These are verb records from VCP dictionary which, thus far, are not matched with a verb record from SKD; and vice-versa.
March 04 2020
VCP | SKD |
---|---|
Case 0001: vcp=अंह k1=अंह, L=32
अंह¦ भासने अद० उभ० । अंहयति ते आञ्जिहत् त । Case 0002: vcp=अगद k1=अगद, L=217
अगद¦ नीरोगत्वे कण्ड्वा० पर० । अगद्यति आगद्यीत्--आगदीत् । Case 0003: vcp=अट k1=अट, L=784
अट¦ गतौ भ्वादि० सक० पर० सेट् । अटति आटीत् । “भो वटी भिक्षामटेति” सि० कौ । परि + परितो भ्रमणे पर्य्यटन् । k1=अट, L=785 अट¦ गगौ इदित् भ्वा० आत्म० सक० सेट् । आण्टते आण्टिष्ट । Case 0004: vcp=अन्चु k1=अन्चु, L=2185
अन्चु¦ गतौ अचिवत् ८२ पृ० दृश्यम् । Case 0005: vcp=अन्दोल k1=अन्दोल, L=2361
अ(आ)न्दोल¦ दोलने अद० चु० उभ० सक० सेट् । अ(आ)न्दोसयति ते आन्दुदोलत्--त । ल्युट् । अ(आ)न्दो- लनम् “किन्त्वासामरविन्दसुन्दरदृशां द्राक्चामरान्दोल- [Page0208-b+ 38] नादि” त्युद्भटः । अ(आ)न्दोलितः । चुरादेराकृतिगणत्व- नायमुत्प्रेक्षितः स च दीर्घादिः । “आन्दोलत् क दोलने इति कविकल्पद्रुमोक्तेः ह्रस्वान्त इत्यन्ये तन्मूलं मृग्यम् । Case 0006: vcp=अन्ध k1=अन्ध, L=2362
अन्ध¦ दृष्टिविघाते अद० चु० उभ० धात्वर्थगृहीतकर्म्मकत्वा- दकर्मकः सेट् । अन्धयति--ते आन्दिधत्--त । अन्धयन् अन्धितः । “कनकमृगतृष्णान्धितधियेति” सा० द० । दृष्टिरत्र नेत्रेन्द्रियजं प्रत्यक्षं विवेकज्ञानञ्च तद्विघाताश्रयस्य कर्त्तृत्वम् । Case 0007: vcp=अम k1=अम, L=3749
अम¦ रीगे चुरा० उभय० सेट् अक० पीडने सक० । अमयति- ने आमिमत् त । “यस्या उदरमामयत्” ॠ० १०८६, ८ मा च नः किञ्चनाममत्” अथ० ६, ३७, ३ । अमितः- आन्तः घञादौ कृति अमः--आमः अमी--आमी । k1=अम, L=3750 अम¦ गतौ भोजने भ्वादि० सक० शब्दे च अक० सेट् प० । अमति आमीत् । “किशूरपत्निनस्त्वमभ्यमीषि” १०, ८६, ८ वेदे शपोलुकि ईट् । अमतः अमतिः अमनिसः । Case 0008: vcp=अम्ब k1=अम्ब, L=3918
अम्ब¦ गतौ म्बादि० पर० सक० सेट् । अम्बति आम्बीत् आनम्ब अम्बा अम्बालिका अम्बिका अयमिदित् शब्दे इत्येके । Case 0009: vcp=अम्बर k1=अम्बर, L=3923
अम्बर¦ आभरणे कण्ड्वा० । अम्बर्य्यति । Case 0010: vcp=अम्भ k1=अम्भ, L=3980
अम्भ¦ ध्वनौ भ्वा० आ० अक० सेट् । अम्भते आम्भिष्ट आनम्भे आनभे अयम् इदित्येके तेन आनम्भे इत्येव । अम्भः Case 0011: vcp=अय k1=अय, L=4043
अय¦ गतौ भ्वा० आ० सक० सेट् । अयते आयिष्ट अयाम्बभूव अयामास अयाञ्चक्रे । अस्य परस्मैपदित्वमपि “अय मुदयति मुद्राभञ्जनः पद्मिनीनामित्युद्भटः “शुचोदयन् दीधितिमुक्थशासः यजु० १९ ६९ । “उदयति विततो- र्द्धरश्मिः” माघः । Case 0012: vcp=अर्ज k1=अर्ज, L=4388
अर्ज¦ प्रतियत्ने भ्वादि० पर० सक० सेट् । अर्ज्जति, आर्ज्जीत् आनर्ज अर्जकः अर्जितः अर्जितवान् अर्जित्वा उपार्ज्य अर्जन् । “अर्जकोद्व्यंशमाहारेत् । दाय० स्मृ० “न तत्पुत्रै- र्भजेत्सार्द्धमकामः स्वयमर्जितम्” मनुः । “आनर्जु- र्नृभुजोऽस्त्राणि” भट्टिः । Case 0013: vcp=अवधीर k1=अवधीर, L=4852
अवधीर¦ अवज्ञायाम् अद० चुरा० उभय० सक० सेट् । अवधीर- यति ते आववधीरत् त । अवेत्यस्योपसर्गत्वे अवादिधीरत् त । अवधीरितः अवधीरी “रसैः कथा यस्य सुधावधी- [Page0428-a+ 38] रिणी” नै० अवेत्यस्योपसर्गत्वे “इतीव धारामरधीर्य्येति नैषध० घात्वबयवरूपत्वे तु अवधीरयित्वेति भेदः । Case 0014: vcp=अवर k1=अवर, L=4939
अवर¦ पूजयां कण्ड्वा० प० सक० सेट । अवर्य्यति पूजतयीत्यर्थः । Case 0015: vcp=अश k1=अश, L=5367
अश¦ भोजने क्र्यादि० पर० सक० सेट् । अश्नाति आशीत् । आश । अशिता अशिष्यति । “त्र्यहं परञ्च नाश्नीयात् प्राजापत्यं चरन् द्विजः, मनुः तदहं भक्त्युपहृतम- श्रामि प्रयतात्मनः” गीता । Case 0016: vcp=असु k1=असु, L=5899
असु¦ उपतापे कण्ट्वा० यक् । असूयति आसूयीत् असूयामास । असूया । असूञ इत्येके असूयति ते । Case 0017: vcp=इङ् k1=इङ्, L=8100
इङ्¦ अध्ययने अधिपूर्व्व एव ङित् अदा० आत्म० सक० अनिट् । अधीते अधीयीत अध्यैष्ट--अध्यगीष्ट । “अधिजगे, अध्यै- ष्यत--अध्यगीष्यत “योऽधीते शक्तितोऽन्वहम्” स्मृतिः । “नाधीयीत कदाचन” मनुः । “अध्यैष्ट वेदांस्त्रिदशानयष्ट” भट्टिः शानच् अधीयानः । अकृच्छ्रिणि कर्त्तरि शतृ अधीयन् “अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम्” भट्टिः अध्येतव्यम् “श्रोतव्यमिह श्रूद्रेण नाध्येतव्यं कदा- चन” । “स्वाध्यायोऽध्येतव्यः” श्रुतिः । अध्ययनीयम् । अध्येयः “वेदएव सदाऽध्येयः” स्मृतिः । अध्येता । अधीतः “अधीतवेदवेदाङ्गत्वेन” वेदन्त सा० । ज्ञानार्थत्वात् कर्त्तरिक्त अधीतः “अधीते शतसाहस्रम्” स्मृतिः “अधीतिः “अ- धीतिबोधाचरणप्रचारणैः” नैष० । अध्येष्यमाणः । “पीत्वापोऽध्येष्यमाणस्तु आचमेत् प्रयतोऽपि सन्” मनुः मावे अधीतम् । अधीतमनेन इनि अधीती । “त्वगुत्त- रासङ्गवतीमधीतिनीम्” कुमा० अधीत्य “अनधीत्य द्विजोवे- दान् योऽन्यत्र कुरुते श्रमम्” स्मृतिः । “अधीत्य चतुरोवे- दान्” पुरा० । अध्ययनम् । “अध्ययनेनाविप्रकृष्टः” पा० । “सत्ताण्डवैरध्ययनं विनापि” मथुरा० अध्यायः “स्वाध्या- योऽध्येतव्यः” श्रुतिःणिच् अध्यापयति “अष्टवर्षं ब्राह्मण- मुपनयीत तमध्यापयीत” श्रुतिः अध्यापिपत् अध्यजिगपत् [Page0913-a+ 38] “अध्यापयामास पितॄन्” मनुः णिच्--सन् । अध्यापि- पयिषति--ते अधिजिगापयिषति--ते केवलात् सन् । अधि- जिगांसते । अध्यापकः अध्यापकशब्दे उदा० अध्यापितः “अध्यापितस्यीशनसापि नीतिम्” कुमा० । “भृतका- ध्यापको यश्च भृतकाध्यापितस्तथा” मनुः । Case 0018: vcp=इन k1=इन, L=8180
इन¦ गतौ तना० पर० सक० सेट् । निरुक्ते इन्वतीति बहुवचनान्त इति केचित् इनोति इनुतः इन्वन्ति इनोमि इन्वः इनुवः इनुयात् इनोतु इनु इनवानि ऐनोत् । ऐनीत् इयेन । निरुक्ते इन्वति इति एकवचनान्तस्तेन इन्वधातुरेवायमिति [Page0929-a+ 38] बहवः स च भ्वादि० प० सेट् । इन्वति ऐन्वीत् इन्वामास तद्रूंपम् । “ऋघायमाण इन्वसि” ऋ० १, १७६, १ । Case 0019: vcp=इन्व k1=इन्व, L=8339
इन्व¦ गतौ भ्वा० निरु० । इनधातौ ९२८ पृष्ठे विवृतिः । Case 0020: vcp=इषुध k1=इषुध, L=8419
इषुध¦ शरधारणे कण्ड्वा प० अक० सेट् । इषुध्यति ऐषुध्यीत् इषुध्यिता--इषुधिता । याच्ञायामपि “विश्वो राय इषु- ध्यति द्युम्नं वृणीत पुष्यसि” ऋ० ६, ५०, १ । पतिं वो अघ्न्यानां धेनूनामिषुध्य” ऋ० ८, ५८, २ । भावे अ । इषुध्या प्रार्थनायां स्त्री । “दिवोवास्तोष्वसुरस्य वीरै- रिषुध्येव मरुतो रोदस्योः” ऋ० १, १२२, १ । उण् इषध्यु प्रार्थके “इषध्यव ऋतमापः पुरन्धीः” ऋ० ५, ४१, ६ । Case 0021: vcp=ईग k1=ईग, L=8496
ईग¦ गतौ इदित् इगिवत् । ईङ्गति ऐङ्गीत् ईङ्गते इत्येके । Case 0022: vcp=उरस् k1=उरस्, L=10045
उरस्¦ बलार्थे कण्ड्वा० प० अक० सेट् । उरस्यति बलवान्भवतीत्य- र्थः औरस्यीत् औरसीत् उरस्याम्(साम्)बभूव आस चकार Case 0023: vcp=उरुष्य k1=उरुष्य, L=10073
उरुष्य¦ रक्षणे पर० सक० सेट् । उरुष्यति औरुष्यीत् । “उ- रुष्य राय एषो यजस्व” यजु० ७, ४, अस्य व्याख्याने “उरुष्य रक्ष उरुष्यतीरक्षणकर्म्मा” वेददी० । “उरुष्यदग्निः पित्रोरुपस्थे” ऋ० ३, ५, ८ । अरुष्यत् रक्षतु” भा० । “गोपीथे न उरुष्यतम्” ऋ० ५, ६५, ६ । Case 0024: vcp=उर्ज k1=उर्ज, L=10081
उ(ऊ)र्ज¦ जीवने वा चु० उभ० अक० पक्षे भ्वा० पर० सेट् । उ(ऊ)र्ज्जयति ते उ(ऊ)र्ज्जति । और्ज्जिजत्--त और्ज्जीत् । उ(ऊ)र्ज्जयाम् बभूव आस चकार चक्रे पक्षे उ(ऊ)र्जाम् बमूव आस चकार । क्त उ(ऊ)र्ज्जित, वृद्धे बलान्विते । णिणन्तत्वे वर्द्धिते त्रि० दीर्घादिरयमिति बहवः Case 0025: vcp=उर्द्द k1=उर्द्द, L=10084
उ(ऊ)र्द्द¦ दाने स्वादे सक० क्रीडायाम् अक० भ्वा० आत्म० सेट् । उ(ऊ)र्दते और्द्दिष्ट दीर्घादिरयमिति बहवः । Case 0026: vcp=उलड k1=उलड, L=10105
उ(ओ)लड¦ उत्क्षेपे इदित् वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । उ(ओ)लण्डयति ते उ(ओ)लण्डति औलि- लण्डत् त औलण्डीत् अयं लडि ओदित् इत्येके । Case 0027: vcp=उषस् k1=उषस्, L=10163
उषस्¦ प्रभातीभावे कण्ड्वा० पर० सक० सेट् । उषस्यति औ- षस्यीत् औषसीत् उषस्याम् साम् बभूव आस चकार । Case 0028: vcp=ऋन्फ k1=ऋन्फ, L=10512
ऋन्फ(म्फ)¦ हिंसायां तुदा० मुचा० सक० पर० सेट् । ऋम्फति आर्म्फीत्--आर्फीत् ऋम्फाम्--बमूव आस चकार आनर्फ Case 0029: vcp=ऋश k1=ऋश, L=10520
ऋश¦ हिंसायां गतौ च सौ० पर० सक० सेट् । अर्शति आर्शीत् आनर्श आनुशतुः अर्शः । ऋश्यः । Case 0030: vcp=एला k1=एला, L=10813
