठीत अवठीत् ववठतुः ।


skd

k1=वठ, L=30927
वठ¦, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) स्थौल्यमिह सामर्थ्यम् । वठति
दाता दातुं समर्थः स्यादित्यर्थः । इति दुर्गा-
दासः ॥


k1=वठ, L=30928
वठ¦, इ ङ एकचरे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् । इदित् ।) एककर्त्तृकचर-
णम् । इ, वण्ट्यते । ङ, वण्ठते चौरश्चोरयितुं
एकश्चरतीत्यर्थः । इति दुर्गादासः ॥


Match 1158: vcp=वड, skd=वड

vcp

k1=वड, L=40432
वड¦ विनजने चुरा० उभ० सक० सेट् इदित् । वण्डयति ते
अववण्डत् त ।


k1=वड, L=40433
वड¦ वेष्टने विभागे च भ्वा० आ० सक० सेट् इदित् । वण्डते अवण्डिष्ट ।


k1=वड, L=40434
वड¦ आरोहणे सौ० पल० सक० सेट् । वडति अवाडीत्
अवडीत् । ववडतुः ।


skd

k1=वड, L=30931
वड¦, आरोहणे । सौत्रधातुरयम् । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) वडभी ।
बडिशम् । इति दुर्गादासः ॥


k1=वड, L=30932
वड¦, इ क विभागे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् । इदित् ।) इ क, वण्डयति ।
अयं कैश्चिन्न पठ्यते । इति दुर्गादासः ॥


k1=वड, L=30933
वड¦, इ ङ वेष्टे । विभागे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् । इदित् ।) इ, वण्ड्यते ।
ङ, वण्डते । इति दुर्गादासः ॥


Match 1159: vcp=वण, skd=वण

vcp

k1=वण, L=40439
वण¦ शब्दे भ्वा० पर० सक० सेट् । वणति अवाणीत् अव-
णीत् । ऋदित् चङि वा ह्रस्वः ।


skd

k1=वण, L=30937
वण¦, ॠ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अवीवणत् अववाणत् ।
इति दुर्गादासः ॥


Match 1160: vcp=वण्ट, skd=वण्ट

vcp

k1=वण्ट, L=40440
वण्ट¦ विभाजने अद० चुरा० उभ० सक० सेट । वण्टयति
[Page4844-a+ 38]
ते अववण्टत् त ।


skd

k1=वण्ट, L=30938
वण्ट¦, त् क भागे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) वण्टयति वण्टापयति ।
इति दुर्गादासः ॥


Match 1161: vcp=वद, skd=वद

vcp

k1=वद, L=40465
वद¦ नुतौ अभिवादने सक० भ्वा० आ० सेट् इदित् । वन्दते अवन्दिष्ट ।


k1=वद, L=40466
वद¦ वाक्ये सन्देशे च भ्वा० उभ० सक० सेट् । वदति ते
अवादीत् अवदिष्ट । ज्ञानयत्रादावात्मनेपदीत्यन्ये ।


skd

k1=वद, L=30972
व(ब)द¦, इ ङ नुत्यभिवादयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) अभिवादो नम-
स्कारः । इ, वन्द्यते । ङ, वन्दते गुरुं लोकः ।
नमस्करोति स्तौति वा इत्यर्थः । इति दुर्गादासः ॥


k1=वद, L=30973
व(ब)द¦, ऐ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऐ, उद्यात् । इति दुर्गा-
दासः ॥ (“क्विपि संवत् दन्त्योष्ठत्वात् पक्षे सानु-
नासिको वकारः सँव्वत् यस्तु मन्यते नायं
संप्रसारिणो वदेः प्रयोगः किन्तर्हि बद स्थैर्य्य
इत्यस्य ओष्ठ्यबकारादेः तन्मते मकारवदपि
सम्बदिति वर्णदेशना ।” इति मनोरमा ॥)


k1=वद, L=30974
वद¦, क वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-आत्म०-इत्येके-सेट् ।) क,
वादयति । सन्देशो वचनविशेषः । अयमात्मने-
पदीत्येके । इति दुर्गादासः ॥


k1=वद, L=30975
वद¦, ञ ङ वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-आत्म०-इत्येके-सक०-सेट् ।) ञ,
वदति वदते । ङ, वदते । अयमात्मनेपदीत्यन्ये ।
इति दुर्गादासः ॥


Match 1162: vcp=वन, skd=वन

vcp

k1=वन, L=40478
वन¦ सेवने सक० शब्दे अक० भ्वा० पर० सेट् । वनति अवानीत् अवनीत् ववनतुः ।


k1=वन, L=40479
वन¦ व्यापारे भ्वा० पर० सक० सेट् । वनति अवानीत् अव-
नीत् । ज्वला० वनः वानः । घटा० वनयति ।


k1=वन, L=40480
वन¦ याचने द्विक० तना० आ० सेट् क्त्वा वेट् । वनुते अवनिष्ट ।


k1=वन, L=40481
वन¦ उपकारे उपतापे च सक० शब्दे अक० वा चु० उभ० पक्षे
भ्वा० पर० सेट् । वानयति ते वनति । अवीवनत् त ।
अवनीत् अवानीत् ।


skd

k1=वन, L=30999
वन¦, सम्भक्तिशब्दयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) वनति । संभक्तिः
सेवनम् । इति दुर्गादासः ॥


k1=वन, L=31000
वन¦, उ म व्यापृतौ । इति कविकल्पद्रुमः । (भ्वा०-
पर०-अक०-सेट् । उदित्त्वात् क्त्वावेट् ।) उ,
वनित्वा वत्वा । म, प्रवनयति । मित्त्वेऽपि
अस्य ञौ ज्वलह्वलेत्यादिना केवलस्य ह्रस्ववि-
कल्पनात् सोपसर्गस्यैव नित्यं ह्रस्वः । वनयति
वानयति । व्यापृतिर्व्यापारः । अयन्तु कगेवत्
क्रियामात्र इत्यन्ये । इति दुर्गादासः ॥


k1=वन, L=31001
वन¦, कि उपकृतिश्रद्धाघातशब्दोपतापेषु । इति
कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-
अक० च-सेट् ।) कि, वानयति वनति । अयं
कैश्चिन्न मन्यते । इति दुर्गादासः ॥


k1=वन, L=31002
वन¦, द ङ उ याचे । इति कविकल्पद्रुमः ॥ (तना०-
आत्म०-द्विक०-सेट् । उदित्त्वात् क्त्वावेट् ।) द ङ,
वनुते । उ, वनित्वा वत्वा । इति दुर्गादासः ॥


Match 1163: vcp=वप, skd=वप

vcp

k1=वप, L=40552
वप¦ वीजवपने तन्तुवयने मुण्डने च सक० भ्वा० उभ० अनिट्
यजा० । वपति ते अवाप्सीत् अवप्त उवाप ऊपतुः ।
ड्वित् उप्त्रिमः । पित्रादिपिण्डदाने “पिण्डनिर्वपनं
चरेत्” स्मृतिः ।


skd

k1=वप, L=31133
वप¦, औ ञ डु ऐ मुण्डतन्तुबीजोप्त्योः । इति
कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।)
औ, वप्ता । ञ, वपति वपते । डु, उप्त्रिमम् ।
मुण्डो मुण्डितकरणम् । वपति मस्तकं नापितः ।
वपति तन्तुं तन्त्रवायः । यदि वपति कृषाणः
क्षेत्रमासाद्य बीजम् । इति दुर्गादासः ॥


Match 1164: vcp=वभ्र, skd=वभ्र

vcp

k1=वभ्र, L=40563
वभ्र¦ गतौ भ्वा० पर० सक० सेट् । वभ्रति अवभ्रीत् ।


skd

k1=वभ्र, L=31153
वभ्र¦, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) वकारादिः । ओष्ठ्यवर्गचतुर्थो-
पधः । वभ्रति । इति दुर्गादासः ॥


Match 1165: vcp=वम, skd=वम

vcp

k1=वम, L=40564
वम¦ उद्गारे भ्वा० पर० सक० सेट् । वमति अवमीत् । ट्वित्
वमथुः । ज्वला० वमः वामः । वमयति वामयति उप-
सृष्टस्य नित्यं ह्रस्वः । फणा० वेमतुः ववमतुः । उदित्
वमित्वा वान्त्वा वान्तः ।


skd

k1=वम, L=31155
वम¦, ण जु टु उद्गिरि । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) वकारादिः । ण,
वेमतुः ववमतुः । अन्ये तु तत्कार्य्यविधायक-
सूत्रे फणादौ चेमं न पठन्ति वेमुश्च केचिद्रुधिर-
मित्यादिसाधनाय तत्सूत्रे दन्त्यवकारादिवर्ज्जन-
स्यानित्यतां स्वीकुर्व्वन्ति । केचित् पुनर्व्वर्ग्य-
वकारादिधात्वन्तरमप्यस्ति इति प्रलपन्ति ।
ज, वामः वमः । उ, वमित्वा वान्त्वा । टु,
वमथुः । उद्गिरि वान्तौ । वमति अन्नमजीर्ण-
वान् । अमन्तत्वेऽपि ञौ ज्वलह्वल इत्यादिना
केवलस्य ह्रस्वविकल्पनात् सोपसर्गस्य नित्यं
ह्रस्वः । वमयति वामयति प्रवमयति । इति
दुर्गादासः ॥


Match 1166: vcp=वय, skd=वय

vcp

k1=वय, L=40569
वय¦ गतौ भ्वा० आ० सक० सेट् । वयते अवयिष्ट । अवयि(ढ्व)ध्वम् ।


skd

k1=वय, L=31167
वय¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, वयते । इति दुर्गा-
दासः ॥


Match 1167: vcp=वर, skd=वर

vcp

k1=वर, L=40576
वर¦ ईप्से अद० चु० उभ० सक० सेट् । वरयति ते अववरत् त ।


skd

k1=वर, L=31179
वर¦, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा०-पर०-सक०-सेट् ।) रेफोपधः । वरयति ।
इति दुर्गादासः ॥


Match 1168: vcp=वर्च, skd=वर्च्च *

vcp

k1=वर्च, L=40646
वर्च¦ दीप्तौ भ्वा० आत्म० अक० सेट् । वर्चते अवर्चिष्ट ।


skd

k1=वर्च्च, L=31300
वर्च्च¦, ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ङ, वर्च्चते ॥ इति दुर्गा-
दासः ॥


Match 1169: vcp=वर्ण्ण, skd=वर्ण *

vcp

k1=वर्ण्ण, L=40650
वर्ण्ण¦ स्तुतौ विस्तारे शुक्लादिवर्णकरणे उद्योगे दीपने च
अदु० चु० उभ० सक० सेट । वर्णयति ते अववर्णत् त ।


k1=वर्ण्ण, L=40651
वर्ण्ण¦ वर्णने चु० उभ० सक० सेट् । वर्णयति ते अववर्णत् त ।


skd

k1=वर्ण, L=31309
वर्ण¦, क वर्णे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, वर्णयति । अयं कश्चिन्न
मन्यते । वर्णः शुक्लादिक्रिया । इति दुर्गादासः ॥


k1=वर्ण, L=31310
वर्ण¦, त् क स्तुतिविस्तारशुक्लाद्युद्युक्तिदीपने । इति
कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-
दीपने अक०-सेट् ।) वर्णयति वर्णापयति कविः
स्तौतीत्यर्थः । वर्णयति तन्तुं विस्तारयतीत्यर्थः ।
वर्णयति प्रतिमां शुक्लादिवर्णां करोतीत्यर्थः ।
वर्णयति उद्युङ्क्ते दीप्यते वेत्यर्थः । शुक्लाद्य-
त्युक्तिदीपने इत्यपि पाठः । इति दुर्गादासः ॥


Match 1170: vcp=वर्द्ध, skd=वर्द्ध

vcp

k1=वर्द्ध, L=40693
वर्द्ध¦ छेदने पूरणे च चु० उभ० सक० सेट् । वर्द्धयति ते
अववर्द्धत् त ।


skd

k1=वर्द्ध, L=31386
वर्द्ध¦, क पूर्त्तिच्छिदोः । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) क, वर्द्धयति । वृघ
क दीप्तावित्यत्रैव पूर्त्तिच्छिदोश्च पाठादिष्टसिद्धा-
[Page4-291-a+ 52]
वस्य पाठश्चुरादिभ्यो ञेरनित्यतां बोधयति ।
तेन कदाचित् ञेरप्राप्तौ यगादौ वृघ क इत्यस्य
वृध्यते इत्यादि अस्य तु वर्द्धते इत्यादिभेदः ।
इति दुर्गादासः ॥


Match 1171: vcp=वर्फ, skd=वर्फ

vcp

k1=वर्फ, L=40706
वर्फ¦ गतौ बधे च भ्वा० पर० सक० सेट् । वर्फति अवर्फीत् ।


skd

k1=वर्फ, L=31403
वर्फ¦, गत्याम् । वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) वर्फति । इति दुर्गादासः ॥


Match 1172: vcp=वर्ह, skd=वर्ह

vcp

k1=वर्ह, L=40741
वर्ह¦ बधे सक० दीप्तौ अक० चु० उभ० सेट् । वर्हयति--ते अववर्हत् त ।


k1=वर्ह, L=40742
वर्ह¦ उत्कर्षे भ्वा० आ० सक० सेट् । वर्हते अवर्हिष्ट ।


skd

k1=वर्ह, L=31462
वर्ह¦, क वधे । दीप्तौ । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-वधे सक०-दीप्तौ अक०-सेट् ।)
रेफोपधः । क, वर्हयति । इति दुर्गादासः ॥


k1=वर्ह, L=31463
वर्ह¦, ङ श्रैष्ठ्ये । इति कविकल्पद्रुमः ॥ (स्वा०-
आत्म०-अक०-सेट् ।) ङ, वर्हते धनी श्रेष्ठः
स्यादित्यर्थः ॥


Match 1173: vcp=वल, skd=वल

vcp

k1=वल, L=40754
वल¦ संवरणे भ्वा० आत्म० सक० सेट् । वलते अवलिष्ट । ववलतुः वा घटा० ।


skd

k1=वल, L=31483
वल¦, मि ङ संवरणे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) मि, वलयति वाल-
यति । ङ, वलते धनं लोकः संवृणोतीत्यर्थः ।
इति दुर्गादासः ॥


Match 1174: vcp=वल्क, skd=वल्क

vcp

k1=वल्क, L=40769
वल्क¦ भाषणे चु० उभ० द्वि० येट् । वल्कयति ते अववल्कत् त ।


skd

k1=वल्क, L=31495
वल्क¦, क भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, वल्कयति । भाषणं
कथनम् । इति दुर्गादासः ॥


Match 1175: vcp=वल्ग, skd=वल्ग

vcp

k1=वल्ग, L=40775
वल्ग¦ गतौ प्लुतगतौ च भ्वा० पर० सक० सेट । वल्गति
अवल्गीत् ।


skd

k1=वल्ग, L=31507
वल्ग¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) वल्गति । अयं प्लुतगताविति
भट्टमल्लः । इति दुर्गादासः ॥


Match 1176: vcp=वल्भ, skd=वल्भ

vcp

k1=वल्भ, L=40781
वल्भ¦ पक्षणे भ्वा० आत्म० सक० सेट् । वल्भते अवल्भिष्ट ।


skd

k1=वल्भ, L=31516
वल्भ¦, ङ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) वल्भते अन्नं लोकः ।
इति दुर्गादासः ॥


Match 1177: vcp=वल्युल, skd=वल्युल

vcp

k1=वल्युल, L=40786
वल्यु(ल्यू)ल¦ छेदने पवित्रताकरणे च अद० चुरा० उभ० सक०
सेट् । वल्यु(ल्यू)लयति ते अववल्यु(ल्यू)लत् त ।


skd

k1=वल्युल, L=31525
वल्युल¦ त् क लूनिपूत्योः । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।)
वल्यूलयति अववल्यूलत् । इति दुर्गादासः ॥


Match 1178: vcp=वल्ल, skd=वल्ल

vcp

k1=वल्ल, L=40787
वल्ल¦ संवरणे भ्वा० आत्म० सक० सेट् । वल्लते अवल्लिष्ट ।


skd

k1=वल्ल, L=31527
वल्ल¦, ङ संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, वल्लते धनं लोकः
संवृणोतीत्यर्थः । इति दुर्गादासः ॥


Match 1179: vcp=वल्ह, skd=वल्ह

vcp

k1=वल्ह, L=40805
वल्ह¦ दीप्तौ चु० उभ० अक० सेट् । वल्हयति अववल्हत् त


k1=वल्ह, L=40806
वल्ह¦ उत्कर्षे भ्वा० आ० सक० सेट् । वल्हते अवल्हिष्ट ।


skd

k1=वल्ह, L=31556
वल्ह¦, क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, वल्हयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥


k1=वल्ह, L=31557
वल्ह¦, ङ श्रैष्ठे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ङ, वल्हते धनी श्रेष्ठः
स्यादित्यर्थः ।


Match 1180: vcp=वश, skd=वश

vcp

k1=वश, L=40808
वश¦ स्पृहायाम् अदा० पर० सक० सेट । वष्टि उष्टः उशन्ति ।
अवट् अवाशीत् अवशीत् उवाश ऊशतुः ।


skd

k1=वश, L=31558
वश¦, लु स्पृहि । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-सक०-सेट् ।) लु, वष्टि धनं लोकः । इति
दुर्गादासः ॥


Match 1181: vcp=वष, skd=वष

vcp

k1=वष, L=40823
वष¦ वधे भ्वा० पर० सक० सेट् । वषति अवषीत् अवाषीत् ।
ववषतुः ।


skd

k1=वष, L=31585
वष¦, वधे । इति कविकल्पद्रुमः । (भ्वा०-पर०-
सक०-सेट् ।) वषति । इति दुर्गादासः ॥


Match 1182: vcp=वष्क, skd=वष्क

vcp

k1=वष्क, L=40827
वष्क¦ गतौ भ्वा० आत्म० सक० सेट् । वष्कते अवष्किष्ट ।


skd

k1=वष्क, L=31589
वष्क¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) क्विपि वट् । ङ, वष्कते ।
इति दुर्तादासः ॥


Match 1183: vcp=वस, skd=वस

vcp

k1=वस, L=40831
वस¦ स्नेहे छेदने बधे च सक० चु० उभ० सेट् । वासयति ते
अवीवसत् त । अधि + गन्धादिनासस्कारे सक० ।


k1=वस, L=40832
वस¦ स्तम्भे दिवा० पर० सक० सेट् । वस्यति इरित् अवसत् अवा-
सीत् उदित् क्त्वा वेट् ।


k1=वस, L=40833
वस¦ निवासे भ्वा० पर० सक० अनिट् यजा० । वसति अवात्सीत्
उवास ऊसतुः उषितः उषित्वा । अधि + अनु + उप--आ + वा
वसतेराधारस्य कर्मता अधिवसति वैकुण्ठ हरिः सि० कौ०
अनुवसति उपवसति आवसति । उप + अभोजने तत्र
नाधारस्य कर्मता “एकादश्यामुपवसेत्” इत्यादि ।


k1=वस, L=40834
वस¦ आच्छादने अदा० आ० सक० सेट् । वस्ते अवसिष्ट ।


k1=वस, L=40835
वस¦ वासने सुरभीकरणे अद० चु० उभ० सक० सेट् । वसयति ते
अववसत् त ।


skd

k1=वस, L=31592
वस¦, ऐ औ निवासे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-अनिट् ।) ऐ, उस्यात् । औ,
अवात्सीत् । इति दुर्गादासः ॥


k1=वस, L=31593
वस¦, क स्नेहच्छिदोश्च । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-अक०-सक०-च सेट् ।) स्नेह इह
प्रीतिः । क, वासयति बन्धुः । चकारात् वधे
च । इति दुर्गादासः ॥


k1=वस, L=31594
वस¦, त् क वासे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा०-पर०-अक०-सेट् ।) वसयति । इति
दुर्गादासः ॥


k1=वस, L=31595
वस¦, य उ इर् स्तम्भे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् । उदित्वात् क्त्वावेट् ।)
य, वस्यति । उ, वसित्वा वस्त्वा । इर्, अवसत्
अवासीत् अवसीत् । अस्मात् पुषादित्वान्नित्यं
ङ, इत्यन्ये । स्तम्भ इह नम्रतारहितीभावः ।
यो वस्यत्यरिष्विति हलायुधः । इति दुर्गा-
दासः ॥


k1=वस, L=31596
वस¦, ल ङ स्तृतौ । इति कविकल्पद्रुमः ॥ (अदा०-
आत्म०-सक०-सेट् ।) स्तृतिरिह आच्छादन-
पूर्ब्बकधारणम् । ल ङ, वस्ते लोकः वस्त्रम् ।
इति दुर्गादासः ॥


Match 1184: vcp=वस्त, skd=वस्त

vcp

k1=वस्त, L=40867
वस्त¦ बधे गतौ च सक० याचने द्वि० चु० उभ० सेट् । वस्त-
यति ते अववस्तत् त ।


skd

k1=वस्त, L=31650
वस्त¦, क ङ वधे । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) क ङ, वस्तयते । गति-
हिंसायाचनेष्विति रमानाथः । इति दुर्गा-
दासः ॥


Match 1185: vcp=वह, skd=वह

vcp

k1=वह, L=40890
वह¦ दीप्तौ चु० उभ० सक० सेट् इदित् । वंहयति ते अवं-
हिष्ट ।


k1=वह, L=40891
वह¦ प्रापणे भ्वा० उभ० द्विक० यजा० अनिट् । वहति ते
अवाक्षीत् अवोढ उवाह ऊहे ऊढः । अस्य प्रधानकर्म-
ण्यंव लकारादयः ।


skd

k1=वह, L=31680
वह¦, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) इ क, वंहयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥


k1=वह, L=31681
वह¦, ऐ ञ औ प्रापणे । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-द्विक०-अनिट् ।) प्रापणमिह
ञ्यन्तस्य रूपम् । ऐ, उह्यात् । ञ, वहति
वहते भारं ग्रामं जनः प्रापयतीत्यर्थः । औ,
अवाक्षीत् । अर्थान्तरे अकर्म्मकोऽयम् । यथा ।
जम्बूः सरिद्वहति सीमनि कम्बुकण्ठीति
नैषधे । मन्दं मरुद्बहति गर्ज्जति वारिवाहः ।
इति महानाटके । ववाह रक्तं पुरुषास्ततो
जाताः सहस्रशः । इत्यादि सिद्ध्यर्थमोष्ठ्या-
दिञ्च वहधातुं मन्येते वर्णदेशशरणदेवौ ।
वस्तुतस्तु बह्वाद्यसम्मतत्वादेवोष्ठ्यादिरनेनोपे-
क्षितः । ववाह इति चण्डीप्रयोगस्य तु वाह
ङ यत्ने इत्यस्मात् गणकृतानित्यत्वात् परस्मैपद-
सिद्धिः । अनेकार्थत्वात् सुस्राव इत्यर्थः । अथवा
वव इत्याह इत्येव व्याख्यानम् । इति दुर्गा-
दासः ॥


Match 1186: vcp=वा, skd=वा

vcp

k1=वा, L=40930
वा¦ सुखाप्तौ अक० गतौ सेवने च सक० चुरा० उभ० सेट् ।
वापयति ते अवीवपत् त ।


k1=वा, L=40931
वा¦ गमने हिंसने (सूचने) च अदा० पर० सक० अनिट् । वाति अबासीत् ।


skd

k1=वा, L=31737
वा¦, क सुखाप्तिगतिसेवासु । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सुखाप्तौ अक०-अन्यत्र सक०-
सेट् ।) क, वापयति । इति दुर्गादासः ॥


k1=वा, L=31738
वा¦, ल गमनहिंसयोः । इति कविकल्पद्रुमः ॥
(अदा०-पर०-सक०-सेट् ।) ओष्ठ्यादिरप्यय-
मित्येके । गमनमिह वायुकर्त्तृकमेव । ल, वाति
वायुः । हिंसनं सूचनमिति चतुर्भुजः । इति
दुर्गादासः ॥


Match 1187: vcp=वाक्ष, skd=वाक्ष

vcp

k1=वाक्ष, L=40943
वाक्ष¦ स्पृहायां भ्वा० पर० सक० सेट् इदित् । वाङ्क्षति अवाङ्क्षीत् ।


skd

k1=वाक्ष, L=31756
वाक्ष¦, इ काङ्क्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, वाङ्क्षति । नमध्यपाठे-
नैवेष्टसिद्धौ इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
इति तट्टीकायां दुर्गादासः ॥


Match 1188: vcp=वाछ, skd=वाछ

vcp

k1=वाछ, L=40977
वाछ¦ कामे भ्वा० पर० सक० सेट इदित् । वाञ्छति अवाञ्छीत् । भावे--अ । वाञ्छा ।


skd

k1=वाछ, L=31806
वाछ¦, इ कामे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, वाञ्छ्यते । इति दुर्गादासः ॥


Match 1189: vcp=वाड, skd=वाड

vcp

k1=वाड, L=40997
वाड¦ आप्लावे भ्वा० आ० अक० सेट् चङि न ह्रस्वः । वाडते अवाडिष्ट ।


skd

k1=वाड, L=31840
वाड¦, ऋ ङ आप्लावे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) ऋ, अववाडत् ।
[Page4-325-c+ 52]
ङ, वाडते लोकः । आप्लावः स्नानम् । उन्म-
ज्जनम् । इत्येके । इति दुर्गादासः ॥


Match 1190: vcp=वात, skd=वात

vcp

k1=वात, L=41005
वात¦ गतौ सेवायां सुखीकरणे च सक० अद० च० उभ० सेट् ।
वातयति ते अववातत् त ।


skd

k1=वात, L=31845
वात¦, त् क गतिसेषयोः । सुखे । इति कविकल्प-
द्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
अववातत् । त्रयोऽर्थाः । रमानाथस्तु गति-
सुखसेवयोरिति मत्वा गतौ सुखं गतिसुखम् ।
वातयति पान्थं वातः गच्छन्तं सुखयतीत्यर्थः ।
इत्याह । सुखसेवनयोरिति जौमराः । इति
दुर्गादासः ॥


Match 1191: vcp=वाध, skd=वाध

vcp

k1=वाध, L=41069
वा(बा)ध¦ विघाते भ्वा० आत्म० सक० सेट् । वा(बा)धते आवा-
(बा)पिष्ट । चङि न ह्रस्वः ।


skd

k1=वाध, L=31942
वाध¦, ऋ ङ विहतौ । इति कविकल्पद्रुमः । ऋ,
अववाधत् । ङ, वाधते । इति दुर्गादासः ॥


Match 1192: vcp=वावृत, skd=वावृत

vcp

k1=वावृत, L=41228
वावृत¦ संभक्तौ द्रि० आत्म० सक० सेट् क्त्वा वेट् । वावृत्यते
अवावर्त्तिष्ट । “ततो वावृत्त्यमाना सा” भट्टिः ।


skd

k1=वावृत, L=32191
वावृत¦, य ङ उ संभक्तौ । वरणे । इति कविकल्प-
द्रुमः ॥ (दिवा०-आत्म०-सक०-सेट् । क्त्वावेट् ।)
य ङ, वावृत्यते । उ, वावर्त्तित्वा वावृत्त्वा ।
संभक्तिःसेवनम् । इति दुर्गादासः ॥ (“ततो
वावृत्यमानासाविति भट्टिः ॥)


Match 1193: vcp=वाश, skd=वाश

vcp

k1=वाश, L=41230
वाश¦ तिरश्चां शब्दे अक० आह्वाने सक० दि० आत्म० सेट्
ऋदित् चङि न ह्रस्वः । वाश्यते अवाशिष्ट । “उद्वाश्य-
मानः पितरम्” भट्टिः ।


skd

k1=वाश, L=32193
वाश¦, य ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-अक०-आह्वाने सक०-सेट् ।)
शब्द इह तिरश्चामेव । तिरश्चां वाशितं रुत-
मित्यमरात् । य ङ, वाश्यते पक्षी । ऋ, अव-
वाशत् । उद्वाश्यमानः पितरं स राममिति
भट्टौ । अनेकार्थत्वादाह्वानार्थः । वासितं
सुरभीकृते । ज्ञानमात्रे खगारावे वासितं वस्त्र-
वेष्टिते । इति विश्वप्रकाशाद्दन्त्यान्तोऽयमपीति ।
इति दुर्गादासः ॥


Match 1194: vcp=वास, skd=वास

vcp

k1=वास, L=41237
वास¦ सुरभीकरणे अद० चु० उभ० सक० सेट् । वासयति ते अववासत् त ।


skd

k1=वास, L=32211
वास¦, त् क उपसेवायाम् । इति कविकल्पद्रुमः ।
(अदन्त चुरा०-पर०-सक०-सेट् ।) उपसेवा
तु गुणान्तराधानाम् । अववासद्वस्त्रं चन्द्रनः ।
इति दुर्गादासः ॥


Match 1195: vcp=वाह, skd=वाह

vcp

k1=वाह, L=41276
वाह¦ यत्ने भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः ।
वाहते अवाहिष्ट ।


skd

k1=वाह, L=32270
वाह¦, ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ऋ, अववाहत् । ङ,
वाहते । ववाह रक्तं पुरुषास्ततो जाताः सह-
स्रशः इत्यादि सिद्ध्यर्थमोष्ठ्यादिश्च वहधातुं
मन्येते वर्णदेशशरणदेवौ । वस्तुतस्तु बहुवाद्य-
सम्मतत्वादेवोष्ठ्यादिरनेनोपेक्षितः ववाहेति
चण्डीप्रयोगस्य तु वाह ऋ ङ यत्ने इत्यस्मात्
गणकृतानित्यत्वात् परस्मैपदसिद्धिः अनेकार्थ-
त्वात् सुस्रावेत्यर्थः । अथवा वव इत्याह इत्येव
व्याख्यानम् । इति दुर्गादासः ॥


Match 1196: vcp=विच, skd=विच

vcp

k1=विच, L=41385
विच¦ पृथक्करणे रु० जु० वा उ० अक० अनिट् । विनक्ति वि-
वेक्ति विङ्क्ते विविक्ते । इरित् अविचत् अवैक्षीत् ।


skd

k1=विच, L=32443
विच¦, इर् लि ध औ ञ पृथक्त्वे । इति कवि-
कल्पद्रुमः ॥ (अदा०-ह्वा०-रुधा०-च-उभ०-
अक०-सकञ्च-अनिट् ।) इर्, अविचत् ।
अवैक्षीत् । लि, ञ, वेवेक्ति वेविक्ते मूर्खात्
पण्डितः पृथक् स्यादित्यर्थः । विज इति जान्तो
यः स एव चान्तोऽपि पठ्यते कस्यचिदनुरोधात्
[Page4-378-a+ 52]
तेन निजां खेरेणुरित्यस्य वृत्तौ विजग्रहणे-
नैवास्य ग्रहणात् खेर्गुणः । ध ञ, विनक्ति
विङ्क्ते । विविनच्मि दिवः सुरान् इति
पृथक् करोमीत्यर्थः । औ, वेक्ता । इति दुर्गा-
दासः ॥


Match 1197: vcp=विच्छ, skd=विच्छ

vcp

k1=विच्छ, L=41402
विच्छ¦ दीप्तौ चु० उभ० सक० सेट् । विच्छयति ते अविविच्छत् त


k1=विच्छ, L=41403
विच्छ¦ गतौ तु० पर० स्वार्थे आय, आयपक्षे उ० सक० सेट् ।
विच्छायति विच्छायते विच्छति । अविच्छायीत् अविच्छा-
यिष्ट अविच्छीत् ।


skd

k1=विच्छ, L=32472
विच्छ¦, क त्विषि । इति कविकल्पद्रुमः (चुरा०-
पर०-अक०-सेट् ।) क, विच्छयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥


k1=विच्छ, L=32473
विच्छ¦, श गतौ । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) विच्छायति विच्छायते
आयन्तत्वादुभयमिति वोपदेवः । पक्षे विच्छति ।
श, विच्छती विच्छन्ती । इति दुर्गादासः ॥


Match 1198: vcp=विज, skd=विज

vcp

k1=विज, L=41409
विज¦ पृथक्करणे जु० उभ० सक० अनिट् । वेवेक्ति वेविक्ते
इरित् अविजत् अवैक्षीत् अविक्त ।


k1=विज, L=41410
विज¦ भये कम्ये च रु० पर० अक० सेट् । विनक्ति अविजीत् ।
ईदित् ओदिच्च विग्नः ।


k1=विज, L=41411
विज¦ भये कम्पे च तु० आ० अ० अनिट् । विजते अविजिष्ट । ईदित् ओदिच्च क्त--विग्नः ।


skd

k1=विज, L=32483
विज¦, इर् लि ञ औ वेके । इति कविकल्पद्रुमः ॥
(अदा०-ह्वा०-उभ०-अक०-अनिट् ।) वेक
इति विचिर्लि धौ ञ पृथक्त्वे इत्यस्य घञि
रूपम् । इर्, अविजत् अवैक्षीत् । लि ञ,
वेवेक्ति वेविक्ते मूर्खात् पण्डितः कृथक् स्यादि-
त्यर्थः । औ, वेक्ता । इति दुर्गादासः ॥


k1=विज, L=32484
विज¦, ई ओ ध भीकम्पे । इति कविकल्पद्रुमः ॥
(रुधा०-पर०-अक०-सेट् । अनिड्निष्ठः ।)
ई ओ, विग्नः । ध, विनक्ति । इति दुर्गादासः ॥


k1=विज, L=32485
विज¦, ङ श ई ओ भीकम्पे । इति कविकल्पद्रुमः ॥
(तुदा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
ङ श, विजते । ई ओ, विग्नः । द्बावर्थौ । इति
दुर्गादासः ॥


Match 1199: vcp=विट, skd=विट

vcp

k1=विट, L=41439
विट¦ आक्रोशे सक० स्वने अक० भ्वा० पर० सेट् । वेटति
अवेटीत् ।


skd

k1=विट, L=32539
विट¦, आक्रोशे । स्वने । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-स्वने अक०-सेट् ।) वेटति ।
आक्रोशः । कैश्चिन्न पठ्यते । स्वनः शब्दः ।
इति दुर्गादासः ॥


Match 1200: vcp=विड, skd=विड

vcp

k1=विड, L=41451
विड¦ आक्रोशे भ्वा० पर० सक० सेट् । वेडति अवेडीत् ।


skd

k1=विड, L=32558
विड¦, आक्रोशे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) वेडति शत्रुं बली । इति
दुर्गादासः ॥


Match 1201: vcp=वित्त, skd=वित्त

vcp

k1=वित्त, L=41475
वित्त¦ त्यामे अद० चु० उभ० सक० सेट् । वित्तयति ते अवि-
वित्तत् त वित्तापयतीत्यपि ।


skd

k1=वित्त, L=32609
वित्त¦, त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा०-पर०-सक०-सेट् ।) वित्तयति । वित्ता-
पयति । इति दुर्गादासः ॥


Match 1202: vcp=विथ, skd=विथ

vcp

k1=विथ, L=41480
विथ¦ याचने भ्वा० आ० द्विक० सेट् चङि न ह्रस्वः । येथते अवेथिष्ट ।


skd

k1=विथ, L=32618
विथ¦, ऋ ङ याचे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-द्विक०-सेट् ।) वेथते । इति दुर्गादासः ॥


Match 1203: vcp=विद, skd=विद

vcp

k1=विद, L=41483
विद¦ सुखाद्यनुभवे आख्याने, वादे च सक० वासे अल० चु०
उभ० सेट् । वेदयति ते अवीविदत् त ।


k1=विद, L=41484
विद¦ लाभे तु० उभ० सक० अनिट् मुचादि । विन्दति ते ।
ऌदित् अविदत् अवित्त । विनेद विविदे । विन्नं वित्तम् ।


k1=विद, L=41485
विद¦ मीमांसे रुधा० आ० सक० अनिट् । विन्ते अवित्त ।


k1=विद, L=41487
विद¦ ज्ञाने अदा० पर० सक० सेट् । वेत्ति० वेद । अवेदीत् ।


skd

k1=विद, L=32621
विद¦, ऌ प श ञौ लाभे । इति कविकल्पद्रुमः ॥
(तुदा०-उभ०-सक०-अनिट् ।) ऌ, अविदत् ।
प श ञ, विन्दति विन्दते । औ, वेत्ता । इति
दुर्गादासः ॥


k1=विद, L=32622
विद¦, क ङ ञ चेतनाख्यानवासवादे । इति कवि-
कल्पद्रुमः ॥ (चुरा०-आत्म०-उभ०-च-सक०-
वासे स्थैर्य्ये च अक०-सेट् ।) चेतना ज्ञानम् ।
वादः स्थैर्य्यम् । क ङ, वेदयते शास्त्रं धीरः
[Page4-386-b+ 52]
जानातीत्यर्थः । वेदयते स्वार्थं लोकः आख्या-
तीत्यर्थः । वेदयते तीर्थे साधुर्वसतीत्यर्थः ।
वेदयते वृक्षः स्थिरः स्यादित्यर्थः । ञ, वेदयति
वेदयते । केचित्तु वादं न पठन्ति । चेतनास्थाने
वेदनेति पठित्वा वेदयते वृद्धः व्यथते इत्यर्थः ।
इत्युदाहरन्ति । अस्माच्च परस्मैपदममन्यमाना
जितां सपत्नेन निवेदयिष्यत इति निवेदनं करो-
तीत्यर्थे ञौ समादधते । इति दुर्गादासः ॥


k1=विद, L=32623
विद¦, ङ धौ मीमांसे । इति कविकल्पद्रुमः ॥
(रुधा०-आत्म०-सक०-अनिट् ।) मीमांसो
विचारणम् । ङ ध, विन्ते शास्त्रं धीरः । औ,
वेत्ता । इति दुर्गादासः ॥


k1=विद, L=32624
विद¦, य ङ औ भावे । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-अक०-अनिट् ।) भावः सत्ता
स चेह विद्यमानतैव । य ङ, विद्यते विष्णुः ।
औ, वेत्ता । इति दुर्गादासः ॥


k1=विद, L=32625
विद¦, ल मतौ । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-सक०-सेट् ।) ल, वेत्ति । इति दुर्गा-
दासः ॥


Match 1204: vcp=विध, skd=विध

vcp

k1=विध, L=41548
विध¦ विधाने छिद्रकरणे छेदने च तु० पर० सक० सेट् । विधति । अवेधीत्


skd

k1=विध, L=32728
विध¦, श विधौ । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) विधिर्विधानम् । श, विधति
वेधा जगत् । अनेकार्थत्वात् छिद्रकरणेऽप्ययम् ।
विधितच्छिद्रितौ विद्धे । इत्यमरः ॥ कर्णवेधः ।
इति दुर्गादासः ॥


Match 1205: vcp=विप, skd=विप

vcp

k1=विप, L=41610
विप¦ क्षेपे चु० उभ० सक० सेट् । वेपयति--ते अवीविपत् त ।


skd

k1=विप, L=32838
विप¦, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०
-सक०-सेट् ।) क, वेपयति । इति दुर्गादासः ॥


Match 1206: vcp=विल, skd=विल

vcp

k1=विल, L=41753
विल¦ स्तृतौ तु० पर० सक० सेट् । विलति अवेलीत् ।


skd

k1=विल, L=33074
विल¦, श स्तुतौ । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) स्तुतिरिह आच्छादनम् ।
श, विलति वस्त्रं लोकः परिदधाति इत्यर्थः ।
वेलिता । अयं कैश्चिन्न मन्यते । इति दुर्गा-
दासः ॥


Match 1207: vcp=विश, skd=विश

vcp

k1=विश, L=41800
विश¦ प्रवेशे तु० पर० सक० अनिट् । विशति अविक्षत् ।
अधि + उपवेशने ।
अभि + नि + मनसः स्थितिहेतुसंयोगभेदे आत्म० एतदर्थे आधा-
रस्य कर्मता धर्ममभिनिवेशते अन्यत्रार्थे न कर्मता । “या
या संज्ञा यस्मिन् यस्मिन्नमिनिविशते” भाष्यम् । “क्वपि-
दपवादविषयेऽप्युत्सर्गोऽभिनिविशते” व्या० परिभाषा ।
उप + आसनादौ स्थितिभेदे ।
नि + स्थितिभेदे आत्म० “निविशते यदि शूकशिखा पदे” मैम०
निर् + उपभोगे “क्रीडारसं निर्विशतीव बाल्ये” कुमा० ‘निर्वेपी-
भृतिभोगयोः’ अमरः “निर्विष्टविषयस्नेहः” रघु० ।
प्र + अभ्यन्तरगमने ।


skd

k1=विश, L=33178
विश¦, औ श प्रवेशे । इति कविकल्पद्रुमः ।
(तुदा०-पर०-सक०-अनिट् ।) श, विशति ।
औ, अविक्षत् । विवेश कश्चिज्जटिलस्तपोवनम् ।
विपराजिपरिव्यवक्रीनिविशेत्यादिनात्मनेपदवि-
धानेऽपि भर्त्तुरङ्के निविशती भयादिति रघौ ।
केवलात् शतृप्रत्ययं विधाय पश्चादुपसर्गयोगा-
दिति दुर्घटवृत्तिः । निशब्द इह उपसर्गप्रति-
रूपको वा । यस्माद्विश्वमिदं सर्व्वं तस्य शक्त्या
महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः
प्रवेशनादिति पुराणे विष्णुशब्दव्युत्पादनात्
मूर्द्धन्यान्तोऽयमिति केचित् तच्चिन्त्यम् । ताल-
व्यान्तस्यैव सर्व्वसम्मतत्वात् । इति दुर्गादासः ॥


Match 1208: vcp=विष, skd=विष

vcp

k1=विष, L=41903
विष¦ व्याप्तौ जु० उभ० सक० अनिट् । वेवेष्टि वेविष्टे इरित्
अविषत् अविक्षत् त । विष्णुः ।


k1=विष, L=41904
विष¦ विप्रयोगे क्र्या० पर० अक० अनिट् । विष्णाति अविक्षत्


k1=विष, L=41905
विष¦ सेचने भ्वा० पर० सक० अनिट् । वेषति अविष्टत् ।


skd

k1=विष, L=33330
विष¦, इर् लि ञ औ ङ व्याप्तौ । इति कवि-
कल्पद्रुमः ॥ (ह्वा०-उभ०-आत्म०-इत्येके-सक०-
अनिट् ।) इर्, अविषत् अविक्षत् । लि ञ,
वेवेष्टि वेविष्टे । औ, वेष्टा । ङ, वेविष्टे । उभय-
पदीत्यन्ये । अफलवत् कर्त्तरि आत्मने पदार्थो
ङकारः । इति दुर्गादासः ॥


k1=विष, L=33331
विष¦, उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् । क्त्वावेट् ।) उ, वेषित्वा
विष्ट्वा । इति दुर्गादासः ॥


k1=विष, L=33332
विष¦, ग औ विप्रयोगे । इति कविकल्पद्रुमः ॥
(क्र्या०-पर०-अक०-अनिट् ।) ग, विष्णाति
ज्ञानी पुत्त्रादिभ्यो वियुक्तः स्यात् इत्यर्थः । औ,
अविक्षत् । दन्त्यान्तोऽयमिति । विष्णुव्युत्पत्तौ
सुभूतिः । इति दुर्गादासः ॥


Match 1209: vcp=वी, skd=वी

vcp

k1=वी, L=42065
वी¦ कान्तौ जनने च अक० गतो व्याप्तो क्षेपे भोजने च सक०
अदा० पर० अनिट् । येति अवैषीत् ।


skd

k1=वी, L=33571
वी¦, ल ईलवत् । कान्तिगतिव्याप्तिक्षेपप्रजनखादने ।
इति कविकल्पद्रुमः ॥ (अदा०-पर० कान्तौ
अक०-गतौ व्याप्तौ क्षेपे प्रजने खादने च सक०-
अनिट् ।) ल, वेति । इति दुर्गादासः ॥


Match 1210: vcp=वुग, skd=वुग

vcp

k1=वुग, L=42149
वुग¦ योगे भ्वा० पर० पक० सेट् इदित् । वुङ्गति अवुङ्गीत् ।


skd

k1=वुग, L=33695
वुग¦, इ त्यागे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) इ, वुङ्ग्यते । इति दुर्गादासः ॥


Match 1211: vcp=वुट, skd=वुट

vcp

k1=वुट, L=42150
वुट¦ क्षये चुरा० उभ० सक० सेट् इदित् । वुण्टयति अवुवृण्टत् त


skd

k1=वुट, L=33696
वुट¦, इ क क्षित्याम् । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) पञ्चमस्वरी । इ,
वुण्ट्यते । क, वुण्टयति । क्षितिर्हिंसा । इति
दुर्गादासः ॥


Match 1212: vcp=वृ, skd=वृ

vcp

k1=वृ, L=42151
वृ¦ आवरणे चु० उभ० सक० सेट् । वारयति ते अवीवरत् त ।


k1=वृ, L=42152
वृ¦ सेवायां क्र्या० आ० सक० सेट् । वृणीते “वृणते हि विमृष्य-
कारिणम्” किरा० । अवरीष्ट अवरिष्ट अवृत ।


k1=वृ, L=42153
वृ¦ वरणे भ्वा० उभ० सक० सेट् । वरति ते अवारीत् अवरि(री)ष्ट


k1=वृ, L=42154
वृ¦ वरणे स्वादि० क्र्या० च उभ० सक० सेट् । वृणोति वृणुत
वृणाति वृणीते अवारीत् अवरिष्ट अवरीष्ट अवृत ।


skd

k1=वृ, L=33698
वृ¦, क च वृतौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, वारयति । इति
दुर्गादासः ॥


k1=वृ, L=33699
वृ¦, ङ ग संभक्तौ । इति कविकल्पद्रुमः ॥ (क्र्या०-
आत्म०-सक०-सेट् ।) संभक्तिः सेवनम् ।
ङ ग, वृणीते । वृणते हि विमृष्यकारिणं गुण-
लुब्धाः स्वयमेव सम्पदः । इति दुर्गादासः ॥


k1=वृ, L=33700
वृ¦, ञ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-
सक०-सेट् ।) ञ, वररि वरते । इति
दुर्गादासः ॥


k1=वृ, L=33701
वृ¦, न ग ञ वृतौ । इति कविकल्पद्रुमः ॥ (स्वा०-
क्र्या० च-उभ०-सक०-सेट् ।) न ञ, वृणोति
वृणुते । ग ञ, वृणाति वृणीते । वकारस्य दन्त्य-
त्वात् संवृणोति इत्यादौ नानुस्वारस्य मकारः ।
ओष्ठ्यत्वाच्च युवूर्षतीत्यादौ ऋदिरणावित्यूर् ।
न च दन्त्यस्य कथमोष्ठ्यकार्य्यमिति वाच्यं यतः
स्वभावादोष्ठ्यस्य वकारस्य ओष्ठ्यकार्य्यं स्वाभा-
विकमेव । क्वचिद्दन्त्यमध्ये पाठः नह्येकवर्णस्यो-
भयस्थानं सम्भवति । इति दुर्गादासः ॥


Match 1213: vcp=वृक, skd=वृक

vcp

k1=वृक, L=42156
वृक¦ आदाने भ्वा० आत्म० सक० सेट् । वर्कते अवर्किष्ट ।


skd

k1=वृक, L=33704
वृक¦, ङ आदाने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, वर्कते । वरीवृक्यते ।
इति दुर्गादासः ॥


Match 1214: vcp=वृक्ष, skd=वृक्ष

vcp

k1=वृक्ष, L=42165
वृक्ष¦ वरणे भ्वा० आत्म० सक० सेट् । वृक्षने अवृक्षिष्ट ।


skd

k1=वृक्ष, L=33716
वृक्ष¦, ङ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) सप्तमस्वरी । ङ, वृक्षते
वरं कन्या । इति दुर्गादासः ॥


Match 1215: vcp=वृच, skd=वृच

vcp

k1=वृच, L=42183
वृच¦ वृतौ रु० पर० सक० सेट् । वृणक्ति । अवर्चीत् । ईदित्
निष्ठा अनिट् वृक्तः ।


skd

k1=वृच, L=33745
वृच¦, ई ध वृतौ । इति कविकल्पद्रुमः ॥ (रुधा०-
पर०-सक०-सेट् । अनिड्निष्ठः ।) ई, वृक्तः ।
ध, वृणक्ति । वरीवृच्यते । वर्ज्जनार्थोऽयमित्येके ।
इति दुर्गादासः ॥


Match 1216: vcp=वृज, skd=वृज

vcp

k1=वृज, L=42184
वृज¦ त्यागे अदा० आत्म० सक० सेट् ईदित् । वृङ्क्ते अवृञ्जिष्ट
नेदिदप्ययम् । वृक्ते अवर्जिष्ट ईदित् निष्ठा अनिट् वृक्तः ।


k1=वृज, L=42185
वृज¦ त्यागे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वर्जयति
ते वर्जति । अववर्जत्--अवीवृजत् । अवर्जीत् ईदित् ।
वर्जितः भ्वा० निष्ठा अनिट् । वृक्तः ।


skd

k1=वृज, L=33746
वृज¦, ई कि त्यागे । इति कविकल्पद्रुमः ॥ (चुरा०-
भ्वा० च-पर०-सक०-सेट् । अनिड्निष्ठः ।) ई,
वृक्तः । कि, वर्ज्जयति वर्ज्जति । इति दुर्गादासः ॥


k1=वृज, L=33747
वृज¦, ई ध वृतौ । त्यागे । इति कविकल्पद्रुमः ॥
(रुधा० पर०-सक०-सेट् । अनिड्निष्ठः ।) ई,
वृक्तः । ध, वृणक्ति । वरीवृज्यते । इति दुर्गादासः ॥


k1=वृज, L=33748
वृज¦, ल ङ इ त्यागे । इति कविकल्पद्रुमः ॥
(अदा०-आत्म०-सक०-सेट् ।) सप्तमस्वरी । ल,
ङ, वृङ्क्ते । इ, वृञ्ज्यते । इति दुर्गादासः ॥


k1=वृज, L=33749
वृज¦, ल ङ ई त्यागे । इति कविकल्पद्रुमः ॥
(अदा०-आत्म०-सक०-सेट् । अनिड्निष्ठः ।)
सप्तमस्वरी । ल, ङ, वृक्ते । ई, वृक्तः । इति
दुर्गादासः ॥


Match 1217: vcp=वृण, skd=वृण

vcp

k1=वृण, L=42189
वृण¦ भक्षर्णे तना० उभ० सक० सट् । वृणोति वर्णोति वृणुते
[Page4946-b+ 38]
अवर्णीत् अवर्णिष्ट । उदित् क्त्वा वेट् ।


skd

k1=वृण, L=33755
वृण¦, द ञ उ भक्षे । इति कविकल्पद्रुमः ॥ (तना०-
उभ०-सक०-सेट् । क्त्रावेट् ।) द ञ, वृणोति
वर्णोति वृणुते वर्णुते । उ, वर्णित्वा वृत्वा ।
इति दुर्गादासः ॥


Match 1218: vcp=वृत, skd=वृत

vcp

k1=वृत, L=42190
वृत¦ दीप्तौ चु० उभ० सक० सेट् । वर्त्तयति ते अवीवृतत् त अयवर्त्तत् त ।


k1=वृत, L=42191
वृत¦ पर्त्तने भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक०
सेट् । वर्त्तते । अवृतत् अवर्त्तिष्ट ऌटि ऌङि च पर०
नेट् वर्त्स्यति वर्त्तिष्यते । सनि च तथा विवर्त्तिषते,
विवृत्सति । उदित् क्त्वा वेट् ।


skd

k1=वृत, L=33756
वृत¦, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०
-अक०-सेट् ।) क, वर्त्तयति । इति दुर्गादासः ॥


k1=वृत, L=33757
वृत¦, ङ उ व ऌ वर्त्तने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-स्यसनोः उभ०-अक०-सेट् । क्त्वावेट् ।)
ङ, वर्त्तते । उ, वर्त्तित्वा वृत्त्वा । व, वर्त्स्यति
विवृत्सति । ऌ, अवृतत् । इति दुर्गादासः ॥


k1=वृत, L=33758
वृत¦, य ङ उ सम्भक्तौ । वरणे । इति कविकल्प-
द्रुमः ॥ (दिवा०-आत्म०-सक०-सेट् । क्त्वावेट् ।)
य ङ, वृत्यते । उ, वर्त्तित्वा वृत्त्वा । सम्भक्तिः
सेवनम् । इति दुर्गादासः ॥


Match 1219: vcp=वृध, skd=वृध

vcp

k1=वृध, L=42237
वृध¦ दीप्तौ चु० उभ० अक० सेट् । वर्द्धयति ते अवीवृधत् त
अववर्द्धत् त ।


k1=वृध, L=42238
वृध¦ वृद्धौ भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक०
सेट वृता० । वर्द्धते ऋदित् अवृधत् अवर्द्धिष्ट वृतवत्
वतर्स्यति वर्द्धिष्यते । उदित् क्त्वा वेट् ।


skd

k1=वृध, L=33824
वृध¦, उ ङ व ऌ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् । क्त्वावेट् ।) उ, वर्द्धित्वा
वृद्ध्वा । ङ, वर्द्धते जनः । व, वर्त्स्यति विवृत्सति ।
ऌ, अवृधत् । इति दुर्गादासः ॥


k1=वृध, L=33825
वृध¦, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, वर्द्धयति । इति दुर्गा-
दासः ॥


Match 1220: vcp=वृश, skd=वृश

vcp

k1=वृश, L=42249
वृश¦ वृतौ दिवा० पर० सक० सेट् । वृश्यति अवृशत् अवर्शीत्
पुषादिरवमित्येके तेन अवृशदित्येव ।


skd

k1=वृश, L=33844
वृश¦, इर् य वृत्याम् । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) इर्, अवृशत् अव-
र्शीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य,
वृश्यति वरं कन्या । इति दुर्गादासः ॥


Match 1221: vcp=वृष, skd=वृष

vcp

k1=वृष, L=42258
वृष¦ सेचने सक० भ्वा० पर० प्रजननसामर्थ्ये ऐश्वर्य्ये अक०
सेट् । वर्षात अवर्षीत् । उदित् क्त्वा वेट् ।


k1=वृष, L=42259
वृष¦ प्रजननसामर्थ्ये ऐश्वर्य्ये चुरा० आत्म० सक० सेट् । वर्ष-
यते अवीवृषत--अववर्षत ।


skd

k1=वृष, L=33854
वृष¦, उ सेचने । प्रजनैश्ये । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-अक० च-सेट् । क्त्वावेट् ।)
उ, वर्षित्वा वृष्ट्वा । इति दुर्गादासः ॥


k1=वृष, L=33855
वृष¦, क ङ प्रजनैश्ये । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-अक०-सेट् ।) क ङ, वर्षयते ।
अस्य पञ्चमस्वरानुबन्धो लेखकश्रमकृतः
सुधीभिर्हेयः । ञ्यन्तेभ्यः सर्व्वत्र नित्येम् साम्प्र-
दायिकत्वात् । न च प्राचामनुरोधात् पाठ्य
इति वाच्यम् । तर्हि अनृक् व्यक्तौ । क ङ वनृ
वञ्चने । वृत क ङ दीप्तौ । दिव क ङ परि-
कूजने । कदि वर्द्धे । वृष क ङ शक्तिबन्धे ।
जसक् वधेऽनादरे । इत्येषामष्टानामपि पञ्चम-
स्वरानुबन्धापत्तेः वस्तुतस्तु एषां पञ्चमस्वरानु-
बन्धः प्राचीनपठितोऽप्यनर्थः । अतएव रमा-
नाथोऽपि एषामुदनुबन्धः पूर्ब्बपठितधातवो-
ऽर्थान्तरेषु चुरादयः स्युर्नत्वेते पृथग्धातव
इति ज्ञापनार्थ इत्याह । प्रजनो गर्भग्रहणं
ऐश्यमैश्वर्य्यम् । इति दुर्गादासः ॥


Match 1222: vcp=वृह, skd=वृह

vcp

k1=वृह, L=42306
वृह¦ दोप्तौ वा चु० उभ० सक० पक्षे भ्वा० पर० इदित् । वृंह-
यति ते अववृंहत् त । वृंहति अवृंहीत् ।


k1=वृह, L=42307
वृह¦ वृद्धौ शब्दे च अक० भ्वा० पर० सक० सेट् । वर्हति
इरित् अवृहत् अवर्हीत् ।


k1=वृह, L=42308
वृह¦ ध्वनौ हस्तिध्वनौ वृद्धौ च भ्वा० पर० पर० अक० सेट् । इदित् । वृंहति अवृंहीत्


k1=वृह, L=42309
वृह¦ वृद्धौ भ्वा० पर० सक० सेट् । वर्हति अवर्हीत् ।


k1=वृह, L=42310
वृह¦ उद्यमे तु० पर० अक० वेट् । वृहति । अवर्हीत्--अवृक्षत् ।


k1=वृह, L=42311
वृह¦ वृद्धौ भ्वा० आत्म० सक० सेट् इदित् । वृंहते अवृंहिष्ट ।


skd

k1=वृह, L=33919
वृह¦, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) वर्हति । वृहिर्ध्वनर्द्ध्योरित्यने-
नैवेष्टसिद्धेऽस्य पाठो वृद्धौ इरनुबन्धवर्ज्जनार्थः ।
किन्तु अनेनैवेष्टसिद्धे तत्र ऋद्धि ग्रहणं परत्रा-
नुवृत्त्यर्थमेव । अयं धातुः कैश्चिन्य मन्यते ।
इति दुर्गादासः ॥


k1=वृह, L=33921
वृह¦, इ कि त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-अक०-सेट् ।) सप्तमस्वरी ।
इ, वृंह्यते । कि, वृंहयति वृंहति । इति
दुर्गादासः ॥


k1=वृह, L=33922
वृह¦, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) इ, वृंह्यते । ङ, वृंहते ।
इति दुर्गादासः ॥


k1=वृह, L=33923
वृह¦, इर् ध्वने । ऋद्धौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) इर्, अवृहत् ।
अवर्हीत् । ध्वनः शब्दः । ऋद्धिर्व्वृद्धिः । इति
दुर्गादासः ॥


k1=वृह, L=33924
वृह¦, श ऊ उद्यमे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-अक०-वेट् ।) श, वृहति । ऊ, अवर्हीत् ।
अवृक्षत् । इति दुर्गादासः ॥


Match 1223: vcp=वॄ, skd=वॄ

vcp

k1=वॄ, L=42350
वॄ¦ वरणे क्र्या० प्वा० उभ० सक० सेट् । वृणाति वृणीते अ-
वारीत् अवरिष्ट--अवरीष्ट अवूर्त्त । ववरतुः ।


skd

k1=वॄ, L=33972
वॄ¦, गि ञ वृत्याम् । इति कविकल्पद्रुमः ॥ (क्य्रा०-
उभ०-सक०-सेट् ।) गिं, ञ, वृणाति वृणीते ।
वूर्णः । वूर्णिः । इति दुर्गादासः ॥


Match 1224: vcp=वे, skd=वे

vcp

k1=वे, L=42351
वे¦ स्यूतौ भ्वा० उभ० यजा० सक० अनिट् । वयति ते अवासीत्
अवास्त वा वयादेशः उवाय ऊयतुः ऊवतुः ।


skd

k1=वे, L=33973
वे¦, ऐ ञ स्यूतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-अनिट् ।) स्यूतिस्तन्तुसन्तानम् ।
ऐ, ऊयात् । ञ, वयति वयते तन्त्रं तन्त्रवायः ।
इति दुर्गादासः ॥


Match 1225: vcp=वेण, skd=वेण

vcp

k1=वेण, L=42359
वेण¦ विशामने वाद्यादाने गतौ ज्ञाने चिन्तयाञ्च भ्वा० उभ०
[Page4959-a+ 38]
सक० सेट् । वेणति ते । अवेणीत् अवेणिष्ट । ऋदित्
चङि न ह्रस्वः ।


skd

k1=वेण, L=33986
वेण¦, ऋ ञ निशामने । वादित्रादानगमनज्ञान-
चिन्तासु । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-
सक०-सेट् ।) ऋ, अविवेणत् । ञ, वेणति
वेणते । निशामनं चाक्षुषज्ञानम् । वादित्रं
मुरजादि तस्यादानं वादित्रादानम् । वादित्रं
वादित्रविषयक्रिया इत्येकोऽर्थः इत्येके । इति
दुर्गादासः ॥


Match 1226: vcp=वेथ, skd=वेथ

vcp

k1=वेथ, L=42387
वेथ¦ वाचने भ्वा० आत्म० द्वि० सेट् ऋदित् चङि न ह्रस्वः ।
वेथते अवेथिष्ट ।


skd

k1=वेथ, L=34024
वेथ¦, ऋ ङ याचे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-द्विक०-सेट् ।) ङ, वेथते । इति दुर्गा-
दासः ॥


Match 1227: vcp=वेप, skd=वेप

vcp

k1=वेप, L=42418
वेप¦ कम्पने भ्वा० आत्म० सक० सेट् । वेषते अवेपिष्ट । ऋदित्
चङि न ह्रस्वः । ष्ट्वित् । वेपथुः ।


skd

k1=वेप, L=34078
वेप¦, टु ऋ ङ चले । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) चलः कम्पनम् । टु,
वेपथुः । ऋ, अविवेपत् । ङ, वेपते वायुना वृक्षः ।
इति दुर्गादासः ॥


Match 1228: vcp=वेल, skd=वेल

vcp

k1=वेल, L=42424
वेल¦ चालने भ्वा० पर० सक० सेट् । वेलति अवेलीत् । ऋदित्
चङि न ह्रस्वः ।


k1=वेल, L=42425
वेल¦ कालोपदेशे अ० चु० उ० अक० सेट् । वेलयति ते अविवेसत् त ।


skd

k1=वेल, L=34086
वेल¦, ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) ऋ, अविवेलत् । इति दुर्गादासः ॥


k1=वेल, L=34087
वेल¦, त् क कालार्थे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा०-पर०-अक०-सेट् ।) कालार्थः कालो-
पदेशः । अविवेलत् । कालमियत्तया गणकः
एतावती वेलेति कथितवानित्यर्थः । इति दुर्गा-
दासः ॥


Match 1229: vcp=वेल्ल, skd=वेल्ल

vcp

k1=वेल्ल, L=42428
वेल्ल¦ चालने भ्वा० पर० सक० सेट् ऋदित् अङि न ह्रस्वः । वेल्लति अवेल्लीत् ।


skd

k1=वेल्ल, L=34092
वेल्ल¦, ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अविवेल्लत् । चालः
सञ्चलनम् । उद्बेल्लद्भुजवल्लिकङ्कणझनत्कारः
क्षणं वार्य्यताम् । गतावित्येके । इति दुर्गादासः ॥


Match 1230: vcp=वेवी, skd=वेवी

vcp

k1=वेवी, L=42437
वेवी¦ कान्तौ गतौ व्याप्तौ क्षेपे भोजने च सक० प्रजनने अक०
अदा० आत्म० सेट् जक्षादि० वैदिक एवायम् । वेवीते
अवेविष्ट । अस्य क्वचिदपि गुणवृद्धी न स्तः ।


skd

k1=वेवी, L=34103
वेवी¦, र क्ष लु ङ कान्तिगतिव्याप्तिक्षेपप्रजनखादने ।
इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-कान्तौ
अक०-अन्यत्र सक०-सेट् ।) र, वैदिकः ।
क्ष, अवेवयुः । बहुलं ब्रह्मणीति परस्मैपदे
अनुस् सिद्वेरित्यन् उस् णुरुस्यठ्यामिति गुणः ।
लु ङ, वेवीते । इति दुर्गादासः ॥


Match 1231: vcp=वेष्ट, skd=वेष्ट

vcp

k1=वेष्ट, L=42447
वेष्ट¦ वेष्टने भ्वा० आत्म० स क० सेट् । वेष्टते अवेष्टिष्ट । चङि तु अवि(व)वेष्टत् त ।


skd

k1=वेष्ट, L=34127
वेष्ट¦, ङ वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
सक०-सेट् ।) ङ, वेष्टते । इति दुर्गादासः ॥


Match 1232: vcp=वेस, skd=वेस

vcp

k1=वेस, L=42454
वेस¦ गतौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । वेसति अवेसीत् ।


skd

k1=वेस, L=34139
वेस¦, ऋ इतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अविवेसत् । विवेसतुः ।
इतौ गत्याम् । इति दुर्गादासः ॥


Match 1233: vcp=वेह, skd=वेह

vcp

k1=वेह, L=42458
वेह¦ यत्ने भ्वा० आत्म० अक० सेट् चङि न ह्रस्वः । वेहते अवेहिष्ट ।


skd

k1=वेह, L=34143
वेह¦, ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ऋ, अविवेहत् । ङ,
वेहते । विवेहे । इति दुर्गादासः ॥


Match 1234: vcp=वेह्ल, skd=वेह्ल

vcp

k1=वेह्ल, L=42461
वेह्ल¦ गतौ भ्वा० पर० सक० सेट् । वेह्लति अवेह्लीत् चङि न ह्रस्वः


skd

k1=वेह्ल, L=34146
वेह्ल¦, ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अविवेह्वत् । ऋदनु-
बन्धः वेदेषूच्चारणभेदार्थः । चालः सञ्चलनं
गतावित्येके । इति दुर्गादासः ॥


Match 1235: vcp=वै, skd=वै

vcp

k1=वै, L=42462
वै¦ शोषे भ्वा० पर० सक० सेट् अनिट् । वायति अवासीत् ।
ओदित् निष्ठातस्य नः । वानः निर्वाणः ।


skd

k1=वै, L=34147
वै¦, ओ शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-अनिट् ।) वकारादिः । वायति ।
ओ, वानः । इति दुर्गादासः ॥


Match 1236: vcp=व्यच, skd=व्यच

vcp

k1=व्यच, L=42596
व्यच¦ व्याजे अक० सम्बन्धे सक० तु० कु० पर० सेट् । विचति अविचीत् विध्याच विविचतुः व्यचाः ।


skd

k1=व्यच, L=34344
व्यच¦, शि व्याजे । सम्बन्धे । इति कविकल्पद्रुमः ॥
(तुदा०-कुटा०-पर०-सक०-सेट् ।) व्याजश्छलः ।
श, विचति सतं खलः । छलयति इत्यर्थः ।
अविचीत् विव्याच । इति दुर्गादासः ॥


Match 1237: vcp=व्यथ, skd=व्यथ

vcp

k1=व्यथ, L=42614
व्यथ¦ भये चलने दुःस्यानुभवे च भ्वा० आत्म० अक० सेट् । व्यथते
अव्यथिष्ट मित् घटा० । व्यथयति पित् अङ् व्यथा ।


skd

k1=व्यथ, L=34362
व्यथ¦, ष म ङ दुःखे । चाले । भये । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) दुःखं
दुःखानुभवः । चालः कम्पनम् । ष, व्यथा । म,
व्यथयति । ङ, व्यथते लोकः दुःखमनुभवति ।
कम्पते बिभेति वेत्यर्थः । केत्तित्तु दुःखभयचलन-
योरिति पठित्वा भये चलनं भयचलनमित्याहुः ।
दुःखभयचलने इति पठित्वा दुःखभययोश्चलन-
मुत्पादनमिति गोविन्दभट्टः । इति दुर्गादासः ॥


Match 1238: vcp=व्यध, skd=व्यध

vcp

k1=व्यध, L=42616
व्यध¦ ताडने दि० पर० सक० अनिट् । विध्यति अव्यात्सीत् ।
विव्याद विविधतुः ।


skd

k1=व्यध, L=34366
व्यध¦, औ य ताडे । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-अनिट् ।) य, विध्यति शत्रुं शूरः ।
औ, अव्यात्सीत् । कश्चित्तु द्विर्भूतस्यानिकारी-
भूतयकारस्य व्यधेर्वकारो वर्ग्यः अन्यत्र तु दन्त्य
इति मन्वानः सनि विव्यत्सतीत्याह । इति
दुर्गादासः ॥


Match 1239: vcp=व्यप, skd=व्यप

vcp

k1=व्यप, L=42619
व्यप¦ क्षये चुरा० उभ० सक० सेट् । व्यापयति--ते अविव्यपत्--त ।


skd

k1=व्यप, L=34370
व्यप¦, क क्षये । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) अन्तः स्थाद्ययुक्तः ॥ क,
व्यापयति । इति दुर्गादासः ॥


Match 1240: vcp=व्यय, skd=व्यय

vcp

k1=व्यय, L=42629
व्यय¦ गतौ त्यागे अद० चु० उभ० सक० सेट् । व्यवयति ते अव-
व्ययत् त ।


k1=व्यय, L=42630
व्यय¦ गतौ भ्वा० उभ० सक० सेट् । व्ययति ते अव्ययीत् अव्ययिष्ट अव्ययिढ्वम् (ध्वस) ।


k1=व्यय, L=42631
व्यय¦ नादे चु० उभ० सक० सेट् । व्याययति ते अविव्ययत् त ।


skd

k1=व्यय, L=34376
व्यय¦, क नुदि । इति कविकल्पद्रुमः । (चुरा०-
पर०-सक०-सेट् ।) अन्तःस्थादियुक्तः । क,
व्याययति । नुदि प्रेरणे । इति दुर्गादासः ॥


k1=व्यय, L=34377
व्यय¦, ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) ञ, व्ययति व्ययते । इति
दुर्गादासः ॥


k1=व्यय, L=34378
व्यय¦, त् क गतौ । त्यागे । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) व्यययति ।
इति दुर्गादासः ॥


Match 1241: vcp=व्ये, skd=व्ये

vcp

k1=व्ये, L=42751
व्ये¦ स्यूनौ वृतौ च भ्वा० उभ० सक० अनिट यजा० । व्ययति
ते अव्यासीत् अव्यास्त विव्याय विव्यतुः । क्तऊतः ।


skd

k1=व्ये, L=34542
व्ये¦, ञ ऐ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-अनिट् ।) ञ, व्ययति व्ययते । ऐ,
वीयात् । इति दुर्गादासः ॥


Match 1242: vcp=व्रज, skd=व्रज

vcp

k1=व्रज, L=42763
व्रज¦ गतौ भ्वा० पर० सक० सेट् । व्रजति अव्राजीत् ।


k1=व्रज, L=42764
व्रज¦ संस्कारे गतौ च चु० उ० सक० सेट् । ब्राजयति ते अविव्रजत् ।


skd

k1=व्रज, L=34559
व्रज¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०
सक०-सेट् ।) व्रजति । इति दुर्गादासः ॥


k1=व्रज, L=34560
व्रज¦, क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) क, व्राजयति ।
विरेफौ तौ । तौ एतौ विरेफौ रेफरहितौ च
स्याताम् । इति दुर्गादासः ॥


Match 1243: vcp=व्रण, skd=व्रण

vcp

k1=व्रण, L=42772
व्रण¦ शब्दे भ्वा० पर० अक० सेट् । व्रणति अव्राणीत् अव्रणीत् ।


k1=व्रण, L=42773
व्रण¦ अङ्गक्षतौ अद० चु० उ० सक० सेट् । व्रणयति ते अवव्रणत् त


skd

k1=व्रण, L=34573
व्रण¦, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) व्रणति । इति दुर्गादासः ॥


k1=व्रण, L=34574
व्रण¦, त् क अङ्गचूर्णे । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-पर०-सक०-सेट् ।) अङ्गचूर्णः
अङ्गभेदः । व्रणयति गात्रं बाणेन भटः । इति
दुर्गादासः ॥


Match 1244: vcp=व्रश्च, skd=व्रश्च

vcp

k1=व्रश्च, L=42787
व्रश्च¦ छेदे तु० पर० सक० ऊदित् वेट् । वृश्चति अव्रश्चीत् अव्राक्षीत् ।


skd

k1=व्रश्च, L=34590
व्रश्च¦, ऊ श छेदे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-वेट् ।) दन्त्योपधः चयोगात् तालव्यः ।
तेन क्विपि शच्छ्राजेति षङि निमित्ताभावे नैमि-
त्तिकस्याप्यभाव इति न्यायात् तालव्यस्य दन्त्यत्वे
संयोगादेः सस्य लोपे सुवृट् इति । तथा च ।
“नकारजावनुस्वारपञ्चमौ झलि धातुषु ।
सकारजः शकारः स्यात् षाट्टवर्गस्तवर्गजः ॥”
इति वोपदेवः ॥
अस्यार्थः । धातुषु मध्ये झलि झसे परे अनु-
स्वारपञ्चमौ नकारजौ ज्ञेयौ तालव्यशकारश्च
दन्त्यसकारजातः मूर्द्धन्यषकारात् परष्टवर्गोऽपि
तवर्गजातो ज्ञेय इति । ञिष्ठास्थाने इत्यादी-
नाञ्च थकारादिप्रकृतित्वे तस्थौ इत्यादिबोध्यम् ।
ऊ, अव्रश्चीत् अव्राक्षीत् । श, वृश्चति । इति
दुर्गादासः ॥


Match 1245: vcp=व्री, skd=व्री

vcp

k1=व्री, L=42793
व्री¦ वृतौ क्र्या० प्वा० पर० सक० अनिट् । व्रि(व्री)णाति अव्रैषीत् ।


k1=व्री, L=42794
व्री¦ गतौ दिवा० आ० सक० अनिट् । व्रीयते अव्रेष्ट । ओदित्
व्रीणः ।


skd

k1=व्री, L=34598
व्री¦, ग गि वृत्याम् । इति कविकल्पद्रुमः ॥ (क्र्या०-
प्या०-पर०-सक०-अनिट् ।) रेफोपधः । गि,
व्रिणाति । व्रीणः वीणिः । ग, यो व्रीणाति जय-
श्रियं रणमुखे । व्रीतः व्रीतिः । इति दुर्गादासः ॥


k1=व्री, L=34599
व्री¦, य ङ ओ गतौ । वृत्याम् । इति कविकल्पद्रुमः ॥
(दिवा० आत्म०-सक०-अनिट् ।) रेफोपधः ॥
य ङ, व्रीयते । ओ, व्रीणः । इति दुर्गादासः ॥


Match 1246: vcp=व्रीड, skd=व्रीड

vcp

k1=व्रीड, L=42795
व्रीड¦ क्षेपे दिंवा० पर० सक० लज्जायां अक० सेट् । व्रीड्यते अव्रीडिष्ट ।


skd

k1=व्रीड, L=34600
व्रीड¦, य ञि क्षिपि । लज्जे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-लज्जे-अक०-सेट् ।) रेफ-
युक्तः । य, व्रीड्यति बाणं चापः । व्रीड्यति बधूः ।
ञि, व्रीडितोऽस्ति । इति दुर्गादासः ॥


Match 1247: vcp=व्रीस, skd=व्रीस

vcp

k1=व्रीस, L=42797
व्रीस¦ बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । व्रीस-
यति ते व्रीसति ।


skd

k1=व्रीस, L=34604
व्रीस¦, कि वधे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे
भ्वा०-सक०-सेट् ।) कि, व्रीसयति व्रीसति ।
इति दुर्गादासः ॥


Match 1248: vcp=व्रुड, skd=व्रुड

vcp

k1=व्रुड, L=42807
व्रुड¦ संवरणे सक० संवाते मज्जने च अक० चु० कुटा० ।
पर० सेट् । व्रुडति अव्रुडीत् ।


skd

k1=व्रुड, L=34615
व्रुड¦, शि संवृतिसंहत्योः । मज्जे । इति कविकल्प-
द्रुमः ॥ (तुदा०-कुटा०-पर०-सक०-अकञ्च-सेट् ।)
रेफयुक्तः । शि, व्रुडति अव्रुडीत् वुव्रोड ।
मज्जो मज्जनम् । इति दुर्गादासः ॥


Match 1249: vcp=व्रूस, skd=व्रूस

vcp

k1=व्रूस, L=42808
व्रूस¦ बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सट् । ब्रूस-
यति ते ब्रूसति ।


skd

k1=व्रूस, L=34616
व्रूस¦, कि वधे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे
भ्वा०-सक०-सेट् ।) रेफयुक्तो दीर्घी । कि,
व्रूसयति व्रूसति । इति दुर्गादासः ॥


Match 1250: vcp=व्ली, skd=व्ली

vcp

k1=व्ली, L=42810
व्ली¦ गतौ वृतौ च क्र्यादि० पा० प० सक० अनिट् । (व्लि)व्ली-
नाति अव्लैषीत् ।


skd

k1=व्ली, L=34619
व्ली¦, ग, गि गतिवृत्योः । इति कविकल्पद्रुमः ॥
(क्र्या०-प्या०-पर०-सक०-अनिट् ।) अन्तःस्थ-
तृतीयोपधः । गि, व्लिनाति । व्लीनः वीनिः ।
इति दुर्गादासः ॥