एला¦ विलासे कण्ड्वा० प० अक० सेट् । एलायति ऐलायीत् । एलायां बभूव आस चकार । Case 0031: vcp=कण्डू k1=कण्डू, L=11601
कण्डू¦ गात्रविघर्षणे गृहीतकर्मकत्वेन अक० घर्षणमात्रे प्राण्यङ्गघर्षणमत्रोपाधिः सक० उभ० सेट् स्वार्थे यक् । कण्डूयति ते अकण्डूयीत् अकण्डूयिष्ट कण्डूयाम्--बभूव--आस चकार चक्रे । कण्डूयनं क- ण्डूयितः कण्डूः कण्डूया कण्डूयन् कण्डूयमानः “क- ण्डूयमानेन कटं कदाचित्” रघुः “मृगीमकण्डूयत कृष्णसारः” कुमारः । “न संहताम्यां पाणिभ्याम् कण्डूयेदात्यनः शिरः” मनुः “शृङ्गे कृष्णमृगस्य वाम- नयनं कण्डूयमानां मृगीम्” शकु० । कण्ड्वादिश्च धातुः प्रातिपदिकश्च “धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह घायमिमं दीर्घमन्यैतुर्विभाषितः” इत्युक्तेः । यकः कित्त्वकरणसामर्थ्यात् घातुत्वं प्रातिपदिकत्वे तत्करणं व्यर्थं स्यात् प्रातिपदिकस्य गुणाप्रसक्तेः दीर्घकरणाच्च प्रातिपदिकत्वम् आर्द्धधातुकयकारे धातोः दीर्घसम्भवेन दीर्घपाठो वृथा स्यात् अत उभयरूपत्वम् । Case 0032: vcp=कद्ड k1=कद्ड, L=11690
कद्ड¦ कार्कश्ये अक० कड्डवत् दोपधत्वात् क्विप् कद् इति भेदः Case 0033: vcp=कन k1=कन, L=11700
कन¦ प्रीतौ अक० गतौ सक० भ्वा० पर० सेट् । कनति अकनीत्- अकानीत् चकान । प्रनिकनति । ईदित् । कान्तः । ञी- दित् वर्त्तमाने क्त । कान्तोवर्त्तते । कान्तिः । कननम् । “अविक्रीतो अकानिषं पुनर्यन्” ऋ० ४, २४, ९, Case 0034: vcp=काच k1=काच, L=12836
काच¦ दीप्तौ अक० बन्धने सक० इदित् भ्वा० आत्म० सेट् । काञ्चते अकाञ्चिष्ट चकाञ्चे प्रनिकाञ्चते । Case 0035: vcp=किटकिटाय k1=किटकिटाय, L=13622
किटकिटाय¦ किटकिटेत्यव्यक्तशब्दकरणे डाच्--क्यच्--नामधातुः किटकिटायते अकिटकिटायीत् “दन्तात् किटकिटायते उद्गताक्षोजिह्वां खादति” सुश्रुतः Case 0036: vcp=किरोडाट k1=किरोडाट, L=13685
किरोडाट¦ धौर्त्त्ये आकृतिगणत्वात् कण्ड्वा० यक प० सेट् अक० । किरोडाट्यति अकिरोडाटीत् । Case 0037: vcp=कुद k1=कुद, L=14010
कुद¦ मिथ्योक्तौ चु० सक० उभ० सेट् । कोदयति ते । अचूकुदत् । धातुपाठः । Case 0038: vcp=कुभ k1=कुभ, L=14092
कुभ¦ उन्दने भ्वा० पर० सक० सेट् । कोभति अकोभीत् चुकोभ । ऋ० भा० माधवसंमतोऽयम् । Case 0039: vcp=कुषुभ k1=कुषुभ, L=14451
कुषुभ¦ क्षेपे कण्ड्वा० प० सक० सेट् । कुषुभ्यति अकुषु(भी)भ्यीत् । “भिनद्मि ते कुषुभ्यं यस्ते विषधानः” अथ० २ । ३२ । ६ । Case 0040: vcp=केला k1=केला, L=14982
केला¦ विलासे कण्ड्वा० आ० अ० सेट् । केलायते अकेला- यिष्ट केलायां बभूव आस चक्रे । केलायमानः Case 0041: vcp=क्रंश k1=क्रंश, L=15436
क्रंश¦ प्रकाशने भ्वा० सक० सेट् क्रंशति अक्रंशीत् चक्रांश । “क्रंशतेर्वा प्रकाशयतिकर्म्मणः । निरुक्तकारः २ । २५ । Case 0042: vcp=क्रुड k1=क्रुड, L=15589
क्रुड¦ निमज्जने घमीभावे च तु० कुटा० प० अक० सेट् । क्रुडति अक्रुडीत चुक्रोड--क्रोडः । Case 0043: vcp=क्रुथ k1=क्रुथ, L=15590
क्रुथ¦ हिंसने क्य्रा० प० सक० सेट् चान्द्राः । क्रुथ्नाति अक्रो- थीत् चुक्रोथ । क्रोथः । Case 0044: vcp=क्लप k1=क्लप, L=15677
क्लप¦ अव्यक्तवाक्ये चुरा० उभ० अक० सेट् घटा० । क्लपयति- ते अचिक्लपत्--त । क्लपयां बभूव आस चकार चक्रे Case 0045: vcp=क्लीब k1=क्लीब, L=15701
क्लीब(व)¦ वैकल्ये अप्रागल्भ्ये च भ्वा० आत्म० अक० सेट् । क्लीब (व)ते अक्लीबि(वि)ष्ट । चिक्लीबे(वे)क्लीबि(वि)त्वा । पा० मते अयं पवर्ग्यान्त्यः कविक० मते अन्त्यस्थान्त्यः । ऋदित् चङि अचिक्लीब(व)त् त । Case 0046: vcp=कॢ k1=कॢ, L=15703
कॢ¦ गतौ आ० भ्वा० सक०अनिट् । क्लवते अक्लोष्ट चुकॢवे Case 0047: vcp=क्षुम्प k1=क्षुम्प, L=16111
क्षुम्प¦ गतौ भ्वा० प० सक० सेट् । क्षुम्पति अक्षुम्पीत् चुक्षुम्प Case 0048: vcp=क्षेव k1=क्षेव, L=16182
क्षेव¦ सेवने भ्वा० पर० सक० सेट् । क्षेवति अक्षेवीत् चिक्षेव । Case 0049: vcp=खल k1=खल, L=16472
खल¦ चलने स्खलने च भ्वा० पर० अक० सेट् । खलति अखालीत् खलति प्रनिखलति खलः । Case 0050: vcp=खुद k1=खुद, L=16604
खुद¦ भेदने सक० पर० अनिट् । खोदति अखोदीत् चुखोद । “चोदयत खुदत वाजसातये” ऋ० १० । १०१ । १२ । माघवस्तु खुर्दघातोरेव तद्रूपमुक्त्वा रलोपश्छान्दस इत्याह वोपदेवधातुपाठे त् अयं धातुर्नास्ति । “चनीखुदद् यथा सपम्” आश्व० श्रौ० २ । १० । १४ । Case 0051: vcp=खेला k1=खेला, L=16636
खेला¦ विलासे कण्ड्वा० प० अक० सेट् । खेलायति अखेलायीत् खेलायां बभूव आस चकार । “खेलायन्ननिशं नापि सजुःकृत्य रतिं वसेत्” भट्टिः । Case 0052: vcp=गद्गद k1=गद्गद, L=16942
गद्गद¦ वाक्स्खलने कण्ड्वा० पर० अक० सेट् । गद्गद्यति अग- द्द्यीत् अगद्गदीत् गद्गद्या(दाम्)वभूव आस चकार । Case 0053: vcp=गध k1=गध, L=16948
गध¦ मिश्रीभावे निषण्टुः दिवा० पर० सेट् । गधयति अगधीत् अगाधीत् । जगाध गधिता “वाजस्य गध्यस्य सातौ” ऋ० ६ । १० । ६ गध्यस्य गध्यतिर्मिश्रीवावकर्म्मा मिश्रणीयस्य प्राप्यस्य वाजस्य सातौ सुसंभजने” भा० । Case 0054: vcp=गुम्फ k1=गुम्फ, L=17737
गुम्फ¦ ग्रन्थने तुदा० पर० सक० सेट् । गुम्फति अगुम्फीत् । जुगुम्फ गुम्फितः । मोपधत्वात् गुम्फित्वा क्विपि गुन् गुमौ गुम इति । Case 0055: vcp=गोधा k1=गोधा, L=18064
गोधा¦ कौटिल्ये कण्ड्वादेराकृतिगणः नामधातुः पर० अक० सेट् । गोधायति अगोधायीत् । Case 0056: vcp=चिह्न k1=चिह्न, L=19954
चिह्न¦ लक्षणे अ० चु० उभ० सक० सट् । चिह्नयति ते अचि- चिह्नत् त । सौत्रोऽयमिति वृद्धाः । Case 0057: vcp=चुक्क k1=चुक्क, L=19992
चुक्क¦ पीडने चु० उभ० सक० सेट् । चुक्कयति ते अचुचुक्कत् त । Case 0058: vcp=चुरण k1=चुरण, L=20037
चुरण¦ चौर्य्ये कण्डा० पर० सक० सेट् ॥ चुरण्यति अचुरण्यीत् । Case 0059: vcp=चुल k1=चुल, L=20041
चुल¦ समुच्छ्रये वाचुरा० उभ० सक० सेट् । चोलयति--ते अचूचुलत् त पा० Case 0060: vcp=छुड k1=छुड, L=20374
छुड¦ छादने तु० कु० पर० सक० सेट् । छुडति अच्छुडीत् चुच्छोड k1=छुड, L=20375 छुड¦ पिधाने भ्वा० प० सक० सेट् । छोडति अच्छोडीत् चु च्छोड । Case 0061: vcp=छृप k1=छृप, L=20391
छृप¦ याचने द्विक० शब्दे अक० वा चुरा० उभ० पक्षे भ्वा० पर० सेट् । छर्पयति ते छर्पति । अचिच्छृपत् त--अच च्छर्पत् त । अच्छर्पीत् Case 0062: vcp=जज्झ k1=जज्झ, L=20485
जज्झ¦ शब्दकरणे भ्वा० अक० सेट् निरु० । जज्झति अजज्झीत्” “भरुतो जज्झतीरिव” ऋ० ५ । ५२ । ६ । “जज्झतीः शब्दकारिण्यः “जज्झतीरापो भवन्ति शब्दकारिण्यः” निरु० ६ । १६ । Case 0063: vcp=जू k1=जू, L=21405
जू¦ गतौ सौत्र० सक० प० सेट् । जवति अजावीत् जुजाव । जूतः । Case 0064: vcp=ड्वल k1=ड्वल, L=21804
ड्वल¦ मिश्नीकरणे चु० उभ० सक० सेट् । ड्वालयति ते अडि- [Page3192-a+ 31] ड्वलत् त । कात्या० श्रौ० १६ । ३२० सूत्रभाष्ये “मिश्रयति आड्वालयतीत्यर्थः” कर्कः । “मेक्षयतिराड्वालनार्थः” कात्या० श्रौ० १० । ४ । ७ । कर्कः “पार्श्वेनाज्यं बसां च मिश्रयत्याड्वालयति” ५ । ८ । १८ । कर्कः । Case 0065: vcp=तद्र k1=तद्र, L=22011
तद्र¦ अवसादे मोहे च सौ० पर० अक० सेट् इदित् । तन्द्रति अतन्द्रीत् । तन्द्रा Case 0066: vcp=तन्तस् k1=तन्तस्, L=22066
तन्तस्¦ दुःखे कण्ड्वा० अक० पर० सेट् । तन्तस्यति अतन्तस्यीत् अतन्तसीत् । Case 0067: vcp=तरुष k1=तरुष, L=22303
तरुष¦ हिंसायां बधकर्म्मसु “वनुष्यति तरुष्यति” निघण्टूक्तेः दिवा० प० सक० सेट् । तरुष्यति अतरोषीत् । “त्वं तूर्य्य तरुष्यतः” ८ । ९९ । ५ । “तरुष्यतो बाधकान्” भा० । “वनुष्यतिः हन्तिकर्मा तरुष्यतिरप्येवंकर्मा” निरु० ५ । २ “इन्द्रेण युजा तरुषेम वृत्तमित्यपि निगमो भवति” निरुक्तधृतश्रुतिः वेदे गणव्यत्ययः । Case 0068: vcp=तीक k1=तीक, L=22858
तीक¦ गतौ भ्वा० पर० सक० सेट् । तीकते अतीकिष्ट तितीके ऋदित् अतितीकत् त । शब्दस्तोमे याचनार्थतोक्तिः प्रामिदिकी पा० गणपाठे तस्य गत्यर्थतयैवोक्तेः । Case 0069: vcp=तुम k1=तुम, L=23007
तुम¦ प्रेरणे आहनने च तुम्रशब्दे माधवः । सक० भ्वा० पर० सेट् । तोमति अतोमीत् तुतोम तुम्रः । तोमरः । Case 0070: vcp=तुरण k1=तुरण, L=23043
तुरण¦ त्वरायां कण्ड्वा० पर० अक० सेट् । तुरण्यति अतुरणी(ण्यी)त् । Case 0071: vcp=तुरीय k1=तुरीय, L=23053
तुरीय¦ गतौ भ्वा० सक० सेट् गतिकर्म्मसु निघण्ठुः । तुरीयति अतुरीयीत् । Case 0072: vcp=तुश k1=तुश, L=23104
तुश¦ बधे भ्वा० आ० सक० सेट् । तोशते अतोशिष्ट तुतुशे । “इन्दुरिन्द्राय तोशते नितोशते” ऋ० ९ । १०९ । २२ “इन्दुः णोम इन्द्रायेन्द्रार्थं तोशते” तोशते हन्यते अभिषूयते । नितोशते नितरामभिषूयते । तोशतिर्बधकर्म्मा” भा० कर्मकर्त्तरि तङ् । यगभावश्छान्दसः । “सत्रात्वं पुरुष्टुतं एको वृत्राणि तोशसे” । ऋ०८ । १५ । ११ । तोशसे हिनस्ति” भा० । Case 0073: vcp=तेज k1=तेज, L=23322
तेज¦ निशाने पालने च भ्वा० पर० सक० सेट् । तेजति अतेजीत् । तितेज । Case 0074: vcp=त्रख k1=त्रख, L=23504
त्रख¦ गतौ भ्वा० पर० सक० सेट् धातुपाठः । त्रखति अत्र- खोत् अत्राखीत् । तत्राख । k1=त्रख, L=23505 त्रख¦ गतौ भ्वा० पर० सक० सेट् इदित् धातुपाठः । त्रङ्खति अत्रङ्खीत् । तत्रङ्ख । Case 0075: vcp=त्वरायस् k1=त्वरायस्, L=24027
त्वरायस्¦ त्वरणे कण्ड्वा० आकृतिगणः पर० अक० सेट् । त्वरायस्यति । Case 0076: vcp=थर्व्व k1=थर्व्व, L=24062
थर्व्व¦ चरणे भ्वा० पर० सर्क सेट् । थर्वति अथर्वीत् । तथर्व “अङ्गीरसो नः पितरो नवग्वा अथर्वाणो भृगवः सौम्यामः” निघण्टुधृता श्रुतिः “अथर्वाणोऽचरन्तस्तर्व- तिश्चरतिकर्मा तत्प्रतिषेधः” निरु० ११ । ८ । लोकेऽपि गतिशून्ये (अथर्व इति) प्रसिद्धिः । Case 0077: vcp=दुध k1=दुध, L=25313
दुध¦ हिंसने प्रेरर्ण च भ्वा० पर० सक० सेट् । दोधति अदोधीत् दुदोध दुधितम् “नेशत्तमो दुधितं रोचत” ऋ० ४ । १ । १७ “दुधिः प्रेरण कर्मा” भा० । Case 0078: vcp=दुवस् k1=दुवस्, L=25551
दुवस्¦ परिचरणे उपतापे च कण्ड्वा० नाम० यक् पर० सक० सेट् । दुवस्यति अदुवस्यीत् “अनेहसः स्तुभ इन्द्रो दुव- स्यति” ऋ० ३ । ५१ । ३ “याभिर्वित्तजानिं दुवस्यथः” ऋ० १ । ११२ । १५ “समिद्भिरग्निं नमसा दुवस्यन्” ऋ०३१ । १ । २ Case 0079: vcp=द्रवत् k1=द्रवत्, L=26392
द्रवत्¦ उपभोगे अक० पर० सेट् द्रवस् इत्यत्र गणरत्ने कण्ड्वा० गणे पाठान्तरम् । द्रवत्यति । अद्रवत्यीत् । Case 0080: vcp=द्रवस् k1=द्रवस्, L=26398
द्रवस्¦ उपभोगे कण्ड्वा० पर० सेट् । द्रवस्यति अद्रवस्यीत् । Case 0081: vcp=द्रुम्म k1=द्रुम्म, L=26489
द्रुम्म¦ गतौ भ्वा० पर० सक० सेट् निघण्टुः । द्रुम्मति अद्रु- म्मीत् दद्रुम्म । निघण्टौ द्रम्मेति पाठान्तरम् । Case 0082: vcp=धन्व k1=धन्व, L=26972
धन्व¦ गतौ सौ० भ्वा० प० सक० सेट् । धन्वति अधन्वीत् दधन्व । “राजाय धन्याय धन्वसि” ऋ० ९ । ८६ । ३१ “परिषिच्य- मानाः क्षयं सुवीरं धन्वन्तु सोमाः” ९ । ९७ । २६ । Case 0083: vcp=धीक्ष k1=धीक्ष, L=27338
धीक्ष¦ दीक्षार्थे भ्वा० आत्म० सक० सेट् । धीक्षते अधीक्षिष्ट दिधीक्षे “स वै धीक्षते वाचे हि धीक्षते यज्ञाय हि धीक्षते यज्ञो हि वाग् धीक्षितोह वै नामैतद्यद्धीक्षते” शत० ३ । २ । २३० । अयञ्च वैदिकः दीक्षसमानार्थकः । लोके तु दीक्षतेइत्यादि Case 0084: vcp=धीर k1=धीर, L=27345
धीर¦ अवज्ञायाम् नित्यमवपूर्वकोऽयम् अवधीरवत् तच्छब्दे ४२७ पृ० दृश्यम् । Case 0085: vcp=ध्माक्ष k1=ध्माक्ष, L=27578
ध्मा(ध्वा)क्ष¦ आकाङ्क्षे सक० धोररवे अक० भ्वा० पर० सेट् इदित् । ध्मा(ध्वा)ङ्क्षति । अध्मा(ध्वा)ङ्क्षीत् । दध्मा- (ध्वा)ङ्क्ष । पा० मते वोपधः । Case 0086: vcp=ध्र k1=ध्र, L=27613
ध्र(ध्रा)¦ गतौ निघण्टुः । भ्वा० पर० सक० सेट् ध्रा अनिट् । ध्रति ध्राति अध्रीत् अध्रासीत् । दध्र दध्रौ “ध्रयति ध्रायति” इति तत्र निर्देशात् ध्रे ध्रै इत्यपि धातू गतौ भ्वा० पर० अनिटौ । तत्र ध्रे ध्रयति ध्रै ध्रायति इति आर्द्धधातुके ध्रावत् । Case 0087: vcp=ध्व्रण k1=ध्व्रण, L=27686
ध्व्रण¦ शब्दे ध्रणवत् सर्वम् । इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते वाचस्पत्ये धकारादिशब्दार्थसङ्कलनम । Case 0088: vcp=नक्क k1=नक्क, L=27702
नक्क¦ नाशने चुरा० उभ० सक० सेट् । नक्कयति ते अननक्कत् त । णोपदेशत्वाभावात् प्रनक्कति इत्यादौ न णत्वम् । Case 0089: vcp=नक्ष k1=नक्ष, L=27723
नक्ष¦ गतौ भ्वा० पर० सक० सेट् निघण्टुः । नक्षति अनक्षी मनक्ष । “नक्षद्दाभं ततुरिं पर्वतेष्ठा” ऋ० ६ । २२ । “नि त्वा नक्ष्य! विश्पते! द्युमन्तम्” ७ । १५ । ७ “हे नक्ष्य उपगम्य नक्षतिर्गतिकर्मा” भा० Case 0090: vcp=नभ k1=नभ, L=27959
नभ¦ हिंसायां निघण्टुः भ्वा० आत्म० सक० सेट् । नमते अन- भिष्ट नेभे । णभ हिंसे इत्यस्य णोपदेशत्वात् सति- निमित्ते णत्वम् नास्येति भेदः । तत्र धातौ आर्षस्तङ् इत्यशुद्धम् तस्य अनुदात्तेत्त्वेन आत्मनेपदित्वात् । Case 0091: vcp=नस k1=नस, L=28251
नस¦ गतौ भ्वा० आत्म० सक० सेट् वेदनिघण्टुः । नसते अन- सिष्ट कौटिल्येऽयं णोपदेशः स च सति निमित्ते णत्वं भजते । संश्लेषे च “स मोदते नसते साधते गिरा” ऋ० ९ । ७१ । ३ “नसते ग्रहादिषु संश्लिष्टो भवति” भा० । k1=नस, L=28252 नस¦ व्याप्तौ भ्वा० पर० सक० सेट् निघण्टुः नशदित्यत्र नसदिति माधबसम्मतः पाठः । नसति अना(न)सीत् । ननास नेसतुः “सुरभिष्टमं नरां नसन्त” ऋ० १ । १८६ । ७ “नसन्त व्वाप्रुवन्ति नसतिर्व्वाप्तिकर्मेति” माघवः “वृर्षणो नसीमहि” ऋ० २ । १६ । ८ नसीमहि व्याप्यामेति छान्दसः प्रयोगः । Case 0092: vcp=नृ k1=नृ, L=29621
नृ¦ नये भ्वा० प० अक० अनिट् । नरति अनार्षीत् मनार अणोपदेशत्वात् न णत्वं प्रनरति “णोपदेशाल्वनर्द- नाटिनाथ्नाध्नन्द्नकक् नृनृतः” । “नर्द शब्दे नट अवस्य- न्दने चुरादिः नाटीति दीर्घनिर्देशात् अट नृताविति घटादिर्नेह गृह्यते नाथ्र नाधृ याच्ञादौ टु नदि समृद्वौ नक्व नाशने नृ नते नृतो गात्रविक्षेपे एतद्भिन्ना णोपदेशाः” इति मनोरमा । भृ नये सेट् इत्यन्ये Case 0093: vcp=नेद k1=नेद, L=29736
नेद¦ गतौ भ्रा० प० सक० सेट् । गतिकर्मसु निघण्टुः । नेदति अनेदीत् । निनेद “या हुता उज्ज्वलन्ये या हुता अतिनेदन्ते” वृ० उप० । Case 0094: vcp=पणस्य k1=पणस्य, L=30307
पण(न)स्य¦ अर्चने निघ० भ्वा० पर० सेट् । पण(न)स्यति अपण(न)स्यीत् । Case 0095: vcp=पम्पस् k1=पम्पस्, L=30619
पम्पस्¦ दुःखे कृच्छ्रीभावे कण्ड्वा० प० अक० सेट् । पम्पस्यति अपम्पस्यीत् । Case 0096: vcp=पम्ब k1=पम्ब, L=30621
पम्ब¦ गतौ भ्वा० प० सक० सेट् । पम्बति अपम्बीत् पपम्ब । Case 0097: vcp=पयस्य k1=पयस्य, L=30628
पयस्य¦ प्रसृतौ (परिमाणविशेषे) कण्ड्वा० अक० सेट् । पयस्यति अपयस्यीत् । Case 0098: vcp=पर्प k1=पर्प, L=31168
पर्प¦ गतौ स्वा पर० सक० सेट् । पर्पति अपपीत् पपर्प । Case 0099: vcp=पिट्ट k1=पिट्ट, L=32073
पिट्ट¦ कुटनभेदे (पेटा) कुट्टनेनाधःप्रवेशने चु० उभ० सक० सेट् । पिट्टयति त अपिपिट्टत त । कात्या० श्रौ० ६ । ३ । ११ कर्कः । Case 0100: vcp=पीपर k1=पीपर, L=32342
पीपर¦ याच्ञायां भ्वा० सक० पर० सेट् । पीपरति निघण्ठुः । Case 0101: vcp=पुच्छ k1=पुच्छ, L=32393
पुच्छ¦ प्रसादे भ्वा० पर० अक० सेट् । पुच्छति अपुच्छीत् पुपुच्छ रायमुकुटः । Case 0102: vcp=पुत्त k1=पुत्त, L=32470
पुत्त¦ गतौ सौ० भ्वा० पर० सक० सेट् । पुत्तति अपुत्तीत् पुपुत्त । Case 0103: vcp=पुराण k1=पुराण, L=32591
पुराण¦ आख्याने कण्ड्वादेराकृतिगणत्वात् यक् पर० सक० सेट् । पुराण्यति अपुराण्यीत् । Case 0104: vcp=पुस k1=पुस, L=32863
पुस¦ मर्द्दे व्यूसे हानौ च चुरा० उभ० सक० सेट् । पोसयति ते अपूपुसत् त । Case 0105: vcp=पूर्धि k1=पूर्धि, L=32993
पूर्धि¦ याच्ञायां भ्वा० प० सक० सेट् निघण्टुः । पूर्धयति अपूर्धायीत् । Case 0106: vcp=पेष k1=पेष, L=33254
पेष¦ सेवने निश्चये च भ्वा० आ० सक० सेट् । पेषते अषेषिष्ट पिषेषे ऋदित् चङि न ह्रस्वः । अपिपेषत् त । Case 0107: vcp=प्रा k1=प्रा, L=34511
प्रा¦ पूर्त्तौ अदा० प० सक० अनिट् । प्राति अप्रालीत् पप्रौ कविकल्पद्रुमे प्राया इति पाठः तत्रार्थे । Case 0108: vcp=प्रुट k1=प्रुट, L=34873
प्रुट¦ मर्दने भ्वा० पर० सक० सेट् । प्रोटति अप्रोटीत् पुप्रोट । अयं धातुपाठे पठितः । Case 0109: vcp=प्ली k1=प्ली, L=34994
प्ली¦ गतौ क्र्या० पर० सक० अनिट् । प्लीनाति अप्लैषीत् । अयं धातुः कविकल्पद्रुमे न दृश्यतं धातुपाठे पाठान्त- रेऽस्ति । Case 0110: vcp=फर्ब k1=फर्ब, L=35068
फर्ब¦ गतौ भ्वा० पर० सक० सेट् । फर्बति अफर्बीत पफर्ब । “प्रफर्ब्यं च पीवरी” यजु० १२ । ७१ वेददी० “फर्बतिः पूर- णार्थः” ऋ० १० । १०६ । २ भा० दृश्यम् । Case 0111: vcp=बह k1=बह, L=35383