Match 1251: vcp=शक, skd=शक

vcp

k1=शक, L=42822
शक¦ त्रामे अक० संशये सक० भ्वा० आ० सेट् इदित् । शङ्कते
अशङ्किष्ट ।


k1=शक, L=42823
शक¦ क्षमायां सक० दि० उभ० सेट् । शक्यति ते अशाकीत्-
अशकीत् अशकिष्ट “शक्योऽस्य मन्यु र्भवता विनेतुम्” रघुः ।


k1=शक, L=42824
शक¦ सामर्थ्ये स्वा० प० अक० इरित् वेट् । शक्नोति अश-
कत्--अशाक्षीत् । पुषादिरित्येके तेन अशकदित्येव ।


skd

k1=शक, L=34635
शक¦, इ ङ त्रासशङ्कयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-त्रासे अक०-शङ्कायां सक०-
सेट् ।) त्रासो भयम् । शङ्का संशयारोपः । इ,
शङ्क्यते व्याघ्राज्जनेन । ङ, शङ्कते पुरुषत्वं
स्थाणौ । स्थाणुर्व्वा पुरुषो वा इति संशय-
मारोपयतीत्यर्थः । इति दुर्गादासः ॥


k1=शक, L=34636
शक¦, न इर् ऊ शक्ती । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सक०-च-वेट् ।) न, शक्नो-
त्यशक्यमप्याजौ विजेतुं य इति हलायुधः ।
इर, अशकत् अशकीत् अशाक्षीत् । ऌदित्त्वे-
नास्मान्नित्यं ङ इत्यन्ये । ऊ, शकिष्यति
शक्ष्यति । पृथकपाठादाद्यो न स्वादिः । द्वावे-
वानिमाबित्यन्ये । षष्ठस्वरानुबन्धः केषाञ्चि-
दनरोधात् । द्वावेव सकर्म्मकौ । तथा च ।
[Page5-002-a+ 52]
शक्योऽस्य मन्युर्भवता विनेतुमिति रघुः । रजः-
परिणामभेदो न शक्यते प्रत्याख्यातुमिति तत्त्व-
कौमुद्यां वाचस्पतिमिश्रः । शक्या मखेनापि
मुदोऽमराणामिति नैषधम् । इति दुर्गादासः ॥


k1=शक, L=34637
शक¦, य ञ शक्तौ । इति कविकल्पद्रुमः ॥ (दिवा०
उभ०-सक०-सेट् ।) शक्तिर्दिवादिपक्षे क्षमा
खादिपक्षे सामर्थ्यम् । यञ, शक्यति शक्यते
दुःखं दीनः । इति दुर्गादासः ।


Match 1252: vcp=शच, skd=शच

vcp

k1=शच, L=42923
शच¦ गतौ भ्वा० आत्म० सक० सेट् इदित् । शञ्चते, अशञ्चिष्ट ।


skd

k1=शच, L=34782
शच¦, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, शञ्चते । इति दुर्गा-
दासः ॥


k1=शच, L=34783
शच¦, ङ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, शचते । इति दुर्गा-
दासः ॥


Match 1253: vcp=शट, skd=शट

vcp

k1=शट, L=42927
शट(ठ)¦ श्लाघायां चु० आ० सक० सेट् । शाट(ठ)यत अशी-
शट(ठ)त ।


k1=शट, L=42928
शट¦ शादे अक० रोगजनने गतौ भेदे च सक० पर० भ्वा० शटति । अशाटीत् अशटीत् ।


skd

k1=शट, L=34787
शट¦, सादे । शीर्णौ । गतौ । रुजि । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-पर०-अक०-गतौ सक०-
सेट् ।) सादोऽवसादः । शीर्णिर्भेदः । शटति
लोकः अवसीदति । विशृणाति । गच्छति ।
रुजति वा इत्यर्थः । इति दुर्गादासः ॥


k1=शट, L=34788
शट¦, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) क ङ, शाटयते । इति
दुर्गादासः ॥


Match 1254: vcp=शठ, skd=शठ

vcp

k1=शठ, L=42932
शठ¦ बधे सक० कैतवे क्लेशे च अक० भ्वा० पर० सेट् । शठति
अशाठीत् अशठीत् ।


k1=शठ, L=42933
शठ¦ आलस्ये चु० पर० अक० सेट् । शाठयति ते अशीशठत् त ।


k1=शठ, L=42934
शठ¦ दुष्टवचने अद० चु० उभ० सक० सेट् । शठयति ते अशशठत् त


skd

k1=शठ, L=34794
शठ¦, वधक्लेशकैतवे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) क्लेशो दुःखानुभवः ।
कैतवं मित्रवञ्चनम् । शठति खलः साधुं
वञ्चयतीत्यर्थः । इति दुर्गादासः ॥


k1=शठ, L=34795
शठ¦, क आलस्ये । गत्यसंस्कृतसंस्कृते । इति कवि-
कल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।) क,
शाठयति वृद्धः क्रियासु मन्दः स्यादित्यर्थः ।
इति दुर्गादासः ॥


k1=शठ, L=34796
शठ¦, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-अक०-सेट् ।) क ङ, शाठयते । इति
दुर्गादासः ॥


k1=शठ, L=34797
शठ¦, त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) शठयति
नीचः कुत्सितं वदतीत्यर्थः । रमानाथस्तु
सम्यग्भाषणे इति मत्वा शठयति सम्यग्वदती-
त्यर्थ इत्याह । सम्यग्भाषणे इति जौमराः ।
समग्भावे इत्येके । इति दुर्गादासः ॥


Match 1255: vcp=शड, skd=शड

vcp

k1=शड, L=42938
शड¦ संघाते रोगे च अक० भ्वा० पर० सेट् इदित् । शण्डति
अशण्डिष्ट ।


skd

k1=शड, L=34802
शड¦, इ ङ संघरुजोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) तालव्यादिः । इ,
[Page5-014-a+ 52]
शण्ड्यते । ङ, शण्डते । काण्डो वीरं रुजती-
त्यर्थः । इति दुर्गादासः ॥


Match 1256: vcp=शण, skd=शण

vcp

k1=शण, L=42939
शण¦ दाने भ्वा० पर० सक० सेट् । शणति अशाणीत् अशणीत् शशाणे शेणतुः ।


skd

k1=शण, L=34803
शण¦, म दाने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) म, शणयति । इति दुर्गा-
दासः ॥


Match 1257: vcp=शद, skd=शद

vcp

k1=शद, L=43007
शद¦ शातने शीर्णतायां भ्वा० पर० अक० अनिट् ऌदित् । शीयते
अशदत् । शत्स्यति


k1=शद, L=43008
शद¦ गतौ भ्वा० षर० सार्वधातुके आत्म० सक० अनिट् । शीयते


skd

k1=शद, L=34904
शद¦, ऌ ज औ शाते । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सक० च-अनिट् ।) ऌ,
अशदत् । ज, शादः शदः । औ, शत्स्यति । शातः
पतनं पातनञ्च । शीयते पत्रं वृक्षात् वायुः ।
शदोऽपि ममित्यव्विषये आत्मनेपदम् । केचि-
दिमं तुदादौ पठित्वा तत्सामर्थ्यात् आत्मने-
पदानित्यत्वे शीयती शीयन्तीत्युदाहरन्ति । इति
दुर्गादासः ॥


Match 1258: vcp=शप, skd=शप

vcp

k1=शप, L=43019
शप¦ आक्रोशे वा भ्वा० पक्षे दिवा० उभ० सक० अनिट् । शपति ते शप्यति ते अशाप्सीत् ।


skd

k1=शप, L=34920
शप¦, य ञ औ क्रोशे । इति कविकल्पद्रुमः ।
(दिवा०-भ्वा०-च-उभ०-सक०-
अनिट् ।) द्बौ तालव्यादी । य ञ, शप्यति
शप्यते । औ, शप्ता । औ, अशाप्सीत् । ञ,
शपति शपते । क्रोश उक्तिविशेषः । निर्भर्त्सन-
मिति चतुर्भुजः । सहस्रशोऽसौ शपथानपश्यत् ।
क्रोशो भ्वादिपक्षे गालिदानम् । शपते । ञित्वे-
ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथे
आत्मनेपदं अन्यत्र परस्मैपदम् । कृष्णाय शपते
गापी । प्रजेति त्वां शशाप सा । इति रघौ ।
सख्यः शपामि यदि किञ्चिदपि स्मरामि । इति
वाचा शरीरस्पर्शनाभावादिति पाणिनीयाः ।
केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा-
षया इत्याहुः । तेन प्रतिवाचमदत्त केशवः
शपमानाय न चेदिभूभृते । इति माघः । इति
दुर्गादासः ॥


k1=शप, L=34921
शप¦, औ ञ क्रोशे । इति कविकल्पद्रुमः ।
(दिवा०-भ्वा०-च-उभ०-सक०-
अनिट् ।) द्बौ तालव्यादी । य ञ, शप्यति
शप्यते । औ, शप्ता । औ, अशाप्सीत् । ञ,
शपति शपते । क्रोश उक्तिविशेषः । निर्भर्त्सन-
मिति चतुर्भुजः । सहस्रशोऽसौ शपथानपश्यत् ।
क्रोशो भ्वादिपक्षे गालिदानम् । शपते । ञित्वे-
ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथे
आत्मनेपदं अन्यत्र परस्मैपदम् । कृष्णाय शपते
गापी । प्रजेति त्वां शशाप सा । इति रघौ ।
सख्यः शपामि यदि किञ्चिदपि स्मरामि । इति
वाचा शरीरस्पर्शनाभावादिति पाणिनीयाः ।
केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा-
षया इत्याहुः । तेन प्रतिवाचमदत्त केशवः
शपमानाय न चेदिभूभृते । इति माघः । इति
दुर्गादासः ॥


Match 1259: vcp=शब्द, skd=शब्द

vcp

k1=शब्द, L=43026
शब्द¦ शब्दकरणे अ० चु० उभ० सक० सेट् । शब्दयति ते अशशब्दत् त ।


skd

k1=शब्द, L=34929
शब्द¦, क शब्दकृतौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, शब्दयति । सोपसर्ग-
स्त्वाविष्कृतौ मतः । प्रशब्दयति गभीरमत्यर्थं
शिष्यः स्फुटीकरोतीत्यर्थः । इति दुर्गादासः ॥


Match 1260: vcp=शम, skd=शम

vcp

k1=शम, L=43039
शम¦ शान्तौ अक० शान्तीकरणे सक० दि० शमा० पर० सेट् ।
शाम्यति इरित् अशमत्--अशमीत् । उदित् क्त्वा वेट् ।
शान्तः । शमयति शामवति ।


k1=शम, L=43040
शम¦ आलोचने चु० उम० सक० सेट् । शामयति ते शम-
यति ते अशीशमत् त ।


skd

k1=शम, L=34937
शम¦, उ भ य इर् शमे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् । क्त्रावेट् ।) उ,
शमित्वा शान्त्वा । भ य, शाम्यति । इर्, अश-
मत् अशमीत् । पुषादित्वान्नित्यं ङ इत्यन्ये । शमः
शान्तीभावः । शशाम वृष्ट्यापि विना दवाग्नि-
रिति रघुः । शम इति पदस्य ञ्यन्तस्यापि
सम्भवे शान्तीकरणेऽप्ययमिति धातुप्रदीपः ।
‘वरेण शमितुं लोकानलं दग्धुं हि तत्तपः ॥’
इति कुमारसम्भवम् ॥
‘वचो निशम्याधिपतिर्दिवौकसाम् ।’
इत्यादावनेकार्थत्वात् श्रुत्वेत्यर्थः ॥ वा शम यम
इत्यत्र वाशब्दस्य व्यवस्थावाचित्वादस्य ञौ नित्यं
ह्नस्वः शममति । इति दुर्गादासः ॥


k1=शम, L=34938
शम¦, ङ क ञ आलोचे । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-उभ०-इति केचित्-सक०-सेट् ।)
आलोचः प्रणिधानम् । वा शम यम इत्यत्र
वाशब्दस्य व्यवस्थावाचित्वात् अस्य स्वार्थे ञौ
ह्नस्वाभावः । ङ क, शामयते कार्य्यं सधीः । ञ,
शामयति शामयते ।
‘निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥’
अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥


Match 1261: vcp=शम्ब, skd=शम्ब

vcp

k1=शम्ब, L=43055
शम्ब¦ गतौ भ्वा० पर० सक० सेट् । शम्बति अशम्बीत् ।


skd

k1=शम्ब, L=34963
शम्ब¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) शम्बति । इति दुर्गादासः ॥


Match 1262: vcp=शर्व, skd=शर्व्व *

vcp

k1=शर्व, L=43143
शर्व¦ हिसे भवा० पर० सक० सेट् । शर्वति अशर्वीत् ।


skd

k1=शर्व्व, L=35085
शर्व्व¦, हिंसे । गतौ । इति कविकल्पद्रुमः ॥ शर्व्वति ।
इति दुर्गादासः ॥


k1=शर्व्व, L=35092
शर्व्व¦, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक-सेट् ।) शर्व्वति । इति दुर्गादासः ॥


Match 1263: vcp=शल, skd=शल

vcp

k1=शल, L=43149
शल¦ चालने भ्वा० आत्म० सक० सेट् । शलते अशलिष्ट ।
अशलिढ्व(ध्व)म् शेले


k1=शल, L=43150
शल¦ गतौ भ्वा० पर० सक० सेट् । शलति अशालीत् । ज्वलादि० शलः शालः ।


k1=शल, L=43151
शल¦ श्लाघायां चु० आत्म० सक० सेट् । शालयते अशीशलत ।


k1=शल, L=43152
शल¦ वेगे भ्वा० पर० सक० सेट् । शलति अशालीत् ।


skd

k1=शल, L=35099
शल¦, वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) शलति । इति दुर्गादासः ॥


k1=शल, L=35100
शल¦, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) क ङ, शालयते पण्डितं
धीरः । इति दुर्गादासः ॥


k1=शल, L=35101
शल¦, ङ चलने । स्तृतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सक०-च-सेट् ।) ङ, शलते ।
चलनं कम्पः । स्तृतिरिह संवरणम् । इति
दुर्गादासः ॥


k1=शल, L=35102
शल¦, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ज, शालः शलः । इति
दुर्गादासः ॥


Match 1264: vcp=शल्भ, skd=शल्भ

vcp

k1=शल्भ, L=43169
शल्भ¦ प्रर्शसायां भ्वा० आ० सक० सेट् । शल्भते असल्भिष्ट ।


skd

k1=शल्भ, L=35126
शल्भ¦, ङ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, शल्भते । कत्थनं
प्रशंसा । इति दुर्गादासः ॥


Match 1265: vcp=शल्ल, skd=शल्ल

vcp

k1=शल्ल, L=43175
शल्ल¦ गतौ भ्वा० पर० सक० सेट् । शल्लति अशल्लीत् ।


skd

k1=शल्ल, L=35136
शल्ल¦, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) शल्लकी । इति दुर्गादासः ॥
सौत्रधातुरयम् ॥


Match 1266: vcp=शव, skd=शव

vcp

k1=शव, L=43179
शव¦ विकारे गतौ च भ्वा० पर० सक० सेट् । शवति० अशावीत् अशवीत् ।


skd

k1=शव, L=35144
शव¦, विकारे । गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) शवति चित्तं कामः ।
इति दुर्गादासः ॥


Match 1267: vcp=शश, skd=शश

vcp

k1=शश, L=43189
शश¦ प्लुतगतौ भ्वा० पर० सक० सेट् । शशस्ति । अशाशीत् अशशीत्


skd

k1=शश, L=35158
शश¦, प्लवने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) शशी शशिशुशीः शशन्निति
किरातयमकात् । शशति भेकः प्लवेन गच्छ
तीत्यर्थः । तृ फल भज इत्यत्र वर्ज्जनमस्यैव ।
दन्त्यान्तोऽयमपीत्येके । इति दुर्गादासः ॥


Match 1268: vcp=शष, skd=शष

vcp

k1=शष, L=43209
शष¦ वधे भ्वा० पर० सक० सेट् । शषति अशाषीत् अशषीत् ।


skd

k1=शष, L=35186
शष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) शषति । इति दुर्गादासः ॥


Match 1269: vcp=शस, skd=शस

vcp

k1=शस, L=43212
शस¦ बधे भ्वा० पर० सक० सेट् उदित् क्त्वा बेट् । शसति ।
अशासीत् अशसीत् ।


k1=शस, L=43214
शस¦ स्वप्ते अदा० पर० अक० सेट् इदित् । शंस्ति अशंशत् ।


skd

k1=शस, L=35190
शस¦, उ वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् । क्त्वावेट् ।) उ, शसित्वा शस्त्वा ।
इति दुर्गादासः ॥


k1=शस, L=35191
शस¦, इ ङ आशिषि । आङ्पूर्व्वकोऽयम् । इति
कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
इ, आशंस्यते । ङ, आशंसते । आशीरिष्टार्थ-
शंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥


Match 1270: vcp=शाख, skd=शाख

vcp

k1=शाख, L=43270
शाख¦ व्याप्तौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः ।
शाखति अशाखोत् ।


skd

k1=शाख, L=35276
शाख¦, ऋ व्याप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अशशाखत् । इति
दुर्गादासः ॥


Match 1271: vcp=शाड, skd=शाड

vcp

k1=शाड, L=43288
शाड¦ श्लाघायां भ्वा० आ० सक० सेट् । शाडते अशाडिष्ट ऋदित् चङिन ह्रस्वः ।


skd

k1=शाड, L=35306
शाड¦, ऋ ङ श्लाघे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अशशाडत् । ङ,
शाडते गुणिनं गुणी । अन्तःस्थतृतीय-
युक्तादिरयमिति कस्यचिद्भ्रमः । इति दुर्गा-
दासः ॥


Match 1272: vcp=शान, skd=शान

vcp

k1=शान, L=43308
शान¦ तेजने भ्वा० उभ० सक० सेट् स्वार्थे सन् । शीशांसति ते अशीशांसीत् अशीशांसिष्ट ।


skd

k1=शान, L=35331
शान¦, ञ तेजे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) शानस्तिक्ष्णीकरणम् ।
ञ, शीशांसति शीशांसते खड्गं कर्म्मकारः ।
इति दुर्गादासः ॥


Match 1273: vcp=शार, skd=शार

vcp

k1=शार, L=43328
शार¦ दौर्वल्ये अद० चु० उम० सक० सेट् । शारयति--ते
अशशारत् त ।


skd

k1=शार, L=35369
शार¦, त् क दौर्ब्बल्ये । इति कविकल्पद्रुमः । (अदन्त
चुरा०-पर०-अक०-सेट् ।) अशशारत् । इति
दुर्गादासः ॥


Match 1274: vcp=शाल, skd=शाल

vcp

k1=शाल, L=43348
शाल¦ कथने भ्वा० आत्म० सक० सेट् चङि न ह्रस्वः । शालते अशालिष्ट ।


skd

k1=शाल, L=35409
शाल¦, ङ ऋ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) कत्थने प्रशंसायाम् । ङ,
शालते गुणिनं गुणी । ऋ, अशशालत् ।
इति दुर्गादासः ॥


Match 1275: vcp=शास, skd=शास

vcp

k1=शास, L=43399
शास¦ आशीर्वादे अदा० आत्म० सक० सेट् क्त्वा वेट् । पाये-
णाङ् पूर्वः । आशास्ते आशासिष्ट “इद कविभ्यः पू०
र्वेभ्योनमोवाकं प्रशास्महे” उत्तरचरितोक्तेरन्यपूर्वोऽपि ।


k1=शास, L=43400
शास¦ शासने अदा० पर० द्विक० सेट् क्त्वा वेट् । शास्ति अशासत्


skd

k1=शास, L=35481
शास¦, उ क्ष लु शासने । इति कविकल्पद्रुमः ॥
(अदा०-पर०-सक०-सेट् । क्तावेट् ।) उ,
शासित्वा शिष्ट्वा । क्ष, शासति । लु, शास्ति ।
शास्ति यश्चाज्ञया राज्ञः स सम्राडित्यमरः ।
इति दुर्गादासः ॥


k1=शास, L=35482
शास¦ ङ उ आशिषि । इति कविकल्पद्रुमः ॥
(भ्वा०-अदा० च-आत्म०-सक०-
सेट् ।) आङ्पूर्ब्बा इति केवलानामन्यपूर्ब्बा-
णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः
पूर्ब्बेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते
प्रपूर्ब्बोऽपि दृश्यते । ङ, आशासते । उ, आशा-
सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात्
क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द-
भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति
धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे
इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया
इकारो न स्यात् । आशीरिष्टार्थाशंसनम् ।
इच्छायामित्यन्ये । इति दुर्गादासः ॥


k1=शास, L=35483
शास¦ ल ङ आशिषि । इति कविकल्पद्रुमः ॥
(भ्वा०-अदा० च-आत्म०-सक०-
सेट् ।) आङ्पूर्ब्बा इति केवलानामन्यपूर्ब्बा-
णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः
पूर्ब्बेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते
प्रपूर्ब्बोऽपि दृश्यते । ङ, आशासते । उ, आशा-
सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात्
क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द-
भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति
धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे
इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया
इकारो न स्यात् । आशीरिष्टार्थाशंसनम् ।
इच्छायामित्यन्ये । इति दुर्गादासः ॥


Match 1276: vcp=शि, skd=शि

vcp

k1=शि, L=43415
शि¦ तेजने भ्वा० उभ० सक० अनिट् । शिनोति शिनुते अशै-
षीत् अशेष्ट ।


skd

k1=शि, L=35504
शि¦, न ञ निशाने । इति कविकल्पद्रुमः ॥ (स्वा०-
उभ०-सक०-अनिट् ।) निशानमिति श्यते
रूपम् । शान ञ तेजे इत्यस्य नित्यसनन्तत्वात् ।
अनेकार्थत्वात् निशानमिह तीक्ष्णीकरणम् ।
न ञ, शिनोति शिनुते खड्गं कर्म्मकारः ।
इति दुर्गादासः ॥


Match 1277: vcp=शिक्ष, skd=शिक्ष

vcp

k1=शिक्ष, L=43421
शिक्ष¦ अभ्यासे भ्वा० आ० सक० सेट् । शिक्षते अशिक्षिष्ट ।


skd

k1=शिक्ष, L=35513
शिक्ष¦, ङ शिक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ह्रस्वी । ङ, शिक्षते ।
शिक्षणं विद्याग्रहणम् । अशिक्षतास्त्रं पितुरेव
मन्त्रविदिति रघुः । इति दुर्गादासः ॥


Match 1278: vcp=शिघ, skd=शिघ

vcp

k1=शिघ, L=43459
शिघ¦ आघ्नाणे भ्वा० पर० पक० सेट् इदित् । शिङ्घति
अशिङ्घीत् ।


skd

k1=शिघ, L=35564
शिघ¦, इ आघ्राणे । इति कविकल्पद्रुमः ॥ (भ्वा०
पर०-सक०-सेट् ।) इ, शिङ्घ्यते । इति दुर्गा-
दासः ॥


Match 1279: vcp=शिज, skd=शिज

vcp

k1=शिज, L=43461
शिज¦ अस्फुटध्वनौ इदित् वा चु० उभ पक्षे अदा० आत्म
अक० सेट् । शिञ्जयति ते शिङ्क्ते अशिशिञ्जत् त अशि-
ञ्जिष्ट । भ्वादिरप्ययं पर० इत्येके तेन शिञ्जति अशिञ्जीत्


skd

k1=शिज, L=35569
शिज¦, इ ल कि ङ अस्फुटध्वनौ । इति कविकल्प-
द्रुमः ॥ (चुरा०-पक्षे भ्वा०-अदा० च-आत्म०-
अक०-सेट् ।) अस्फुटध्वनिरिह भूषणकर्त्तृक
एव । भूषणानान्तु शिञ्जितमित्यमरात् । इ,
शिञ्ज्यते । ल ङ, शिङ्क्ते । कि ङ, शिञ्जयते
शिञ्जते मञ्जीरम् । तालैः शिञ्जद्वलयसुभगै-
र्नर्त्तितः कान्तयाने इत्यत्र शिञ्जदिति गणकृता-
नित्यत्वादिति रमानाथः । वस्तुतस्तु शिङ्क्ते
शिञ्जः पचादित्वादन् ततः शिञ्ज इवाचरतीति
क्वौ शत्रन्तम् । इति दुर्गादासः ॥


Match 1280: vcp=शिट, skd=शिट

vcp

k1=शिट, L=43465
शिट¦ अनादरे भ्वा०पर० सक० सेट् । शेटति अशेटीत् ।


skd

k1=शिट, L=35574
शिट¦, अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) शेटति खलं लोकः । इति
दुर्गादासः ॥


Match 1281: vcp=शिल, skd=शिल

vcp

k1=शिल, L=43522
शिल¦ उञ्छे कणश आदाने तुदा० पर० सक० सेट् । शि-
लति अशेलीत् ।


skd

k1=शिल, L=35647
शिल¦, श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) उञ्छ उद्धृतशस्यशेषाहर-
णम् । श, शिलति धान्यं दीनः । शेलिता ।
इति दुर्गादासः ॥


Match 1282: vcp=शिष, skd=शिष

vcp

k1=शिष, L=43618
शिष¦ बधे भ्वा० पर० सक० सेट् । शेषति अशेषीत् ।


k1=शिष, L=43619
शिष¦ परिशेषीकरणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
शेषयति ते शेषति अशिशीषत् त अशेषीत् ।


k1=शिष, L=43620
शिष¦ विशेषे रुधा० पर० सक० अनिट् । शिनष्टि ऌदितशिषत् शेष्टा ।


skd

k1=शिष, L=35778
शिष¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) शेषति । इति दुर्गादासः ॥


k1=शिष, L=35779
शिष¦, ऌ घ औ विशेषे । इति कविकल्पद्रुमः ॥
(रुधा०-पर०-सक०-अनिट् ।) विशेष उप-
रञ्जनम् । ऌ, अशिषत् । ध, विशिनष्टि स्मरं
मूर्त्त्या यः । इति हलायुधः । मूर्त्तिविशिष्टं
करोति इत्यर्थः । औ, शेष्टा । इति दुर्गादासः ।


k1=शिष, L=35780
शिष¦, कि असर्व्वोपयोगे । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे-भ्वा०-सक०-सेट् । असर्व्वोप-
योगः परिशेषीकरणम् । कि, शेषयति शेषति
यशोराशिं लोकः अवशिष्टं करोति इत्यर्थः ।
वेरतिशायने शिष किरनुवर्त्तते । कि, विशेषयति
विशेषति सम्पत्त्या भूपं विधिः । इति दुर्गा-
दासः ॥


Match 1283: vcp=शी, skd=शी

vcp

k1=शी, L=43626
शी¦ शयने अदा० आत्म० अक० सेट् । शेते शेरते अशयिष्ट ।
ञीत् वर्त्तमाने क्त शयितः । शयित्वा ।


skd

k1=शी, L=35787
शी¦, ङ ल ञि स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०-
आत्म०-अक०-सेट् । ङ ल, शेते । ञि, शयि-
तोऽस्ति । मण्डपे शयामीति गणकृतानित्यत्वात्
परस्मैपदे शपोऽलुग्भावे चेति रमानाथः ।
वस्तुतस्तु शेते शयः पश्चात् शय इवाचरतीति
क्वौ साध्यम् । इति दुर्गादामः ॥


Match 1284: vcp=शीक, skd=शीक

vcp

k1=शीक, L=43628
शीक¦ मेके सर्पणे च भ्वा० आत्म० सक० सेट् । शीकते अशी-
किष्ट । ऋदित् चङि न ह्रस्वः ।


k1=शीक, L=43629
शीक¦ आमर्षे सेके च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
शीकयति ते शीकति अशीशिकत्--त अशीकीत् ।


skd

k1=शीक, L=35789
शीक¦, ऋ ङ सेके । सर्पे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अशिशीकत् ।
ङ, शीकते । इति दुर्गादासः ॥


k1=शीक, L=35790
शीक¦, कि आमर्शे । सेके । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, शीक-
यति शीकति । आमर्शः स्पर्शः । तथा च ।
“चन्द्रावतीतरङ्गार्द्रा शीकयन्ति च यद्वपुः ।”
इति हलायुधः ॥
वायवः स्पृशन्ति इत्यर्थः । भट्टमल्लस्तु आमर्षण
इति मूर्द्ध्वन्यषमध्यं पठित्वा क्षमार्थमाह । इति
दुर्गादासः ॥


Match 1285: vcp=शीभ, skd=शीभ

vcp

k1=शीभ, L=43686
शीभ¦ कथने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः । शीभते अशीभिष्ट ।


skd

k1=शीभ, L=35881
शीभ¦, ऋ ङ कथने । इति कविकल्पद्रुमः ॥ (भ्वा०
आत्म०-सक०-सेट् ।) ऋ, अशिशीभत् । ङ,
शीभते । कत्थनं प्रशंसा । इति दुर्गादासः ॥


Match 1286: vcp=शील, skd=शील

vcp

k1=शील, L=43702
शील¦ समाधौ भ्वा० पर० सक० सेट् । शीलति अशीलीत् ।
“सरमीः परिशीलितुं मया” नैवधम् । ममाधिरत्र
मेवा तत्र सक० प्रवृत्तिभेदो वा तत्र अक० ञीत् वर्त्त-
मानेक्त ।


k1=शील, L=43703
शील¦ अभ्यासे अतिशायने च अद० चु० उभ० सक० सेट् । शीलयति ते अशिशीलत् त ।


skd

k1=शील, L=35905
शील¦, ञि समाधौ । इति कविकल्पद्रुमः ॥ (म्वा०
पर०-सक०-सेट् ।) ञि, शीलितोऽस्ति ।
समाधिः सेवानुभावनं प्रवृत्तिर्व्वा । यः शीलति
सदा धर्म्ममिति हलायुधः । इति दुर्गादासः ॥


k1=शील, L=35906
शील¦, त् क अभ्यासे । अतिशायने । इति कवि-
कल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
अतिशायनं अतिशयकरणम् । तालव्यादि ।
अशिशीलत् । उपधारणे इत्यन्ये । शीलय
नीलनिचोलमिति जयदेवः । इति दुर्गादासः ॥


Match 1287: vcp=शुक, skd=शुक

vcp

k1=शुक, L=43708
शुक¦ गतौ भ्वा० पर० सक० सेट् । शोकति अशोकीत् ।


skd

k1=शुक, L=35915
शुक¦, सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) शोकति । सर्पो गमनम् । इति
दुर्गादासः ॥


Match 1288: vcp=शुच, skd=शुच

vcp

k1=शुच, L=43766
शुच¦ शोके क्लेदे च दिवा० उभ० अक सेट् । शुच्यति ते
इरित् अशुचत् अशोचीत् अशोचिष्ट ईदित् शुक्तः ।
अनु + किञ्चिटुद्देशेन पश्चात्तापे सक० । अनुशोचति ।


k1=शुच, L=43767
शुच¦ शोके भ्वा० पर० सक० सेट् । शोचति अशोचीत् ।


skd

k1=शुच, L=35999
शुच¦, शोके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) तालव्यादिः । शोचति । शोकः
पुत्त्रादेरदर्शनाद्दुःखानुभवः । किं शोचते-
हाभ्युदये वतास्मानिति भट्टिः । प्रियतमा मां
शोचते शोचते । इति महानाटकम् । गण-
कृतानित्यत्वादात्मनेपदम् । इति दुर्गादासः ॥


k1=शुच, L=36000
शुच¦, इर्, य ञ ई शौचे । विशरणे । क्लेदे । इति
कविकल्पद्रुमः ॥ (दिवा०-उभ० क्लेदे शौचे च
अक०-अन्यत्र सक०-सेट् । निष्ठायां अनिट् ।)
शौचं शुद्धिः । विशरणं विभेदः । क्लेदः आर्द्र-
भावः । इर् अशुचत् अशोचीत् । य ञ, शुच्यते
लोकः स्नानात् । शुच्यति गात्रं बाणः । शुच्यति
वस्त्रमम्भसा । ई, शूक्तः । शुचि र पूतीभावे
इति प्राञ्चः । रमानाथस्तु एतदनुरोधादेता-
नर्थान् व्याख्याति । इति दुर्गादासः ॥


Match 1289: vcp=शुच्य, skd=शुच्य

vcp

k1=शुच्य, L=43772
शुच्य¦ स्नाने अक० अभिषवे मन्यने पीडने सन्धाने च सक० भ्वा०
पर० सेट् ईदित् निष्ठा अनिट् । शुच्यति अशुच्यीत् ।


skd

k1=शुच्य, L=36010
शुच्य¦, ई अभिषवे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सक०-च-सेट् । निष्ठायामनिट् ।)
तालव्यादिः । पञ्चमस्वरी । तालष्यवर्गाद्योपधः ।
ई, शुक्तः । यद्वा, यान्तोऽयमित्यके । अभिषवः
स्नानं मन्थनं पीडनं सन्धानञ्च । इति दुर्गा-
दासः ॥


Match 1290: vcp=शुठ, skd=शुठ

vcp

k1=शुठ, L=43774
शुठ¦ गतिविघाते भ्वा० पर० सक० सेट् । शोठति अशोठीत् ।


k1=शुठ, L=43775
शुठ¦ आलस्ये चु० उभ० सक० सेट् । शोठयति ते अशूशुठत् त ।


k1=शुठ, L=43776
शुठ¦ शोधने बा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
शुण्ठयति ते शुण्टति अशुशुण्ठत् त अशुण्ठीत् ।


skd

k1=शुठ, L=36014
शुठ¦, इ खोटने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) खोटनमिह गत्याघातः ।
इ, शुण्ठ्यते । इति दुर्गादासः ॥


k1=शुठ, L=36015
शुठ¦, इ कि शोषणे । इति कविकल्पद्रुमः ।
(चुरा० पक्षे भ्वा०-अक०-सेट् ।) इ, शुण्ठ्यते ।
कि, शुण्ठयति शुण्ठति पत्रमातपात् । रमा-
नाथस्तु भ्वादिपक्षे शुष्कीभावे । चुरादिपक्षे
शुष्कीकरणेऽयमिति मत्वा भ्वादौ शुण्ठति पत्रं
चुरादौ शुण्ठयति काष्ठमातप इत्युदाहृतवान् ।
वस्तुतस्तु उभयत्र शुष्कीभावः अन्यथा भौवा-
दिकस्यैव प्रेरणवाचित्वाच्चुरादिपाठोऽनर्थकः
स्यात् । इति दुर्गादासः ॥


k1=शुठ, L=36016
शुठ¦, क आलस्ये । इति कविकल्पद्रुमः ॥ चुरा-
पर०-अक०-सेट् ।) क, शोठयति वृद्धः क्रियासु
मन्दः स्यादित्यर्थः । इति दुर्गादासः ॥


Match 1291: vcp=शुध, skd=शुध

vcp

k1=शुध, L=43793
शुध¦ शौचे शोधने सक० निःशेषभवने अक० च दि० पर०
अनिट् । शुध्यति ऌदित् अशुधत् । “भक्तोहरः शुध्यकि
यद्गुणः स्यादिति” लीला० ।


skd

k1=शुध, L=36045
शुध¦, ऌ य औ शौचे । इति कविकल्पद्रुमः । (दिवा०
पर०-अक०-अनिट् ।) ऌ, अशुधत् । य, शुध्यति
लोकः स्नानात् । औ, शोद्धा । रजसा शुध्यते
नारीत्यत्र शुध्यतीति क्विपि शुधं करोतीति
ञौ कर्म्मणि यकि रूपम् । इति दुर्गादासः ॥


Match 1292: vcp=शुन, skd=शुन

vcp

k1=शुन, L=43794
शुन¦ गतौ तु० पर० सक० सेट् । शुनति अशोनीत् ।


skd

k1=शुन, L=36046
शुन¦, श गत्याम् । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) श, शुननि । शोनिता ।
इति दुर्गादासः ॥


Match 1293: vcp=शुन्ध, skd=शुन्ध

vcp

k1=शुन्ध, L=43803
शुन्ध¦ शुद्धौ अक० शीधने सक० चु० उभ० सेट् । शुन्धयति ते
अशुशुन्धत् त ।


k1=शुन्ध, L=43804
शुन्ध¦ शुद्धौ अक० शुद्धीकरर्णे सक० भ्वा० उभ० सेट् । शुन्धति
ते अशुन्धीत् अशुन्धिष्ट । “आपः शुन्धन्तु मैनसः”
इति सन्ध्यामन्त्रः ।


skd

k1=शुन्ध, L=36057
शुन्ध¦, ञ शुद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-अक०-सक० च-सेट् ।) शुद्धिरिह शुद्धी-
भावः शुद्धीकरणञ्च । ञ, शुन्धति शुन्धते जलेन
लोकः । यो गां शुन्धति सत्येनेति हलायुधः ।
नां वाचम् । इति दुर्गादासः ॥


Match 1294: vcp=शुन्भ, skd=शुन्भ

vcp

k1=शुन्भ, L=43806
शुन्भ¦ दीप्तौ अक० मर्दने सक० तु० पर० सेट् । शुभति
अशुभम्भीत् “प्रागप्राप्तनिशुम्भशाम्भवधनु” रिति वी० च०


skd

k1=शुन्भ, L=36059
शुन्भ¦, श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-अक०-हिंसने सक०-सेट् ।) श,
शुभति शुम्भति । शुशोभ शुशुम्भ । इति दुर्गा-
दासः ॥


Match 1295: vcp=शुभ, skd=शुभ

vcp

k1=शुभ, L=43808
शुभ¦ दीप्तौ अक० हिंसने सक० तु० मुचा० पर० सेट् । शुम्भति अशीभीत् ।


k1=शुभ, L=43809
शुभ¦ दीप्तौ भ्वा० आ० अक० सेट् । शोभते ऌदित् अशुभत् शुशुभे


skd

k1=शुभ, L=36061
शुभ¦, प श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः ।
(तुदा०-पर०-अक०-हिंसने सक०-सेट् । प
श, शुम्भति शुशोभ । प्राञ्चस्तु ह्वादौ च शुभ
शुन्भ भासनहिंसनयोरिति पठन्ति । इति
दुर्गादासः ॥


k1=शुभ, L=36062
शुभ¦, ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ऌ, अशुभत् । ङ,
शोभते । न शोभति सभामध्ये इति गणकृता-
नित्यत्वादिति रमानाथः । वस्तुतस्तु शोभते
शोभः पचादित्वादन् । ततः शोभ इवाचरतीति
क्वौ साध्यम् । इति दुर्गादासः ॥


Match 1296: vcp=शुल्क, skd=शुल्क

vcp

k1=शुल्क, L=43833
शुल्क¦ कथने, सर्जने, वर्जने च चु० उभ० सक० सेट् । शुल्क०
यति ते अशुशुल्कत् त ।


skd

k1=शुल्क, L=36093
शुल्क¦, क भाषे । सर्ज्जने । वर्ज्जने । इति कवि-
कल्पद्रुमः ॥ (चरा०-पर०-सक०-सेट् ।) क,
शुल्कयति । शुल्क श्लोक इत्येतयोरेतावर्थौ
कैश्चिन्न मन्यते । भाषः कथनम् । इति दुर्गा-
दासः ॥


Match 1297: vcp=शुल्व, skd=शुल्व

vcp

k1=शुल्व, L=43837
शुल्व¦ माने दाने च चु० उभ० सक० सेट् । शुल्वयति ते अशु-
शुल्वत् त ।


skd

k1=शुल्व, L=36096
शुल्व¦, क माने । सर्गे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक-सेट् ।) पञ्चमस्वरयुक्त-
स्तालव्यादिरन्तःस्थतृतीयोपधः । सर्गः सृष्टिः ।
क, शुल्वयति वेधाः पृथिवीं परिमाति सृजति
वा इत्यर्थः । इति दुर्गादासः ॥