ब(व)ह¦ वृद्धौ भ्वा० आत्म० अक० सेट् इदित् । बं(व)हते अबं(वं)हिष्ट । बवंहे महिसाहर्य्यादयमोश्छादिरिति पाणिनीयाः । दन्तोष्ट्यादिरिति बोपदेवः । Case 0112: vcp=बाह k1=बाह, L=35561
बा(वा)ह¦ प्रयत्ने भ्वादि० आत्म० अक० सेट् । बा(वा)हते अबा(वा)हिष्ट । ऋदित् चङि न ह्रस्वः अबबाहत् त । Case 0113: vcp=बिट k1=बिट, L=35590
बि(वि)ट¦ आक्रोशे भ्वा० पर० सक० सेट् । बे(वे)टति अबे(वे)टीत् Case 0114: vcp=बृह k1=बृह, L=35703
बृ(वृ)ह¦ वृद्धौ भ्वादि० पर० अक० सेट् ब(व)र्हति अब(व)- रीत् । इरित् इत्येके तेन अबृ(वृ)हदित्यपि । कवि- कल्पद्रुमे बृहधातुमात्रस्य अन्त्यस्थादित्वमुक्तम्” मेदि० “प्रोक्षितं निहते सिक्ते बृहती वसनान्तरे । छन्दोभित्- क्षुद्रवार्त्ताकीवारिधानीषु वाचि च । काण्टकारिभह- त्योश्च” “ब्रह्मतत्त्वतपोवेदे न द्वयोः पुंसी बेधसि” । ऋत्विग्योगभिदोर्विप्रे बन्धनं बधबन्धयोः” । वृहप्रकृति- वृहती ब्रह्मशब्दयोः ओष्ठ्यादितयोक्तत्वादस्य उभया- दित्वम् । Case 0115: vcp=बेह k1=बेह, L=35792
बे(वे)ह¦ प्रयत्ने भ्वा० आत्म० सक० सेट् । बे(वे)हते अश्ववे(वे)हिष्ट बे (वे)हे । ऋदित् चङि न ह्रस्यः । Case 0116: vcp=ब्युष k1=ब्युष, L=35810
ब्युष¦ उत्सर्गे विभागे च चु० उभ० सक० सेट् । व्याषयति--ते अबुव्युषत् त । Case 0117: vcp=भन k1=भन, L=36204
भन¦ अर्चने भ्वा० प० सक० सेट् निघण्टुः । भनति अभा(भ)नीत बभान । Case 0118: vcp=भन्द k1=भन्द, L=36205
भन्द¦ अर्चने दीप्तौ च भ्वा० आ० सक० सेट् निघण्टुः । भन्दते अभन्दिष्ट वभदे वभन्दे । कर्मणि भद्यते । Case 0119: vcp=भिल k1=भिल, L=36566
भिल¦ भेदने वा चु० उ० पक्षे तु० पर० सक० सेट् । भेलयति--ते भिलति अबीभिलत् त अभेलीत् । Case 0120: vcp=भिषज् k1=भिषज्, L=36578
भिषज्¦ चिकित्सायां कण्ड्वा० ष० सक० सेट् । भिषज्यति अभि- षजी(ज्यी)त् । Case 0121: vcp=भुड k1=भुड, L=36680
भुड¦ भरणे करणे च भ्वा० आ० सक० सेट् इदित् । भुण्डते अभुण्डिष्ट बुभुण्डे कर्मणि भुण्ड्यते । Case 0122: vcp=भुरज k1=भुरज, L=36683
भुरज¦ प्राप्तौ भ्वा० आ० सक० सेट् । भुरजते “मुरजन्त पद्धाः” ऋ० ४ । ४३ । ५ । अयं धातुः धातुपाठादौ न दृश्यते । Case 0123: vcp=भुर्व k1=भुर्व, L=36688
भुर्व¦ अदने भ्वा० सक० सेट् । भूर्वति अभूर्वीत् “भुर्वतिरत्तिकर्मा” इति यास्कोक्तेः अयं तत्रार्थे धातुर्बोध्यः । Case 0124: vcp=भृणीय k1=भृणीय, L=36962
भृणीय¦ क्रोधे भा० आत्म० सक० सेट् निघण्टुः । भृणीयते । अभृणीरिष्ट । Case 0125: vcp=भ्रक्ष k1=भ्रक्ष, L=37082
भ्र(भ्ल)क्ष¦ अदने भ्वा० उ० सक० सेट् वा रस्य लः धातुपाठः । भ्र(भु)क्षति ते अभ्र(भ्ल)क्षोत् । बभ्र(भ्ल)क्ष । Case 0126: vcp=भ्री k1=भ्री, L=37146
भ्री¦ भवे अक० भरणे सक० क्य्रा० वा प्त्वा० पर० अनिट् । भ्रीणाति भ्रिणाति अभ्रैषीत् । Case 0127: vcp=भ्रुड k1=भ्रुड, L=37147
भ्रुड¦ संवरणे सक० संघाते अक० तु० कु० पर० सेट् । भ्रु- डति अभ्रुडीत् बुभ्रोड । Case 0128: vcp=भ्लाश k1=भ्लाश, L=37159
भ्लाश¦ दीप्तौ वा दिवा० पक्षे भ्वा० आ० अक० सेट् । भ्लाश्यते भ्लाशते अभ्लाशिष्ट फणा० भ्लेशे बभ्लाशे । द्वित् (अक्षु) भ्लाशक्षुः । वोपदेबमते भ्राशधातुरयम् । इति श्रीतारानाथतर्कबाचस्पतिभट्टाचार्य्यसङ्कलिते Case 0129: vcp=मगध्य k1=मगध्य, L=37212
मगध्य¦ परिवेष्टने कण्ड्वा० प० सक० सेट् । मगध्यति अमग- ध्यी(धी)त् । Case 0130: vcp=मन्ज k1=मन्ज, L=37662
मन्ज¦ मार्जने सक० ध्वनौ अक० भ्वा० पर० सेट् । मञ्जति अमञ्जीत् ममजतुः । Case 0131: vcp=मुन्थ k1=मुन्थ, L=38411
मुन्थ¦ गत्यां भ्वा० पर० सक० सेट् क्त्वा वेट् । मुन्यति अमुन्यीत् Case 0132: vcp=मृक्ष k1=मृक्ष, L=38511
मृक्ष¦ संघाते भ्वा० प० अक० सेट् । मृक्षति अमृक्षीत् । Case 0133: vcp=मृग k1=मृग, L=38512
मृग¦ अन्वेषणे याचने च अद० चु० आ० सक० सेट् मृगयते अमभृगत । k1=मृग, L=38513 मृग¦ अन्वेषणे दिवा० पर० सक० सेट् । मृग्यति अमर्गीत् । Case 0134: vcp=म्लुन्च k1=म्लुन्च, L=38765
म्लुन्च¦ गतौ म्लुचवत् सर्वम् । म्लुञ्चति अम्लुचत् अम्लुञ्चीत् Case 0135: vcp=रेब k1=रेब, L=39796
रेब(व)¦ गतौ सक० प्लुतौ अक० भ्वा० आ० सेट् । रेब(व)ते अरेबि(वि)ष्ट । ऋदित् चङि न ह्रस्वः । Case 0136: vcp=लर्व k1=लर्व, L=40027
लर्व¦ गतौ भ्वा० पर० सक० सेट् । लर्वति अलर्वीत् । Case 0137: vcp=लुन्च k1=लुन्च, L=40167
लुन्च¦ अपनयने भ्वा० पर० सक० सेट् । लुञ्चति अलुञ्चीत् । Case 0138: vcp=वन्च k1=वन्च, L=40539
वन्च¦ प्रतारणे भ्वा० पर० सक० सेट् क्त्वा वेट् । वञ्चति अवञ्चीत् Case 0139: vcp=विष्क k1=विष्क, L=41969
विष्क¦ हिंसायां चु० आ० सक० सेट् । विष्कयते अविविष्कत दर्शने उभ० सेट् । विष्कयति ते अविविष्कत् त । Case 0140: vcp=विस k1=विस, L=42008
विस¦ उत्सर्गे दि० पर० सक० सेट् । विणति ष्णवेसीत् । Case 0141: vcp=वीज k1=वीज, L=42073
वीज¦ व्यजने अद० चुरा० उभय० सक० सेट् । वीजयति तं अविवीजत्--त । “वीज्यते स हि सन्तप्तः” इति कुमारः । Case 0142: vcp=वीब k1=वीब, L=42115
वीब¦ शौर्य्ये अद० चु० आत्म० अक० सेट् । वीवयते अविबोबत । Case 0143: vcp=वीभ k1=वीभ, L=42116
वीभ¦ शौर्य्यहेतुके उद्यमे विकत्थने च भ्वा० अक० सेट् । ऋदित् चङि न ह्रस्वः । वीभते अवीभिष्ट । Case 0144: vcp=शन्स k1=शन्स, L=43018
शन्स¦ हिंसायां स्तुतौ कथने च भ्वा० पर० सक० सेट् क्त्वा वेट् । शंसति अशंसीत् । Case 0145: vcp=शर्ब k1=शर्ब, L=43137
शर्ब¦ हिंसायां गतौ च भ्वा० पर० सक० सेट् । शर्बति अशर्बीत् । Case 0146: vcp=शिख k1=शिख, L=43427
शिख¦ गतौ भ्वा० पर० सक० सेट् इदित् । शिङ्खति अशिङ्खीत् । Case 0147: vcp=शुर k1=शुर, L=43832
शुर¦ मारणे स्तम्भने च दि० आ० सक० सेट् । शूर्यते अशोरिष्ट । Case 0148: vcp=शूष k1=शूष, L=43929
शूष¦ प्रसवे भ्वा० पर० सक० सेट् । शूषति अशूषीत् । Case 0149: vcp=शेल k1=शेल, L=43976
शेल¦ गतौ चालने च भ्वा० पर० सक० सेट् । शेलति अशे- लीत् । ऋदित् चङि न ह्रस्वः । Case 0150: vcp=श्मील k1=श्मील, L=44115
श्मील¦ निमेषणे भ्वा० पर० अक० सेट् । श्मीलति अश्मीलीत् । Case 0151: vcp=श्रम्भ k1=श्रम्भ, L=44169
श्रम्भ¦ प्रमादे भ्वा० आ० अक० सेट् । श्रम्भते अश्रम्भिष्ट । श्रन्भ इत्येके । Case 0152: vcp=श्रा k1=श्रा, L=44179
श्रा¦ विकॢत्तौ अदा० पर० अनिट् । श्राति अश्रासीत् । k1=श्रा, L=44180 श्रा¦ पाके अदा० पर० सक० अनिट् घटा० । श्राति अश्रासीत् श्रपयति । Case 0153: vcp=श्रिय k1=श्रिय, L=44198
श्रिय¦ दाहे भ्वा० पर० स० सेट् क्त्रा वेट् । श्रेयति अश्रेयीत् । Case 0154: vcp=षण k1=षण, L=44516
षण(न)¦ दाने तना० उभ० सक० । सेट् षस्य सत्वे णस्य नत्वम् उदित् । दन्त्यान्त इत्येके सनोति सनु असनीत्--असानीत् असनिष्ट--असात । सिषणिषति सिसांसति इत्येके । Case 0155: vcp=षान्त्व k1=षान्त्व, L=44559
षान्त्व¦ सामयुक्तसम्पादने अद० चु० उभ० सक० सेट् । सान्त्वयति ते अससान्त्वत् त । Case 0156: vcp=षिट k1=षिट, L=44562
षिट¦ अनादरे भ्वा० पर० सक० सेट् । सेटति असेटीत् । Case 0157: vcp=षिम k1=षिम, L=44568
षिम¦ हिंसने भ्वा० पर० सक० सेट् । सेमति असेमोत् । Case 0158: vcp=षृन्भ k1=षृन्भ, L=44590
षृन्भ¦ हिंसने भ्वा० पर० सक० सेट् । सृम्भति । असृम्भीत् । Case 0159: vcp=षृभ k1=षृभ, L=44591
षृभ¦ हिंसने भ्वा० पर० सक० सेट् । सर्भति असर्भीत् । षृन्भ षृभधातू पोणिनीयगणपाठे मूर्द्धन्यादितया पठितौ । तेन सोपदेशत्वात् सति निमित्ते षत्वम् । कविकल्पद्रु मे तु दन्तसादितया पठितौ । तेन सति नि- मित्ते न षत्वम् । तन्मतम् अपाणिनीयत्वादुपेक्ष्यम् । Case 0160: vcp=षेव k1=षेव, L=44594
षेव¦ ओराधने उपभोगे आश्रये च भ्वा० उभ० सक० सेट् ऋदित् चङि न ह्रस्वः । सेवति सेवते असेवीत् असेविष्ट । Case 0161: vcp=ष्टेप k1=ष्टेप, L=44630
ष्टेप¦ क्षरणे भ्वा० आ० अक० सेट् ऋदत् चङि न ह्रस्वः । स्तेपते अस्तेपिष्ट । Case 0162: vcp=ष्टै k1=ष्टै, L=44631
ष्टै¦ वेष्टने सक० भ्वा० पर० अनिट् । स्तायति अस्तासीत् । Case 0163: vcp=ष्ट्यै k1=ष्ट्यै, L=44632
ष्ट्यै¦ संहतौ ध्वतौ च अक० भ्वा० पर० अनिट् । स्त्यायति । अस्त्यासीत् इत्येके । षत्यायति इत्येवेति । Case 0164: vcp=ष्ठस k1=ष्ठस, L=44635
ष्ठस¦ निरासे दि० प० स० सेट् । स्थस्यति अस्थासीत्--अस्थसीत् । Case 0165: vcp=ष्वष्क k1=ष्वष्क, L=44656
ष्वष्क¦ गतौ भ्वा० आत्म० सक० सेट् । ष्वष्कते अष्वष्किष्ट । षोपदेश पर्युदासे स्रक्कवत् ष्वष्कस्यापि ग्रहणात् ष्वष्कते इत्येवेत्याहुः । Case 0166: vcp=सपर k1=सपर, L=45161
सपर¦ पूजायां कण्ड्वादि० पर० सक० सेट् । सपर्य्यति असपर्य्यीत । Case 0167: vcp=स्कन्भ k1=स्कन्भ, L=47062
स्कन्भ¦ प्रतिघाते क्र्या० स्वा० उ० सक० सेट् । स्कभ्राति स्कभ्रीते स्कभ्रोति स्कभ्रुते । अस्कम्भीत् अस्कम्भिष्ट । चस्कम्भ चसक(म)म्भे । Case 0168: vcp=स्कु k1=स्कु, L=47064
स्कु¦ ठद्धृतौ आप्लावने च क्र्या० स्वा० उ० सक० अनिट् । स्कु- नाति स्कुनोते स्कुनोति स्कुनुते । अस्कौषीत् अस्कोष्ट । चुसुकाव चुस्कवे । Case 0169: vcp=स्तेप k1=स्तेप, L=47120
स्ते(ष्टे)प¦ क्षेपे चु० उभ० सक० सेट् । स्तेपयति--ते अतिस्ति- पन--त अषोपदेशत्वे मूलं चिन्त्यम् । Case 0170: vcp=स्फड k1=स्फड, L=47366
स्फड¦ परिहामे चु० उभ० सक० सेट् इदित् । स्फण्डयति- ते अपस्फण्डत्--त । Case 0171: vcp=स्फुर्ज k1=स्फुर्ज, L=47402
स्फुर्ज¦ वज्रशब्दे भ्वा० प० अक० सेट् । स्फूर्जति अस्फू- र्जीत् द्वित् स्फूर्जथुः । आदित् स्फूर्जितं स्फूर्णम् । Case 0172: vcp=स्रम्भ k1=स्रम्भ, L=47481
स्रम्भ¦ विश्वासे भ्वा० आत्म० ऌदित् लुङि उ० सक० सेट् उदित् क्ता वेट् । स्रम्भते अस्रभत् अस्रम्भिष्ट । Case 0173: vcp=हल्ल k1=हल्ल, L=47920
हल्ल¦ विकाशे भ्वा० पर० अक० सेट् भानुदीक्षितः । हल्लति अहल्लीत् । Case 0174: vcp=हिड k1=हिड, L=48054
हिड¦ गतौ भ्रमणे भ्वा० आ० सक० सेट् इदित् । हिण्डते अंहिण्डिष्ट । Case 0175: vcp=हृणी k1=हृणी, L=48177
हृणी¦ लज्जायां कण्ड्वा० आत्मा० अक० सेट् । हृणीयते अहृ- णीयिष्ट “हृणीयते वीरवती न भूमिः” भट्टिः । Case 0176: vcp=ह्रिणी k1=ह्रिणी, L=48343
ह्रिणी¦ लज्जायाम् कण्डा आ० अक० सेट् । ह्रिणीयते अह्रिणीयिष्ट । Case 0177: vcp=ह्वृ k1=ह्वृ, L=48366 ह्वृ¦ कुटिलीकरणे भ्वा० प० सक० अनिट् । ह्वरति अह्वार्षीत् । जह्वरतुः । |
Case 0001: skd=अड्ड k1=अड्ड, L=582
अड्ड¦ अभियोगे । इति कविकल्पद्रुमः ॥ मूर्द्धन्यवर्ग- तृतोयोपधः । (भ्वादिं सेट् परं अड्ड् + सन् लट् तिप्) अडिड्डिषति । क्विपि संयोगान्तलोपे अड् । अभियोगः समाधानं । अड्डति पक्षं विद्वान् । अभि समन्तात् योगोऽभियोग इति गोविन्द- भट्टः ॥ इति दुर्गादासः । Case 0002: skd=अत्टङ k1=अत्टङ, L=706
अत्टङ¦, अतिक्रमे । बधे । इति कविकल्पद्रुमः ॥ दन्त्य- वर्गाद्योपधः । ङ अतिट्टिषते । इति दुर्गादासः ॥ Case 0003: skd=अद्टङ k1=अद्टङ, L=774
अद्टङ¦ ङ अतिक्रमे बधे । इति कविकल्पद्रुमः ॥ दन्त्यवर्गतृतीयोपधः । (अट्टितुं अतिक्रमितु- मिच्छति -- अद्ट् + सन् + लट् ते ।) ङ अट्टि- टिषते । इति दुर्गादासः ॥ Case 0004: skd=अद्ड k1=अद्ड, L=775
अद्ड¦, अभियोगे । इति कविकल्पद्रुमः ॥ दन्त्यवर्ग- तृतीयोपधः । (अड्डितुं अभियोक्तुमिच्छति अद्ड् + सन् + लट् तिप् ।) अड्डिडिषति । क्विपि संयोगान्तलोपे अद् । अभियोगः समाधानं । अड्डति पक्षं विद्धान् । अभि समन्तात् योगो- ऽभियोगः इति गोविन्दभट्टः ॥ इति दुर्गादासः ॥ Case 0005: skd=अन्च k1=अन्च, L=1215
अन्च¦ उ पूजने । गमने । म्लिष्टोक्तौ । इति कवि- कल्पद्रुमः ॥ उ अञ्चित्वा अङ्क्त्वा । म्लिष्टोक्तिर- व्यक्तशब्दः । इति दुर्गादासः ॥ k1=अन्च, L=1216 अन्च¦ क व्यक्तौ । इति कविकल्पद्रुमः ॥ व्यक्तिरिह विशेषणं । क अञ्चयति बुद्धिं सुधीः । विशिनष्टी- त्यर्थः । इति दुर्गादासः ॥ Case 0006: skd=अभ k1=अभ, L=1638
अभ¦ इ ङ ध्वनौ । इति कविकल्पद्रुमः ॥ इ अम्भ्यते । ङ अम्भते । इति दुर्गादासः ॥ Case 0007: skd=अर्क k1=अर्क, L=2149
अर्क¦, क, तापे । (चुरादि उभयपदी सेट् ।) स्तुतौ । इति कविकल्पद्रुमः ॥ एकककारः प्रकृतिः पश्चा- द्रेफनिमित्तकद्वित्वं विभाषया वक्तव्यं । तेन क अर्कयति अर्क्कयति एवं सर्व्वत्र । इति दुर्गादासः ॥ Case 0008: skd=अल k1=अल, L=2303
अल¦ ञ वारणपर्य्याप्तिभूषासु (भ्वादिं-उभं-सकं ।) इति कविकल्पद्रुमः ॥ ञ अलति अलते पापं गङ्गा निवारयतीत्यर्थः । पर्य्याप्तिः सामर्थ्यं । “पर्य्याप्तन्तु यथेष्टं स्यात् तृप्ते शक्ते निवारणे” । इति विश्वप्रकाशात् । अलति घोटको धावितुं समर्थः स्यादित्यर्थः । अलति हारो जनं भूष- यति इत्यर्थः । इति दुर्गादासः ॥ Case 0009: skd=उक्ष k1=उक्ष, L=4358
उक्ष¦ वृषि । (भ्वादिं -परं -सकं -सेट् ।) इति कवि- कल्पद्रुमः ॥ उक्षति वृक्षं मेघः । वृट् सेकः । इति दुर्गादासः ॥ (“उक्षाम्प्रचक्रर्नगरस्य मार्गान्” । इति भट्टिकाव्ये । ३ । ५ ॥) Case 0010: skd=उद्झ k1=उद्झ, L=4713
उद्झ¦, श त्यागे । इति कविकल्पद्रुमः ॥ (तुदां-परं- सकं-सेट् ।) ह्रस्वादिर्दन्त्यवर्गतृतीयोपधः । क्विपि समुत्समुद्भ्याम् । स्यादौ नवद्र इति उज्जिझिषति औज्जिझत् । श उज्झती उज्झन्ती । इति दुर्गादासः ॥ Case 0011: skd=उम्भ k1=उम्भ, L=5120
उम्भ¦, प श पूर्णौ इति कविकल्पद्रुमः । (तुदां-परं- सकं-सेट् ।) उन्भ इति च पाठः ॥ Case 0012: skd=ऊष k1=ऊष, L=5333
ऊष¦ रोगे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं सकं- सेट् ।) दीर्घादिः । “ऊषति सन्तं खलः” । इति दुर्गादासः ॥ Case 0013: skd=ऋक्ष k1=ऋक्ष, L=5354
ऋक्ष¦, न र बधे । इति कविकल्पद्रुमः ॥ (स्वां-परं- सकं-सेट् ।) र वैदिकः । न ऋक्ष्णोति । इति दुर्गादासः ॥ Case 0014: skd=ऋत k1=ऋत, L=5385
ऋत¦, गत्याम् । स्पर्द्धने । ऐश्वर्य्ये । घृणायाम् । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं-ईयङ्पक्षे आत्मं- गत्यर्थे सकं, अन्यार्थे-अकं-सेट् ।) घृणा दया । ऋतीयते जनः स्पर्द्धते ईश्वरो भवति । किञ्चि- द्दयते गच्छति वेत्यर्थः । अरे तु ईयङोऽप्राप्तिपक्षे परस्मैपदमेव । आर्त्तीत् आनर्त्त इत्यादि । इति दुर्गादासः ॥ Case 0015: skd=ऐ k1=ऐ, L=5583
ऐ¦ ऐकारः । स तु द्वादशस्वरवर्णः । अस्योच्चारण- स्थानं तालु कण्ठश्च । (“एदैतोः कण्ठतालु” इ- [Page1-300-a+ 52] त्युक्तः । तथाच शिक्षायाम् । “ए ऐ तु कण्ठ- तालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ॥) स च ह्रस्वो न भवति । (द्विमात्रत्वात् दीर्घस्त्रिमात्र- त्वात् प्लुतश्च भवति । उदात्तानुदात्तस्वरितभेदै- स्त्रिविधोऽपि पुनः प्रत्येकमनुनासिकाननुनासिक- भेदाभ्यां षड्विध एव ॥) “ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् । कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा ॥ ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये । सदाशिवमयं वर्णं विन्दुत्रयसमन्वितम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम्) तस्य लेखनप्रकारो यथा, -- “एकाररूपमध्ये तु किञ्चिद्दक्षे तदोर्द्ध्वतः । चन्द्रेन्द्रभानवस्तासु मात्रा शक्तिः क्रमात् स्मृताः ॥ त्रिधा शक्तिमयी पूर्ब्बा दुर्गा वाणी सरस्वती” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ तन्नामानि यथा, -- “ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः । दक्षा दामोदरप्रज्ञोऽधरो विकृतमुख्यपि ॥ क्षमात्मको जगद्योनिः परः परनिबोधकृत् । ज्ञानामृता कपर्द्दिश्रीः पीठेशोऽग्निः समातृकः ॥ त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः । महेश्वरो द्वादशी च विमलश्च सरस्वती ॥ कामकोटो वामजानुरंशुमान् विजयो जटा” । इति तन्त्रशास्त्रम् ॥ दन्तान्तः । योनिः । इति वीजवर्णाभिधानम् ॥ (अनुबन्धविशेषः । यथाह कविकल्पद्रुमः । (“ऐर्यजादिः स्यादोर्निष्ठातन औरनिट्” । एतेन यजादिगणीयत्वात् “ऐ वसौ निवासे इत्यस्य लिटिप्रभृतिषु सम्प्रसारणे कृते उवास इत्यादयो भवेयुः” ॥ मातृकान्यासे अधरे न्यस्यतया तदाख्ययाप्यभिधानम् । मातृकान्यास- मन्त्रो यथा । “एं नम ओष्ठे ऐं नमोऽधरे” ॥ इति ॥) Case 0016: skd=क k1=क, L=5738