Match 1298: vcp=शुष, skd=शुष

vcp

k1=शुष, L=43843
शुष¦ शोषणे दि० पर० सक० अनिट् । शुष्यति ऌदित् अशुषत् ।


skd

k1=शुष, L=36104
शुष¦, य औ ॡ शोषे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-अनिट् ।) शोषः स्नेह-
रहितोभावः । य, शुष्यति धान्यमातपेन । औ,
शोष्टा ॡ । अ, अशुषत् । इति दुर्गादासः ॥
शुषः पुं,) शष + कः ।) ‘शोषणम् । गर्त्तः । इत्य
जयपालः ॥


Match 1299: vcp=शूर, skd=शूर

vcp

k1=शूर, L=43891
शूर¦ हिंसे स्तम्भे च दि० आ० सक० सेट् । शूर्य्यते अशूरिष्ट । ईदित् शूर्णः


k1=शूर, L=43892
शूर¦ विक्रमे अद० चु० उभ० सक० सेट् । शूरयति ते
अशुशूरत् त ।


skd

k1=शूर, L=36177
शूर¦, ङ य ई स्तन्भे । हिंसे । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-स्तम्भे अक०-हिंसे सक०-सेट् ।
निष्ठायामनिट् ।) ङ य, शूर्य्यते । ई, शूर्णः ।
स्तम्भो जडीभावः । इति दुर्गादासः ॥


k1=शूर, L=36178
शूर¦, त् क ङ विक्रमें । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-आत्म०-अक०-सेट् ।) ङ, अशु-
शूरत् । विक्रमः उद्यमः । इति दुर्गादासः ॥


Match 1300: vcp=शूर्प, skd=शूर्प

vcp

k1=शूर्प, L=43896
शूर्प¦ माने चु० उभ० सक० सेट् । शूर्पयति ते अशुशूर्पत् त ।


skd

k1=शूर्प, L=36184
शूर्प¦, क माने । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) षष्ठस्वरी । क, शूर्पयति
धान्यं गृही । इति दुर्गादासः ॥


Match 1301: vcp=शूल, skd=शूल

vcp

k1=शूल, L=43904
शूल¦ रुजायां भ्वा० पर० अक० सेट् । शूलति अशूलीत् ।


skd

k1=शूल, L=36200
शूल¦, रुजायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) दीर्घी । शूलति लोकं रोगः ।
इति दुर्गादासः ॥


Match 1302: vcp=शृध, skd=शृध

vcp

k1=शृध, L=43964
शृध¦ अपानशब्दे भ्वा० आ० वृता० लुङि ऌटि ऌङि च उभ०
अक० सेट् क्त्वावेट् । शर्द्धते अशृधत् शत्र्स्यति शर्द्धिष्यते ।


k1=शृध, L=43965
शृध¦ छेदने भ्वा० उभ० सक० सेट् क्त्वा वेट् । शर्द्धति ते
अशर्द्धीत् अशर्द्धिष्ट ।


k1=शृध, L=43966
शृध¦ ग्रहणे चु० उभ० सक० सेट् । शर्द्धयति ते अशशर्द्धत् त


skd

k1=शृध, L=36275
शृध¦, व ऌङ उ पर्दे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् । क्तावेट् ।) व, शर्त्-
स्यति शिशृत्सति । ऌ, अशृधत् । ङ, शर्धते ।
उ, शर्द्धित्वा शृद्ध्वा । पर्दोऽपानोत्सर्गः । शृधु
प्रहसने इति चुरादिपरस्मैपदीधातुरन्यैर्न
मन्यते । प्रहसनं विद्रवः । इति गोविन्दभट्टः ।
शर्द्धयति वृद्धं कुत्सितशब्दैर्बालः । इति रमा-
नाथः । इति दुर्गादासः ॥


k1=शृध, L=36276
शृध¦, उ ञ क्लेदने । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-अक०-सेट् । क्त्वाविट् ।) उ, शद्धित्वा
शृद्ध्वा । ञ शर्द्धति शर्द्धते । क्लेदनमाद्रभावः ।
इति दुर्गादासः ॥


Match 1303: vcp=शॄ, skd=शॄ

vcp

k1=शॄ, L=43968
शॄ¦ हिंसने क्र्या० प्वा० पर० सेट् । शृणाति अशारीत् ।
शीर्णः ।


skd

k1=शॄ, L=36279
शॄ¦, गि हिंसने । इति कविकल्पद्रुमः ॥ क्र्या०-
पर०-सक०-सेट् ।) गि, शृणाति । शीर्णः
शीर्णिः । इति दुर्गादासः ॥


Match 1304: vcp=शो, skd=शो

vcp

k1=शो, L=44026
शो¦ तीक्ष्णीकरणे दि० प० सक० अनिट् । श्यति अशात् अशासीत् ।


skd

k1=शो, L=36356
शो¦, य निशाने । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-अनिट् ।) निशानमिहाल्पीकर-
णम् । य, श्यति शत्तुं शूरः । इति दुर्गादासः ॥


Match 1305: vcp=शोण, skd=शोण

vcp

k1=शोण, L=44036
शोण¦ गतौ सक० वर्णे अक० भ्वा० पर० सेट् । शोणति अशीणीत् ऋदित् चङि न ह्रस्वः ।


skd

k1=शोण, L=36367
शोण¦, ऋ गतौ । वर्णे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-वर्णे अक०-सेट् ।) वर्णश्चेह
रक्तीभावः । शोणति सूर्य्यः सन्ध्यायाम् । इति
दुर्गादासः ॥


Match 1306: vcp=शौट, skd=शौट

vcp

k1=शौट, L=44078
शौट¦ गर्वे भ्वा० पर० अक० सेट् । शौटति अशौटीत् । ऋदित्
चङि न ह्रस्वः ।


skd

k1=शौट, L=36428
शौट¦, ऋ गर्व्व । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अशु-
शौटत् । शौटति वीरः । इति दुर्गादासः ॥


Match 1307: vcp=शौड, skd=शौड

vcp

k1=शौड, L=44081
शौड¦ गर्वे भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । शौडति अशीडीत् ।


skd

k1=शौड, L=36431
शौड¦ ऋ गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अशु-
शौडत् । इति दुर्गादासः ॥


Match 1308: vcp=श्चुत, skd=श्चुत

vcp

k1=श्चुत, L=44104
श्चुत¦ क्षरणे भ्वा० पर० अक० सेट् । श्चोतति इरित् अश्चुतत् अश्चोतीत् ।


skd

k1=श्चुत, L=36463
श्चुत¦ इर् क्षरणे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) द्वौतालव्य-
वर्गाद्ययुक्ततालव्यादी । शेषोऽन्तःस्थादियुक्तश्च ।
नकारजावनुस्वारपञ्चमावित्यादिनियमेऽप्यनयो-
स्तालव्यादित्वं तद्वचनस्य व्यभिचारसूचनार्थं
तेन चुलुम्प लोपे इत्यादीनामोष्ठ्यवर्गशेषोप-
धत्वं सङ्गच्छते । तेन क्विपि संयोगान्तलोपे
चुलुम् इत्यादि सिद्धम् । किन्तु द्वौ दन्त्यादी
इति धातुप्रदीपक्रमदीश्वरौ । तेन घृतं श्चोतति
इति घृतश्चुत् तमाचष्टे इति ञौ ञीमंश्चेति
डित्वाट्टिलोपे घृतश्चयति पुनः क्विपि ञेर्लोपे
घृतस्क इति स्थिते संयोगादेः सस्य लोपे घृतक्
इति केचित् ॥ इर, अश्चुतत् अश्चोतीत् ।
अश्च्युतत् अश्च्योतीत् । क्षर इति आसेचनं
क्षरणञ्च । रक्तमाश्च्योतति क्षुर इति । इदं
कवचमश्च्योतीदिति । निश्च्योतन्ते सुतनुकवरी
बिन्दवो यावदेते । इति मालत्यां गणकृतानि-
त्यत्वम् । इति दुर्गादासः ॥


Match 1309: vcp=श्च्युत, skd=श्च्युत

vcp

k1=श्च्युत, L=44105
श्च्युत¦ क्षरणे भ्वा० पर० अक० आसेचने सक० सेट् । श्च्योतति
इरित् अश्च्युतत् अश्च्योतीत् ।


skd

k1=श्च्युत, L=36464
श्च्युत¦ इर् क्षरणे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) द्वौ तालव्य-
वर्गाद्ययुक्ततालव्यादी । शेषोऽन्तःस्थादियुक्तश्च ।
नकारजावनुस्वारपञ्चमावित्यादिनियमेऽप्यनयो-
स्तालव्यादित्वं तद्वचनस्य व्यभिचारसूचनार्थं
तेन चुलुम्प लोपे इत्यादीनामोष्ठ्यवर्गशेषोप-
धत्वं सङ्गच्छते । तेन क्विपि संयोगान्तलोपे
चुलुम् इत्यादि सिद्धम् । किन्तु द्वौ दन्त्यादी
इति धातुप्रदीपक्रमदीश्वरौ । तेन घृतं श्चोतति
इति घृतश्चुत् तमाचष्टे इति ञौ ञीमंश्चेति
डित्वाट्टिलोपे घृतश्चयति पुनः क्विपि ञेर्लोपे
घृतस्क इति स्थिते संयोगादेः सस्य लोपे घृतक्
इति केचित् ॥ इर, अश्चुतत् अश्चोतीत् ।
अश्च्युतत् अश्च्योतीत् । क्षर इति आसेचनं
क्षरणञ्च । रक्तमाश्च्योतति क्षुर इति । इदं
कवचमश्च्योतीदिति । निश्च्योतन्ते सुतनुकवरी
बिन्दवो यावदेते । इति मालत्यां गणकृतानि-
त्यत्वम् । इति दुर्गादासः ॥


Match 1310: vcp=श्यै, skd=श्यै

vcp

k1=श्यै, L=44144
श्यै¦ गतौ भ्वा० आ० सक० अनिट् । श्यायते अश्यास्त ।


skd

k1=श्यै, L=36510
श्यै¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-अनिट् ।) तालव्यादिरन्तस्था-
द्योपधः । ङ, श्यायते । इति दुर्गादासः ॥


Match 1311: vcp=श्रक, skd=श्रक

vcp

k1=श्रक, L=44147
श्रक¦ सर्पणे भ्वा० आ० सक० सेट् इदित् । श्रङ्गति अश्रङ्गीत् ।


skd

k1=श्रक, L=36513
श्रक¦, इ ङ सर्पे इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) रेफयुक्ताद्यः । इ, श्रङ्क्यते
ङ, श्रङ्कते । सर्पो गतिः । इति दुर्गादासः ॥


Match 1312: vcp=श्रग, skd=श्रग

vcp

k1=श्रग, L=44148
श्रग¦ गतौ भ्वा० पर० सक० सेट् इदित् । श्रङ्गति अश्रङ्गीत् ।


skd

k1=श्रग, L=36514
श्रग¦, इ व्रजे । इति कविकल्पद्रुमः ॥ (स्वा०-
पर०-सक०-प्लुतौ अक०-सेट् ।) रेफान्तताल-
व्यादिः । अयं प्लुतगताविति भट्टमल्लः । इ,
श्रङ्ग्यते । इति दुर्गादासः ॥


Match 1313: vcp=श्रण, skd=श्रण

vcp

k1=श्रण, L=44149
श्रण¦ दाने भ्वा० पर० सक० सेट् । श्रणति अश्राणीत् अश्रणीत्
मित् घटादि० श्रणयति ।


k1=श्रण, L=44150
श्रण¦ दाने चु० उभ० सक० सेट् । श्राणयति ते अशिश्रणत् त ।


skd

k1=श्रण, L=36515
श्रण¦, कन्दाने । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, श्राणयति । स्वमते
अस्यञ्यङि ह्नस्वविकल्पनेऽप्यष्टमस्वरानुबन्धा-
भावोऽन्ये षामनुरोधात् । इति दुर्गादासः ॥


k1=श्रण, L=36516
श्रण¦, म दाने । इति कविकल्पद्रुमः ॥ (भ्वा० पर०
सक०-सेट् । तालव्यादी रेफयुक्तः । म, श्रण-
यति । इति दुर्गादासः ॥
श्रत्, व्य, श्रद्वा । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥ (सत्यम् । इति निघण्टुः । ३ । १० ॥)


Match 1314: vcp=श्रथ, skd=श्रथ

vcp

k1=श्रथ, L=44152
श्रथ¦ यत्ने अक० प्रतिहर्षे सक० चु० उभ० सेट् । श्राथयति ते अशिश्रयत् त ।


k1=श्रथ, L=44153
श्रथ¦ दौर्बल्ये अ० चु० उ० अक० सेट् । श्रथयति ते असश्रथत् त ।


k1=श्रथ, L=44154
श्रथ¦ बधे भ्वा० पर० सक० सेट् । श्रथति अश्रथीत् अश्राथीत् ।


k1=श्रथ, L=44156
श्रथ¦ शैथिल्ये अक० तत्करणे सक० भ्वा० आ० सेट् इदित् ।
श्रन्थते अश्रन्थिष्ट ।


skd

k1=श्रथ, L=36517
श्रथ¦, इ ङ शैथिल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०
आत्म०-अक०-सक०-च सेट् ।) शैथिल्यमिह
शिथिलीभावस्तत्करणञ्च ॥ इ, श्रन्थ्यते । ङ,
श्रन्थते वस्त्रं शिथिलं स्यादित्यर्थः । श्रन्थते वस्त्रं
लोकः शिथिलं करोति इत्यर्थः । इति दुर्गा-
दासः ॥


k1=श्रथ, L=36518
श्रथ¦, क यत्ने । प्रतिहृषि । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-यत्ने अक०-प्रतिहर्षे सक० सेट् ।
क, श्राथयति पठितुं शिष्यः । श्राथयति शिशुं
लोकः पुनःपुनर्हर्षयति इत्यर्थः । इति दुर्गा-
दासः ॥


k1=श्रथ, L=36519
श्रथ¦ कि वधे । मोक्षे । वधे । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, श्राथ-
यति श्रथयति । श्लाघ्यं श्राथयति स्फुटार्थ-
मधुरं गद्यञ्च पद्यं सदा भावालङ्कृतिपेशलं
श्रथयति स्पष्टाक्षरं नाटकम् । श्रथ्नाति प्रथि-
तावदातचरितः शास्त्रं विचित्रञ्च य इति
हलायुधोक्तं श्रथयतीति श्रथ त् क दौर्ब्बल्ये
इत्यदन्तस्य रूपम् । अनेकार्यत्वात् बध्नाती-
त्यर्थः । इति दुर्गादासः


k1=श्रथ, L=36520
श्रथ¦, त् क दौर्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-अक०-सेट् ।) श्रथयति । इति
दुर्गादासः ॥


k1=श्रथ, L=36521
श्रथ¦, म वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) म, श्रथयति ! इति दुर्गादासः ॥


Match 1315: vcp=श्रन्थ, skd=श्रन्थ

vcp

k1=श्रन्थ, L=44160
श्रन्थ¦ ग्रन्थने बधे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
श्रन्थयति-ते श्रन्थति अशश्रन्थत् त अश्रन्थीत् ।


k1=श्रन्थ, L=44161
श्रन्थ¦ माचने प्रतिहर्षे च क्र्या० प० सक० सेट् । श्रथ्नाति अश्रन्थीत्


skd

k1=श्रन्थ, L=36527
श्रन्थ¦, कि दर्भे । वधे । इति कविकल्पद्रुमः ॥
(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, श्रन्थ-
यति श्रन्थति । दर्भो ग्रन्थनम् । इति दुर्गा-
दासः ॥


k1=श्रन्थ, L=36528
श्रन्थ¦, ग मोक्षे । प्रतिहृषि । इति कविकल्पद्रुमः ॥
(क्र्या०-पर०-सक०-सेट् ।) ग, श्रथ्नाति वत्सं
लोकः मोचयतीत्यर्थः । श्रथ्नाति शिशुं लोकः
पुनः पुनर्हर्षयति इत्यर्थः । शश्रन्थ । इति दुर्गा-
दासः ॥


Match 1316: vcp=श्रम, skd=श्रम

vcp

k1=श्रम, L=44165
श्रम¦ तपसि, आयास खटे च अक० भ्वा० शमादि० पर० सेट्
उदित् क्त्वा वेट् । श्राम्यति इरित् अश्रमत् अश्रमीत् ।
श्रान्त्वा श्र मत्वा श्रान्तः ।


skd

k1=श्रम, L=36534
श्रम¦ उ भ य ञि इर् तपःखेदयोः । इति कवि-
कल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।)
उ, श्रमित्वा श्रान्त्वा । भ य, श्राम्यति लोकः
तपः करोति खिद्यति वेत्यर्थः । ञि, श्रान्तो-
ऽस्ति । इर् अश्रमत् अश्रीत् । अस्मात् पुषा-
दित्वान्नित्यं ङ इत्यन्ये । धूर्य्यान् विश्रामयेति स
इति रघौ श्राम त् क मन्त्रे इत्यदन्तस्य रूपम् ।
इति दुर्गादासः ॥


Match 1317: vcp=श्राम, skd=श्राम

vcp

k1=श्राम, L=44190
श्राम¦ मन्त्रणे अ० चु० लभ० सक० सेट् । श्रामयति ते अशश्रामत् त ।


skd

k1=श्राम, L=36565
श्राम¦, त् क मन्त्रे । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा०-पर०-सक०-सेट् ।) अशश्रामत् । मन्त्रो-
ऽभिमुखीकरणम् । गुप्तोक्तिरित्येके । इति
दुर्गादासः ॥


Match 1318: vcp=श्रि, skd=श्रि

vcp

k1=श्रि, L=44196
श्रि¦ सेवने भ्वा० उभ० सक० सेट् । श्रयति ते अशिश्रियत् त ।


skd

k1=श्रि, L=36578
श्रि¦, ञ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-सक०-सेट् ।) ञ, श्रयति श्रयते । इति
दुर्गादासः ॥


Match 1319: vcp=श्री, skd=श्री

vcp

k1=श्री, L=44199
श्री¦ पाके क्र्या० उ० सक० सेट् । श्रोणाति--ते अश्रायीत् अश्रायिष्ट


skd

k1=श्री, L=36583
श्री¦, ञ ग पाके । इति कविकल्पद्रुमः ॥ [क्र्या०-
उभ०-सक०-सेट् ।) ञ ग श्रीणाति श्रीणीते ।
इति दुर्गादासः ॥


Match 1320: vcp=श्रु, skd=श्रु

vcp

k1=श्रु, L=44257
श्रु¦ गतौ भ्वा० पर० सक० अनिट् । श्रवति अश्रौषीत् ।


skd

k1=श्रु, L=36661
श्रु¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-अनिट् ।) श्रवति । रेफरहितोऽप्यय-
मिति केचित् । शवति । इति दुर्गादासः ॥


k1=श्रु, L=36662
श्रु¦, न गतौ । श्रुतौ । इति कविकल्पद्रुमः ॥
(स्वा०-पर०-सक०-अनिट् । न, शृणोति ।
रक्षांसीति पुरापि संशृणुमहे । इति मुरारौ
व्यतीहारादात्मनेपदम् । संशृणुष्व मयाख्या-
तम् । इति गणकृतानित्यत्वात् । आख्यात-
शब्दस्य क्रियाविशेषणतयाकर्म्मकत्वे समो
गमृच्छेत्यादिना म वा । इति दुर्गादासः ॥


Match 1321: vcp=श्रै, skd=श्रै

vcp

k1=श्रै, L=44291
श्रै¦ स्वेदे भ्वा० प० अक० अनिट् । श्रायति अश्रासीत् । विकॢत्तौ घटादि० श्रपयति ।


skd

k1=श्रै, L=36706
श्रै¦, स्वेदे । इति कविकल्पद्रुमः ॥ (म्वा०-पर०-
अक०-अनिट् ।) श्रायति रौद्राल्लोकः । इति
दुर्गादासः ॥


k1=श्रै, L=36707
श्रै¦ म पचने । इति कविकल्पद्रुमः ॥ भ्वा०-पर०-
सक०-अनिट् ।) म, श्रपयति । इति दुर्गा-
दासः ॥


Match 1322: vcp=श्रोण, skd=श्रोण

vcp

k1=श्रोण, L=44292
श्रोण¦ संधाते भ्वा० पर० अक० सेट् ऋदित् चङि न ह्रस्वः ।
श्रोणंति अश्रोणीत् ।


skd

k1=श्रोण, L=36708
श्रोण¦, ऋ संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ अशुश्रोणत् । संघातो
राशीकरणम् । इति दुर्गादासः ॥


Match 1323: vcp=श्लक, skd=श्लक

vcp

k1=श्लक, L=44303
श्लक¦ सर्पणे भ्वा० आ० सक० सेट् इदित् । श्लङ्कते कश्लङ्किष्ट ।


skd

k1=श्लक, L=36728
श्लक¦, इ ङ सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) अन्तःस्थतृतीयवर्ण-
युक्तादिः । इ, श्लङ्क्यते । ङ, श्लङ्कते । सर्पो गतिः
इति दुर्गादासः ॥


Match 1324: vcp=श्लग, skd=श्लग

vcp

k1=श्लग, L=44306
श्लग¦ गतौ भ्वा० पर० सक० सेट् इदित् । श्लङ्गति अश्लङ्गीत् ।


skd

k1=श्लग, L=36732
श्लग¦, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) । अन्तःस्थतृतीयवर्णयुक्तताल-
व्यादिः । इ, श्लङ्यते । इति दुर्गादासः ॥


Match 1325: vcp=श्लथ, skd=श्लथ

vcp

k1=श्लथ, L=44307
श्लथ¦ दौर्वल्ये अद० चु० अक० सेट् । श्लथयति ते अशश्लथत् त


skd

k1=श्लथ, L=36733
श्लथ¦, त् क दीर्ब्बल्ये । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-अक०-सेट् ।) अन्तस्थः-
तृतीययुक्तादिः । क, श्लथयति । इति दुर्गा-
दासः ॥


Match 1326: vcp=श्लाख, skd=श्लाख

vcp

k1=श्लाख, L=44309
श्लाख¦ व्याप्तौ भ्वा० पर० सक० सेट् ऋदिंत् चङि न ह्रस्वः ।
श्लास्वति अश्लाखीत् ।


skd

k1=श्लाख, L=36735
श्लाख¦, ऋ ष्याप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०
पर०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ऋ,
अशश्लाखत् । इति दुर्गादासः ॥


Match 1327: vcp=श्लाघ, skd=श्लाघ

vcp

k1=श्लाघ, L=44310
श्लाघ¦ आत्मगुणाविष्करणे भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः । श्लाघते अश्लाघिष्ट ।


skd

k1=श्लाघ, L=36736
श्लाघ¦, ऋ ङ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०
आत्म०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः
तालव्यादिः । कत्थनं प्रशंसा । ऋ, अश्लाघत् ।
ङ, श्लाघते गुणिनं गुणी । इति दुर्गादामः ॥
श्लाधा, स्त्री, (श्लाघ कत्थने + अः । टाप् ।)
प्रशंमा । (यथा, रघुः । १ । २२ ।
“ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः ।
गुणा गुणानुवन्धित्वात् तस्य सप्रसवा इव ॥”)
परिचर्य्या । अभिलासः । इति मेदिनी ॥


Match 1328: vcp=श्लिष, skd=श्लिष

vcp

k1=श्लिष, L=44315
श्लिष¦ दाहे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट् । श्लेषति अ श्लेषीत् ।


k1=श्लिष, L=44316
श्लिष¦ आलिङ्गने संसर्गे च सक० दि० अनिट् । श्लिष्यति
ऌदित् अश्लिषत् । आलिङ्गने तु अश्लिक्षत् ।


skd

k1=श्लिष, L=36740
श्लिष¦, उ दाहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०
सक०-सेट् । क्त्वावेट् ।) अन्तःस्थतृतीययुक्तः ।
उ, श्लेषित्वा श्लिष्ट्वा । इति दुर्गादासः ॥


k1=श्लिष, L=36741
श्लिष¦, औ य ऌ ञि श्लषे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-अनिट् ।) अन्तःस्थतृतीय-
युक्तादिः । औ श्लेष्टा । य, श्लिष्यति । ऌ,
अश्लिषत् । आलिङ्गने तु अश्लिक्षत् । ञि श्लिष्टो-
ऽस्ति । श्लेष आलिङ्गनम् । तच्च बाहुभ्यामेव
[Page5-173-b+ 52]
रूढम् । श्लिष्यति कामपीति जयदेवः । प्राप्ता-
वप्ययम् । श्लिष्यति वृक्षं लता । इति दुर्गा-
दासः ॥


k1=श्लिष, L=36742
श्लिष¦, क श्लेषे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०
सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । क, श्लेष-
यति । इति दुर्गादासः ॥


Match 1329: vcp=श्लोक, skd=श्लोक

vcp

k1=श्लोक, L=44332
श्लोक¦ वर्द्धने संघाते च भ्वा० आ० म० सेट् ऋदित् चङि न ह्रस्वः । श्लोकते अश्लोकिष्ट ।


skd

k1=श्लोक, L=36761
श्लोक¦, ऋ ङ संघाते । वर्ज्जने । सर्ज्जने । इति कवि-
कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक०-च-सेट् ।
मघात इह छन्दोविशिष्टवाक्यरचनम् । ऋ,
अशश्लोकत् । ङ, श्लोकते कविः । इति दुर्गा-
दासः ॥


Match 1330: vcp=श्लोण, skd=श्लोण

vcp

k1=श्लोण, L=44334
श्लोण¦ संघाते भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः ।
श्लोणति अश्लोणीत् ।


skd

k1=श्लोण, L=36763
श्लोण¦, ऋ सहाते । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) ऋ, अशुश्लोणत् । संहातो
राशीकरणम् । इति दुर्गादासः ॥


Match 1331: vcp=श्वक, skd=श्वक

vcp

k1=श्वक, L=44336
श्वक¦ सर्पणे भ्वा० आ० सक० सेट् इदित् श्वङ्करे अश्वङ्किष्ट ।


skd

k1=श्वक, L=36766
श्वक¦, इ ङ सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) वकारयुक्ताद्यः । इ,
शङ्क्यते । ङ श्वङ्कते । सर्पो गतिः । इति
दुर्गादासः ॥


Match 1332: vcp=श्वच, skd=श्वच

vcp

k1=श्वच, L=44337
श्वच¦ गतौ भ्वा० आ० सक० सेट् । श्वचते अश्वचिष्ट इदिदप्ययम्


skd

k1=श्वच, L=36768
श्वच¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) द्वौ
वकारयुक्तादी । पुनःपाठादाद्यो नेदनुबन्धः ।
ङितौ तु द्वौ । एक एवेत्पाठबलाद्वाध्य इति
नियमात् । ङ, श्वचते । इ, श्वञ्च्यते । ङ,
श्वञ्चते । इति दुर्गादासः ॥


k1=श्वच, L=36769
श्वच¦, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) द्वौ
वकारयुक्तादी । पुनःपाठादाद्यो नेदनुबन्धः ।
ङितौ तु द्वौ । एक एवेत्पाठबलाद्वाध्य इति
नियमात् । ङ, श्वचते । इ, श्वञ्च्यते । ङ,
श्वञ्चते । इति दुर्गादासः ॥


Match 1333: vcp=श्वठ, skd=श्वठ

vcp

k1=श्वठ, L=44338
श्वठ¦ गतौ संस्कारे च चु० उभ० सक० सेट् । श्वठयति--ते अशि-
श्वठत् त । इदिदप्ययम् श्वण्टयति ।


k1=श्वठ, L=44339
श्वठ¦ दुर्वचने अद० चु० उभ० सक० सेट् । श्वठयति ते अशश्वठत् त ।


skd

k1=श्वठ, L=36770
श्वठ¦, क गतौ । असंस्कृते । संस्कृते । इति
कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) द्वौ वकारयुक्तौ पुनःपाठादाद्यो
नेदनुबन्धः । त्रयः अर्थाः । क, श्वाठयति । इ क
श्वण्ठयति जनः । गच्छति किमपि संस्करोति
वा इत्यर्थः । संस्कारगत्योरिति केचित् । इति
दुर्गादासः ॥


k1=श्वठ, L=36771
श्वठ¦, इ क गतौ । असंस्कृते । संस्कृते । इति
कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) द्वौ वकारयुक्तौ पुनःपाठादाद्यो
नेदनुबन्धः । त्रयः अर्थाः । क, श्वाठयति । इ क
श्वण्ठयति जनः । गच्छति किमपि संस्करोति
वा इत्यर्थः । संस्कारगत्योरिति केचित् । इति
दुर्गादासः ॥


k1=श्वठ, L=36772
श्वठ¦, त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) वकारयुक्तः ।
श्वठयति नीचः । कुत्सितं वदतीत्यर्थः । रमा-
नाथस्तु सम्यग्भाषणे इति मत्वा श्वठयति
सम्यग्वदतीत्यर्थ इत्याह । सम्यग्भाग इत्यप्येके
इति दुर्गादासः ॥


Match 1334: vcp=श्वभ्र, skd=श्वभ्र

vcp

k1=श्वभ्र, L=44350
श्वभ्र¦ गतौ छिद्रकरणे सक० दीःस्थ्ये अक० चु० उभ० सेट् ।
श्वभ्रयति ते अशश्वभ्रत् त ।


skd

k1=श्वभ्र, L=36784
श्वभ्र¦, क विले । गती । तङ्के । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-तङ्के अक०-सेट् ।) विलं
रन्ध्रकरणम् । क, श्वभ्रयति भाण्डं बालकः ।
तङ्क इति तकि दौःस्थ्ये इत्यस्य रूपम् । श्वभ्र-
यति दीनः दुःखेन जीवतीत्यर्थः । तङ्कस्थाने
तन्त्र इत्यपपाठः । इति दुर्गादासः ॥


Match 1335: vcp=श्वल, skd=श्वल

vcp

k1=श्वल, L=44354
श्वल¦ वेगे भ्वा० पर० अक० सेट् । श्वलति अश्वालीत् ।


skd

k1=श्वल, L=36788
श्वल¦, वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् । वकारयुक्तादिः । श्वलति । वेगः
शीघ्रगतिः । इति दुर्गादासः ॥


Match 1336: vcp=श्वल्क, skd=श्वल्क

vcp

k1=श्वल्क, L=44355
श्वल्क¦ भाषणे चु० उ० स० सेट् । श्वल्कयति ते अशश्वल्कत् त ।


skd

k1=श्वल्क, L=36789
श्वल्क¦, क भाषे । इति कविकल्पद्रुमः । (चुरा०-
पर०-सक०-सेट् ।) वकारयुक्तस्तालव्यादिरन्तः-
स्थतृतीयोपधः । क, श्वल्कयति । भाषः कथ-
नम् । इति दुर्गादासः ॥


Match 1337: vcp=श्वल्ल, skd=श्वल्ल

vcp

k1=श्वल्ल, L=44356
श्वल्ल¦ वेगे भ्वा० पर० अक० सेट् । श्वल्लति अश्वल्लीत् ।


skd

k1=श्वल्ल, L=36790
श्वल्ल¦ वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) वकारयुक्तादिः लद्वयान्तः ।
श्वल्लति । वेगः शीघ्रगतिः । इति दुर्गादासः ॥


Match 1338: vcp=श्वस, skd=श्वस

vcp

k1=श्वस, L=44363
श्वस¦ जीवने अदा० जक्षा० धर० सक० सेट् । श्वधिति अश्व-
[Page5159-a+ 38]
सीत् । “न विश्वसेदविश्वस्ते इत्यादौ” तु गणव्यत्यासात्
भ्वादित्वम् निष्ठा वेट् । श्वसितः श्वस्तः ।


k1=श्वस, L=44364
श्वस¦ स्वप्रे अदा० प० अक० वैदिकोऽयस् । श्वस्ति अश्वसीत् ।


skd

k1=श्वस, L=36798
श्वस¦, घ लु प्राणने । इति कविकल्पद्रुमः ॥ (अदा०
पर०-अक०-सेट् ।) “वकारयुक्तादिः । घ लु,
श्वसिति लोकः जीवतीत्यर्थः । आश्वसेयुर्निशा-
चरान् । इति भट्टौ । न विश्वसेत् पूर्व्वविरो-
धितस्येति । पञ्चतन्त्रे ।
‘तविखसेदविश्वस्तं विश्वस्ते नातिविश्वसेत् ।’
इत्यादौ च गणकृतमनित्यमिति न्यायात् शपः
स्थितौ साध्यम् । अथवा हादेराकृतिगणत्वात्
तत्र दष्टव्यम् । वस्तुतस्तु “पचादित्वादनि श्वस
[Page5-177-c+ 52]
इवाचरतीति क्वौ साध्यम् ।” इति दुर्गादासः ॥


k1=श्वस, L=36799
श्वस¦, लुर स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-अक०-सेट् ।) लु, श्वस्ति । र, वैदिकः ।
इति दुर्गादासः ॥


Match 1339: vcp=श्वि, skd=श्वि

vcp

k1=श्वि, L=44386
श्वि¦ गतौ सक० वृद्धौ अक० भ्वा० पर० यजा० सेट् । श्वयति अशि-
श्वत्--अश्वत्--अश्वयात् । ट्वित् श्वयथुः ओदित् निष्ठा तस्य
नः शूनः ।


skd

k1=श्वि, L=36826
श्वि¦, टु ऐ ओ इर् गतिवृद्ध्योः । इति कविकल्प-
द्रुमः ॥ भ्वा०-पर०-सक०-सेट् ।) तालव्यादिः ।
टु, श्वयथुः । ऐ, शूयात् । ओ, शूनः । इर्,
अश्वत अश्वयीत् । इति दुर्गादासः ॥


Match 1340: vcp=श्वित, skd=श्वित

vcp

k1=श्वित, L=44387
श्वित¦ शुक्लतापादने भ्वा० आ० ऌदित् लुङि उभ० सक० सेट् । श्वेतते अश्वितत् अश्वेतिष्ट ।


skd

k1=श्वित, L=36827
श्वित¦, ऌ आ ङ शौक्ल्ये । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) वकारयुक्तः ।
ऌ, अश्वितत् । आ, श्वितितं श्वित्तम् । ङ,
खतते प्रासादः । इति दुर्गादासः ॥


Match 1341: vcp=श्विद, skd=श्विद

vcp

k1=श्विद, L=44391
श्विद¦ शुक्लतापादने भ्वा० आत्म० सक० सेट् इदित् । श्विन्दति
अश्विन्दीत् ।


skd

k1=श्विद, L=36831
श्विद¦, इ ङ शौक्ल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) वकारयुक्तः । इ, श्विन्द्यते ।
ङ, श्विन्दते पुण्डरीकम् । इति दुर्गादासः ॥


Match 1342: vcp=षग, skd=षग

vcp

k1=षग, L=44466
षग¦ संवरणे भ्वा० पर० सक० सेट् एदित सिचि न वृद्धिः ।
सगति असगीत् मित् घटादि सगयति । असौषगत् त ।


skd

k1=षग, L=36922
षग¦, म ए सवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) म, सिषगयिषति । ए,
असगीत् । इति दुर्गादासः ॥


Match 1343: vcp=षघ, skd=षघ

vcp

k1=षघ, L=44467
षघ¦ हिंसायां स्वा० पर० सक० सेट् एदित् सिचि न वृद्धिः ।
कवोति कसघीत् असीषघत् त ।


skd

k1=षघ, L=36923
षघ¦, न हिंसे । इति कविकल्पद्रुमः ॥ (स्वा०-पर०-
सक०-सेट् ।) न, सघ्नोति । असीषघत् । इति
दुर्गादासः ॥


Match 1344: vcp=षच, skd=षच

vcp

k1=षच, L=44468
षच¦ सेचने भ्वा० आत्म० सक० सेट् । पञ्चते असचिष्ट असीः षचत् त ।


k1=षच, L=44469
षच¦ सम्बन्धे भ्वा० पर० सक० सेट् । सचति । असचोत्--असाचीत्


skd

k1=षच, L=36924
षच¦, सम्बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०
सक०-सेट् ।) सचति । इति दुर्गादासः ॥


k1=षच, L=36925
षच¦, ङ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-मक०-सेट् ।) ङ, सचते जलं मेघः ।
इति दुर्गादासः ॥


Match 1345: vcp=षट, skd=षट

vcp

k1=षट, L=44470
षट¦ विभाजने भ्वा० पा सक० सेट् । सटति असटीत् असाटीत्


skd

k1=षट, L=36926
षट¦, अंशके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) अंशके अवयवे । सटति पटः
अवयवी स्वादित्यर्थः । इति दुर्गादासः ॥


Match 1346: vcp=षट्ट, skd=षट्ट

vcp

k1=षट्ट, L=44477
षट्ट¦ निवामे वले च अक० हिंसायां दाने च सक० चुरा० उभ०
मेट् । सट्टयति ते अससट्टत त । सिषट्टथिषति ।


skd

k1=षट्ट, L=36934
षट्ट¦, क निकेतने । हिंसे । दाने । बले । इति
कविकल्पद्रुमः ॥ (चुरा०-पर० वासे बले च
अक०-हिंसे दाने च सक०-सेट् ।) मूर्द्धन्यादि-
ष्टद्वयान्तः । क, षट्टयति लोकः । निवसति
हन्ति बली स्यात् ददाति वा इत्यर्थः । इति
दुर्गादासः ॥


Match 1347: vcp=षद, skd=षद

vcp

k1=षद, L=44520
षद¦ गतौ चु० उभ० सक० सेट् । सादयति ते असीषदत् ।


k1=षद, L=44521
षद¦ विषादे आकुलीभावे अक० हिंसायां गतौ च सक० तु० प०
अनिट् । सीदति ऌदित् असदत् । ज्वला० । सदः सादः ।


skd

k1=षद, L=36982
षद¦, ऌ ज औ श विषादे । शरणे । गतौ । इति
कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-विषादे
अक०-अनिट् ।) ऌ, असदत् । ज, सादः सदः ।
औ असात्सीत् । श, सीदती सीदन्ती । विषाद
आकुलीभावः । सीदति राधा रासगृहे । शरणं
हिंसा । इति दुर्गादासः ।


k1=षद, L=36983
षद¦, क गतौ । आङ्पूर्व्वोऽयम् । इति कविकल्प-
द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) मूर्द्धन्यादि ।
क, आसादयति । इति दुर्गादासः ॥


Match 1348: vcp=षन्च, skd=षन्च

vcp

k1=षन्च, L=44522
षन्च¦ गतौ भ्रा० पर० सक० सेट् । सञ्चति असञ्चीत् ।


skd

k1=षन्च, L=36986
षन्च¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सञ्चति । इति दुर्गादासः ॥