क¦, ककारः । (वर्णस्य स्वरूपग्रहणाय कारः ।) स तु व्यञ्जनप्रथमवर्णः । अस्योच्चारणस्थानं कण्ठः । इति व्याकरणम् ॥ (तंथा चोक्तम् “तुल्यास्य प्रयत्नं सवर्णं” । १ । १ । ९ । सिद्धान्तकौमुद्याम् । “अकुहविसर्जनीयानाङ्कण्ठः” ॥ इति ॥ * ॥) (वङ्गीयभाषायां) तस्य लेखनप्रकारो यथा, -- “वामरेखा भवेद्ब्रह्मा विष्णुर्द्दक्षिणरेखिका । अधोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती ॥ कुण्डली चाङ्कुशाकारा मध्यशून्यं सदाशिवः । कदम्बगोलकाकारं ककारं भावयेत् सुधीः” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा, -- “कः क्रोधीशो महाकाली कामदेवप्रकाशकः । कपाली तेजसः शान्तिर्वासुदेवो जयानलः ॥ चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः । अनन्तः पार्थवो विन्दुस्तापिनी परमात्मकः ॥ वर्गाद्यश्च मुखी ब्रह्मा सखाद्योऽम्भः शिवो जलम् । माहेश्वरी तुला पुष्प मङ्गलश्चरणं करः ॥ नित्या कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः । श्रीपुरं रमणो रङ्गकुसुमा परमात्मकः” ॥ इति तन्त्रशास्त्रम् ॥ “अधुना संप्रवक्ष्यामि ककारतत्त्वमुत्तमम् । रहस्यं परमाश्चर्य्यं त्रैलोक्यानाञ्च संशृणु ॥ वामरेखा भवेद्ब्रह्मा विष्णुर्द्दक्षिणरेखिका । अधोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती ॥ कुण्डली अङ्कुशाकारा मध्ये शून्यः सदाशिवः । जवायावकसंकाशा वामरेखा वरानने ! ॥ शरच्चन्द्रप्रतीकाशा दक्षरेखा च मूर्त्तिमान् । अधोरेखा वरारोहे ! महामरकतद्युतिः ॥ शङ्खकुन्दसमा कीर्त्तिर्म्मात्रा साक्षात् सरस्वती । कुण्डली अङ्कुशा या तु कोटिविद्युल्लताकृतिः ॥ कोटिचन्द्रप्रतीकाशो मध्ये शून्यः सदाशिवः । शून्यगर्ष्मे स्थिता काली कैवल्यपददायिनी ॥ ककाराज्जायते सर्व्वं कामं कैवल्यमेव च । अर्थश्च जायते देवि ! तथा धर्म्मश्च नान्यथा ॥ ककारः सर्व्ववर्णानां मूलप्रकृतिरेव च । [Page2-001-b+ 36] ककारः कामदा कामरूपिणी स्फुरदव्यया ॥ कामनीया महेशानि ! स्वयं प्रकृतिसुन्दरी । माता सा सर्व्वदेवानां कैवल्यपददायिनी ॥ ऊर्द्ध्वकोणे स्थिता कामा ब्रह्मशक्तिरितीरिता । वामकोणे स्थिता ज्येष्ठा विष्णुशक्तिरितीरिता ॥ दक्षकोणे स्थिता विन्दू रौद्री संहाररूपिणी । ज्ञानात्मा स तु चार्व्वङ्गि ! कलाचतुष्टयात्मकः ॥ इच्छाशक्तिर्भवेद्ब्रह्मा विष्णुश्च ज्ञानशक्तिमान् । क्रियाशक्तिर्भवेद्रुद्रः सर्व्वे प्रकृतिमूर्त्तिमान् ॥ आत्मविद्या शिवस्तत्र सदा मन्त्रः प्रतिष्ठितः । आसनं त्रिपुरादेव्याः ककारं पञ्चदैवतम् ॥ ईश्वरो यस्तु देवेशि ! त्रिकोणे तस्य संस्थितिः । त्रिकोणमेतत् कथितं योनिमण्डलमुत्तमम् ॥ केवलं प्रपदे यस्याः कामिनी सा प्रकीर्त्तिता । ॐ जवायावकसिन्दूरसदृशीं कामिनीं परम् ॥ चतुर्भुजां त्रिनेत्राञ्च बाहुवल्लीविराजिताम् । कदम्बकोरकाकारस्तनद्वयविभूषिताम् ॥ रत्नकङ्कणकेयूरमङ्गदैरुपशोभिताम् । रत्नहारैः पुष्पहारैः शोभितां परमेश्वरीम् ॥ एवं हि कामिनीं ध्यात्वा ककारं दशधा जपेत् । प्रफुल्लञ्च ततो ध्यात्वा जपस्य फलभाग्भवेत् ॥ एतत्ते कथितं देवि ! ककारतत्त्वमुत्तमम्” ॥ इति कामधेनुतन्त्रम् ॥ (अनुबन्धविशेषः । यथाह कविकल्पद्रुमः । “कश्चुरादिः किस्तु वा” । एतेन गणत् क संख्याने गणयति कथत् क वाक्यप्रबन्धे कथयति इत्यादि स्यात् ॥) Case 0017: skd=कज k1=कज, L=5865
कज¦, इ रुहे । जन्मनि । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ इ कञ्जारः । रुहो जन्म । कृद्धोः कभावे इति भावे कः । इति दुर्गादासः ॥ Case 0018: skd=कर्ज्ज k1=कर्ज्ज, L=6605
कर्ज्ज¦ पीडे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं-- सेट् ।) कर्जति । इति दुर्गादासः ॥ Case 0019: skd=कास k1=कास, L=7624
कास¦, ऋ ङ कुशब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं-अकं-सेट्-ऋदित् ।) कुशब्द इह रोग हेतुककुत्सितशब्दः । ऋ अचकासत् । ङ कासते वृद्धः । इति दुर्गादासः ॥ Case 0020: skd=कुच k1=कुच, L=7865
कुच¦, ज रोधपर्ककौटिल्यलेखने । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सक, अकं च-सेट्-ज्वलां ।) ज कोचः कुचः । रोधः क्रियारोधः जडीभाव इत्यर्थः । अस्मिन्नर्थ एव प्रायो वर्त्तते । यस्मिन् प्रमुदिते राज्ञि तमः सङ्कोचति क्षितौ । पर्कः सम्पर्कः । इति दुर्गादासः ॥ k1=कुच, L=7866 कुच¦, शि सङ्कोचे । इति कविकल्पद्रुमः ॥ (तुदां- पर-अकं, सेट् ।) प्रायः संपूर्ब्बस्य प्रयोगः । शि- संकुचति अकुचीत् चुकोच । इति दुर्गादासः ॥ k1=कुच, L=7867 कुच¦, तारशब्दे । उच्चैःशब्द इति यावत् । इति कवि- कल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) कोचति ढक्वा । भट्टमल्लस्तु तारे शब्दे च कोचति इति नानार्थे पठति । तन्मते तारश्चिक्कणता । कोचति काञ्चीं वणिक् चिक्कणयतीत्यर्थः । इति दुर्गादासः ॥ Case 0021: skd=क्रुन्च k1=क्रुन्च, L=9275
क्रुन्च¦, गत्याम् । वक्रणे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-अकं च-सेट् ।) रेफयुक्तादिः पञ्चमस्वरी । क्रुञ्चति । इति दुर्गादासः ॥ Case 0022: skd=क्लीव k1=क्लीव, L=9358
क्लीव¦, ऋ ङ अधार्ष्ट्ये । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः । अधा- र्ष्ट्यमप्रगल्मीभावः । ङ, शोकेन क्लीवते सर्व्वः । इति हलायुधः । ऋ, अचिक्लीवत् । इति दुर्गा दासः ॥ Case 0023: skd=क्लेश k1=क्लेश, L=9366
क्लेश¦, ङ वधे । उपतापे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं उपतापार्थे अकं-सेट् ।) ङ, क्लेशते चिक्लेशे । धातुप्रदीपे तु क्लेष व्यक्तायां वाचीति मूर्द्धन्यान्तो दृश्यते । क्लेषते न वृथावाक्यमिति । हलायुधोऽपि । इति दुर्गादासः ॥ Case 0024: skd=क्ष्वेल k1=क्ष्वेल, L=9893
क्ष्वेल¦, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-गतौ तु सकं-सेट् ।) वकार- युक्तः । क्षादिः । ऋ, अचिक्ष्वेलत् । चालः कम्पः । चालः कैश्चिन्न मन्यते । इति दुर्गा- दासः ॥ (क्रीडायामिति केचित् । यथा, रामा- यणे । ५ । १० । १३ । “आस्फोटननिनादांश्च बालानां क्ष्वेलतां तथा ॥”) Case 0025: skd=खद k1=खद, L=10017
खद¦, स्थैर्य्ये । वधे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-वधे तु सकं-सेट् ।) खदति । इति दुर्गादासः ॥ Case 0026: skd=खर्व्व k1=खर्व्व, L=10111
खर्व्व¦, गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) अन्तःस्थवकारान्तोऽयम् ॥ खर्व्वति । इति दुर्गादासः ॥ Case 0027: skd=खव k1=खव, L=10144
खव¦, ग भूतिपूत्योरुत्पत्तौ । इति कविकल्पद्रुमः ॥ (क्र्यां-परं-अकं-सेट् ।) भूतिः सम्पत्तिः पूतिः पवित्रता तयोरुत्पत्तिः प्रादुर्भावः ॥ Case 0028: skd=खु k1=खु, L=10212
खु¦, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-अनिट् ।) ङ, खवते । इति दुर्गादासः ॥ Case 0029: skd=खूर्द्द k1=खूर्द्द, L=10234
खूर्द्द¦, ङ क्रीडायाम् । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) षष्ठस्वरी । ङ, खूर्द्दते । इति दुर्गादासः ॥ Case 0030: skd=गर्द्ध k1=गर्द्ध, L=10681
गर्द्ध¦, क लिप्से । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, गर्द्धयति । इति दुर्गादासः ॥ Case 0031: skd=गवेष k1=गवेष, L=10774
गवेष¦, त् क मार्गणे । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) मूर्द्धन्योपधः । अजगवेषत् गुणं गुणी । इति दुर्गादासः ॥ Case 0032: skd=चन्च k1=चन्च, L=12118
चन्च¦, उ इतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, चञ्चित्वा चक्त्वा । इतिर्गतिः । इति दुर्गादासः ॥ Case 0033: skd=चित्र k1=चित्र, L=12516
चित्र¦, त् क क्षणिकेक्षणे । लेख्येऽद्भुते । इति कवि- कल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) क्षणिके- क्षणं कदाचिद्दर्शनम् । चित्रयति चित्रापयति राहुं लोकः कदाचित् पश्यतीत्यर्थः । चित्रयति प्रतिमां लोकः । इति दुर्गादासः ॥ Case 0034: skd=चुद्ड k1=चुद्ड, L=12725
चुद्ड¦, कृतौ । हावे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-अकं च-सेट् ।) तवर्गतृतीयोपधः । क्विपि संयोगान्तलोपे चुद् । कातन्त्रादौ हाव- करण इत्येकोऽर्थो दृश्यते । अमी हावाः क्रियाः शृङ्गारभावजाः । इत्यमरः । भाव एवाल्प- संलक्ष्यविकारो हाव इष्यते । इति साहित्य- दर्पणम् । चुड्डति कान्ताथवा कान्तः । इति दुर्गादासः ॥ Case 0035: skd=चुल्ल k1=चुल्ल, L=12743
चुल्ल¦, हावकृतौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सेट् ।) पञ्चमस्वरी लद्बयान्तः । एको- ऽर्थः । चुल्लन्ति चारुनयनाश्च सह प्रियेणेति हलायुधः । इति दुर्गादासः ॥ Case 0036: skd=जर्च्छ k1=जर्च्छ, L=13304
जर्च्छ¦, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-सेट् ।) श, जर्च्छती जर्च्छन्ती । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥ Case 0037: skd=जुर्व्व k1=जुर्व्व, L=13785
जुर्व्व¦, ई वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ह्नस्वी । जूः जुरौ जुरः । ई, जूर्णः । इति दुर्गादासः ॥ Case 0038: skd=ज्ञप k1=ज्ञप, L=13848
ज्ञप¦, क म ज्ञप्तौ । इति कविकल्पद्रुमः । (चुरां- परं-सकं-सेट् ।) क म, ज्ञपयति । ज्ञप्ति- र्म्मारणालोकनिशाणतोषणस्तुतयः । ज्ञाक्म इत्य- नेनैवेष्टसिद्धौ ज्ञपपाटश्चुरादिरुभयपदीतिमते फलवत्कर्त्तरि परस्मैपदार्थः । इति धातुप्र- दीपः । वस्तुतस्तु ज्ञप्तिपदमस्मादेव निष्पादितम् । तेन अनिर्द्दिष्टार्थतया ज्ञप्तिरिह ज्ञानम् । अत- एव प्रच्छौ श ज्ञीप्से इत्यत्र अस्यैव सनन्तस्य निष्पादितेन ज्ञीप्सशब्देन ज्ञातुमिच्छा प्रति- पाद्यते । एवं ज्ञानपर्य्याये प्रतिपज्ज्ञप्तिचेत- नेत्यमरः । इति दुर्गादासः ॥ Case 0039: skd=णक्ष k1=णक्ष, L=14155
णक्ष¦, व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) नक्षति । व्रजो गतिः । इति दुर्गादासः ॥ Case 0040: skd=णाथ k1=णाथ, L=14170
णाथ¦, ऋ ङ आशिषि । दवैश्येऽर्थे । इति कवि- कल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-अकं च-सेट् ।) [Page2-576-c+ 52] णोपदेशविधौ वर्ज्जनेऽप्याद्यस्य पाठः कस्य चिदनुरोधात् । ऋ, अननाथत् । ङ, प्रणाथते । दव उपतापः । आशीरिष्टार्थस्याशंसनम् । ङित्त्वेऽपि शपथाशीर्गत्यनुकारे इति नियमादा- भ्यामाशिषोऽन्यत्र परस्मैपदम् । नाथति शत्रुं बली उपतापयति इत्यर्थः । नाथते श्रियं लोकः आशंसत इत्यर्थः । नाथति धनी ईश्वरःस्यादि- त्यर्थः । नाथति भूपं भूमिं विप्रः प्रार्थयती- त्यर्थः । मार्गणैरथ तव प्रयोजनं नाथसे किमु न भूभृतः पतिमिति भारवौ । याचन- मप्याशंसाविशेषः । आशिषि नित्यमात्मने- पदमन्यत्र विभाषेति केचित् । इति दुर्गादासः ॥ Case 0041: skd=णाध k1=णाध, L=14171
णाध¦, ऋ ङ नाथे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) णोपदेशविधावस्य वर्ज्जने- ऽपि इह पाठः कस्यचिदनुरोधात् । ऋ, अन- नाधत् । ङ, नाधते नाथो दवाशीरैश्वर्य्यार्थ- नानि । इति दुर्गादासः ॥ Case 0042: skd=तुट k1=तुट, L=15041
तुट¦, शि कलहे । इति कविकल्पद्रुमः ॥ (तुदां- परं-अकं-सेट् ।) शि, तुटति अतुटीत् नीचः परस्परं वचसा । तुतोट । इति दुर्गादासः ॥ Case 0043: skd=तूर k1=तूर, L=15192
तूर¦, य ङ ई हिंसे । वेगे । इति कविकल्पद्रुमः । (दिवां-आत्मं-सकं-वेगे अकं-सेट् ।) य ङ, तूर्य्यते । ई, तूर्णः । इति दुर्गादासः ॥ Case 0044: skd=त्रुफ k1=त्रुफ, L=15668
त्रुफ¦, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) त्रोफति । इति दुर्गादासः ॥ Case 0045: skd=दृम्प k1=दृम्प, L=16875
दृम्प¦, ञ क ङ संघाते । इति कविकल्पद्रुमः ॥ (चुरां-उभं-आत्मं च-सकं-सेट् ।) ओष्ठ्य- वर्गशेषोपधः । सप्तमस्वरी । ञ क, दृम्पयति दृम्पयते । ङ, दृम्पयते । संघातो राशीकर- णम् । एषः कैश्चिन्न मन्यते । इति दुर्गादासः ॥ Case 0046: skd=द्रै k1=द्रै, L=17328
द्रै¦, स्वप्ने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- अनिट् ।) द्रायति । इति दुर्गादासः ॥ Case 0047: skd=द्वृ k1=द्वृ, L=17525
द्वृ¦, स्थगने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- अनिट् ।) वकारोपधः । द्वरति । स्थगनं संवर- णम् । वरणे इति प्राञ्चः । वरणं स्वीकारः स्थगनञ्चेति गोविन्दभट्टः । इति दुर्गादासः ॥ Case 0048: skd=धूष k1=धूष, L=17981
धूष¦, क धूशे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) षष्ठस्वरी । धूशः कान्तिकृतिः । चन्दनो धूषयत्यङ्गम् । इति दुर्गादासः ॥ Case 0049: skd=धूस k1=धूस, L=17982
धूस¦, क धूशे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) षष्ठस्वरी । धूशः कान्तिकृतिः । क, धूसयत्यङ्गं चन्दनः । महिषधूसरितः सरित- स्तटमिति जानकीहरणयमकाद्दन्त्यान्त एवाय- मिति रमानाथः । स्वमते तालव्यमूर्द्धन्यान्तो- ऽप्ययम् । इति दुर्गादासः ॥ Case 0050: skd=ध्वाक्ष k1=ध्वाक्ष, L=18103
ध्वा(ध्मा)क्ष¦, इ काङ्क्षे । घोररुते । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सकं-अकं-च सेट् ।) घोररुत- मिह तिरश्चामेव घोरशब्दः । इ, ध्वा(ध्मा)ङ्क्षति काकः । नमध्यपाठेनैव सिद्धे अस्येदनुबन्धो वेदे- षूच्चारणभेदार्थः । इति दुर्गादासः ॥ Case 0051: skd=नक्व k1=नक्व, L=18140
नक्व¦, क नाशने । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) कोपधः । नाशनं नष्टीकर- णम् । क, नक्वयति पापं गङ्गा । इति दुर्गा- दासः ॥ Case 0052: skd=निवास k1=निवास, L=19219
निवास¦, त् क स्तृत्याम् । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) अनिनिवासत् । स्तृतिराच्छादनम् । निवासयति यश्चित्रं चीनां- शुकमिति हलायुधः । इति दुर्गादासः ॥ Case 0053: skd=पष k1=पष, L=20905
पष¦, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, पाषयति । तालव्यान्त एवाय- मिति बहवः । दन्त्यान्त इति केत्रित् । मूर्द्ध- [Page3-087-c+ 52] न्यान्तपाठस्तु कस्यचिदनुरोधात् । इति दुर्गा- दासः ॥ k1=पष, L=20906 पष¦, ञ बाधे । ग्रन्थे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-सेट् ।) ञ, पषति पषते । बाधो विहतिः । ग्रन्थो ग्रन्थनम् । ग्रन्थनस्थाने स्पर्शनं केचित् पठन्ति । इति दुर्गादासः ॥ k1=पष, L=20907 पष¦, त् क अनुपसर्गाद्बन्धबाधयोः । स्पर्शगत्योः । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं- सेट् ।) मूर्द्धन्योपधः । क, पषयति । अनुप- सर्गादिति सोपसर्गस्य प्रयोगो निषिध्यते । बाधो विहतिः । इति दुर्गादासः ॥ Case 0054: skd=बक k1=बक, L=23889
ब(व)क¦, इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।) कौटिल्य- मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते । ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥ Case 0055: skd=बाड k1=बाड, L=24208
बा(वा)ड¦, ऋ ङ आप्लावे । स्नाने । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् । आप्लावः उन्मज्जनम् । इति दुर्गादासः ॥) वोपदेवेन अन्तःस्थवकारादौ गृहीतः ॥ (बाडते । ऋदित् चङि न ह्रस्वः । अबबाडयत् ॥) Case 0056: skd=भन्ज k1=भन्ज, L=24743
(भन्ज¦, ओ ध औ मोटने । इति कविकल्पद्रुमः ॥ रुधा०-पर०-सक०-अनिट् । ध, भनक्ति ॥) Case 0057: skd=भ्नाश k1=भ्नाश, L=25517
भ्नाश¦, ऋ ण टु ङ भासि । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) ऋ अवभ्नाशत् । ण भ्नेशे बभ्नाशे । टु भ्नाशथुः । ङ भ्नाशते । इति दुर्गादासः ॥ k1=भ्नाश, L=25518 भ्नाश¦, य ङ भासि । इति कविकल्पद्रुमः ॥ (दिवा० आत्म०-अक०-सेट् ।) य ङ भ्राश्यते । इति दुर्गादासः ॥ Case 0058: skd=भ्नास k1=भ्नास, L=25519
भ्नास¦, ऋ ण ङ टु भासि । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट्० ।) ऋ अवभ्रासत् । ण भ्रेसे वभ्रासे । ङ भ्रासते । टु भ्रासथुः । इति दुर्गादासः ॥ k1=भ्नास, L=25520 भ्नास¦, य ङ भासि । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-अक-०सेट् ।) य ङ भ्राश्यते । इति दुर्गादासः ॥ Case 0059: skd=मिस्र k1=मिस्र, L=27414
मिस्र¦ त् क युत्याम् । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) तालव्यमध्योऽयम् । दन्त्य- मध्य इति वर्णदेशनायाम् । युतिः संयोजनम् । मिस्रयति मिस्रापयति घृतेनान्नं लोकः । इति दुर्गादासः ॥ Case 0060: skd=मुन्च k1=मुन्च, L=27618
मुन्च¦ उ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) पञ्चमस्वरी । ओष्ठ्यवर्ग- शेषादिः । नोपधः । उ मुञ्चित्वा मुक्त्वा । इति दुर्गादासः ॥ Case 0061: skd=मुष् k1=मुष्, L=27647
मुष्¦ य इर् छिदि । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-सेट् ।) छेद इह खण्डनम् । य मुष्यति विपक्षं चतुरः । इर् अमुषत् अमोषीत् अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥ Case 0062: skd=मेड k1=मेड, L=28030
मेड¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) ऋ, अमिमेडत् । मेडति उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥ Case 0063: skd=म्रेड k1=म्रेड, L=28233
म्रेड¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) ऋ, अमिम्रेडत् । म्रेडति लोक उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥ Case 0064: skd=म्लेड k1=म्लेड, L=28254
म्लेड¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) ऋ, अमिम्लेडत् । म्लेडति । उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥ Case 0065: skd=रेव k1=रेव, L=29876