Match 1349: vcp=षन्ज, skd=षन्ज

vcp

k1=षन्ज, L=44523
षन्ज¦ सङ्गे सम्बन्धे च भ्वा० पर० सक० अनिट् सजति असाङ्क्षीत्


skd

k1=षन्ज, L=36987
षन्ज¦, औ ञि सङ्ग्रे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-अनिट् ।) औ, असाङ्क्षीत् । ञि,
सक्तोऽस्ति । सजति वपुषि वासः । इति दुर्गा-
दासः ॥


Match 1350: vcp=षप, skd=षप

vcp

k1=षप, L=44524
षप¦ सम्बन्धे भ्वा० पर० सक० सेट् । सपति असापीत् असपीत् ।
असीषपत् ।


skd

k1=षप, L=36988
षप¦, सम्बे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) सपति । असीषपत् । सम्बः
सम्बन्धः । इति दुर्गादासः ॥


Match 1351: vcp=षम, skd=षम

vcp

k1=षम, L=44525
षम¦ वैकल्ये अद० चु० उभ० अक० सेट् । समयति गे अससमत् त । सिषमयिषति ।


skd

k1=षम, L=36989
षम¦, वैक्लव्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) वैक्लव्यं विह्वलीभावः ।
“समन्ति यद्वियोगेन सीमन्तिन्यः स्मरातुराः ।”
इति दुर्गादासः ॥


k1=षम, L=36990
षम¦, त् क वैक्लव्ये । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-अक०-सेट् ।) सिषमयिषति । इति
दुर्गादासः ॥


Match 1352: vcp=षम्ब, skd=षम्ब

vcp

k1=षम्ब, L=44526
षम्ब¦ सर्पणे भ्वा० पर० सक० सेट् । सम्बति असम्बीत् ।


skd

k1=षम्ब, L=36991
षम्ब¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सम्बति । इति दुर्गादासः ॥


Match 1353: vcp=षर्ज्ज, skd=षर्ज्ज

vcp

k1=षर्ज्ज, L=44527
षर्ज्ज¦ सर्जने भ्वा० पर० सक० सेट् । सर्जति असर्ज्जीत् ।


skd

k1=षर्ज्ज, L=36992
षर्ज्ज¦, अर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सिषर्ज्जयिषति । सर्ज्जति धनं
लोकः । इति दुर्गादासः ॥


Match 1354: vcp=षर्ब, skd=षर्व्व *

vcp

k1=षर्ब, L=44528
षर्ब(र्व)¦ गतौ भ्वा० प० सक० सेट् । सर्ब(र्व)ति असर्बी(र्वी)त् ।


skd

k1=षर्व्व, L=36993
षर्व्व¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सर्व्वति । इति दुर्गादासः ॥


Match 1355: vcp=षल, skd=षल

vcp

k1=षल, L=44530
षल¦ गतौ भ्वा० पर० सक० सेट् । सलति असालीत् असीषलत्


skd

k1=षल, L=36995
षल¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सलति । सिषालयिषति । इति
दुर्गादासः ॥


Match 1356: vcp=षस, skd=षस

vcp

k1=षस, L=44546
षस¦ स्वप्रे अदा० पर० अक० सेट् वैदिकः । सस्ति असासीत् अससीत्


skd

k1=षस, L=37011
षस¦, लु र स्वापे । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-अक०-सेट् ।) मूर्द्धन्यादिः । लु, सस्ति ।
र, वैदिकः । स्वापः शयनम् । इति दुर्गादासः ॥


Match 1357: vcp=षस्ज, skd=षस्ज

vcp

k1=षस्ज, L=44547
षस्ज¦ सर्पणे भ्वा० पर० सक० सेट् । सज्जति असज्जीत् । अय-
मात्मनेपदीत्यन्ये “वचोऽपि परुषाक्षरं न च पदेषु संस-
ज्जते” इति शकुन्तला ।


skd

k1=षस्ज, L=37012
षस्ज¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) दन्त्यसोपधः । क्विपि संयोगादि-
लोपे सक् । सज्जति । वचोऽपि परुषाक्षरं न च
पदेषु संसज्जते । इति शाकुन्तले गणकृता-
नित्यत्वात् । इति दुर्गादासः ॥


Match 1358: vcp=षस्त, skd=षस्त

vcp

k1=षस्त, L=44548
षस्त¦ स्वप्ने अदा० स्वपा० पर० अक० सेट् । वैदिकः इदित् ।
संस्तो असंस्तीत्


skd

k1=षस्त, L=37013
षस्त¦, इ लु र स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०-
पर०-अक०-सेट् ।) मूर्द्धन्यादिः दन्त्यसोपधः । इ,
संस्त्यते । नमध्यपाठेऽपि नस्योपधत्वाभावादेत
लोपाभावे इदनुबन्धो वेदेषूच्चारणभेदार्थः । लु,
संस्ति । र, वैदिकः । इति दुर्गादासः ॥


Match 1359: vcp=षह, skd=षह

vcp

k1=षह, L=44549
षह¦ क्षमायां वा चु० उभ० पक्षे दि० पर० सक० सेट् । साहयति ते सह्यति असीषहत् असहीत् ।


k1=षह, L=44550
षह¦ क्षमायां भ्वा० ष्मा० सक० सेट् । सहते असहिष्ट ज्वला० ।
सह साहः । “तीषसहेति” पा० तकारादावर्द्धधातुके वा
इट् । सोढा सहिता । सहितव्यः सोढव्यः । क्त । सोढ
इत्येव । तत्र पक्षो निमित्ते सति न षत्वम् परिसोढा
इत्येव पक्षे परिषहितेत्यादौ षत्वम् ।


skd

k1=षह, L=37014
षह¦, ज ङ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) इहापि शक्तिः क्षमा ।
ज, साहः सहः । ङ, अन्यायं सहते नासौ ।
इति हलायुधः । इति दुर्गादासः ॥


k1=षह, L=37015
षह¦, य कि शक्तौ । इति कविकल्पद्रुमः ॥ (दिवा०
चुरा०-भ्वा०-च-पर०-सक०-सेट् ।) शक्तिरिह
दैवादिकस्य शकधातो रूपंतेन क्षमा इत्यर्थः ।
य, सह्यति दुःखं लोकः सहत इत्यर्थः । कि,
साहयति । स एवायं नागः सहति कलभेभ्यः
परिभवम् । इति दुर्गादासः ॥


Match 1360: vcp=षाध, skd=षाध

vcp

k1=षाध, L=44558
षाध¦ सिद्धौ स्वा० दि० च पर० अक० अनिट् । साध्नोति
साध्यति असात्सीत् सिषाधयिषति ।


skd

k1=षाध, L=37021
षाध¦, ओ न य सिद्धौ । इति कविकल्पद्रुमः ॥
(स्वा०-दिवा० च-पर०-अक०-अनिट् ।) औ,
शिषात्सति । न, साध्नोति । य, साध्यति ।
सिद्धिर्निष्पत्तिः । इति दुर्गादासः ॥


Match 1361: vcp=षि, skd=षि

vcp

k1=षि, L=44560
षि¦ बन्धे स्वा० क्र्या० च उ० सक० अनिट् । सिनोति सिनुते
सिनाति सिनीते असैषीत् । असेष्ट ।


skd

k1=षि, L=37024
षि¦, ग ञ न बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०-
स्वा०-च-उभ०-सक०-अनिट् ।) मूर्द्धन्यादिः ।
ग ञ, सिनाति सिनीते । न, सिनोति सिनुते ।
ईति दुर्गादासः ॥


Match 1362: vcp=षिच, skd=षिच

vcp

k1=षिच, L=44561
षिच¦ आर्द्रीकरणे तु० मु० उभ० सक० अनिट् । सिञ्चति ते असिचत् त । सिक्तः


skd

k1=षिच, L=37025
षिच¦, प श ञ औ क्षरणे । इति कविकल्पद्रुमः ॥
(तुदा०-उभ०-सक०-अनिट् ।) प श ञ,
सिञ्चति सिञ्चते । औ, सेक्ता । सिषिचुरवनि-
मम्बुवहाः । इति भारविः । इति दुर्गादासः ॥
षिट, अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) मूर्द्ध्वन्यादिः । सेटति खलं
लोकः । इति दुर्गादासः ॥


Match 1363: vcp=षिध, skd=षिध

vcp

k1=षिध, L=44564
षिध¦ माङ्गल्ये अक० शसने सक० उदित् वेट् । सेधति असेधीत्--असैत्सीत् । सिद्धः ।


k1=षिध, L=44565
षिध¦ गतौ भ्वा० पर० सक० सेट् । सेधति असेधीत् सेधितः ।


k1=षिध, L=44566
षिध¦ सिद्धौ दिवा० पर० अक० अनिट् क्त्वा वेट् । सिध्यति
असैत्सीत् णिचि साधयति । सिषाधयिषति ।
आ + राजाज्ञयाऽवरोधे सक० । आसेधः ।
उत् + उच्चतायाम् अक० । उत्सेधः ।
नि + निवारणे सक० । निषेधः ।
परि + निवारणे सक० । परिषेधः ।
प्रति + निवारणे सक० । प्रतिषेधः ।
वि + आ + विशेषेण निषेधे । व्याषेधः ।
वि + प्रति + विरुद्धत्वे व्याघाते । विप्रतिषेधः ।


skd

k1=षिध, L=37027
षिध¦, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) सेधति । निष्ठायां सिधितः ।
इति दुर्गादासः ॥


k1=षिध, L=37028
षिध¦, उ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् । क्वा वेट् ।) सेधति । उ,
मेधित्वा सिद्ध्वा । क्वावेट्त्वान्नेम् ङीश्वीति इमो
निपेधे मिद्धः । इति दुर्गादासः ॥


k1=षिध, L=37030
षिध¦, ऊ शिवे । शास्त्रे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-शिवे अक०-अनुशासने सक०-
वेट् ।) मूर्द्धन्यादिः । ऊ, असेधीत् असैत्-
सीत् । शिवं मङ्गलम् । तदाकर्म्मकः । सिद्ध्वो
वर्णसमाम्नाय इति कातन्त्रस्याद्यसूत्रम् । शास्त्र-
मनुशासनम् । सेधति शिष्यं गुरुः । इति दुर्गा-
दासः ॥


Match 1364: vcp=षिम्भ, skd=षिन्भ *

vcp

k1=षिम्भ, L=44567
षिम्भ¦ हिंसने सक० दीप्तौ अक० भ्वा० पर० सेट् क्त्वा वेट् ।
सिम्भति असिम्भीत् ।


skd

k1=षिन्भ, L=37031
षिन्भ¦, उ हिंसने । दीप्तौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-दीप्तौ अक०-सेट् । क्वावेट्
उ, सिम्भित्वा सिब्ध्वा । इति दुर्गादासः ॥


Match 1365: vcp=षिल, skd=षिल

vcp

k1=षिल, L=44569
षिल¦ उद्धृतशस्यक्षेत्रात् कणश आदाने तुदा० पर० सक० सेट् ।
सिलति असेलीत् ।


skd

k1=षिल, L=37032
षिल¦, श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदा०
पर०-सक०-सेट् ।) उञ्छ उद्धृतशस्यशेषापह-
रणम् । श, सिलति धान्यं दीनः । सेलिता ।
इति दुर्गादासः ॥


Match 1366: vcp=षिव, skd=षिव

vcp

k1=षिव, L=44570
षिव¦ तन्तुविस्तारे दि० प० अक० षेट् क्त्वा वेट् । ओव्यति असेवीत् स्यूतः सीवनं सेवनम् ।


skd

k1=षिव, L=37033
षिव¦, य उ तन्तुततौ । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् । क्वावेट् ।) तन्तु-
ततिस्तन्तुभिर्ग्रन्थनम् । य, सीव्यति वस्त्रं
सौचिकः । उ, सेवित्वा स्यूत्वा । इति दुर्गा-
दासः ॥


Match 1367: vcp=षु, skd=षु

vcp

k1=षु, L=44571
षु¦ सुराच्यावनरूपे सन्धाने सोमादेः पीडने मन्थने च स्वा०
उ० सक० स्नाने अक० अनिट् लुङि पर० सेट् । सुनोति
सुनुते असावीत् असोष्ट । साता


k1=षु, L=44572
षु¦ गतौ भ्वा० उभ० सक० अनिट् । सवति ते असोषीत् असोष्ट ।


k1=षु, L=44573
षु¦ प्रसवे ऐश्वर्य्ये च भ्वा० प० सक० अनिट् । सवति असौषीत् ।


k1=षु, L=44574
षु¦ ऐश्वर्य्ये प्रसवे च अदा० पर० सक० येट् लिटि नित्येट् ।
सौति असावीत्--असौषीत् । सुषुविव ।


skd

k1=षु, L=37034
षु¦, गतौ । ऐश्वर्य्यप्रसवयोश्च । इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-अनिट् ।) सवति । इति
दुर्गादासः ॥


k1=षु, L=37035
षु¦, ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०
सक०-अनिट् ।) ञ, सुषाव सुषुवे । इति
दुर्गादासः ॥


k1=षु, L=37036
षु¦, न ञ सन्धाक्लेदपीडमन्थे । इति कविकल्पद्रुमः ॥
(स्वा०-उभ०-सक०-अक० च-अनिट् ।) मूर्द्ध-
न्यादिः । न ञ, सुनोति सुनुते । सन्धा सन्धा-
नम् । क्लेद इह स्नानं मङ्गलस्नानं वा । तथाच
षु ञ अभिषवे । इति प्राञ्चः । अभिषवः पीडनं
मन्थनं वेति त्रिलोचनादयः । स्नानञ्चेति
दुर्गः । सन्धानं मङ्गलस्नानं वेति धातुप्रदीपः ।
इति दुर्गादासः ॥


k1=षु, L=37037
षु¦, ल ऐश्वर्य्यप्रसवयोः । इति कविकल्पद्रुमः ॥
(अदा०-पर०-अक०-सक० चसेट् ।) ल,
सौति । इति दुर्गादासः ॥


Match 1368: vcp=षुट्ट, skd=षुट्ट

vcp

k1=षुट्ट, L=44576
षुट्ट¦ अनादरे चु० उभ० सक० सेट् । सुट्टयति त असुषुट्टत् त ।


skd

k1=षुट्ट, L=37039
षुट्ट¦, क तौच्छ्ये । अनादरे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) पञ्चमस्वरी टद्व-
यान्तः । क, सुट्ठयति । दन्त्यादिरयमिति
भीमः । तौच्छ्यमल्पीभावः । इति दुर्गा-
दासः ॥


Match 1369: vcp=षुन्भ, skd=षुन्भ

vcp

k1=षुन्भ, L=44577
षुन्भ¦ दीपने अक० हिसने स० भ्वा० प० सेट् । सुम्भति असुम्भीत्


skd

k1=षुन्भ, L=37040
षुन्भ¦, दीपनहिंसयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-दीपने अक०-हिंसायां सक०-सेट् ।)
मूर्द्धन्यादिः । पञ्चमस्वरी । सुम्भति सुषुम्भ ।
इति दुर्गादासः ॥


Match 1370: vcp=षुर, skd=षुर

vcp

k1=षुर, L=44578
षुर¦ दीप्तौ अक० ऐश्वर्य्ये स० तु० प० सेट् । सुरति असोरीत् ।


skd

k1=षुर, L=37041
षुर¦, श भेश्ययोः । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-अक०-सेट् ।) मूर्द्धन्यादिः । श, सुरति
[Page5-194-c+ 52]
सोरिता सुषोर । भा दीप्तिः । ऐश्यमैश्वर्य्यम् ।
इति दुर्गादासः ॥


Match 1371: vcp=षुह, skd=षुह

vcp

k1=षुह, L=44579
षुह¦ तृप्तौ अक० क्षमायां सक० दि० पर० सेट् । सुह्यति ऌदित्
असुहत् ।


skd

k1=षुह, L=37042
षुह¦, ल य तृपि । शक्तौ । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) शक्तिः क्षमा ।
ऌ, असुहत् । य, सुह्यति दुःखं मुनिः सहत
इत्यर्थः । सुषोह । इति दुर्गादासः ॥


Match 1372: vcp=षू, skd=षू

vcp

k1=षू, L=44580
षू¦ प्रसवे गर्भविमोचने च अदा० आत्म० सक० वेट् । सूते सुवै असविष्ट असोष्ट ।


k1=षू, L=44581
षू¦ प्रसवे दि० आ० स० वेट् । सूयते असविष्ट--असोष्ट अओदित् सूनः


k1=षू, L=44582
षू¦ क्षेपे प्रेतणे च तुदा० पर० सक० वेट् । सुवति असावीत् ।


skd

k1=षू, L=37043
षू¦, ङ ल सूतौ । इति कविकल्पद्रुमः ॥ (अदा०
आत्म०-सक०-अनिट् ।) मूर्द्धन्यादिः । ङल,
सूते । इति दुर्गादासः ॥


k1=षू, L=37044
षू¦, य ङ औ सूतौ । इति कविकल्पद्रुमः ॥ (दिवा०
आत्म०-सक० अनिट् ।) य ङ, सूयते । ओ,
सूनः । सूतिर्गर्भविमोचनम् । सूते पुत्त्रं नारी ।
अन्यत्रापि धर्म्मोऽर्थं प्रसूयते । इति दुर्गादासः ॥


k1=षू, L=37045
षू¦, श क्षेपे । इति कविकल्पद्रुमः ॥ (तुदा०-पर०
सक०-अनिट् ।) मूर्द्धन्यादिः । श, सुवति ।
इति दुर्गादासः ॥


Match 1373: vcp=षूद, skd=षूद

vcp

k1=षूद, L=44583
षूद¦ निवारणे भ्वा० आ० सक० सेट् । सूदते असूदिष्ट ।


k1=षूद, L=44584
षूद¦ मारणे भ्वा० पर० सक० सेट् । सूदति असूदीत् ।


k1=षूद, L=44585
षूद¦ क्षरणे अक० प्रतिज्ञायां निरासे च सक० अद० चु० उभ०
सेट् । सूदयति तें असुषूदत् त ।


skd

k1=षूद, L=37048
षूद¦, क आश्रुतिहत्योः । निरासे । इति कविकल्प-
द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) आश्रुति-
रङ्गीकारः । क, सूदयति धनं विप्राय दातुं
दाता । रमानाथस्तु आस्रवण इति दन्त्यसकारं
पठित्वा सूदयति मदिरा भाण्डात् क्षरति
इत्यर्थ इत्याह । इति दुर्गादासः ।


k1=षूद, L=37049
षूद¦, ङ निरासे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) षष्ठस्वरी । ङ, सूदते ।
निरासो निःक्षेपः । इति दुर्गादासः ॥


Match 1374: vcp=षूर, skd=षूर

vcp

k1=षूर, L=44586
षूर¦ स्तम्भे अक० हिंसने स० दि० आ० सेट् । सूर्य्यते असूरिष्ट ईदित् सूर्णः ।


skd

k1=षूर, L=37050
षूर¦, ङ य ई स्तम्भे । हिंसे इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-स्तम्भे अक०-हिंसे सक०-
सेट् । निष्ठायां अनिट् ।) ङ य, सूर्य्यते । ई,
सूर्णः । कैश्चिदयं न मन्यते । स्तम्भो जडी-
भावः । इति दुर्गादासः ॥


Match 1375: vcp=षूर्क्ष, skd=षूर्क्ष

vcp

k1=षूर्क्ष, L=44587
षूर्क्ष¦ अनादरे भ्वा० पर० सक० सेट् । सूर्क्षति असूर्क्षीत् ।


skd

k1=षूर्क्ष, L=37051
षूर्क्ष¦, नादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रेफयुक्तः । षष्ठस्वरी । सूर्क्षति
दुष्टं लोकः । इति दुर्गादासः ॥


Match 1376: vcp=षूर्क्ष्य, skd=षूर्क्ष्य

vcp

k1=षूर्क्ष्य, L=44588
षूर्क्ष्य¦ ईर्षायां भ्वा० पर० सक० सेट् । सूक्ष्यति असूर्क्ष्यीत् ।


skd

k1=षूर्क्ष्य, L=37052
षूर्क्ष्य¦, ईर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) सूर्क्ष्यति सुषूर्क्ष्य । षद्वयान्तो-
ऽयमित्येके । इति दुर्गादासः ॥


Match 1377: vcp=षूष, skd=षूष

vcp

k1=षूष, L=44589
षूष¦ प्रसवे भ्वा० पर० सक० सेट् । सूषति असूषीत् ।


skd

k1=षूष, L=37053
षूष¦, प्रसवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) षष्ठस्वरी मूर्द्धन्यादिः । सूषति ।
इति दुर्गादासः ॥


Match 1378: vcp=षेक, skd=षेक

vcp

k1=षेक, L=44592
षेक¦ सर्पणे भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः ।
सेकति असेकीत् ।


skd

k1=षेक, L=37054
षेक¦, ऋ ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०
आत्म०-सक०-सेट् ।) मूर्द्धन्यादिः । अस्य
षोपदेशविधौ वर्ज्जनेऽपीह पाठः कस्यचिदनु-
रोधात् । ऋ, असिषेकत् । ङ, षेकते । इति
दुर्गादासः ॥


Match 1379: vcp=षेल, skd=षेल

vcp

k1=षेल, L=44593
षेल¦ चालने गतौ च भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । सेलति असेलीत् ।


skd

k1=षेल, L=37055
षेल¦, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०
पर०-सक०-सेट् ।) मूर्द्ध्वन्यादिः । ऋ, असि-
षेलत् । इति दुर्गादासः ॥


Match 1380: vcp=षै, skd=षै

vcp

k1=षै, L=44595
षै¦ क्षये भ्वा० पर० अक० अनिट् । सायात असासीत् ।


skd

k1=षै, L=37057
षै¦, क्षये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-अनिट् ।) मूर्द्धन्यादिः । सायति । इति
दुर्गादासः ॥


Match 1381: vcp=षो, skd=षो

vcp

k1=षो, L=44596
षो¦ नाशे दि० पर० अक० अनिट् । स्यति असात्--असासीत् ।
अव + समाप्तौ अवसानम् ज्ञाने सक० अवसोयते ।
[Page5171-a+ 38]
अधि + अव + उत्साहे अक० निश्चय ज्ञाने सक० अध्यवस्यति ।
वि + अव + विशेषेण निश्चये सक० उद्यमे अक० व्यवस्यति ।
अनु + वि + अव ज्ञानज्ञाने अनुव्यवसायः थटमहं जानामीत्या-
दिरूपः ।


skd

k1=षो, L=37058
षो¦, य नाशे । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-सक०-अनिट् ।) मूर्द्धन्यादिः । नाश इह
नष्टीकरणम् । य, स्यति यमो जन्तून् । इति
दुर्गादासः ॥


Match 1382: vcp=ष्टक, skd=ष्टक

vcp

k1=ष्टक, L=44612
ष्टक¦ प्रतीघाते भ्वा० पर० सक० सेट् । स्तकति अस्ता (स्त) कीत् घटादि० अकयति ।


skd

k1=ष्टक, L=37079
ष्टक¦, म प्रतीघाते । इति कविकल्पद्रुमः ॥ (भ्वा०
पर०-सक०-सेट् ।) म, तिष्टकयिषति । इति
दुर्गादासः ॥


Match 1383: vcp=ष्टग, skd=ष्टग

vcp

k1=ष्टग, L=44613
ष्टग¦ संवरणे भ्वा० प० सक सेट् एदित् सिचि न वृद्धिः घटा० ।
[Page5172-b+ 38]
स्तगति अस्तगीत् ।


skd

k1=ष्टग, L=37080
ष्टग¦, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) म, तिष्टगयिषति । दन्त्य-
वर्गद्वितीयोपध इति केचित् । इति दुर्गा-
दासः ॥


Match 1384: vcp=ष्टन, skd=ष्टन

vcp

k1=ष्टन, L=44614
ष्टन¦ शब्दे भ्वा० पर० सक० सेट् वा घटा० । स्तनति अस्तानीत् अस्तनीत् स्ता(स्त)नयति ।


skd

k1=ष्टन, L=37081
ष्टन¦, मि शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) मि, स्तनयति स्तानयति
अतिष्टनत् । इति दुर्गादासः ॥


Match 1385: vcp=ष्टभ, skd=ष्टभ

vcp

k1=ष्टभ, L=44615
ष्टभ¦ स्तम्भे अक० स्तम्भने सक० भ्वा० आत्म० सेट् इढि ।
स्तम्भते अस्तम्भिष्ट ।


skd

k1=ष्टभ, L=37082
ष्टभ¦, इ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सक०-चसेट् ।) इ, स्तम्भ्यते । ङ,
स्तम्भते । तिष्टम्भयिषति । इकारस्य पुनरुक्तिः
पूर्व्वत्र तत्सम्बन्धनिषेधायैव ङितस्तुसर्वे । एक
एवेत् पाठबलात् वाध्य इति वत् । स्तम्भो जडी
भावः जडीकरणञ्च । स्तम्भौ स्थूणाजडीभावौ
इत्यमरोक्तेः । शीतेनावस्तब्धः जडीकृत इत्यर्थः ।
इति क्रमदीश्वरोक्तेश्च । स्तम्भ इह क्रिया
निरोधः । इति भीमः । दीषवृद्धिरिति गोविन्द
भट्टः । स्तम्भो रुद्धीकरणञ्च । स्तम्भते कबाटेन
द्वारं लोकः । इति दुर्गादासः ॥


Match 1386: vcp=ष्टम, skd=ष्टम

vcp

k1=ष्टम, L=44616
ष्टम¦ वैकल्ये अद० चु० उ० स० सेट् । स्तमयति ते अतस्तमत् त


k1=ष्टम, L=44617
ष्टम¦ वैकल्ये अक० भ्वा० पर० सेट् । स्तमति अस्तमीत ।


skd

k1=ष्टम, L=37083
ष्टम¦, वैक्लव्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) वैक्लव्यं विह्वलीभावः । स्तमति ।
अतिष्टमत् । इति दुर्गादासः ॥


k1=ष्टम, L=37084
ष्टम¦, त् क वैक्लव्ये । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-अक०-सेट् ।) मूर्द्धन्यादिः । षोप-
देशपाठो भ्वाद्यादीति दन्त्यत्वे कृतसकारादि-
त्वात् षत्वार्थः । तिष्टमयिषति । एवं सर्वत्र ।
इति दुर्गादासः ॥


Match 1387: vcp=ष्टिघ, skd=ष्टिघ

vcp

k1=ष्टिघ, L=44618
ष्टिघ¦ अभियागे स्वा० आत्म० सक० सेट् । स्तिघ्नते अस्तोघष्ट ।


skd

k1=ष्टिघ, L=37085
ष्टिघ¦, न ङ आस्कदि । इति कविकल्पद्रुमः ॥
(स्वा०-आत्म०-सक०-सेट् ।) आस्कत् आस्क-
न्दनम् । अभियोग इति भट्टमल्लः । न ङ,
स्तिघ्नुते नदीं पान्थः । तिष्टिघे । इति दुर्गा-
दासः ॥


Match 1388: vcp=ष्टिप, skd=ष्टिप

vcp

k1=ष्टिप, L=44619
ष्टिप¦ क्षरणे भ्वा० आत्म० अक० सेट् ऋदित् चङि न ह्रस्वः ।
स्तेपते अस्तेपिष्ट । अतिष्टेपत् त ।


skd

k1=ष्टिप, L=37086
ष्टिप¦, ऋ ङ श्च्युति । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ऋ, अतिष्टेपत् । ङ,
स्तेपते तिष्टेपे । श्च्युति क्षरणे । इति दुर्गादासः ॥


Match 1389: vcp=ष्टिम, skd=ष्टिम

vcp

k1=ष्टिम, L=44620
ष्टिम¦ क्लेदे दि० प० अक० सेट् । स्तिम्यति अस्तेमीत् स्तेमनम्


skd

k1=ष्टिम, L=37087
ष्टिम¦, य क्लेदे । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-अक०-सेट् ।) य, स्तिम्यति तिष्टेम । क्लेदः
आर्द्रभावः । इति दुर्गादासः ॥


Match 1390: vcp=ष्टीम, skd=ष्टीम

vcp

k1=ष्टीम, L=44621
ष्टीम¦ क्लेदे दि० प० अ० सेट् । स्तीम्यति अस्तीमीत् स्तीमनम् ।


skd

k1=ष्टीम, L=37088
ष्टीम¦, य क्लेदे । इति कविकल्पद्रुमः ॥ (दिवा०-
पर०-अक०-सेट् ।) य, ष्टीम्यति तिष्टीम । क्लेद
आर्द्रभावः । इति दुर्गादासः ॥


Match 1391: vcp=ष्टु, skd=ष्टु

vcp

k1=ष्टु, L=44622
ष्टु¦ स्तुतौ अदा० उ० सक० अनिट् सिचि सेट् लिटि नित्येट्
स्तौति स्तवीति स्तुतः स्तुवातः स्तुते स्तुवीत सि० कौ०
मुग्धबोधमते अपिति न ईट् स्तुते इत्येवति भेदः ।
अस्तावीत् अस्तोष्ट । तुष्टुविव । तादावर्द्धधातुके वेट् ।
स्तोता स्तविता । स्तोष्यति स्तुतः ।


skd

k1=ष्टु, L=37089
ष्टु¦, ञ ल स्तुतौ । इति कविकल्पद्रुमः ॥ अदा०-
उभ०-सक०-अनिट् ।) मूर्द्धन्यादिः । ञ ल,
स्तौति स्तवीति स्तुते । इति दुर्गादासः ॥


Match 1392: vcp=ष्टुच, skd=ष्टुच

vcp

k1=ष्टुच, L=44623
ष्टुच¦ प्रसादे अक० भ्वा० आत्म० सेट् । स्तोचते अस्तोचिष्ट ।


skd

k1=ष्टुच, L=37090
ष्टुच¦, ङ प्रसादे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) मूर्द्धन्यादिस्तमध्यः ।
प्रसादः प्रसन्नीभावः । ङ, स्तोचते जनं तोष्टु-
च्यते । षस्याधो मूर्द्धन्यण इति केचित् । स्नोचते
मोस्नुच्यते । इति दुर्गादासः ॥


Match 1393: vcp=ष्टुभ, skd=ष्टुभ

vcp

k1=ष्टुभ, L=44624
ष्टुभ¦ स्तम्भे अक० स्तम्भने सक० भ्वा० आत्म० सेट् क्त्वा वेट् ।
स्तोभते अस्तोभिष्ट ।


skd

k1=ष्टुभ, L=37091
ष्टुभ¦, उ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०
आत्म०-अक०-सक० च-सेट् । क्त्वावेट् ।) उ,
स्तोभित्वा । स्तुब्ध्वा । ङ, स्तोभते तुष्टोभयि-
षति । स्तम्भो जडीभावः तत्करणञ्च । स्तम्भौ
स्थूणाजडीभावावित्यमरोक्तेः । शीतेनावस्तब्धो
जडीकृत इत्यर्थः । इति क्रमदीश्वरोक्तेश्च ।
“शास्त्रेण स्तोभते भूयो लघुप्रकृतिको नरः ।”
इति हलायुधः ।
स्तोभते वृषं शीतो वायुः । इति चतुर्भुजः ।
स्तम्भ इह क्रियानिरोधः । इति भीमः । दोष-
वृद्धिरिति गोविन्दभट्टः । इति दुर्गादासः ।


Match 1394: vcp=ष्टूप, skd=ष्टूप

vcp

k1=ष्टूप, L=44625
ष्टूप¦ उच्छ्राये अद० चु० उभ० अक० सेट् । स्तूपयति ते अतुष्टूपत् त स्तूपः ।


k1=ष्टूप, L=44626
ष्टूप¦ उच्छाये दि० पर० अक० सेट् । स्तूप्यति इरित् अस्तूपत्
अस्तूपीत् ।


skd

k1=ष्टूप, L=37092
ष्टूप¦, क उच्छ्राये । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) षष्ठस्वरी । उच्छ्रायो
राशीकरणम् । क, स्तूपयति धान्यं कृषकः ।
तुष्टूपयिषति । इति दुर्गादासः ॥


k1=ष्टूप, L=37093
ष्टूप¦, य इर् उच्छ्राये । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) षष्ठस्वरी । य,
स्तूप्यति । इर्, अस्तूपत् अस्तूपीत् । पुषादित्वा-
न्नित्यं ङ इत्यन्ये । अतुष्टूपत् । इति दुर्गादासः ॥


Match 1395: vcp=ष्टृक्ष, skd=ष्टृक्ष

vcp

k1=ष्टृक्ष, L=44627
ष्टृक्ष¦ गतौ भ्वा० प० स० सेट् । स्तृक्षति अस्तृक्षीत् तरीष्टृक्ष्यते


skd

k1=ष्टृक्ष, L=37094
ष्टृक्ष¦, गमने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०
सक०-सेट् ।) सप्तमस्वरयुक्तः तमध्यः । स्तृक्षति
तरीष्टृक्ष्यते । इति दुर्गादासः ॥


Match 1396: vcp=ष्टृह, skd=ष्टृह

vcp

k1=ष्टृह, L=44628
ष्टृह¦ बधे तु० प० सक० वेट् । स्तॄहति अस्तर्हीत् अस्तॄक्षत् ।


skd

k1=ष्टृह, L=37095
ष्टृह¦, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-वेट् ।) मूर्द्धन्यादिः तमध्यः । ऊ,
अस्तर्हीत् । अस्तृक्षत् । श, स्तृहती स्तृहन्ती ।
तिष्टर्हयिषति । इति दुर्गादासः ॥


Match 1397: vcp=ष्टॄह, skd=ष्टॄह

vcp

k1=ष्टॄह, L=44629
ष्टॄह¦ बधे तु० आत्म० सक० वेट् । स्तॄहति अस्तॄहीत् अस्तॄक्षत्


skd

k1=ष्टॄह, L=37096
ष्टॄह¦, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-वेट् ।) मूर्द्धन्यादिः तमध्यः । अष्ट-
मस्वरी । ऊ, अस्तॄहीत् अस्तॄक्षत् । श स्तॄहती
स्तॄहन्ती । तिष्टॄहयिषति । इति दुर्गादासः ॥


Match 1398: vcp=ष्ठग, skd=ष्ठग

vcp

k1=ष्ठग, L=44633
ष्ठग¦ संवरणे भ्वा० पर० सक० सेट् घटा० सिचि न वृद्धिः ।
स्थगति अस्थगीत् ।


skd

k1=ष्ठग, L=37100
ष्ठग¦, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा
पर०-अक०-सेट् ।) मूर्द्धन्यादिस्थमध्यः षयोगात्
ठः । म, तिष्ठगयिषति । ए, अस्थगीत् । दन्त्य-
वर्गप्रथममध्यः इति केचित् । तिष्ठगयिषति
अतिष्ठगत् । इति दुर्गादासः ॥


Match 1399: vcp=ष्ठल, skd=ष्ठल

vcp

k1=ष्ठल, L=44634
ष्ठल¦ स्थितौ भ्वा० प० अक० सेट् ज्वला० । स्थवति अस्थालीत् ।


skd

k1=ष्ठल, L=37101
ष्ठल¦, ज स्थितौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ज, स्थालः स्थलः । स्थलति
लोकस्तिष्ठतीत्यर्थः । इति दुर्गादासः ॥


Match 1400: vcp=ष्ठा, skd=ष्ठा

vcp

k1=ष्ठा, L=44636
ष्ठा¦ गतिनिष्ठत्तौ भ्वा० पर० अक० अनिट् तिष्ठति अस्थात् ।
अधि + आधारतयावस्थितौ अक० ।
अनु + करणे अनुष्ठानम् ।
अव + अवसाने अवस्थाने
[Page5173-a+ 38]
उद् + ऊर्द्धचेष्टायां पा० आसनादुत्तिष्ठति उत्प्रत्तौ आ० ग्रा-
मादुत्तिष्ठते (उत्पद्यते) ।
उप + सेवने सक० आ० उपतिष्ठते देवम् ।
नि + नितरां स्थितौ अक० नितष्ठौ मरणे च निष्ठा ।
प्र + गमने सक० प्रस्थानम् ।
प्रति + सस्कारभेदे प्रतिष्ठा ।
प्रति + अव + प्रतिपक्षतयाऽवस्थाने आत्म० प्रत्यवतिष्ठते ।
वि + अव + नियमभेदे आ० व्ययतिष्ठते व्यवस्था ।
सम् + सम्यक् स्थितौ नाशे च संस्था संस्थितः ।


skd

k1=ष्ठा, L=37102
ष्ठा¦, ञि स्थाने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-अनिट् ।) ञि, स्थितोऽस्ति । स्थानं
गतिनिवृत्तिः । तिष्ठति साधुर्धर्मे । पृष्ठतस्तिष्ठ-
मान इति वीरचरिते प्रकाशार्थे आत्मनेपद-
विधानात् शानः । अथवा ताच्छील्ये शतुः
शानः । इति दुर्गादासः ॥


Match 1401: vcp=ष्ठिव, skd=ष्ठिव

vcp

k1=ष्ठिव, L=44637
ष्ठिव¦ निरासे (मुखेन श्लेष्मादेर्वमने) भ्वा० पर० सक० सेट्
ष्ठीवति अष्ठेवीत् । ष्ठे (ष्ठी)वनम् उदित् क्त्वा वेट् । अ-
त्रार्थे दिवादित्वमपि ष्ठीव्यति । षोपदेशपर्युदासे ह्रस्व
दीर्घमध्ययोर्ग्रहणम् ।


skd

k1=ष्ठिव, L=37103
ष्ठिव¦, उ निरासे । इति कविकल्पद्रुमः ॥ (भ्वा०
पर०-सक०-सेट् । क्त्वावेट् ।) उ, ष्ठेवित्वा
ष्ठ्युत्वा । अस्य नेम् ङीश्वी इत्यादिना इमो
निषेधे निष्ठायां ष्ठ्यूत इति भेदः । निरास इह
फुत्कार इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन-
मिति केचित् । इति दुर्गादासः ॥


k1=ष्ठिव, L=37104
ष्ठिव¦, य निरासे । इति कविकल्पद्रुमः ॥ (दिवा०
पर०-सक०-सेट् ।) य, ष्ठीव्यति । इति दुर्गा-
दासः ॥