रेव¦, ऋ ङ प्लुतौ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) प्लुतिः प्लवेन गमनम् । ऋ, अरिरेवत् । ङ, रेवते कपिः उत्प्लुत्य गच्छतीत्यर्थः । इति दुर्गादासः ॥ Case 0066: skd=रौड k1=रौड, L=30018
रौड¦, ऋ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ऋ, अरुरौडत् । इति दुर्गादासः ॥ Case 0067: skd=लुञ्च k1=लुञ्च, L=30455
लुञ्च¦, अपनयने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) सोऽलुञ्चीत् कर्णनासिकम् । इति दुर्गादासः ॥ Case 0068: skd=लोड k1=लोड, L=30591
लोड¦, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) ऋ, अलुलोडत् । इति दुर्गादासः ॥ Case 0069: skd=वल्यूल k1=वल्यूल, L=31526
वल्यूल¦ त् क लूनिपूत्योः । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) वल्यूलयति अववल्यूलत् । इति दुर्गादासः ॥ Case 0070: skd=वस्क k1=वस्क, L=31645
वस्क¦, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) दन्त्यमध्य इति दुर्ग- सिंहः ॥ क्विपि वक् । मूर्द्धन्यमध्य इत्येके । क्विपि वट् । ङ, वस्कते । इति दुर्गादासः ॥ Case 0071: skd=वीर k1=वीर, L=33643
वीर¦, ङ त् क शीर्य्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-आत्म०-अक०-सेट् ।) ङ, अवि- वीरत । शौर्य्यमुद्यमः । इति दुर्गादासः ॥ Case 0072: skd=शंस k1=शंस, L=34628
शंस¦, उ हिंसास्तुत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । क्वावेट् ।) ताल- व्यादिः । उ, शंसित्वा शस्त्वा । यः शंसति सतामिति हलायुधः ॥ अनेकार्थत्वात् कथने- ऽप्ययम् । यथा, रघौ । शशंस वाचा पुनरुक्त- येवेति । न मे ह्रिया शंसति किञ्चिदी- प्सितमित्यादि च । इति दुर्गादासः ॥ Case 0073: skd=शस्त k1=शस्त, L=35194
शस्त¦, इ र लु स्वप्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक-सेट् ।) इ, शंस्त्यते । नमध्य- पाठेऽपि नस्य उपधात्वाभावात् लोपाभावे इदनुबन्धो वेदेषूच्चारणभेदार्थः । लु, शंस्ति । र, वैदिकः । इति दुर्गादासः ॥ Case 0074: skd=शुट k1=शुट, L=36013
शुट¦, खोटने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) खोटनमिह गत्याघातः । शोटति पयः सेतुना । इति दुर्गादासः ॥ Case 0075: skd=शूय k1=शूय, L=36228
शूय¦, प्रसवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- मक०-सेट् ।) शूयति । इति दुर्गादासः ॥ Case 0076: skd=श्रिष k1=श्रिष, L=36582
श्रिष¦, उदाहे । इति कविकल्पद्रुमः ॥ (भ्वा० पर० सक०-सेट् ।) क्त्वावेट् ।) उ, श्रेषित्वा श्रिष्ट्वा । इति दुर्गादासः ॥ Case 0077: skd=षन k1=षन, L=36984
षन¦, सम्भक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) सम्भक्तिः सेवनम् । सनति गुरुं लोकः । इति दुर्गादासः । k1=षन, L=36985 षन¦, द ञ उ दाने । इति कविकल्पद्रुमः ॥ (तना०- उभ०-सक०-सेट् । क्त्वावेट् ।) द ञ, सनोति सनुते । उ सनित्वा सत्वा । इति दुर्गादासः ॥ Case 0078: skd=सग k1=सग, L=37335
सग¦, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) म, सिसगयिषति । ए, असगीत् । इति दुर्गादासः ॥ Case 0079: skd=सघ k1=सघ, L=37344
सघ¦, न हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) न, सघ्नोति । असीसघत् । इति दर्गादासः ॥ Case 0080: skd=सप k1=सप, L=37770
सप¦, सम्बन्धे । (भ्वा०-पर०-सक०-सेट् ।) असीस- पत् । इति दुर्गादासः ॥ कविकल्पद्रुमे मूर्द्ध- न्यादिरयम् ॥ Case 0081: skd=साध k1=साध, L=38669
साध¦, य न औ सिद्धौ । इति कविकल्पद्रुमः ॥ (दिवा०-स्वा० च-पर०-अक०-निष्पादने सक०- अनिट् ।) य, साध्यति । न, साध्नोति । औ, सिषात्सति । सिद्धिर्निष्पत्तिः । साध्यति घटो निष्पन्नः स्यादित्यर्थः । सिद्धिर्निष्पादनेति गोविन्द- भट्टः । साध्नोति साध्यति घटं कुलालः निष्पा- दयतीत्यर्थः । इति दुर्गादासः ॥ Case 0082: skd=सु k1=सु, L=39221
सु¦, गतौ । ऐश्वर्य्ये । प्रसवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।) सवति । इति दुर्गादासः ॥ k1=सु, L=39222 सु¦, ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०- सक०-अनिट् ।) ञ, सुसाव सुषुवे । इति दुर्गा- दासः ॥ Case 0083: skd=सुन्भ k1=सुन्भ, L=39488
सुन्भ¦, द्युतौ । हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-हिंसे सक०-सेट् ।) सुम्भते । इति दुर्गादासः ॥ Case 0084: skd=सुर k1=सुर, L=39620
सुर¦, श भैश्ययोः । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-सेट् ।) दन्त्यादिः । श, सुरति सोरिता सुषोर सुसोर । भा, दीप्तिः । ऐश्यं ऐश्वर्य्यम् । इति दुर्गादासः ॥ Case 0085: skd=सूर्क्ष्य k1=सूर्क्ष्य, L=40029
सूर्क्ष्य¦, अनादरे । ईर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) दन्त्यादिर्दीर्घी रेफ- मध्यः । सूर्क्ष्यति सुसूर्क्ष्य । इति दुर्गादासः ॥ Case 0086: skd=सूष k1=सूष, L=40072
सूष¦, प्रसवे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०- सक०-सेट् ।) षष्ठस्वरी । सूषति । इति दुर्गा- दासः ॥ Case 0087: skd=सृफ k1=सृफ, L=40113
सृफ¦, उ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर- सक०-सेट् । क्वावेट् ।) सप्तमस्वरी । उ, सर्भित्वा सृब्ध्वा । इति दुर्गादासः ॥ Case 0088: skd=सेल k1=सेल, L=40146
सेल¦, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥ (भ्वा ० पर०-सक० सेट् ।) ऋ, असिसेलत् । इति दुर्गादासः ॥ Case 0089: skd=सेव k1=सेव, L=40148
सेव¦, ञ ङ ऋ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-आत्म०-च-सक०-सेट् ।) ञ, सेवति सेवते । ङ, सेवते । ऋ, असिसेवत् । सेवनं आराधनं उपभोगः आश्रयणञ्च । विष्णुं सेवते । सुखं सेवते । तीर्थं सेवते साधुः । अन्ये त्वस्मात् परस्मैपदममन्यमानाः । नीचं समृद्धमपि सेवति नीच एव । स्वाधीने विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः ॥ इत्यादौ गणकृतानित्य- त्वमाहुः । इति दुर्गादासः ॥ Case 0090: skd=सै k1=सै, L=40166
सै¦, क्षित्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर- अक०-अनिट् ।) सायति । क्षितिः क्षयः । इति दुर्गादासः ॥ Case 0091: skd=स्तक k1=स्तक, L=40415
स्तक¦, म प्रतीघाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) म, तिष्टकयिषति तिस्त- कयिषति । इति दुर्गादासः ॥ Case 0092: skd=स्तम्भ k1=स्तम्भ, L=40448
स्तम्भ¦, ग न उ रोधने । इति कविकल्पद्रुमः ॥ (क्र्या० स्वा० च०-पर०-सक० सेट् । क्त्वावेट् ।) ग, स्तभ्नाति । न, स्तभ्नोति । उ, स्तम्भित्वा स्तब्ध्वा । रोधनमावरणम् । इति दुर्गादासः । सौत्रधातुरयम् ॥ Case 0093: skd=स्तुन्भ k1=स्तुन्भ, L=40471
स्तुन्भ¦, ग न उ रोधने । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ (क्र्या०-स्वा० च०-पर०-सक०- सेट् । क्त्वावेट् ।) दन्त्यादिः । पञ्चमस्वरी । ग, स्तुभ्नाति । न, स्तुभ्नोति । उ, स्तुम्भित्वा स्तुब्धा । रोधनमावरणम् । इति दुर्गादासः ॥ Case 0094: skd=स्तृक्ष k1=स्तृक्ष, L=40480
स्तृक्ष¦, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) सप्तमंस्वरयुक्ततमध्यः । स्तृक्षति । तरीस्तृक्षते । इति द्रुर्गादासः ॥ Case 0095: skd=स्तृह k1=स्तृह, L=40481
स्तृह¦, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा० पर०-सक०-वेट् ।) ऊ, अस्तर्हीत् अस्तृक्षत् । श, स्तृहति । तिस्तर्हयिषति । इति दुर्गा- दासः ॥ Case 0096: skd=स्तॄह k1=स्तॄह, L=40483
स्तॄह¦, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा० पर०-सक०-वेट् ।) ऊ, अस्तॄहीत् अस्तॄक्षत् । ग, स्तृहती स्तॄहन्ती । तिस्तॄहयिषति । इति दुर्गादासः ॥ Case 0097: skd=स्रन्भ k1=स्रन्भ, L=40985
स्रन्भ¦, उ ङ प्रमादे । इति कविकल्पद्रुमः ॥ भ्वा०- आत्म०-अक०-सेट् । क्त्वावेट् ।) प्रमादोऽनव- धानता । उ, स्रम्भिता स्रब्ध्वा । ङ, स्रम्भते धर्म्मे नीचः । इति दुर्गादासः ॥ k1=स्रन्भ, L=40986 स्रन्भ¦, ऌ उ ङ विश्वासे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् । क्त्वावेट् ।) विश्वासः शङ्कारहितीभावः । ऌ, अस्रभत् । उ, स्रम्भित्वा स्रब्ध्वा । ङ, स्रम्भते पुत्त्रो मातरि । तालव्यादि- रयमित्येके । इति दुर्गादासः ॥ Case 0098: skd=हिडं k1=हिडं, L=41771 हिड¦, इ ङ गतौ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) इ, हिण्ड्यते । ङ, हिण्डते । इति दुर्गादासः ॥ |