Match 1402: vcp=ष्ठीव, skd=ष्ठीव

vcp

k1=ष्ठीव, L=44638
ष्ठीव¦ निरासे (श्लेष्मादेर्मुखेन वमने) भ्वा० पर० अक० सेट् । ष्ठीवति अष्ठीवीत् ष्ठीवनम् ।


skd

k1=ष्ठीव, L=37105
ष्ठीव¦, निरासे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-
सक०-सेट् ।) ष्ठीवति । यं ह्रस्विनं मत्वा
ष्ठिवुक्लमाचमोऽपीति दीर्घिणं विदधामः स
एवायं ष्ठीविष्यति इत्यादिसाधनाय दीर्घो
पठ्यते । तेन ह्रस्विनो ग्रहणेनास्मिन् गृहीते
भ्वाद्यादि ष्णः स्न इत्यादिना मूर्द्धन्यषस्य दन्त्य-
सो न स्यात् एवं ष्ठिवजाद्योः खेरित्यादिना खेष्ठ-
कारस्य तकारे तिष्ठीव टिष्ठीवैत्यपि स्यात् ।
यत्तु सत्यप्यस्मिन्ननटि ष्ठीवनमिति निपातनं
[Page5-198-c+ 52]
तदस्य सर्वसम्मतत्वाभावात् । निरास इह फुत-
कार इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन-
मिति केचित् । ष्ठीवत्यन्नं लोकः । ष्ठीवासि
शुष्केक्षुलतास्थिकल्पम् । इति दुर्गादासः ॥


Match 1403: vcp=ष्णस, skd=ष्णस

vcp

k1=ष्णस, L=44640
ष्णस¦ निरासे दि० पर० सक० सेट् उदित् क्त्वा वेट् वा घटा०
ऌदित् । स्नस्यति अस्नसत् । स्न (स्न) सयति ।


skd

k1=ष्णस, L=37106
ष्णस¦, य ऌ उ मि निवासे । इति कविकल्पद्रुमः ।
(दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।) मूर्द्ध-
न्यादिर्दन्त्यनकारयुक्तः । ष, स्नस्यति । ऌ,
अस्नसत् । उ, स्नसिता स्नुस्त्वा । मि, स्नसयति
स्नासयति । इति दुर्गादासः ॥


Match 1404: vcp=ष्णा, skd=ष्णा

vcp

k1=ष्णा, L=44641
ष्णा¦ शाधने अदा० पर० अक० अनिट् । स्नाति अस्नासीत् ।


skd

k1=ष्णा, L=37107
ष्णा¦, ल शोधने । इति कविकल्पद्रुमः ॥ (अदा०
पर०-अक०-अनिट् ।) मूर्द्धन्यादिरयम् ।
दन्त्यादिरयमिति कश्चित् । ल, स्नाति गङ्गायां
धीरः । अनुपसर्गस्य ञौ ज्वलह्वलेत्यादिना
ह्रस्वो वा स्नपयति स्नापयति । सोपसर्गस्य तु
प्रस्नापयति । इति दुर्गादासः ॥


Match 1405: vcp=ष्णिह, skd=ष्णिह

vcp

k1=ष्णिह, L=44642
ष्णिह¦ प्रीतौ दि० पर० सक० उदन वट् । स्निह्यति ऌदित्
अस्नेहत् स्नेहिता स्नेढा--भ्नेग्धा ।


k1=ष्णिह, L=44643
ष्णिह¦ स्नेहयुक्तभवने चु० उभ० अक० सेट् । स्नेहयति ते । असिष्णिहत् त ।


skd

k1=ष्णिह, L=37108
ष्णिह¦, ऊ य ऌ ञि प्रीतौ । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-वेट् ।) ऊ, स्नेहिष्यति
स्नेक्ष्यति । य, स्निह्यति बन्धुः । ऌ, अस्नि-
हत् । ञि, स्निग्धः स्नीढोऽस्ति । इति दुर्गा-
दासः ॥


k1=ष्णिह, L=37109
ष्णिह¦, क स्रेहने । इति कविकल्पद्रुमः ॥ (चुरा०
पर-अक०-सेट् ।) स्नेहनं स्निग्धीभावः । क,
स्नेहयति वर्त्तिका तैलेन । इति दुर्गादासः ॥


Match 1406: vcp=ष्णु, skd=ष्णु

vcp

k1=ष्णु, L=44644
ष्णु¦ स्तुतौ अदा० उ० सक० सेट् । स्नौति अस्नावीत् अस्नविष्ट ।


skd

k1=ष्णु, L=37110
ष्णु¦, ञ ल स्तुतौ । इति कविकल्पद्रुमः ॥ (अदा०
उभ०-सक०-अनिट् ।) ञ ल, स्तौति स्तवीति
स्तुते । इति दुर्गादासः ॥


Match 1407: vcp=ष्णुच, skd=ष्णुच

vcp

k1=ष्णुच, L=44645
ष्णुच¦ सेचने भ्वा० आ० सक० सेट् । स्नोचते अस्नोचिष्ट सुष्णुचे


skd

k1=ष्णुच, L=37111
ष्णुच¦, ङ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् । स्नोचते सुष्णुचे । इति
दुर्गादासः ॥


Match 1408: vcp=ष्णुस, skd=ष्णुस

vcp

k1=ष्णुस, L=44646
ष्णुस¦ मक्षे दि० प० सक० सेट् । स्नुस्यति अस्नोसीत् सुष्णोस ।


skd

k1=ष्णुस, L=37112
ष्णुस¦, य भक्षे । इति कविकल्पद्रुमः ॥ (दिवा०
पर०-सक०-सेट् ।) दन्त्यनकारयुक्तः । य,
स्नुस्यति सुष्णोम । इति दुर्गादासः ॥


Match 1409: vcp=ष्णुह, skd=ष्णुह

vcp

k1=ष्णुह, L=44647
ष्णुह¦ उद्गारे दि० पर० सक० ऊदित् वट् । स्नुह्यति ऌदित्
अस्नुहत् । स्नोहित स्नढा ।


skd

k1=ष्णुह, L=37113
ष्णुह¦, य ऊ ऌ उद्गारे । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-वेट् ।) दन्त्यनकारयुक्तः ।
उद्गारो वान्तिः । य, स्नुह्यत्यन्नं लोकः । ऊ,
स्नोहिष्यति स्नोक्ष्यति । ऌ, अस्नुहत् । इति
दुर्गादासः ॥


Match 1410: vcp=ष्णै, skd=ष्णै

vcp

k1=ष्णै, L=44648
ष्णै¦ वष्टे भ्वा० पर० सक० अनिट् । स्नायति अस्नासीत् । ष्ण्यै
इत्येके ष्ण्यायति अष्ण्यासीत् । स्न (स्ना) पयति उपसृष्टस्य
प्रम्नापयति ।


skd

k1=ष्णै, L=37114
ष्णै¦, वेष्टे । इति कविकल्पद्रुमः (भ्वा०-पर०-सक०
अनिट् ।) प्रकृत्या दन्त्यवर्गशेषोपधः । स्नायति
वृक्षं लता । अनुपसर्गस्य ञौ ज्वलह्वलेत्यादिना
ह्रस्वो वा । स्नपयति स्नापवति । सोपसर्गस्य
तु प्रस्नापयति । इति दुर्गादासः ॥


Match 1411: vcp=ष्मि, skd=ष्मि

vcp

k1=ष्मि, L=44649
ष्मि¦ ईषद्धास्ये भ्वा० आ० अ० अनिट् । स्मयते अस्मेष्ट सिष्मिये ।
कर्त्तृजन्ये विस्मये णिचि इत आत् पुल्च आ० विष्मा-
यते तदन्यत्र विष्माययतीत्येव ।


skd

k1=ष्मि, L=37115
ष्मि¦, ङ स्मिते । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-अनिट् । स्मितमीषद्धास्यम् ।
ङ, स्मयते बधूः । विस्मापयते । इति दुर्गा-
दासः ॥


Match 1412: vcp=ष्वक्क, skd=ष्वक्क

vcp

k1=ष्वक्क, L=44650
ष्वक्क¦ सर्पणे भ्वा० आत्म० सक० सेट् । ष्वक्कते अष्पक्किष्ट ।


skd

k1=ष्वक्क, L=37116
ष्वक्क¦, ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक-सेट् ।) वकारयुक्तादिः कोपधः ।
ङ, ष्वक्कते षिष्वक्किषते षाष्वक्क्यते । दन्त्य-
विधावस्य वर्ज्जनान्न दन्त्यः । चन्द्रोदयस्तु इमं
पञ्चमस्वरिणं मत्वा षुक्कते षुषुक्किषते षोषुक्क्यते
इत्याह ॥ इति दुर्गादासः ॥


Match 1413: vcp=ष्वद, skd=ष्वद

vcp

k1=ष्वद, L=44651
ष्वद¦ स्वादे छेदने च चु० उभ० सक० सेट् । स्वादयति ते
असिष्वदत् त ।


k1=ष्वद, L=44652
ष्वद¦ प्रीतौ लेहने च भ्वा० आ० सक० सेट् । स्वदते अस्वदिष्ट ।


skd

k1=ष्वद, L=37117
ष्वद¦, क स्वादे । छेदे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) स्वादो रसो-
पादानम् । क, स्वादयति क्षीरं लोकः । इति
दुर्गादासः ॥


k1=ष्वद, L=37118
ष्वद¦, ङ प्रीतिलिहोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) प्रीतिः प्रीती-
करणम् । लिट् रसोपादानम् । ङ, अपां हि
तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते
तुषारा । इति श्रीहर्षः । इति दुर्गादासः ॥


Match 1414: vcp=ष्वन्ज, skd=ष्वन्ज

vcp

k1=ष्वन्ज, L=44653
ष्वन्ज¦ आलिङ्गने भ्वा० आ० स० अनिट् । स्वजते अस्वङ्क्त ।


skd

k1=ष्वन्ज, L=37119
ष्वन्ज¦, औ ञि ङ आलिङ्गे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-अनिट् ।) वकारयुक्तादिः ।
आलिङ्ग आलिङ्गनम् । औ, स्वङ्क्ता । ञि,
स्वक्तोऽस्ति । ङ, स्वजते युवतीं युवा । परि-
ष्वजति पाञ्चाली मध्यमं पाण्डुनन्दनमिति
गणकृतानित्यत्वात् । इति दुर्गादासः ॥


Match 1415: vcp=ष्वप, skd=ष्वप

vcp

k1=ष्वप, L=44654
ष्वप¦ शयने निद्रायाञ्च अदा० स्वपा० जक्षा० पर० अक० अनिट् ।
[Page5173-b+ 37]
स्वपिति अस्वाप्सीत् सुष्वाप ।


skd

k1=ष्वप, L=37120
ष्वप¦, औ घ लु ञि शये । इति कविकल्पद्रुमः ॥
(अदा०-पर-अक०-अनिट् ।) वकारयुक्त-
मूर्द्धन्यादिः । औ, अस्वाप्सीत् । घ लु, स्वपिति ।
ञि, सुप्तोऽस्ति । शयः शयनम् । इति दुर्गादासः ॥


Match 1416: vcp=ष्वर्त्त, skd=ष्वर्त्त

vcp

k1=ष्वर्त्त, L=44655
ष्वर्त्त¦ गतौ सक० दुःखेन जीवने अक० चु० उ० सेट् । स्वर्त्तयति ते असस्वर्त्तत् त ।


skd

k1=ष्वर्त्त, L=37121
ष्वर्त्त¦, क गत्याम् । तङ्के । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-तङ्के अक०-सेट् ।) वकार-
युक्तमूर्द्धन्यादिः । तङ्को दुःखेन जीवनम् । क,
स्वर्त्तयति जनो गच्छति दुःखेन जीवति
वेत्यर्थः । असिष्वर्त्तत् । इति दुर्गादासः ॥


Match 1417: vcp=ष्विद, skd=ष्विद

vcp

k1=ष्विद, L=44657
ष्विद¦ मोहे म्नेहे च अक० मोचने सक० भ्वा० आ० लुङि उ०
सेट् । स्वेदते अस्विदत् अस्वेदिष्ट ।


k1=ष्विद, L=44658
ष्विद¦ गात्रप्रक्षरणे अक० दि० पर० अनिट् । स्विद्यति ऌदित् अस्विदत् ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टचार्य्य-
सङ्कलिते वाचस्पत्याभिधाने षकारादि
शब्दार्थसङ्कलनम् ।


skd

k1=ष्विद, L=37122
ष्विद¦, ऌ औ य आ ञि स्विदि । इति कविकल्प-
द्रुमः ॥ (दिवा०-पर०-अक०-अनिट् ।) ऌ,
अस्विदत् । औ, स्वेत्ता । य, स्विद्यति । आ,
स्वेदितं स्विन्नं तेन । ञि, स्विन्नोऽस्ति । स्विदीति
मोहस्नेहमोक्षेष्विति वोपदेवः । गात्रप्रक्षरणे
इति प्राञ्चः । न च स्विद्यति तस्याङ्गमिति
हलायुधः ॥ इति दुर्गादासः ॥


k1=ष्विद, L=37123
ष्विद¦, ञि आ ङ ऌ मोहस्नेहमोक्षेषु । इति कवि-
कल्पद्रुमः । (भ्वा०-आत्म०-अक०-सेट् ।) ञि,
स्विन्नोऽस्ति ॥ आ, स्वेदितं स्विन्नं तेन । ङ,
स्वेदते तिलः तैलं मुञ्चति इत्यर्थः । ऌ, अस्वि-
दत् स्नेहः स्निग्धीभावः । इति दुर्गादासः ॥


Match 1418: vcp=सङ्ग्राम, skd=सङ्ग्राम

vcp

k1=सङ्ग्राम, L=44878
सङ्ग्राम¦ युद्धे अद० चु० उभ० सक० सेट् । सङ्ग्रामयति से
अससङ्ग्रामत् त । अस्याफलवत्कर्त्तर्य्यपि आ० इत्येके


skd

k1=सङ्ग्राम, L=37413
सङ्ग्राम¦, ङ ञ त् क युद्धे । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-आत्म०-उभ०-च-अक०-सेट् ।)
[Page5-219-b+ 52]
अससंग्रासत् । ङ, संग्रामयते । ङ, संग्रामयति
संग्रामयते । ञितैवोभयपदसिद्धौ ङित्करणं
अफलवत्कर्त्तरि आत्मनेपदार्थम् । एवं सर्व्वत्र ।
किन्तु अयमात्मनेपदीति प्राञ्चः कदाचित्
परस्मैपदार्थो ञकारः । इति दुर्गादासः ॥


Match 1419: vcp=सठ, skd=सठ

vcp

k1=सठ, L=44931
सठ¦ श्वठार्थे गतौ संस्कारे असंस्कारे च चुरा० उभ० सक०
सेट् । साठयति ते पोपदेशत्वमेव न्याय्यम् ।


skd

k1=सठ, L=37489
सठ¦, क श्वठार्थे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) दन्त्यादिः । क, साठयति
सठार्थे गत्यसंस्कृतसंस्कृतेषु । इति दुर्गादासः ॥


Match 1420: vcp=सत्र, skd=सत्र

vcp

k1=सत्र, L=44997
सत्र¦ सम्बन्धे सन्तृतौ च अद० चु० आ० सक० सेट् । सत्रयते अस-
सत्रत । सत्रापयते इत्यन्ये अनेकाच्कत्वात् अषोपदेशत्वेन
सति निमित्ते न षत्वम् ।


skd

k1=सत्र, L=37582
सत्र¦, त् ङ क सम्बन्धे । सन्ततौ । इति कविकल्प-
द्रुमः ॥ (अदन्त-चुरा-आत्म-सक-सेट् ।)
दन्त्यवर्गाद्यमध्यः । सन्ततिर्निर्व्वाहक्रियेति भट्ट-
मल्लः । ङ सत्रयते । सत्रापयते प्रतिज्ञां साधुः ।
सन्ततिर्विस्तारणमिति गोविन्दभट्टः । इति
दुर्गादासः ॥


Match 1421: vcp=सभाज, skd=सभाज

vcp

k1=सभाज, L=45213
सभाज¦ सेवने दर्शने च सक० प्रीतौ अ० अद० चु० उभ० सेट् ।
सभाजयति ते अससभाजत्--त । अनेकाचत्वान्न षोपदेशः


skd

k1=सभाज, L=37838
सभाज¦, त् क सेवने । प्रीतौ । दर्शने । इति
कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-
सेट् ।) अससभाजत् । इति दुर्गादासः ॥


Match 1422: vcp=सम्ब, skd=सम्ब

vcp

k1=सम्ब, L=45480
सम्ब¦ सर्पणे भ्वा० प० स० सेट् । सम्बति असम्बीत् षोपदेशः साघुः


k1=सम्ब, L=45481
सम्ब¦ सम्बन्धे चु० उभ० सक० सेट् । सम्बयति ते अससम्बत् त ।


skd

k1=सम्ब, L=38144
सम्ब¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) दन्त्यादिः । ओष्ठ्यवर्गशेषोपधः ।
सम्बति । सिसम्बयिषति । इति दुर्गादासः ॥


k1=सम्ब, L=38145
सम्ब¦, क, सम्बन्ध । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) ओष्ठ्यवर्गशेषोपधः । क,
सम्बयति धनं लोकः संबध्नातीत्यर्थः । ताल-
व्यादिरयमिति धातुप्रदीपः । मूर्द्धन्यादिरित्य-
प्येके । इति दुर्गादासः ॥


Match 1423: vcp=सर्ज, skd=सर्ज्ज *

vcp

k1=सर्ज, L=45585
सर्ज¦ सर्जने भ्वा० पर० सक० सेट् । सर्जति असर्जीत सृजि-
वर्जने सर्जस्यापि वर्जनं तेन षोपदेशत्वाभावान्न षत्वम् ।
तत्र प्रमाणाभावात् षोपदेश एव न्याय्यः ।


skd

k1=सर्ज्ज, L=38283
सर्ज्ज¦, अर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) सिसर्ज्जयिषति । सर्ज्जति
धनं लोकः । इति दुर्गादासः ॥


Match 1424: vcp=सर्ब, skd=सर्व्व *

vcp

k1=सर्ब, L=45630
सर्ब¦ सर्पणे भ्वा० पर० सक० सेट् । सर्बति असर्बीत् अषोपदेश-
त्वान् न षत्वमित्येके षोपदेश एव न्याय्यः ।


skd

k1=सर्व्व, L=38338
सर्व्व¦, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) दन्त्यादिः । ओष्ठ्यवर्गशेषोपधः ।
सर्व्वति सिसर्व्वयिषति । इति दुर्गादासः ॥


Match 1425: vcp=साट, skd=साट

vcp

k1=साट, L=45866
साट¦ प्रकाशने अद० चु० उ० स० सेट् । साटयति ते अससाटत् त


skd

k1=साट, L=38642
साट¦, त् क प्रकाशने । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-अक०-सेट् ।) द्वितीय-
स्वरयुक्तसकारादिरयम् । अससाटत् । इति
दुर्गादासः ॥


Match 1426: vcp=सात, skd=सात

vcp

k1=सात, L=45868
सात¦ सुखे उपादाने अद० चु० उभ० अक० सेट् । सातयति
ते अससातत् त । अयं सौत्र इत्येके ।


skd

k1=सात, L=38644
सात¦, क सुखे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) दन्त्यादिः । सातयः ।
सौत्रधातुरयम् । इति दुर्गादासः ॥


Match 1427: vcp=सान्त्व, skd=सान्त्व

vcp

k1=सान्त्व, L=45928
सान्त्व¦ आनुकूल्यकरणे अद० चु० उभ० सक० सेट् । सान्त्व-
यति ते अससान्त्वत् त सान्त्वापयतीत्यन्ये अनेकच्कत्वात्
न षोपदेशः ।


skd

k1=सान्त्व, L=38714
सान्त्व¦, क सामयोगे । इति कविकल्पद्रुमः ॥ (चुरा०
पर०-सक०-सेट् ।) क, सान्त्वयति शीतार्त्तं
दयालुः । इति दुर्गादासः ॥


k1=सान्त्व, L=38715
सान्त्व¦, त् क सान्त्वने । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) दन्त्यादि-
स्तमध्यः वकारोपधः । सान्त्वनं प्रियकरणम् ।
सान्त्वयति सान्त्वापयति । इति दुर्गादासः ॥


Match 1428: vcp=साम, skd=साम

vcp

k1=साम, L=45947
साम¦ सान्त्वने अद० चु० उ० स० सेट् । सामयति ते अससामत् त
अनेकाच्कत्वात् न षोपदेशः ।


k1=साम, L=45948
सा(षा)म¦ सान्त्वे चु० उभ० सक० सेट् । सामयति अयं षोपदेश
एव न्याय्यः दुर्गादासेन दन्त्यादित्वमस्योक्तमप्रमाणम् ।


skd

k1=साम, L=38740
साम¦, क सान्त्वे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) दन्त्यादिर्द्वितीयस्वरी । सान्त्वः
प्रियकरणम् । क, सामयति दीनं दानेन दाता ।
इति दुर्गादासः ॥


k1=साम, L=38741
साम¦, त् क सान्त्वने । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) सान्त्वनं प्रिय-
करणम् । अससामत् दीनं दानेन दाता ।
इति दुर्गादासः ॥


Match 1429: vcp=साम्ब, skd=साम्ब

vcp

k1=साम्ब, L=45978
सा(षा)म्ब¦ सम्बन्धे चु० उभ० सक० सेट् । साम्बयति ते अस-
साम्बत् त । अयं षोपदेशएव न्याय्यः ।


skd

k1=साम्ब, L=38778
साम्ब¦, क सम्बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०
पर०-सक०-सेट् ।) ओष्ठ्यवर्गशेषोपधः ।
द्वितीयस्वरी । क, साम्बयति धनं लोकः संब-
ध्नाति इत्यर्थः । इति दुर्गादासः ॥


Match 1430: vcp=सार, skd=सार

vcp

k1=सार, L=45992
सार¦ दौर्बल्ये अद० चु० उभ० सक० सेट् । सारयति ते अससारत् त अनेकाच्कत्वान्न षोपदेशः


skd

k1=सार, L=38800
सार¦, त् क दौर्व्वल्ये । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-अक०-सेट् ।) रेफोपधः ।
अससारत् । इति दुर्गादासः ॥


Match 1431: vcp=सिक, skd=सिक

vcp

k1=सिक, L=46106
सिक¦ सेचने सौत्र० पर० सक० सेट् । सेकति असेकीत् ।
पर्मुदासात् न षापदेशः ।


skd

k1=सिक, L=38960
सिक¦, सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०
सक०-सेट् ।) दन्त्यादिः । सिकता । इति
दुर्गादासः ॥ सौत्रधातुरयम् ॥


Match 1432: vcp=सीक, skd=सीक

vcp

k1=सीक, L=46242
सीक¦ सेचने भ्वा० आ० सक० सेट् । सीकते असेकिष्ट ।
ऋदित् चङि न ह्रस्वः । पर्युदासेन न गोपदेशः ।


k1=सीक, L=46243
सीक¦ स्पर्शे वा चु० उभ० पक्षे भ्वा० प० सक० सेट् । सीक-
यति ते सीकति असीसिकत् त असीकीत् । पर्य्युदासान्न
षोपदेशः ।


skd

k1=सीक, L=39180
सीक¦, ऋ ङ सेके । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, असिसीकत् । ङ,
सेकते । इति दुर्गादासः ॥


k1=सीक, L=39181
सीक¦, कि आमृशि । इति कविकल्पद्रुमः ॥ (चुरा०-
पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, सीकयति
सीकति । आमृशि स्थर्शे । प्रमाणं तालव्यादौ
दृश्यम् । इति दुर्गादासः ॥


Match 1433: vcp=सुख, skd=सुख

vcp

k1=सुख, L=46297
सुख¦ सुखसम्पादने अद० चु० उभ० सक० सेट् । सुखयति--ते
व्यतुसुखत--त । अनेकाच्कत्वेन न षोपदेशः ।


skd

k1=सुख, L=39264
सुख¦, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥
(अदन्तचुरा० पर०-सक०-सेट् ।) तत्कृतिः
सुखक्रिया । श्रीजयदेवकवेरिति गीतं सुखयतु
केशवपदमुपनीतम् । इति दुर्गादासः ॥


Match 1434: vcp=सुट्ट, skd=सुट्ट

vcp

k1=सुट्ट, L=46357
सु(षु)ट्ट¦ अनादरे चु० उ० सक० सेट् । सुट्टयति ते असुसु-
ट्टत् त । षोपदेश एव न्याय्यः ।


skd

k1=सुट्ट, L=39353
सुट्ट¦, क तौच्छ्ये । अनादरे । इति कविकल्पद्रुमः
(चुरा०-पर०-सक०-सेट् ।) पञ्चमस्तरी टद्व-
यान्तः । क, सुट्टयति । दन्त्यादिरयमिति भीमः ।
तौच्छ्यमल्पीभावः । इति दुर्गादासः ॥


Match 1435: vcp=सुद, skd=सुद

vcp

k1=सुद, L=46380
सुद¦ शोभायां सौ० प० सक० सेट् इदित् । सुन्दति असु-
न्दीत । सौत्रत्वेन न षोपदेशः ।


skd

k1=सुद, L=39381
सुद¦, इ शोभे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) सुन्दरम् । इति दुर्गा-
दासः ॥ सौत्रधातुरयम् ॥


Match 1436: vcp=सूच, skd=सूच

vcp

k1=सूच, L=46741
सूच¦ पैशून्ये (अन्तर्द्रोहे) अद० चु० उभ० सक० सेट् । सूच-
यति ते असुसूचत् त । बह्वच्कत्वान्न षोपदेशः ।


skd

k1=सूच, L=39919
सूच¦, त् क पैशुन्ये । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) दीर्घी । असु-
सूचत् कथां लोकः कथितवान् इत्यर्थः । इति
रमानाथः । पैशुन्यमन्तर्द्रोह इत्येके । इति
दुर्गादासः ॥


Match 1437: vcp=सूत्र, skd=सूत्र

vcp

k1=सूत्र, L=46775
सूत्र¦ ग्रन्थने वेष्टने च अद० चु० उभ० सक० सेट् । सूत्रयति ते
असुसूत्रत् त । बह्वच्कत्वात् न पोपदेशः ।


skd

k1=सूत्र, L=39977
सूत्र¦, त् क ग्रन्थने । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) दीर्घी दन्त्यवर्गाद्य-
मध्यः । वेष्टने इत्यन्ये । सूत्रयति सूत्रापयति
सूत्रेण हस्तं लोकः । इति दुर्गादासः ॥


Match 1438: vcp=सूर्क्ष, skd=सूर्क्ष

vcp

k1=सूर्क्ष, L=46815
सू(षू)र्क्ष(र्क्ष्य)¦) अनादरे भ्वा० पर० सक० सेट् । सूर्क्ष(र्क्ष्य)ति
असूर्क्षी(र्क्ष्यी)त् षोपदेश एव न्याय्यः ।


skd

k1=सूर्क्ष, L=40027
सूर्क्ष¦, नारदे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) रेफयुक्तः षष्ठस्वरी दन्त्यादिः ।
सूर्क्षति दुष्टं लोकः । सुसूर्क्ष । इति दुर्गादासः ॥


Match 1439: vcp=सृ, skd=सृ

vcp

k1=सृ, L=46840
सृ¦ गतौ स्थितो चु० उभ० सक० सेट् । सारयति ते पर्युदासान्न षोपदेशः ।


k1=सृ, L=46841
सृ¦ गतौ भ्वादि० परस्मै० सक० अनिट् सरति । असरत् असा-
र्षीत् पर्युदासान्न षोपदेशः । “नालानं करिणां सस्रे”
च रघुप्रयोगात् आत्म० ।


k1=सृ, L=46842
सृ¦ गतौ जु० वैदिकः पर० सक० सेट् । ससर्त्ति असरत् पर्युदासान्न पापदेशः ।


skd

k1=सृ, L=40073
सृ¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर-
सक०-अनिट् ।) सरति । नालानं करिणा
सस्रे इति रघौ कर्म्मकर्त्तृत्वादिति रमानाथः ।
तच्चिन्त्यं कर्त्तृस्थभावधातूनां तन्निषेधात् ।
वस्तुतस्तु गणकृतानित्यत्वादात्मनेपदम् । ना-
लानैरिति वा पाट्यं तंत्र कर्म्माविक्षायां भावे
प्रत्ययः । इति दुर्गादासः ॥


k1=सृ, L=40074
सृ¦, क गतौ । स्तृतौ । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) क, सारयति ।
इति दुर्गादासः ॥


k1=सृ, L=40075
सृ¦, र लि गतौ । इति कविकल्पद्रुमः ॥ (ह्वा०-
पर०-सक०-अनिट् ।) र, वैदिकः । लि,
ससर्त्ति । इति दुर्गादासः ॥


Match 1440: vcp=सृज, skd=सृज

vcp

k1=सृज, L=46850
सृज¦ विसर्गे त्यागे दिवा० आत्म० अनिट् सक० । सृज्यते
असृष्ट । पर्युस्यसान्न षोपदेशः ।


k1=सृज, L=46851
सृज¦ विसर्गे तु० पर० सक० अनिट् सृजति अस्राक्षीत् ससर्जिष
सस्रष्ठ स्रष्टा स्रक्ष्यति । पर्युदासन्न षोपदेशः ।


skd

k1=सृज, L=40092
सृज¦, औ श विसर्गे । इति कविकल्पद्रुमः ॥ (तुद०
पर०-सक०-अनिट् ।) औ, अस्राक्षीत् । श,
सृजति । इति दुर्गादासः ॥


k1=सृज, L=40093
सृज¦, य ङ औ विसर्गे । इति कविकल्पद्रुमः ॥
(दिवा०-आत्म०-सक०-अनिट् ।) य ङ, सृज्यते ।
औ, स्रष्टा । सरीसृज्यते । विसर्गस्त्यागः ।
त्यागो व्युद्भ्यां पर एव अन्यत्र करोतीत्यर्थः ।
यथा । उपासनामेत्य पितुः स्म सृज्यते इति
नैषधम् ॥ संपूर्व्वोऽयमकर्म्मकः । यथा । संसृ-
ज्यते सरसिजैररुणांशुभिन्नैः निशापरिणाम-
वायुरिति रघुः । इति दुर्गादासः ॥


Match 1441: vcp=सृप, skd=सृप

vcp

k1=सृप, L=46860
सृप¦ गतौ भ्वा० पर० सक० अनिट् । सर्पति असृपत् ।
पर्युदासान्न षोपदेशः ।


skd

k1=सृप, L=40108
सृप¦, सृ औ गत्याम् । इति कविकल्पद्रुमः ॥ (म्वा०-
पर०-सक०-अनिट् ।) ऌ, असृपत् । अस्य ऌ-
दित्वेऽपि कृषमृशस्पृश इति विशेषविधानात्
पक्षे ट्यां सिः तेन असार्प्सीत् अस्राप्सीत्
इत्यपि । औ, सर्प्ता । इति दुर्गादासः ॥


Match 1442: vcp=सॄ, skd=सॄ

vcp

k1=सॄ, L=46867
सॄ(षॄ)¦ हसायां क्र्या० प्वा० प० सक० सेट् । सृणाति असा-
रीत् सीर्ण्णः सीर्णिः । षोपर्देश एव न्याय्यः ।


skd

k1=सॄ, L=40118
सॄ¦, गि हिंसे । इति कविकल्पद्रुमः ॥ (क्र्या०-
पर०-सक०-अनिट् ।) दन्त्यादिर्वकारोपधः
तद्रहितोऽपीति केचित् । गि, सॄणाति । सीर्णः
सीर्णिः । इति दुर्गादासः ॥


Match 1443: vcp=सेक, skd=सेक

vcp

k1=सेक, L=46868
सेक¦ गतौ भ्वा० आ० सक० सेट् । सेकते असेकिष्ट पर्यु-
दासान्न षोपदेशः । ऋदित् चङि न ह्रस्वः ।


skd

k1=सेक, L=40119
सेक¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, असिसेकत् ।
ङ, सेकते । इति दुर्गादासः ॥


Match 1444: vcp=स्कन्द, skd=स्कन्द

vcp

k1=स्कन्द, L=47042
स्कन्द¦ समाहारे अद० च० उभ० सक० सेट् । स्कन्दयति ते अचस्कन्दत त ।


k1=स्कन्द, L=47043
स्कन्द¦ गतौ शोषणे च भ्वा० पर० नक० अनिट् । स्कन्दति
इरित् अस्कदत अस्कान्त्सीत् चस्कन्द । आ + आक्रमणे


skd

k1=स्कन्द, L=40378
स्कन्द¦, इर् और शोषणे । गत्याम् । इति कविकल्प-
द्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।) इर्,
अस्कदत् । अस्कांत्सीत् । औ, स्कन्ता चस्कन्द ।
इति दुर्गादासः ॥


k1=स्कन्द, L=40379
स्कन्द¦, त क समाहृतौ । इति कविकल्पद्रुमः ॥
(अनन्तचुरा०-पर०-सक०-सेट् ।) दस्त्यवर्ग-
तृतोयोपधोऽयम् । तच्चतुर्थोपध इति केचित् ।
स्कन्दयति स्कन्दापयति अचस्कन्दत् । इति
दुर्गादासः ॥


Match 1445: vcp=स्कभ, skd=स्कभ

vcp

k1=स्कभ, L=47063
स्कभ¦ स्तम्भे म्बा० आ० सक० सेटि इदित् । सकम्भते अस्कम्भिष्ट ।


skd

k1=स्कभ, L=40405
स्कभ¦, इ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) स्तम्भ इह रुद्धीकरणम् ।
इ, स्कम्भ्यते । ङ, स्कम्भते कबाटेन द्वारं
लोकः । चस्कम्भे । इति दुर्गादासः ॥


Match 1446: vcp=स्कुद, skd=स्कुद

vcp

k1=स्कुद, L=47065
स्कुद¦ आप्लावने उद्धृतौ च भ्वा० आ० सक० सेट् इदित् । स्कुन्दते अस्कुन्दिष्ट ।


skd

k1=स्कुद, L=40407
स्कुद¦, इ ङ आप्लवे । उद्धृतौ । उत्प्लुत्य गत्याम् ।
इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-अक०
च-सेट् । “पञ्चमस्वरीति धातुप्रदीपरामौ ।
“स्कन्दते स्कुन्दते चापि षडाप्लवनवाचिनः ।
इति भट्टमल्लोऽपि ।
चुस्कुन्दिषते ॥” इति दुर्गादासः ॥


Match 1447: vcp=स्कुन्भ, skd=स्कुन्भ

vcp

k1=स्कुन्भ, L=47066
स्कुन्भ¦ रोधने सौ० क्र्या० स्वादि० कार्य्यभागौ प० सक० सेट्
स्कुभ्नाति स्कुभ्नोति । अस्कुम्मीत् । उदित् क्त्वा वेट् ।


skd

k1=स्कुन्भ, L=40408
स्कुन्भ¦, ग न उ रोधने । इति कविकल्पद्रुमः ॥
(क्र्या०-स्वा० च-पर०-सक०-सेट् । क्त्वावेट् ।)
दन्त्यादि पञ्चमस्वरी । ग, स्कुभ्नाति । न,
स्कुभोति । उ स्कुम्भित्वा स्कुब्ध्वा । रोधन-
मावरणम् । इति दुर्गादासः ॥ सौत्रधातुरयम् ॥


Match 1448: vcp=स्खद, skd=स्खद

vcp

k1=स्खद, L=47067
स्खद¦ विदारे दि० आ० सक० सेट् । स्खद्यते अस्खदिष्ट
घटादि० स्खदयति ।


skd

k1=स्खद, L=40410
स्खद¦, म ष ङ विदारे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) म स्खदयति ।
उपसर्गात् परस्य तु वा शम यम फण इत्या-
दिना वा ह्रस्वः । प्रस्खदति प्रस्खादयति । अव
परिवर्ज्जादुपसर्गात् परस्य घटादित्व नास्ति
इति कातन्त्नाद्याः । तत्रैव अवस्थाने अप इति
भीमः प्रस्खादयति अवस्खादयति परिस्खद-
यति । अपपरिभ्यां परस्य घटादित्वं नास्तीति
जीमराद्याः । अपस्खादयांत परिस्खादयति
प्रस्खदयति । स्खद स्खदने इति प्राञ्चः । स्खदनं
स्थैर्य्यमिति विलोचनरामौ । पाटनमिति गो-
विन्दः । क्लेशोत्पादनमिति गोयीचन्द्रः ।
हिंसेति रमानाथः । इति दुर्गादासः ॥


Match 1449: vcp=स्खल, skd=स्खल

vcp

k1=स्खल, L=47068
स्खल¦ चले भ्वा० प० अक० सेट् । स्त्वलति अस्खालीत् वा घटा० स्खलयति स्खालयति ।


skd

k1=स्खल, L=40412
स्खल¦, मि चये । चले ॥ इति कविकल्पद्रुमः ॥
(म्वा०-पर-सक०-चले अक०-सेट् ।) मि,
स्खलयति वचनं ते सर्व्वथा सुभ्रु खेदमिति
मालत्याम् । स्खालयति चस्खाल । चयः सञ्चयः
स्खलति पुष्पं मालिकः सञ्चिनोतीत्यर्थः । चलः
स्खलनम् । स्खलति पत्रं वृक्षस्य ।
“दृढः प्रेमा भग्नः सदसिरिव सन्धिं न लभते ।
लभेतापि प्रायः सवलति खलु यत्नैरपि धृतः ।”
इति दुर्गादासः ॥


Match 1450: vcp=स्तन, skd=स्तन

vcp

k1=स्तन, L=47071
स्तन¦ मेघशब्दे अद० चु० उभ० सक० सेट् । स्तनयति ते
अतस्तनत् त । बह्वच्कत्वान्न षोपदेशः ।


skd

k1=स्तन, L=40416
स्तन¦, त् क अभ्रशब्दे । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-अक०-सेट् ।) स्तनयति
मेघः । इति दुर्गादासः ॥


k1=स्तन, L=40417
स्तन¦, मि शब्दे । इति कविकल्पद्रुमः ॥ (म्वा०-
पर०-सक०-सेट् ।) मि स्तनयति स्तानयति ।
अतिस्तनत् । इति दुर्गादासः ॥


Match 1451: vcp=स्तन्भ, skd=स्तभ *

vcp

k1=स्तन्भ, L=47083
स्तन्भ¦ रोधने क्र्या० स्वा० प० सक० सेट् उदित् क्त्वा वेट् ।
स्तभ्राति स्तभ्रोति इरित् अस्तभत् अस्तम्भीत् । इदित्यन्ये
षोपदेश एव न्याय्यः सौत्रोऽयमित्यन्ये तेन न षोपदेशः ।


skd

k1=स्तभ, L=40439
स्तभ¦, इ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सक०-च सेट् ।) दन्त्यादिः । इ,
स्तम्भ्यते । ङ, स्तम्भते । तिष्ठम्भयिषति । तिस्त-
म्भयिषति । स्तम्भो जडीभावस्तत्करणञ्च ।
स्तम्भः स्थूणाजडीभावावित्यमरोक्तेः । शीते-
नावस्तब्धो जडीकृतः इत्यर्थ इति क्रमदीश्वरो-
क्तेश्च । स्तम्भ इह क्रियानिरोधः इति भीमः ।
दोषवृद्विरिति गोविन्दभट्टः । स्तम्भो रुद्धीकर-
णञ्च । स्तम्भते कबाटेन द्वारं लोकः । इति
दुर्गादासः ॥


Match 1452: vcp=स्तूप, skd=स्तूप

vcp

k1=स्तूप, L=47113
स्तूप¦ उच्छ्राये अद० चु० अक० उभ० सेट् । स्तूपयति ते
अतुस्तूपत् त । बह्वच्कत्वात् अषोपदेश एव । ५१७२
पृष्ठे ष्टूप इति धातुः षोपदेशतया प्रमादात् लिखितः ।


skd

k1=स्तूप, L=40475
स्तूप¦, क उच्छ्राये । इति कविकल्पद्रुमः ॥ (चुरा०
पर०-सक०-सेट् ।) षष्ठस्वरी । उच्छ्रायो राशी-
वरणम् । स्तूपयति धान्यं कृषकः । तुष्टूपयि-
षति । इति दुर्गादासः ॥


k1=स्तूप, L=40476
स्तूप¦, य इर उच्छ्राये । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् ।) षष्ठस्वरी । य,
स्तूप्यति । इर्, अस्तूपत् अस्तूपीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । अतुस्तूपत् । इति
दुर्गादासः ॥


Match 1453: vcp=स्तृ, skd=स्तृ

vcp

k1=स्तृ, L=47116
स्तृ¦ प्रीतौ अक० रक्षणे सक० स्वा० प० अनिट् । स्तृणोति
अस्तार्षीत् । पर्युदासेन अषोपदेश एव ।


skd

k1=स्तृ, L=40478
स्तृ¦, न प्रीतिरक्षाप्राणने । इति कविकल्पद्रुमः ॥
(स्वा०-पर०-सक०-अक०-च-अनिट् ।) न,
स्तृणोति । इति दुर्गादासः ॥


k1=स्तृ, L=40479
स्तृ¦, न ञ स्तृतौ । इति कविकल्पद्रुमः ॥ (स्वा०
उभ०-सक०-अनिट् ।) न ञ, स्तृणोति स्तृणुते
स्तृतिराच्छादनम् । इति दुर्गादासः ॥


Match 1454: vcp=स्तॄ, skd=स्तॄ

vcp

k1=स्तॄ, L=47117
स्तॄ¦ आच्छादने क्र्या० प्वा० उ० सक० सेट् । स्तृणाति स्तृ-
णीते अस्तारीत् अस्तरिष्ट अस्तरीष्ट अस्तीत्त । अयं
षोपदेश एव न्याय्यः ।


skd

k1=स्तॄ, L=40482
स्तॄ¦ ञ गि छादने । इति कविकल्पद्रुमः ॥ (क्र्या
उभ०-सक०-अनिट् ।)ञ गि, स्तृणाति स्तृणीते
स्तार्णः स्तीर्णिः । इति दुर्गादासः ॥


Match 1455: vcp=स्तेन, skd=स्तेन

vcp

k1=स्तेन, L=47118
स्तेन¦ चोर्य्ये अद० चु० उभ० सक० सेट् । स्तेनयति--ते
अतिस्तेनत्--त । बह्वच्कत्वात् अषोपदेशः ।


skd

k1=स्तेन, L=40484
स्तेन¦, त् क चौर्य्ये । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) अतिस्तेनत् धनं
चौरः । इति दुर्गादासः ॥


Match 1456: vcp=स्तोम, skd=स्तोम

vcp

k1=स्तोम, L=47131
स्तोम¦ आत्मगुणाविष्करणे अद० चु० उभ० अक० सेट् । स्तो-
मयति--ते अतुस्तोमत्--त । बह्वच्कत्वात् न षोपदेशः ।


skd

k1=स्तोम, L=40500
स्तोम¦, त् क श्लाघने । इति कविकल्पद्रुमः ॥ अदन्त
चुरा०-पर०-सक०-सेट् ।) अतुस्तोमत् । इति
दुर्गादासः ॥


Match 1457: vcp=स्त्यै, skd=स्त्यै

vcp

k1=स्त्यै, L=47135
स्त्यै¦ सहतौ ध्वनौ भ्वा० अक० अनिट् । स्त्यायति अस्त्यासीत्
पर्य्युदासान्न षोपदेशः ।


skd

k1=स्त्यै, L=40507
स्त्यै¦ संहतौ । ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वा-
पर०-अक०-अनिट् ।) दन्त्यादिरन्तः स्थाद्य-
युक्ततमध्यः । स्त्यायति तिस्त्यासति । इति दुर्गा-
दासः ॥


Match 1458: vcp=स्थग, skd=स्थग

vcp

k1=स्थग, L=47162
स्थग¦ संवरणे भ्वा० पर० सक० सेट् घटा० सिचि न व्र्द्धिः ।
स्थगति अस्थगीत् । अषोपदेशत्वमस्य चिन्त्यमूलम् ।


skd

k1=स्थग, L=40536
स्थग¦, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) दन्त्यादिस्थमध्यः । म,
सिस्थगयिषति । ए, अस्थगीत् । इति दुर्गादासः ।


Match 1459: vcp=स्थल, skd=स्थल

vcp

k1=स्थल, L=47173
स्थल¦ स्थाने भ्वा० पर० अक० सेट् ज्वला० । स्थलति अस्था-
लीत् । ष्ठलधातुनैवायं गतार्थ इत्यन्ये ।


skd

k1=स्थल, L=40549
स्थल¦, जस्थाने । इति कविकल्पद्रुमः ॥ (भ्वा० पर०
अक०-सेट् ।) ज, स्थालः स्थलः । तिस्थाल-
यिषति । अयं नास्तीति केचित् । इति दुर्गा-
दासः ॥


Match 1460: vcp=स्थुड, skd=स्थुड

vcp

k1=स्थुड, L=47241
स्थुड¦ वरणे तुदा० कुदा० पर० सक० सेट् । स्युडति अल्यु-
ङीत् तुस्थोड । षोपदेश एव न्याय्यः ।


skd

k1=स्थुड, L=40649
स्थुड¦, शि वृत्याम् । इति कविकल्पद्रुमः ॥
(तुदा०-कुटा०-पर०-सक० सेट् ।) दन्त्यादिः ।
शि, स्थुडति अस्थुडीत् तुस्थोड । वृत्यां वरणे ।
इति दुर्गादासः ॥


Match 1461: vcp=स्थूल, skd=स्थूल

vcp

k1=स्थूल, L=47246
स्थूल¦ वृंहणे अद० चु० उभ० अक० सेट् । स्यूलयति--ते
अतुस्थूलत्--त । वह्वच्कत्वान्न सोपदेशः ।


skd

k1=स्थूल, L=40655
स्थूल¦, त् क ङ वृंहणे । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-आत्म० अक०-सेट् ।) दीर्घी
ङ, अतुस्थूलत् । वृंहणं वृद्धिः । इति दुर्गादासः


Match 1462: vcp=स्निट, skd=स्निट

vcp

k1=स्निट, L=47309
स्निट¦ स्नेहे चु० उम० सक० सेट् । स्नेटयति--असिस्रिटत्-
[Page5365-a+ 38]
त । दन्त्यान्तसादितयायं षोपदेश एव न्याय्यः ।


skd

k1=स्निट, L=40754
स्निट¦, क स्नेहे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् ।) क, स्नेटयति । इति दुर्गा-
दासः ॥


Match 1463: vcp=स्पद, skd=स्पद

vcp

k1=स्पद, L=47329
स्पद¦ ईषत्कम्पे भ्वा० आ० अक० सेट् इदित् । स्पन्दते अस्प-
न्दिष्ट स्पन्दितम् ।


skd

k1=स्पद, L=40778
स्पद¦, इ ङ ईषत्कम्पे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् ।) इ, स्पन्द्यवे ।
ङ, स्पन्दते चक्षुः । पस्पन्दे । काशे स्पन्द कुशे
स्पन्द स्पन्दत्वं शत्रुमस्तके । इत्यादौ गणकृता-
नित्यत्वमिति रमानाथः । वस्तुतस्तु स्पन्दते
स्पन्दः पचादित्वादन् ततः स्पन्द इवाचरति
इति क्वौ सिद्धिः । इति दुर्गादासः ॥


Match 1464: vcp=स्पर्द्ध, skd=स्पर्द्ध

vcp

k1=स्पर्द्ध, L=47331
स्पर्द्ध¦ संहर्षे (पराभिभवेच्छायाम्) भ्वा० अ त्म० अक० सेट् । स्पर्द्धते अस्पर्द्धिष्ट ।


skd

k1=स्पर्द्ध, L=40783
स्पर्द्ध¦, ङ संहर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) संहर्षः परिभवेच्छा ।
इति वोपदेवः ॥ ङ, स्पर्द्धते बलिनं बली ।
पस्पर्द्धे । इति दुर्गादासः ॥


Match 1465: vcp=स्पर्श, skd=स्पर्श

vcp

k1=स्पर्श, L=47333
स्पर्श¦ ग्रहणे स्तेये च चु० आ० सक० सेट् । स्पर्शयते अप स्पर्श त ।


skd

k1=स्पर्श, L=40785
स्पर्श¦, क ङ ग्रहणे । श्लेषे । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-सक०-सेट् ।) क ङ, स्पर्शयते ।
इति दुर्गादासः ॥


Match 1466: vcp=स्पश, skd=स्पश

vcp

k1=स्पश, L=47342
स्पश¦ ग्रन्थे वाधने च भ्वा० उभ० सक० सेट् । स्पशात--ते
अस्पर्शीत्--अ स्पाशीत् । अस्पशिष्ट ।


skd

k1=स्पश, L=40798
स्पश¦, ञ ग्रन्थवाधयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-सेट् ।) ञ, स्पशति स्पशते ।
पस्पाश । ग्रन्थस्थाने स्पर्शनं पठन्ति केचित् ।
इति दुर्गादासः ॥


Match 1467: vcp=स्पृ, skd=स्पृ

vcp

k1=स्पृ, L=47345
स्पृ¦ प्रीतौ अक० प्रीणने रक्षणे पालने च सक० स्वा० पर०
अनिट् । स्पृणोति अस्पार्क्षीत् ।


skd

k1=स्पृ, L=40802
स्पृ¦, न प्रीतिरक्षापालने । इति कविकल्पद्रुमः ॥
(स्वा०-पर०-सक०-सेट् ।) न, स्पृणोति । इति
दुर्गादासः ॥


Match 1468: vcp=स्पृश, skd=स्पृश

vcp

k1=स्पृश, L=47347
स्पृश¦ स्पर्श तु० पर० सक० अनिद् । स्पृशति अस्प्राक्षीत्
अस्पार्क्षीत् अस्पृक्षत् । पस्पर्श ।


skd

k1=स्पृश, L=40804
स्पृश¦, श औ स्पृशि । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-सक०-अनिट् ।) श, स्पृशति । औ,
अस्पार्क्षीत् अस्पृक्षत् । हस्तेन पस्पर्श तदङ्ग-
मिन्द्रः । इति कुमारः । इति दुर्गादासः ॥


Match 1469: vcp=स्पृह, skd=स्पृह

vcp

k1=स्पृह, L=47353
स्पृह¦ इच्छायां अद० चुरा० उभ० सक० सेट् । स्पृहयति--ते अपस्पृहत् ।


skd

k1=स्पृह, L=40811
स्पृह¦, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-सक०-सेट् ।) ईप्स आप्तुमिच्छा ।
स्पृहयति । इति दुर्गादासः ।


Match 1470: vcp=स्फट, skd=स्फट

vcp

k1=स्फट, L=47358
स्फट¦ विशोर्णतायाम् अक० भ्वा० पर सेट् । स्फटति अस्फ-
टीत्--अस्फाटीत् । इदिदप्युक्तार्थे स्फण्टति रुस्फण्टीत् ।


skd

k1=स्फट, L=40817
स्फट¦ इ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) द्वावाद्यस्वरिणा-
वोष्ठ्यवर्गद्वितीययुक्तौ । पञ्चमस्वरिणाविति भ्रमो
हेयः । तथात्वे सजातीयतया स्फुटक् भिदीत्या-
दीनां सन्निधावेवापठिष्यत् । एवं संख्यापि न
संमच्छते । स्फुटिर्विशरणे इत्यनेनैवेष्टसिद्धे
शेषधातोश्च वैयर्थ्यं स्यात् । अतएव रमा-
नाथोऽपि स्फुटिर्विशरणे इत्यत्र उकारशून्यः
स्फट इति केचित् पठन्ति । पचादित्वादनि
स्फटा फणा इति सुभूतिरित्यन्तमाह । इ,
स्फण्ट्यते । स्फटति गात्रे बाणः । पस्फट पस्फाट
स्फटिकम् । इति दुर्गादासः ॥


k1=स्फट, L=40818
स्फट¦ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) द्वावाद्यस्वरिणा-
वोष्ठ्यवर्गद्वितीययुक्तौ । पञ्चमस्वरिणाविति भ्रमो
हेयः । तथात्वे सजातीयतया स्फुटक् भिदीत्या-
दीनां सन्निधावेवापठिष्यत् । एवं संख्यापि न
संमच्छते । स्फुटिर्विशरणे इत्यनेनैवेष्टसिद्धे
शेषधातोश्च वैयर्थ्यं स्यात् । अतएव रमा-
नाथोऽपि स्फुटिर्विशरणे इत्यत्र उकारशून्यः
स्फट इति केचित् पठन्ति । पचादित्वादनि
स्फटा फणा इति सुभूतिरित्यन्तमाह । इ,
स्फण्ट्यते । स्फटति गात्रे बाणः । पस्फट पस्फाट
स्फटिकम् । इति दुर्गादासः ॥


Match 1471: vcp=स्फर, skd=स्फर

vcp

k1=स्फर, L=47367
स्फर¦ चले स्फूर्त्तौ च तुदा० प० अक० सेट् । स्फरति अस्फारोत् ।


skd

k1=स्फर, L=40830
स्फर¦, श स्फूर्त्तौ । चले । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-अक०-सेट् ।) श, स्फरती
स्फरन्ती । पस्फार । स्फरणं स्फुरणमित्यमरः ।
इति दुर्गादामः ॥


Match 1472: vcp=स्फल, skd=स्फल

vcp

k1=स्फल, L=47369
स्फल¦ चले स्मूर्नौ च तुदा० पर० अक० सेट । स्फलति अस्फालीत् ।


skd

k1=स्फल, L=40832
स्फल¦, श चाले । स्फूर्त्तौ । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-अक०-सेट् ।) श, स्फलती
स्फलन्ती । पस्फाल । सुरद्विपास्फालनकर्कशा-
ङ्गुलाविति रघुः । चालश्चलनम् । इति दुर्गा-
दासः ॥


Match 1473: vcp=स्फाय, skd=स्फाय

vcp

k1=स्फाय, L=47372
स्फाय¦ वृद्धौ भ्वा० आ० अक० सेट् । स्फायति अस्फायि-
अस्फायिष्ट । निष्ठायामनिट् यलोपे ईत् स्फीतः ।


skd

k1=स्फाय, L=40839
स्फाय¦, ई ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् । निष्ठायामनिट् ।) ई,
स्फीतः स्फातः । ङ, स्फायते पस्फाये । स्फाय-
न्निर्मोकसन्धीति गणकृतानित्यत्वात् । इति
रमानाथः । वस्तुतस्तु स्फायते स्फायः पचादि-
त्वादन् ततः स इवाचरतोति क्वौ शत्रन्तम् ।
इति दुर्गादासः ॥


Match 1474: vcp=स्फिट, skd=स्फिट

vcp

k1=स्फिट, L=47378
स्फिट¦ वृतौ हिंसे अनादर च चु० उभ० सक० सेट् । स्फेटयति ते अविस्फिटत् त ।


skd

k1=स्फिट, L=40846
स्फिट¦, क वृत्याम् । हिसे । अनादरे । इति कवि-
कल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) क,
स्फेटयति । वृतिरन्यैर्न मन्यते । इति दुर्गादासः ॥


Match 1475: vcp=स्फुट, skd=स्फुट

vcp

k1=स्फुट, L=47381
स्फुट¦ भेदे चु० उभ० सक० सेट । स्फोटयति ते अपुस्फुटत् त ।


k1=स्फुट, L=47382
स्फुट¦ विकाशे भ्वा० प० अक० सेट् । स्फोटति इरित् अस्फुटत्
अस्फोटीत् ।


k1=स्फुट, L=47383
स्फुट¦ विकाशे तु० कुटा० प० अक० सेट् । स्फुटति अस्फुटीत् पुस्फोट ।


k1=स्फुट, L=47384
स्फुट¦ विदलने भ्वा० आत्म० अक० सेट् । स्फोटते अस्फो
टिष्ट ।


k1=स्फुट, L=47385
स्फुट¦ परीहासे चुरा० उभ० अक० सेट् इदित् । स्फुण्टयति ते अपुस्फुण्टत् त ।


k1=स्फुट, L=47386
स्फुट¦ हिंसे चु० उभ० सक० सेट् प्रायेणाङ्पूर्वः । आस्फोट-
यति ते आपुस्फुटत् त ।


k1=स्फुट, L=47387
स्फुट¦ विकाशे अद० चु० उभ० सक० सेट् । स्फुटयति ते अपुस्फुटत् त ।


skd

k1=स्फुट, L=40849
स्फुट¦, इ क नर्म्मणि । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) नर्म्मेह परीहासः ।
इ क, स्फुण्टयति सखायं लोकः । अयमन्यैर्न
मन्यते । इति दुर्गादासः ॥


k1=स्फुट, L=40850
स्फुट¦, इर् विश(स)रणे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-भेदने सक०-सेट् ।) इर,
अस्फुटत् अस्फोटीत् । विशरणं भेदनम् ।
[Page5-461-a+ 52]
स्फोटयति गात्रं बाणः । विसरण इति दन्त्य-
मध्यपाठे विकसन इत्यर्थः । स्फोटति मल्लिका-
कलिका ॥


k1=स्फुट, L=40851
स्फुट¦, क भिदि । इति कविकल्पद्रुमः । (चुरा०-
पर०-सक०-सेट् ।) क, स्फोटयति कण्टकः
पदम् । इति दुर्गादासः ॥


k1=स्फुट, L=40852
स्फुट¦, ङ विसरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) ङ, स्फोटन्ते नवकुद्म-
लानि कुटजप्रायेषु वृक्षेष्विति हलायुधः । इति
दुर्गादासः ॥


k1=स्फुट, L=40853
स्फुट¦, त् क विसरणे । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-अक०-सेट् ।) विसरणं
विकमनम् । स्फुटयति चम्पककलिका । अपु-
स्फुटत् । इति दुर्गादासः ॥


k1=स्फुट, L=40854
स्फुट¦, शि विकासे । इति कविकल्पद्रुमः । (तुदा०-
पर०-अक०-सेट् ।) विकास इति कस ज
गताविति दन्त्यान्तस्य घञि रूपं विपूर्ब्बेणार्था-
न्तरवाचितया विकसनमित्यर्थः । शि, स्फुटति
केतकीकोरकः । अस्फुटीत् पुष्फोट । इति
दुर्गादासः ॥


k1=स्फुट, L=40855
स्फुट¦, क हिंसे । आङ्पूर्ब्बोऽयम् । इति कविकल्प-
द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) आङ् उप-
सर्गः । क, आस्फोटयति । इति दुर्गादासः ॥


Match 1476: vcp=स्फुट्ट, skd=स्फुट्ट

vcp

k1=स्फुट्ट, L=47393
स्फुट्ट¦ अनादरे चु० उ० सक० सेट् । स्फुट्टयति ते अपुस्फुट्टत् त ।


skd

k1=स्फुट्ट, L=40863
स्फुट्ट¦, क अनादरे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, स्फुट्टयति । इति दुर्गा-
दासः ॥


Match 1477: vcp=स्फुड, skd=स्फुड

vcp

k1=स्फुड, L=47394
स्फुड¦ वरणे तु० कु० पर० सक० सेट् । स्फुडति अस्फु-
डीत् पुस्फोड ।


k1=स्फुड, L=47395
स्फुड¦ विकाशे भ्वा० आत्म० अक० सेट् इदित् । स्फुण्डते अस्फुण्डिष्ट ।


k1=स्फुड, L=47396
स्फुड¦ परिहासे चु० उ० सक० सेट् इदित् । स्फुण्डयति ते
अपुस्फुण्डत् त ।


skd

k1=स्फुड, L=40864
स्फुड¦, इ क नर्म्मणि । इति कविकल्पद्रुमः ॥ (चरा०-
पर०-सक०-सेट् ।) नर्म्म इह परीहासः ।
इ क, स्फुण्डयति सखायं लोकः । पुष्फुण्डयिषति ।
आद्यस्वरीति कातन्त्राद्याः । पञ्चमस्वरयुक्तो
नर्म्मे । इति गोविन्दभट्टः । इति दुर्गादासः ॥


k1=स्फुड, L=40865
स्फुड¦, इ ङ फुल्ले । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) फुल्लं विकसनम् । इ,
स्फुण्ड्यते । ङ, स्फुण्डते कुन्दकोरकः । पुस्फुण्डे ।
इति दुर्गादासः ॥


k1=स्फुड, L=40866
स्फुड¦, शि वृत्याम् । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-सक०-सेट् ।) शि, स्फुडति । अस्फुडीत् ।
पुष्फोड । वृत्यां वरणे । इति दुर्गादासः ॥


Match 1478: vcp=स्फुर, skd=स्फुर

vcp

k1=स्फुर, L=47398
स्फुर¦ स्फूर्त्तौ तु० कुटा० प० अक० सेट् । स्फुरति अस्फु-
रीत् पुस्फोर । “चारु पुस्फोर व हुः” भट्टिः । णिचि-
स्फारयति ।


skd

k1=स्फुर, L=40869
स्फुर¦, शि स्फुर्त्तौ । चले । इति कविकल्पद्रुमः ॥
(तुदा०-चुरा०-पर०-अक०-सेट् ।) स्फुर्त्तिः
प्रकाशः । चलश्चलनम् । शि, स्फुरति चामरम् ।
अस्फुरीत् । पुस्फोर । इति दुर्गादासः ॥


Match 1479: vcp=स्फुर्च्छ, skd=स्फुर्च्छ

vcp

k1=स्फुर्च्छ, L=47401
स्फुर्च्छ¦ विस्मरणे भ्वा० प० सक० सेट् । स्फूच्छति अस्फू-
र्च्छीत् आदित् स्फूर्च्छितं स्फूणम् ।


skd

k1=स्फुर्च्छ, L=40875
स्फुर्च्छ¦, आ विस्मृतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) क्विपि राछ्वोर्लोपे
स्फूः स्फुरौ स्फुरः । आ स्फूर्च्छितं स्फूर्णं तेन ।
स्फूर्च्छति कथां मद्यपः । इति दुर्गादासः ॥


Match 1480: vcp=स्फुल, skd=स्फुल

vcp

k1=स्फुल, L=47404
स्फुल¦ स्फूर्त्तौ चले च अक० सञ्चये सक० तुदा० कृटा० प०
सेट् स्फुलति अस् फुलीत् । पुस् फोल ।


skd

k1=स्फुल, L=40879
स्फुल¦, शि स्फूर्त्तौ । चले । चये । इति कविकल्प-
द्रुमः ॥ (तुदा०-कुटा०-पर०-अक०-सेट् ।)
शि, स्फुलति अस्फुलीत् पुस्फौल । स्फूर्त्तिः
प्रकाशः । चलः स्खलनम् । चयः सञ्चयः ।
इति दुर्गादासः ॥


Match 1481: vcp=स्मि, skd=स्मि

vcp

k1=स्मि, L=47443
स्मि(ष्मि)¦ अनादरे सक० विस्मये अक० चु० आ० सेट् । स्मापयते
असिष्मपत । अयं षोपदेश एव । अन्यतो विस्मये स्माय-
यतीत्येव । अयं भ्वादिरपि अनिट् । स्मयते अस्मेष्ट
सिष्मिये षोपदेशत्वात् षत्वम् ।


skd

k1=स्मि, L=40930
स्मि¦, क ङ अनादरे । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-सक०-अनिट् ।) दन्त्यादिः ।
क ङ, स्माययते । इति दुर्गादासः ॥


Match 1482: vcp=स्मिट, skd=स्मिट

vcp

k1=स्मिट, L=47444
स्मिट¦ अनादरे सक० स्नेहे अक० चु० उभ० सेट् । स्मेटयति । ते असिस्मिटत् त


skd

k1=स्मिट, L=40931
स्मिट¦, क अनादरे । स्नेहे । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट् ।) ओष्ठ्यावर्गशेष-
युक्तः । क, स्मेटयति । इति दुर्गादासः ॥


Match 1483: vcp=स्मील, skd=स्मील

vcp

k1=स्मील, L=47446
स्मील¦ निमेषणे भ्वा० पर० सक० सेट् । स्मीलति अस्मीलीत् ।


skd

k1=स्मील, L=40933
स्मील¦, निमेषणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) ओष्ठ्यावर्गशेषयुक्तः ।
स्मीलति चक्षुः पक्ष्मभिरावृतं स्यादित्यर्थः ।
इति दुर्गादासः ॥


Match 1484: vcp=स्मृ, skd=स्मृ

vcp

k1=स्मृ, L=47447
स्मृ¦ स्मरणे भ्वा० प० अनिट् । स्मरति अस्मार्षीत् सस्मार सु-
स्मूर्षति । अषोपदेशत्वात् न षत्वम् । एतद्योगे कर्मणि षष्ठी ।
अयमौत्सुक्ये सक० घटा० स्मरयति ।


skd

k1=स्मृ, L=40934
स्मृ¦, स्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-अनिट् ।) स्मरति । स्मृतिर्ज्ञानविशेषः ।
तथा च ।
“सम्बिद्भगवती द्वेधा स्मृत्यनुभवभेदिका ॥”
इति तार्किकाः ॥
तेन ञौ अञ्यन्तकर्त्तुः कर्म्मत्वम् । गुरुः शिष्यं
शास्त्रं स्मारयति । इति दुर्गादासः ॥


k1=स्मृ, L=40935
स्मृ¦, म औत्क्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सक० इति केचित्-अनिट् ।) म,
स्मरयति । उत्कः उत्कण्ठितः तस्य भावः
औक्यमुत्कण्ठा । आध्याने इति प्राञ्चः । आ
समन्तात् ध्यानमाध्यानं इति कश्चित् । उत्-
कण्ठिका इति काशिकावृत्तिवोपदेवौ । उत्-
कण्टापूर्ब्बकं स्मरणमिति वृद्धाः । मुहुरनुस्मर-
यन्तमनुक्षपं त्रिपुरदाहमिति किराते । इति
दुर्गादासः ॥


Match 1485: vcp=स्यन्द, skd=स्यन्द

vcp

k1=स्यन्द, L=47453
स्यन्द¦ स्रवणे भ्वा० आ० लुङि, ऌटि, ऌङि च उभ० अक०
ऊदित् वेट् । स्यन्दते ऌदित् अस्यद्त अस्यन्दिष्ट अस्यन्त ।
तषोपदेशत्वेऽपि विधिबलान्निष्यन्दते इत्यादौ षत्वम् ।


skd

k1=स्यन्द, L=40946
स्यन्द¦, ऊ ङ व ऌ स्रुतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आ०-सक०-वेट् ।) अन्तःस्थाद्ययुक्तः ।
ऊ, अस्यन्दिष्ट अस्यन्त । ङ, स्यन्दते । व,
स्यनत्स्यति स्यन्दिष्यति । ऌ, अस्यदत् । लुतिः
क्षरणम् । प्रस्यन्दन्मदगन्धलुब्धमधुपेत्यत्र गण
कृतानित्यत्वमिति रमानाथः । वस्तुतस्तु प्रस्य-
न्दने प्रस्यन्दः पचादित्वादन् ततः प्रस्यन्द
इवाचरतीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥


Match 1486: vcp=स्यम, skd=स्यम

vcp

k1=स्यम, L=47462
स्यम¦ ध्वनने भ्वा० पर० अक० सेट् क्ता वेट् फणादि० । स्य
मति अस्यमीत् स्योमतु सस्यमतुः ।


k1=स्यम, L=47463
स्यम¦ वितर्के चु० उ० सक० सेट् । स्यामयति ते असिस्यमत् त ।


k1=स्यम, L=47464
स्यम¦ ध्वाने अद० चु० उभ० सक० सेट् । स्यमयति असिस्य०
मत् त ।


skd

k1=स्यम, L=40958
स्यम¦, उ ण श ध्वनने । इति कविकल्पद्रुमः ॥
(तुदा०-पर०-सक०-सेट् क्त्वावेट् ।) अन्तः-
स्थादियुक्तः । उ, स्यमित्वा स्यान्त्वा । ण,
स्येमतुः सस्यमतुः । श, स्यमती स्यमन्ती । इति
दुर्गादासः ॥
[Page5-465-a+ 52]
स्यम, ञ क वितर्के । इति कविकल्पद्रुमः ॥ (चुरा०-
उभ०-सक०-सेट् ।) अन्तःस्थादियुक्तः । अस्य
स्वार्थे ञौ ह्रस्वो न स्यात् प्रेरणे ञौ तु स्यादे-
वेति प्राञ्चः । स्वमते मनीषादित्वात् सिद्धिः ।
ञ क, स्यामयति स्यामयते लोकः पुरुषं स्थाणु-
त्वेन । इति दुर्गादासः ॥


k1=स्यम, L=40959
स्यम¦, त् क ध्वाने । इति कविकल्पद्रुमः ॥ (अदन्त-
चुरा०-पर०-सक०-सेट् ।) अन्तःस्थादियुक्तः ।
स्यमयति । इति दुर्गादासः ॥


Match 1487: vcp=स्रक, skd=स्रक

vcp

k1=स्रक, L=47475
स्रक¦ गतौ भ्वा० आत्म० सक० सेट् इदित् । स्रङ्कते अस्रङ्किष्ट


skd

k1=स्रक, L=40976
स्रक¦, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) इ, स्रङ्क्यते । ङ, स्रङ्कते ।
इति दुर्गादासः ॥


Match 1488: vcp=स्रन्स, skd=स्रन्स

vcp

k1=स्रन्स, L=47479
स्रन्स¦ पतने भ्वा० आत्म० लुङि उ० अक० सेट् उदित् क्त्वा
वेट् । स्रंसते इरित् अस्रसत् अस्रंसिष्ट । “नास्रसत्
करिणां ग्रैवम्” रघुः ।


k1=स्रन्स, L=47480
स्रन्स¦ प्रसादे भ्वा० आ० अक० सेट् उदित् क्त्वा वेट् । स्रंसते अस्रंसिष्ट ।


skd

k1=स्रन्स, L=40987
स्रन्स¦, ऌ उ ङ भ्रंशे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् । क्त्वावेट् ।) रेफ-
युक्तः दन्त्यादिः । ऌ, अस्रसत् । उ, स्रंसित्वा
स्रस्त्वा । ङ, स्रंसते । भ्रंशः अधःपतनम् । इति
दुर्गादासः ॥


k1=स्रन्स, L=40988
स्रन्स¦, ङ उ प्रसादे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-सेट् । क्त्वावेट् ।) ङ,
स्रंसते । उ, स्रंसित्वा स्रस्त्वा । प्रसादः प्रसन्नी-
भावः । इति दुर्गादासः ॥


Match 1489: vcp=स्रिम्भ, skd=स्रिन्भ *

vcp

k1=स्रिम्भ, L=47493
स्रिम्भ¦ हिंमे भ्वा० व० सक० सेट् उदित् क्त्वा वेट् । स्रिम्भति अस्रिम्भीत् ।


skd

k1=स्रिन्भ, L=41002
स्रिन्भ¦, उ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् । क्त्वावेट् ।) रेफयुक्तादिः ।
तृतीयस्वरी । उ, स्रिम्भिता स्रिब्ध्वा । इति
दुर्गादासः ॥


Match 1490: vcp=स्रिभ, skd=स्रिभ

vcp

k1=स्रिभ, L=47494
स्रिभ¦ हिंसे भ्वा० प० सक० सेट् उदित् क्त्वा वेट् । स्रेभति अस्रेभीत् ।


skd

k1=स्रिभ, L=41003
स्रिभ¦, उ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् । क्त्वावेट् ।) रेफयुक्तादिः ।
तृतीयस्वरी । उ, स्रेभित्वा स्रिब्ध्वा । इति
दुर्गादांसः ॥


Match 1491: vcp=स्रिव, skd=स्रिव

vcp

k1=स्रिव, L=47495
स्रिव¦ शोषे अक० दिवा० प० गतौ सक० सेट् उदित् क्त्वावेट् ।
स्रीव्यते अस्रेवीत् ।


skd

k1=स्रिव, L=41004
स्रिव¦, य उ शोषे । गती । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-सक०-सेट् । क्त्वावेट् ।) रेफ-
युक्तः । सकारादिः । तृतीयस्वरी । य, स्रीव्यति
उ, स्रेवित्वा । स्रित्वा । सिस्रेव । इति दुर्गादासः ॥


Match 1492: vcp=स्रु, skd=स्रु

vcp

k1=स्रु, L=47496
स्रु¦ गतौ सक० क्षरणे अक० भ्वा० प० अनिट् । स्रवति असुस्रुवत् ।


skd

k1=स्रु, L=41005
स्रु¦, स्रुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-स्रुतौ अक०-गतौ सक०-अनिट् ।)
स्रवति । इति दुर्गादासः ॥


Match 1493: vcp=स्रै, skd=स्रै

vcp

k1=स्रै, L=47504
स्रै¦ विकॢत्तौ--भ्वा० पर० अक० अनिट् । स्रायति अस्रासीत् ।


skd

k1=स्रै, L=41016
स्रै¦, पचि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-अनिट् ।) रेफयुक्तः । स्रायति । पचि
पाके । इति दुर्गादासः ॥


Match 1494: vcp=स्वग, skd=स्वग

vcp

k1=स्वग, L=47516
स्वग¦ सर्पणे भ्वा० प० सक० सेट् इदित् । स्वङ्गति अपङ्गीत् ।


skd

k1=स्वग, L=41034
स्वग¦, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) वकारमध्यः । इ, स्वङ्ग्यते ।
इति दुर्गादासः ॥


Match 1495: vcp=स्वठ, skd=स्वठ

vcp

k1=स्वठ, L=47527
स्वठ¦ गतौ संस्कारेऽसंस्कारे च चु० उ० सक० सेट् । स्वठयति--ते असिस्वठत्--त ।


skd

k1=स्वठ, L=41051
स्वठ¦, क गत्यसंस्कृतसंस्कृतेषु । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-सेट्) । क, स्वाठयति ।
इति दुर्गादासः ॥


Match 1496: vcp=स्वन, skd=स्वन

vcp

k1=स्वन, L=47539
स्वन¦ शब्दे भ्वा० पर० अक० सेट् । स्वनति अस्वनीत् अस्वा-
नीत् । फणा० स्वेनतुः सस्वनतुः । अयं भूषणे वा घटा०
(स्वा)स्वनयति ।


k1=स्वन, L=47540
स्वन¦ ध्वाने अद० चु० उभ० अक० सेट् । स्वनयति--ते असस्वनत्--त ।


skd

k1=स्वन, L=41065
स्वन¦, ण शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) वकारयुक्तः । स्वेनतुः
सस्वनतुः । अत्र स्वन ण स्वन च इत्युभयपाठो
लेखकप्रमादकृतः । इति दुर्गादासः ॥


k1=स्वन, L=41066
स्वन¦, त् क ध्वाने । इति कविकल्पद्रुमः ॥ (अदन्त
चुरा०-पर०-अक०-सेट् ।) वकारयुक्तः । स्वन-
यति । इति दुर्गादासः ॥


k1=स्वन, L=41067
स्वन¦, मि तंसने । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् ।) वकारयुक्तः । शब्दे इत्यनु-
वर्त्तते । तंसने भूषणे कर्त्तरि शब्देऽर्थेऽयमि-
त्यर्थः । स्वेनतुः सस्वनतुर्नूपुरौ । मि, स्वनयति
स्वानयति कङ्कणं बधूः । अन्यत्र स्वानयति
घण्टां जनः । इति दुर्गादासः ॥


Match 1497: vcp=स्वर, skd=स्वर

vcp

k1=स्वर, L=47563
स्वर¦ आक्षेपे अद० चुरा० उभ० सक० सेट् । स्वरयति--ते असस्वरत्--त ।


skd

k1=स्वर, L=41098
स्वर¦, त् क आक्षेपे । इति कविकल्पद्रुमः ॥
(अदन्त-चुरा०-पर०-सक०-सेट् ।) वकारयुक्तः
रेफोपधः । स्वरयत्यतिरुष्टोऽपि न कञ्चन परि-
ग्रहम् । इति हलायुधः । पञ्चमस्वरयुक्तः । इति
चतुर्भुजः । स्वरयति । इति दुर्गादासः ॥


Match 1498: vcp=स्वर्त्त, skd=स्वर्त्त

vcp

k1=स्वर्त्त, L=47625
स्वर्त्त¦ गतौ सक० दुखेन जीवने अक० चु० उ० सेट् । स्वर्त्तयति ते असस्वर्त्तत् त ।


skd

k1=स्वर्त्त, L=41178
स्वर्त्त¦, क गत्यातङ्के । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-गतौ सक०-आतङ्के अक०-सेट् ।) तङ्को
दुःखेन जीवनम् । क, स्वर्त्तयति जने गच्छति
दुःखेन जीवति वेत्यर्थः । असिस्वर्त्तत् । इति
दुर्गादासः ॥


Match 1499: vcp=स्वर्द्द, skd=स्वर्द *

vcp

k1=स्वर्द्द, L=47626
स्वर्द्द¦ प्रीतौ अक० प्रीणने लेहने च सक० भ्वा० आत्म० सेट् ।
[Page5386-a+ 38]
स्वर्दृते अस्वर्द्दिष्ट ।


skd

k1=स्वर्द, L=41179
स्वर्द¦, ङ, प्रीतिलिहोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् । प्रीतिः प्रीति-
करणम् । लिट्रसोपादानम् । ङ, स्वर्दते
विविधास्वादं स्वादते च रसायनमिति हला-
युधः । इति दुर्गादासः ॥


Match 1500: vcp=स्वस्क, skd=स्वस्क

vcp

k1=स्वस्क, L=47642
स्वस्क¦ गतौ व्या० आ० सक० सेट् । स्वस्कते असस्किष्ट ।


skd

k1=स्वस्क, L=41199
स्वस्क¦, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ङ, स्वस्कते । इति दुर्गा-
दासः ॥


Match 1501: vcp=स्वाद, skd=स्वाद

vcp

k1=स्वाद, L=47657
स्वाद¦ पीतौ अक० प्रीणने लेहने च सक० भ्वा० आ० सेट् । स्वादते आस्वादिष्ट ।


skd

k1=स्वाद, L=41217
स्वाद¦, ङप्रीतिलिहोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) दन्त्यादिः । प्रीतिः
प्रीतिकरणम् । लिट्रसोपादानम् । ङ ।
“अपां हि तृप्ताय न वारिधारा
स्वादुः सुगन्धिः स्वदते तुषारा ।”
इति श्रीहर्षः ।
“स्वर्दते विविधास्वादं स्वादते च रसायनम् ॥”
इति हलायुधः । इति दुर्गादासः ॥


Match 1502: vcp=स्वुर्च्छ, skd=स्वूर्च्छ *

vcp

k1=स्वुर्च्छ, L=47702
स्वुर्च्छ¦ विस्मृतौ भ्वा० प० सक० सेट् । स्वूर्च्छति अस्वूर्च्छीत् आदित् स्वूर्णं स्वूर्च्छितम् ।


skd

k1=स्वूर्च्छ, L=41279
स्वूर्च्छ¦, आ विस्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) दन्त्यादिः ह्नस्वी वकार-
[Page5-495-c+ 52]
युक्तः । क्विपि राछोर्लोपे स्वूः स्वुरौ स्वुरः ।
आ स्वूर्च्छितं स्वूर्णं तेन । स्वर्च्छति कथां
मद्यपः । इति दुर्गादासः ॥


Match 1503: vcp=स्वृ, skd=स्वृ

vcp

k1=स्वृ, L=47703
स्वृ¦ शब्दे अक० उपतापे सक० भ्वा० प० येट् । खरति अस्वा-
रीत् अस्वार्षीत् ।


skd

k1=स्वृ, L=41280
स्वृ¦, ऊ शब्दोपतापयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-शब्दे अक०-उपतापे सक०-वेट् ।)
दन्त्यादिर्वकारोपधः । ऊ, अस्वारीत् पिकः ।
अस्वार्षीत् खलं राजा । इति दुर्गादासः ॥


Match 1504: vcp=स्वॄ, skd=स्वॄ

vcp

k1=स्वॄ, L=47704
स्वॄ¦ हिंसने क्र्या० प्वा० प० सक० सेट् । स्वृणाति अस्वारीत् ।


skd

k1=स्वॄ, L=41281
स्वॄ¦, गि हिंसने । इति कविकल्पद्रुमः ॥ (क्र्या०-
पर०-सक०-अनिट् ।) दन्त्यादिर्वकारोपधः ।
तद्रहितोऽपीति केचित् । गि, स्वृणाति स्वूर्णः
स्वूर्णिः । इति दुर्गादासः ॥


Match 1505: vcp=स्वेक, skd=स्वेक

vcp

k1=स्वेक, L=47705
स्वेक¦ गतौ भ्वादि० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः ।
स्वेकते अस्वेकिष्ट ।


skd

k1=स्वेक, L=41282
स्वेक¦, ऋ, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) वकारयुक्तः । ऋ, असि-
स्वेकत् । ङ, स्वेकते । इति दुर्गादासः ॥


Match 1506: vcp=हट, skd=हट

vcp

k1=हट, L=47745
हट¦ दीप्तौ भ्वा० प० अक० सेट् । हटाति अहतीत्--अहातीत्


skd

k1=हट, L=41340
हट¦, त्विषि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) त्विषि दीप्तौ ॥ हटति । इति
दुर्गादासः ॥


Match 1507: vcp=हठ, skd=हठ

vcp

k1=हठ, L=47750
हठ¦ कीलबन्धे सक० बल त्कारे प्लुतौ च अक० भ्वा० पर० सेट् । हठति । अहाठात्--अहठात् ।


skd

k1=हठ, L=41345
हठ¦, कीलबन्धे । बलात्कृतौ । प्लुतौ । इति कवि-
कल्पद्रुमः ॥ (भा०-पर०-सक-प्लुतौ अक०-
सेट् ।) कीले वन्धः कीलबन्धः । हटति छागं
कीले बध्नाति इत्यर्थः । कातन्त्रादौ बलात्कार-
मात्रे । हठति परचक्रं बली । इति दुर्गादासः ॥


Match 1508: vcp=हद, skd=हद

vcp

k1=हद, L=47772
हद¦ विष्ठोत्सर्गे भ्वा० आ० अक० अनिट् । हदते अहत्त ।


skd

k1=हद, L=41372
हद¦, ङ औ ग्वर्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-अनिट् ।) ग्वर्थः विष्ठोत्सर्गः ।
ङ, हदते जनः । औ, हत्ता । इति दुर्गादासः ॥


Match 1509: vcp=हन, skd=हन

vcp

k1=हन, L=47774
हन¦ बधे गतौ च भ्वा० प० सक० अनिट् । हन्ति प्रणिहन्ति
प्रहन्व (ण्वः) जहि अवधीत् । जथान कर्मणि अघानि
अवधि । णिच् घातयति जिघांसति जघंन्यते” “कुञ्जं
हन्ति कुशादरि” इत्यादावालङ्कारिकाः गतौ निह-
तार्थतामाहुः ।
अभि + आघातभेदे केनचित् पदार्थेन संयोगभेदे अभिघातः ।
अव + तुपाद्यपसरसार्थव्यापारभेदे व्रीहीनवहन्ति ।
आ + केनचित् पदार्थेन संयोगानुकूलव्यापार आहन्ति आघातः ।
स्वाङ्गकर्मणि अकर्मत्वे च आत्म० वक्ष आहते ।
प्रति + आ + प्रत्याघाते प्रतिबन्धे प्रत्याहन्ति ।
वि + आ परस्परेण विरोधे बिगेषेण ताडिते च व्याहन्ति व्याघतः
उद् + ऊर्ध्वं गतौ उत्तोल्य हनने च ।
उप + उद् + आरम्भे उपोदथातः आरम्भार्थः सङ्गतिभेदः ।
नि + निशेषेण हनने स्वरान्तरथातेन उदात्तस्वरसम्पादने च
निर् + निःशेषेण हनने वज्रादिशब्दे च । “निर्घाते भूमि-
चसने मनुः ।
परा + प्रतिबन्धे निरोधे ।
प्रति + प्रतिराधे प्रतिकूलगतौ च ।
वि + अति + परस्परहनने व्यतिहारेऽपि न आत्म० । व्यतिघ्नन्ति योधाः ।
सम् + सम्यक् हनने समूहभावे अक० ।
हन् अव्य० हन--भावे विच् । १ रुषाक्तौ २ अनुनये च मेदि० ।
कर्त्तरि विच् । ३ हननकर्त्तरि त्रि० वृत्रहा ब्रह्महा ।


skd

k1=हन, L=41375
हन¦, ल औ गतौ । बधे । इति कविकल्पद्रुमः ।
(अदा०-पर०-सक०-अनिट् ।) ल, हन्ति ।
औ, हन्ता । गणकृतमनित्यमिति न्यायात् शप
स्थितौ हनतीत्यपि वररुचिः । तेन सर्व्वा
एवाहनत् पृथक् इत्यादि साधुः । इति दुर्गा-
दासः ॥


Match 1510: vcp=हम्म, skd=हम्म

vcp

k1=हम्म, L=47790
हम्म¦ गतौ भ्वा० प० सक० सेट् । हम्मति । अहम्मीत् ।


skd

k1=हम्म, L=41397
हम्म¦, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) मद्वयान्तः । हम्मति । इति
दुर्गादासः ॥


Match 1511: vcp=हय, skd=हय

vcp

k1=हय, L=47791
हय¦ गतौ सक० क्लान्तो अक० भ्वा० प० सेट । हयति
अहयीत् ।


skd

k1=हय, L=41398
हय¦, क्लमे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-क्लमे अक०-गतौ सक०-सेट् ।) हयति ।
क्लमो ग्लानिः । इति दुर्गादासः ॥


Match 1512: vcp=हर्य्य, skd=हर्य *

vcp

k1=हर्य्य, L=47889
हर्य्य¦ क्लमे अक० गतौ सक० भ्वा० पर० सेट् । हर्यति अह-
र्य्यीत् ।


skd

k1=हर्य, L=41533
हर्य¦, क्लमे । गतौ । इति कविकल्पद्रुमः ॥ भ्वा०-
पर०-क्लमे अक०-गतौ सक०-सेट् ।) रेफोपधः ।
हर्यति । क्लमो ग्लानिः । इति दुर्गादासः ॥


Match 1513: vcp=हल, skd=हल

vcp

k1=हल, L=47901
हल¦ विलेखे भ्वा० पर० सक० सेट् । हलति अहालीत् ज्वलादि० हलः हालः


skd

k1=हल, L=41547
हल¦, झ विलेखे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) झ, हालः हलः । हलति
भूमिं कृषकः । इति दुर्गादासः ॥


Match 1514: vcp=हस, skd=हस

vcp

k1=हस, L=47940
हस¦ हासे भ्वा० प० अक० सेट् एदित् सिचि न वृद्धिः ।
हसति अहसीत् । दोषदर्शनपूर्वकहासे तु सकर्मकः
“स्थितावहस्येव पुरं मघोनः” इति भट्टिः ।


skd

k1=हस, L=41597
हस¦, ए हासे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-उपहामे सक०-सेट् ।) ए, अह-
मात् । हामोऽपूर्ब्बप्रतीत्या कपोलस्य विकसिती-
करणम् । तत्रैवाकर्म्मकः । हसति शनैः शुष्क-
[Page5-526-b+ 52]
रुदितस्वरी । इति गोवर्द्धनः । यदा तु कस्य
चिद्दोषादिकमुद्दिश्य तत् स्यात्तदा सकर्म्मकः ।
हसन्तमन्तर्व्वलमर्व्वतां रवेरिति श्रीहर्षः ॥
हसन्ति साधवश्चीरम् । इति दुर्गादासः ॥


Match 1515: vcp=हा, skd=हा

vcp

k1=हा, L=47986
हा¦ त्यागे जु० प० स० अनिट् । जहाति जहति जहि
अहासीत् हीयते ओदित् निष्ठातस्य नः हीनः हानिः ।


k1=हा, L=47987
हा¦ गतौ जु० आ० स० अनिट् ओदित् निष्ठातस्य नः । जि-
हीते अहासिष्ट जहे हानम् ।


skd

k1=हा, L=41668
हा¦, ओ लि त्यागे । इति कविकल्पद्रुमः ॥ (ह्वा०-
पर०-सक०-अनिट् ।) ओ हाक त्यागे इति
प्रसिद्धोयम् । यत्र हाक इति ग्रहणं तत्रा-
स्यैव । तेन दामा गै हाक इत्यादि सूत्रेणास्य
हीयते इत्यादि । अन्यस्य हायते इत्यादि ।
ओ हीनः । लि जहाति । अकर्म्मकश्चायम् ।
यथा । स्वार्थाद्धीनः । एवं जहाति अपैति
स्वार्थो यस्यामिति जहत्स्वार्था वृत्तिः । इति
दुर्गादासः ॥


k1=हा, L=41669
हा¦, ओ ङ लिगतौ । इति कविकल्पद्रुमः ॥ (ह्वा०-
आत्म०-सक०-अनिट् ।) ओ, हानः । ङ लि,
जिहीते । इति दुर्गादासः ॥


Match 1516: vcp=हि, skd=हि

vcp

k1=हि, L=48031
हि¦ बर्द्धने गतौ च स्वा० पर० सक० अनिट् । हिनोति अहैपीत् जिघाय ।


skd

k1=हि, L=41734
हि¦, न वर्द्धने । गतौ इति कविकल्पद्रुमः । (भ्वा०-
पर०-सक०-अनिट् ।) गतिरिह अन्तर्भूत-
ञ्यर्थत्वात् गतिप्रेरणम् । न, प्रहिणु स्वसूनु-
मिति भट्टिः । वर्द्धने विरलप्रयोगः । इति दुर्गा-
दासः ॥


Match 1517: vcp=हिक्क, skd=हिक्क

vcp

k1=हिक्क, L=48039
हिक्क¦ कूजने भ्वा० उ० अ० सेट् । हिक्कति ते अहिक्कीत् अहिक्किष्ट ।


k1=हिक्क, L=48040
हिक्क¦ हिसायां चु० आ० सक० सेट् । हिक्कयते अजिहिक्कत ।


skd

k1=हिक्क, L=41750
हिक्क¦, ञ कूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-अक०-सेट् ।) कोपधः । ञ, हिक्कति
हिक्कते । कूजोऽव्यक्तशब्दः । हिक्वायामेवाय-
मिति भट्टमल्लः । हिक्वति लोकः । इति दुर्गा-
दासः ॥


k1=हिक्क, L=41751
हिक्क¦, क ङ हिंसे । इति कविकल्पद्रुमः ॥ (चुरा०-
आत्म०-सक०-सेट् ।) कोपधः । क ङ, हिक्क-
यते । इति दुर्गादासः ॥


Match 1518: vcp=हिल, skd=हिल

vcp

k1=हिल, L=48125
हिल¦ हावकरणे तु० प० अक० सेट् । हिलति अहेलीत् ।


skd

k1=हिल, L=41871
हिल¦, श हावकृतौ । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-अक०-सेट् ।) एकोऽर्थः । श, हिलति
तरुण्या तरुणः । इति दुर्गादासः ॥


Match 1519: vcp=हिल्लोल, skd=हिल्लोल

vcp

k1=हिल्लोल, L=48128
हिल्लोल¦ दालने अद० चु० उभ० सक० सेट् । हिल्लालयति ते
अजिहिल्लोलत् त ।


skd

k1=हिल्लोल, L=41876
हिल्लोल¦, त् क दोलने । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-अक०-सेट् ।) अन्तःस्थ-
तृतीयद्वयमध्यस्तदेकोपधश्चायम् । अजिहि-
ल्लोलद्वायुर्लताम् । इति दुर्गादासः ॥


Match 1520: vcp=हिव, skd=हिव

vcp

k1=हिव, L=48131
हिव¦ प्रीणने स्वा० प० सक० सेट् इदित् । हिन्वति अहिन्वोत् ।


skd

k1=हिव, L=41879
हिव¦, इ प्रीतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) इ, हिम्बते । प्रीतिरिह
प्रीतिकरणम् । हिम्बति लोकः पितरम् । इति
दुर्गादासः ॥


Match 1521: vcp=हिस, skd=हिस

vcp

k1=हिस, L=48133
हिस¦ बधे वा चु० उ० पक्षे रुधा० प० सक० सेट् इदित् ।
हिनस्ति हिंसयति ते अहिसीत् अजिहिंसत् त ।


skd

k1=हिस, L=41881
हिस¦, इ ध कि हिंसे । इति कविकल्पद्रुमः ॥
(रुधा०-चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।)
इ, हिंस्यते । ध, हिनस्ति । कि, हिंसयति
हिंसति । हन्त्यर्थेनैव पाक्षिकचुरादित्वे सिद्धे
किकरणं भ्वादित्वार्थनम । इति दुर्गादासः ॥


Match 1522: vcp=हु, skd=हु

vcp

k1=हु, L=48144
हु¦ हीमे अदने च जु० प० सक० अनिट् । जुहोति अहौषीत्
जहाव । प्रीणने च । “जुहुधीह पावकम्” किरा० ।


skd

k1=हु, L=41900
हु¦, लि होमे । अदने । इति कविकल्पद्रुमः ॥
(जु०-पर०-सक०-अनिट् ।) होमो देवता-
सम्प्रदानकवह्न्यधिकरणकवस्तुत्यागः । लि,
जुहोति घृतमग्नौ कृष्णाय होता । प्रक्षेपे-
ऽप्ययम् ।
“चिराय सन्तर्प्य समिद्भिरग्निं
यो मन्त्रपूतां तनुमप्यहौषीत् ।”
इति रघुः ।
“जटाधरः सन् जुहुधीह पावकम् ।”
इति किराते प्रीणनार्थोऽपि । इति दुर्गादासः ॥


Match 1523: vcp=हुड, skd=हुड

vcp

k1=हुड, L=48146
हुड¦ राशीकरणे सक० मज्जने संघाते च अक० तु० कु० प०
सेट् । हुडति अहुडीत् जुहोड ऋदित् चङि न ह्रस्वः ।


k1=हुड, L=48147
हुड¦ राशीकरणे भ्वा० आ० सक० सेट् इदित् । हुण्डते
अहुण्डिष्ट ।


k1=हुड, L=48148
हुड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः होडते अहोडिष्ट ।


skd

k1=हुड, L=41902
हुड¦, इ ङ संहे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) इ, हुण्ड्यते । ङ, हुण्डते
धनं लोकः । राशीकरोतीत्यर्थः । इति दुर्गा-
दासः ॥


k1=हुड, L=41903
हुड¦, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अजुहोडत् । ङ,
होडते । इति दुर्गादासः ॥


k1=हुड, L=41904
हुड¦, शि मग्ने । संहे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-मग्ने अक०-संहे सक०-सेट् ।) शि,
हुडति अहुडीत् जुहोड । मग्नमिह मज्जनम् ।
इति दुर्गादासः ॥


Match 1524: vcp=हुर्च्छ, skd=हुर्च्छ

vcp

k1=हुर्च्छ, L=48160
हुर्च्छ¦ कौटिल्ये भ्वा० प० सक० सेट् । हूर्च्छति अहूर्च्छीत्
ह्रस्वपाटवशात् क्विपि छलोपे हूः हुरौ हुर इत्यादि ।


skd

k1=हुर्च्छ, L=41918
हुर्च्छ¦, आ कौटिल्यके । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-सेट् ।) ह्रस्वी । क्विपि
राछ्वोर्लोपे हूः हुरो हुरः । आ हुर्च्छितं हूर्णं
तेन । हुर्च्छिति खलः कुटिलः स्यादित्यर्थः ।
हुर्च्छति चौरः अपसरतीत्यर्थः । इति धातु-
प्रदीपः । इति दुर्गादासः ॥


Match 1525: vcp=हुल, skd=हुल

vcp

k1=हुल, L=48161
हुल¦ हतौ संवरणे च भ्वा० प० सक० सेट् । होलति
अहोलीत् ज्वला० हुलः होलः ।


skd

k1=हुल, L=41919
हुल¦, ज, हतिसम्बरणयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) ज, होलः हुलः ।
इति दुर्गादासः ॥


Match 1526: vcp=हूड, skd=हूड

vcp

k1=हूड, L=48165
हूड¦ गतौ म्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः ।
हूडते अहूडिष्ट ।


skd

k1=हूड, L=41926
हूड¦, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ॠ, अजुहूडत् । ङ,
हूडते । इति दुर्गादासः ॥


Match 1527: vcp=हृ, skd=हृ

vcp

k1=हृ, L=48173
हृ¦ हरणे भ्वा० उ० द्वि० अनिट् । हरति ते अहार्षीत् अहृत
जहार जह्रे हरिष्यति ते । मुख्ये कर्मणि लकारादि ।
ह्रिरयते अहारि अहारिषाताम् अहृषाताम् जिहीर्षति ते
अनु + सदृशीकरणे आ० अनुहरते पैतृकमश्वः ।
अप + दूरीकरणे अपहरति अपसारयतीत्यर्थः चौर्य्ये च ।
अभि + आभिमुख्येन हरणे ।
सम् + अभि + पौनः पुण्येन सम्पादने ।
अभि + अव भोजने अभ्यवहरति भुङ्क्ते इत्यर्थः ।
सम् + अभि + वि + आ + नैकट्यसम्बन्धसम्पादने ।
अव + दूरीकरणे सैन्यावहारः ।
[Page5433-a+ 38]
वि + अव विवादे शयनभोजनादिना संसर्गे उपभोगे च ।
आ + भोजने आहारः । नानास्थानस्थितानामेकत्रसङ्कलने च
अधि + आ + तर्के अन्थत्रश्रुतपदस्यान्वयार्थमाकर्षणे च ।
अभि + आ + आभिमुख्येनाहरणे ।
उद् + आ + दृष्टान्ततयोपन्थासे कथने च ।
प्रति + उद् + आ--प्रतिरूपतया उपन्यासे ।
परि + आ + परित आहरणे
प्रति + आ + तन्त्रेण पठितानामेकैकस्य ग्रहणे प्रत्याहारः विषयेभ्यो मनसो निवारणे च
वि + आ--कथने शब्दोत्पादकव्यापारे ।
सम् + आ--संग्रहे नानास्थानस्थितानामेकत्रोपन्यासे संघाते च
उद् + उत्तोलने उत्क्षेपणे च ।
अभि + उद् + आभिमुख्येन उद्धरणे । अभितो वा उत्क्षेपणे ।
प्रति + उद् + प्रतिकूलतया प्रातिरूप्येण वा उद्धरणे ।
उप + सामीप्येन आनतीकरणार्थं दाने उपढौकने ।
प्रति + उप + प्रतिरूपतया उपढौकने ।
नि + नितरां हरणे हिमनिस्नवणे च ।
निस् + (र)बहिष्करणे अपसारणे च ।
परि + दोषादिनिवारणे ।
प्र + ताडने निथाते ।
प्रति + प्र + प्रतिरूपतथा ताडने ।
प्रति + प्रत्थेकहरणे प्रतिरूपतया हरणे च ।
वि + देशविशेषेषु गत्यादिना सन्तोषकरणार्थव्यापारे विहारः ।
वि + अति परस्परमेकजातीयक्रियाकरणे आ० ।
सम् + मारणे ताडने च ।
उप + सम् + प्रकरणपठितस्य समापने अन्यत्र पठितस्यान्यत्रा योजने यथा गुलोपसंहारः ।


k1=हृ, L=48174
हृ¦ बलात्कारहरणे जु० पर० सक० अनिट् वैदिकः । जहर्त्ति
अहार्षीत् ।


skd

k1=हृ, L=41935
हृ¦, ञ हृत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
उभ०-द्विक०-अनिट् ।) हृतिर्देशाद्देशान्तर-
प्रापणा । ञ, हरति हरते गां वनं गोपः ।
इति दुर्गादासः ॥


k1=हृ, L=41936
हृ¦, लि र प्रसह्यकृत्याम् । इति कविकल्पद्रुमः ॥
(जु०-पर०-सक०-अनिट् ।) प्रसह्यकृतिर्बलात्-
कारः । लि, जहर्त्ति धनं दस्युः । र वैदिकः ।
इति दुर्गादासः ॥


Match 1528: vcp=हृष, skd=हृष

vcp

k1=हृष, L=48201
हृष¦ चित्तोत्साहे म्वा० पर० अक० सेट् । हर्षति अहर्षीत् । उदित् हृषित्वा हृष्ट्वा हृष्टः ।


k1=हृष, L=48202
हृष¦ हर्षे चित्तोत्साहे दि० प० अ० सेट् । हृष्यति इरित्
अहृषत् अहर्षीत् ञीत् हृष्टोऽस्ति ।


k1=हृष, L=48203
हृष¦ मिथ्याकरणे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट् । हर्षति अहर्षीत् ।


skd

k1=हृष, L=41975
हृष¦, उ हृष्टौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-अक०-सेट् । क्वावेट् ।) हृष्टिश्चित्तोत्साहः ।
उ, हर्षित्वा हृष्ट्वा । क्त्वा इमो वेटत्वान्नेम डी-
श्वीत्वादिना इमे निषेधे निष्ठायां हृष्टः
अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥


k1=हृष, L=41976
हृष¦, उ ञि अलीके । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् । क्वावेट् ।) उ, हर्षित्वा
हृष्ट्वा । ञि, हृष्टोऽस्ति । अलीकं मिथ्याकरणम् ।
हर्षति कथां नीचः मिथ्या करोति इत्यर्थः ।
इति दुर्गादासः ॥


k1=हृष, L=41977
हृष¦, य ञि इर् हृष्टौ । इति कविकल्पद्रुमः ॥
(दिवा०-पर०-अक०-सेट् ।) य, हृष्यति लोकः
सुखात् । ञि, हृष्टोऽस्ति । इर अहृषत् अह-
र्षीत् । अस्मात् पुषादित्वा न्नित्यं ङ, इत्यन्ये ।
इति दुर्गादासः ॥


Match 1529: vcp=हेठ, skd=हेठ

vcp

k1=हेठ, L=48213
हेठ¦ विघाते भ्वा० प० सक० सेट । हेठति प्रहेठीत् ।


k1=हेठ, L=48214
हेठ¦ भूतौ उत्पत्तौ च अक० पविनीकरणे सक० तु० प० सेट् ।
हेठति अहेठीत् ।


k1=हेठ, L=48215
हेठ¦ बाधने भ्वा० आ० सक० सेट् ऋदित् षङि न ह्रस्वः । हेठते सहेठिष्ट ।


skd

k1=हेठ, L=41988
हेठ¦, वाधे । इति कविकल्पद्रुमः ॥ भ्वा०-पर०-
सक०-सेट् । हेठति । वाधो विहतिः । इति
दुर्गादासः ॥


k1=हेठ, L=41989
हेठ¦, ॠ ङ वाधे । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ॠ, अजिहेठत् । ङ,
हेठते मत्सरः साधुम् । इति दुर्गादासः ॥


k1=हेठ, L=41990
हेठ¦, श खचे । इति कविकल्पद्रुमः ॥ (तुदा०-
पर०-उत्पत्तौ अक०-पवित्रीकरणे सक०-सेट् ।)
खचो भूतिपूत्योरुत्पत्तिः । श, हेठती हेठन्ती ।
इति दुर्गादासः ॥


Match 1530: vcp=हेड, skd=हेड

vcp

k1=हेड, L=48217
हेड¦ अनादरे भ्वा० आ० सक० सेट् ऋदित् षङि न ह्रस्वः
हेडते अहेडिष्ट ।


k1=हेड, L=48218
हेड¦ वेष्टने भ्वा० प० सक० सेट् । घटा० । हेडति अहेडीत् ।


skd

k1=हेड, L=41992
हेड¦, ङ ऋ अनादरे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ङ, हेडते
जिहेडे । ऋ, अजिहेडत् । इति दुर्गादासः ॥


k1=हेड, L=41993
हेड¦, म वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) म, हेडयति अहिडि अहीडि
हिडं हिडं हीडं हीडम् । एकारस्य ह्रस्व-
विधाने कण्ठ्यत्वेन समानोऽप्यकारो न स्यात्
एचो युत्स्वमित्युक्तेरिकार एव स्यात् । इका-
रस्य दीर्घविधौ ईकार एव एकारस्य आंशिक-
कण्ठ्यत्वेन विरुद्धत्वात् । केचित्तु दीर्घत्वे गुणं
विधाय अहिडि अहेडीत्यादि मन्यन्ते । इति
दुर्गादासः ॥


Match 1531: vcp=हेष, skd=हेष

vcp

k1=हेष, L=48276
हेष¦ अश्वशब्दे भ्वा० आ० अ० सेट् ऋदित् चङि न ह्रखः ।
हेषते अहेषिष्ट ।


skd

k1=हेष, L=42068
हेष¦, ऋ ङ अश्वानां स्वने । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म० अक०-सेट् ।) ङ, हेषते घोटकः ।
जिहेषे । ऋ, अजिहेषत् । इति दुर्गा-
दासः ॥


Match 1532: vcp=होड, skd=होड

vcp

k1=होड, L=48292
होड¦ गतौ अनादरे च भ्वा० आ० सक० सेट् ऋदित् चङि
न ह्रस्वः । होडते अहोडिष्ट ।


skd

k1=होड, L=42093
होड¦, ऋ ङ गतौ । अनादरे । इति कविकल्प-
द्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अजु-
होडत् । ङ, होडते । इति दुर्गादासः ॥


Match 1533: vcp=हौड, skd=हौड

vcp

k1=हौड, L=48312
हौड¦ अनादरे गतौ च भ्वा० आ० सक० सेट् ऋदित् चङि
न ह्रस्वः । हाडते अहौडिष्ट ।


skd

k1=हौड, L=42118
हौड¦, ऋ ङ गतौ, अनादरे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) चतुर्द्दशस्वरी ।
ऋ, अजुहौडत् । ङ, हौडते । इति दुर्गादासः ॥


Match 1534: vcp=ह्नु, skd=ह्नु

vcp

k1=ह्नु, L=48314
ह्नु¦ चौर्य्ये अदा० आत्म० सक० अनिट् । ह्नुते अह्नोष्ट ।


skd

k1=ह्नु, L=42122
ह्नु¦, ङ लु चौर्य्ये । इति कविकल्पद्रुमः ॥ (अदा०-
आत्म०-सक०-अनिट् ।) ङ लु, ह्नुते । इति
दुर्गादासः ॥


Match 1535: vcp=ह्मल, skd=ह्मल

vcp

k1=ह्मल, L=48315
ह्मल¦ चलने भ्वा० प० अक० सेट् । ह्मलति अह्मालीत् ।
घटा० । प्रह्मलयति अनुपसर्गस्य बा ह्रस्वः ।


skd

k1=ह्मल, L=42123
ह्मल¦, म चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) म, प्रह्मलयति । मित्वेऽप्यस्य ञौ
ज्वलह्वलह्मल इत्यादिना केवलस्य ह्रस्वविकल्व-
नात् सोपसर्गस्यैव नित्यं ह्रस्वः । ह्मालयति
ह्मलयति । चालश्चलनम् । इति दुर्गादासः ॥


Match 1536: vcp=ह्रग, skd=ह्रग

vcp

k1=ह्रग, L=48318
ह्रग¦ संवरणे भ्वा० पर० सक० सेट् घटा० एदित् सिचि न वृद्धिः । ह्रगति अह्रगीत ।


skd

k1=ह्रग, L=42127
ह्रग¦, म ए संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) रेफमध्यः । म, ह्रमयति ।
ए, अह्रगीत् । इति दुर्गादासः ॥


Match 1537: vcp=ह्रप, skd=ह्रप

vcp

k1=ह्रप, L=48321
ह्रप¦ भाषणे चु० उ० सक० सेट् । ह्रापयति ते अजिह्रपत् त ।


skd

k1=ह्रप, L=42132
ह्रप¦, क भाषणे । (चुरा०-पर०-सक०-सेट् ।)
रेफयुक्तादिरित्येके । क, ह्रापयति । भाषणं
कथनम् । इति कविकल्पद्रुमटीकायां ह्लपधातु-
कथने दुर्गादासः ॥


Match 1538: vcp=ह्रस, skd=ह्रस

vcp

k1=ह्रस, L=48322
ह्रस¦ रवे भ्वा० प० सक० सेट् । ह्रसति अह्रसीत् अह्रासीत


skd

k1=ह्रस, L=42133
ह्रस¦, रवे । इति कविकल्पद्रुमः । (भ्वा०-पर०-अक०-
सेट् ।) रेफयुक्तः । ह्रसति । इति दुर्सादासः ॥


Match 1539: vcp=ह्राद, skd=ह्राद

vcp

k1=ह्राद, L=48339
ह्राद¦ स्वने भ्वा० आ० अक० सेट् । ह्रादते अह्रादिष्ट ।


skd

k1=ह्राद, L=42156
ह्राद¦, ङ स्वने । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-अक०-सेट् ।) रेफयुक्तो द्वितीयस्वरी ।
ङ, ह्रादते । इति दुर्गादासः ॥


Match 1540: vcp=ह्री, skd=ह्री

vcp

k1=ह्री, L=48345
ह्री¦ लज्जायां जु० प० अक० अनिट् । जिह्रेति अह्रैषीत् । णिचि ह्रेपयति ते ।


skd

k1=ह्री, L=42165
ह्री¦, लि लज्जे । इति कविकल्पद्रुमः ॥ (ह्वा०-
पर०-अक०-अनिट् ।) लि, जिह्रेति नीच-
सङ्गत्या यः । इति दुर्गादासः ॥


Match 1541: vcp=ह्रीच्छ, skd=ह्रीच्छ

vcp

k1=ह्रीच्छ, L=48349
ह्रीच्छ¦ लज्जायाम् भ्वा० प० अक० सेट् । ह्रीच्छति अह्रीच्छीत् ।


skd

k1=ह्रीच्छ, L=42170
ह्रीच्छ¦, लज्जे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) रेफयुक्तादिचतुर्थस्वरी । ह्रीच्छति
बधूः । इति दुर्गादासः ॥


Match 1542: vcp=ह्रुड, skd=ह्रुड

vcp

k1=ह्रुड, L=48353
ह्रुड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः ।
ह्रोडते अह्रोडिष्ट ।


skd

k1=ह्रुड, L=42177
ह्रुड¦, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अज-
ह्रूडत् । अजुह्रोडत् । ङ, ह्रूडते । ह्रोडते ।
इति दुर्गादासः ॥


Match 1543: vcp=ह्रूड, skd=ह्रूड

vcp

k1=ह्रूड, L=48354
ह्रूड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः ह्रूडति अह्रूडिष्ट


skd

k1=ह्रूड, L=42178
ह्रूड¦, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अज-
ह्रूडत् । अजुह्रोडत् । ङ, ह्रूडते । ह्रोडते ।
इति दुर्गादासः ॥


Match 1544: vcp=ह्रेप, skd=ह्रेप

vcp

k1=ह्रेप, L=48355
ह्रेप¦ गतौ भ्वा० आ० सक० सेट् । ऋदित् चङि न ह्रस्वः ।
ह्रेपते अह्रेपिष्ट ।


skd

k1=ह्रेप, L=42179
ह्रेप¦, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सफ०-सेट् ।) ऋ, अजिह्रेपत् । ङ,
ह्रेपते जिह्रेपे । इति दुर्गादासः ॥


Match 1545: vcp=ह्रेष, skd=ह्रेष

vcp

k1=ह्रेष, L=48356
ह्रेष¦ अश्वशब्दे अक० सर्पणे सक० भ्वा० आ० सेट् ऋदित्
चङि न ह्रस्वः । ह्रेषते अह्रेषिष्ट ।


skd

k1=ह्रेष, L=42180
ह्रेष¦, ऋ ङ सर्पणे । अश्वस्वने । इति कविकल्प-
द्रुमः ॥ (भ्वा०-आत्म०-अश्वशब्दे अक०-सर्पणे
सक०-सेट् ।) रेफयुक्ताद्यः । ऋ, अजिह्रेषत् ।
ङ, ह्रेषतेजिह्रेषे । ङ, हेषृ च स्वनेऽश्वानाम् । ङ,
हेषते घोटकः जिहेषे । ऋ, अजिहेषत् ।
चकारात् ह्रेषृ ङ च । मधुरमधुपं ह्रेषन्त्येते ।
[Page5-555-b+ 43]
इति गणकृतानित्यत्वात् । वस्तुतस्तु पचादित्वा-
दनि ह्रेषा इवाचरन्तीति क्वौ साध्यम् । इति
दुर्गादासः ॥


Match 1546: vcp=ह्रौड, skd=ह्रौड

vcp

k1=ह्रौड, L=48358
ह्रौड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह स्वः ।
ह्रौडते अह्रौडिष्ट ।


skd

k1=ह्रौड, L=42182
ह्रौड¦, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-
आत्म०-सक०-सेट् ।) ऋ, अजुह्रौडत् । ह्रौडते ।
इति दुर्गादासः ॥


Match 1547: vcp=ह्लग, skd=ह्लग

vcp

k1=ह्लग, L=48359
ह्लग¦ संवरणे भ्वा० प० सक० सेट् घटा० एदित् सिचि न द्धद्धि । ह्लगति अह्लगीत् ।


skd

k1=ह्लग, L=42183
ह्लग¦, म ए संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) म, ह्लगयति अह्वगीत् ।
इति दुर्गादासः ॥


Match 1548: vcp=ह्लप, skd=ह्लप

vcp

k1=ह्लप, L=48360
ह्लप¦ भाषणे वु० उ० द्विक० सेट् । ह्लापयति ते अजिह्लपत् त ।


skd

k1=ह्लप, L=42184
ह्लप¦, क भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) क, ह्लापयति । रेफयुक्तादि-
रित्येके । ह्रापयति । अन्तःस्थतृतीययुक्तः कण्ठ्य-
वर्गाद्यादिरिति दुर्गसिंहादयः । क्लापयति अचि-
क्लपत् । भाषणं कथनम् । इति दुर्गादासः ॥


Match 1549: vcp=ह्लस, skd=ह्लस

vcp

k1=ह्लस, L=48361
ह्लस¦ रवे भ्वा० प० अ० सेट् । ह्लसति अह्लसीत् अह्लासीत् ।


skd

k1=ह्लस, L=42185
ह्लस¦, रवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
अक०-सेट् ।) ह्लसति । इति दुर्गादासः ॥


Match 1550: vcp=ह्लाद, skd=ह्लाद

vcp

k1=ह्लाद, L=48362
ह्लाद¦ शब्दे भ्वा० अत्म० अक० मोदने सक० सेट् ईदित
निष्ठायामनिट् । ह्लादते अह्लादिष्ट । ह्लादः ।
आ + आनन्दे अक० आह्लादः ।


skd

k1=ह्लाद, L=42186
ह्लाद¦, ई ङ मोदने । स्वने । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-अक०-मोदने सक०-सेट् । निष्ठा-
यामनिट् ।) मोदनं हृष्टीकरणं हृष्टीभावश्च ।
ई, ह्लन्नः । ङ, ह्लादते चन्दनो गात्रम् । बलात्
प्रह्लादते मनः । इति किराते । इति दुर्गादासः


Match 1551: vcp=ह्वल, skd=ह्वल

vcp

k1=ह्वल, L=48364
ह्वल¦ चलने भ्वा० प० अक० सेट् । ह्वलति अह्वालीत् । घटा०
प्रह्वलयति अलपसर्गस्य वा ह्रस्वः ह लयति ह्वालयति ।


skd

k1=ह्वल, L=42193
ह्वल¦, म चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
सक०-सेट् ।) म, प्रह्वलयति । मित्वेऽप्यस्य ञौ
ज्वलह्वल इत्यादिना केवलस्य ह्रस्वविकल्पनात्
सोपसर्गस्य नित्यं ह्रस्वः । ह्ललयति ह्लालयति ।
चालश्चलनम् । इति दुर्गादासः ॥


Match 1552: vcp=ह्वे, skd=ह्वे

vcp

k1=ह्वे, L=48367
ह्वे¦ स्पर्द्धायां शब्दे च अक० आह्वानार्थे मक० भ्वा० उभ० यजा
अनिट् । ह्वायति अह्वत्--अह्वत अह्वास्त सम्प्र० जु-
हाव आहूतः आहूतिः ।
आ + स्पर्द्धायाम् आत्म० शत्रुमाह्वयते । शिवम् ।
ओं तत्सत् ।


skd

k1=ह्वे, L=42195
ह्वे¦, ञ ऐ स्पर्द्धे । शब्दे । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-शब्दे अक०-स्तर्द्धे-सक०-अनिट् ।)
स्पर्द्धः पराभिभवेच्छा । इति वोपदेवः ॥ ञ,
ह्रयति ह्रयते मल्लो मल्लमभिभवितुमिच्छति ॥
ह्वयति जनं लोकः । आह्वयतीत्यर्थः । ऐ हूयात् ।
गोविन्दभटुस्तु स्पर्द्धाविषये व्यक्तवाक्येऽयमि-
त्याह । इति दुर्गादासः ॥